पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०३९
← अध्यायः ०३८ | पद्मपुराणम् अध्यायः ०३९ वेदव्यासः |
अध्यायः ०४० → |
शेष उवाच।
निनदत्सुमृदंगेषु वीणानादेषु सर्वतः ।
मुक्तो वाहस्ततो देव पुरं देवविनिर्मितम् १।
यत्र स्फाटिक कुड्यानां रचनाभिर्गृहा नृणाम् ।
हसंति विंध्यं विमलं पर्वतं नागसेवितम् २।
राजतानि गृहाण्यत्र दृश्यंते प्रकृतेरपि ।
विचित्रमणिसन्नद्धा नानामाणिक्यगोपुराः ३।
पद्मिन्यो यत्र लोकानां गेहे गेहे मनोहराः ।
हरंति चित्तानि नृणां मुखपद्मकलेक्षिताः ४।
पद्मरागमणिर्यत्र गेहे गेहे सुभूमिषु ।
बद्धः संलक्ष्यते विप्र तदोष्ठस्पर्धया नु किम् ५।
क्रीडाशैलाः प्रत्यगारं नीलरत्नविनिर्मिताः ।
कुर्वंति शंकां मेघस्य मयूराणां कलापिनाम् ६।
हंसा यत्र नृणां गेहे स्फाटिकेषु नियंत्रिताः ।
कुर्वंति मेघान्नो भीतिं मानसं न स्मरंति च ७।
निरंतरं शिवस्थाने ध्वस्तं चंद्रिकया तमः ।
शुक्लकृष्णविभेदो न पक्षयोस्तत्र वै नृणाम् ८।
तत्र वीरमणी राजा धार्मिकेष्वग्रणीर्महान् ।
राज्यं करोति विपुलं सर्वभोगसमन्वितम् ९।
तस्य पुत्रो महाशूरो नाम्ना रुक्मांगदो बली ।
वनिताभिर्गतो रम्यदेहाभिः क्रीडितुं वनम् १०।
तासां मंजीरसंरावः कंकणानां रवस्तथा ।
मनो हरति कामस्य किमन्यस्य कथात्र भोः ११।
वनं जगाम सुमहत्सुपुष्पनगसंयुतम् ।
सदाशिवकृतस्थानमृतुषट्कैर्विराजितम् १२।
चंपका यत्र बहुशः फुल्लकोरकशोभिताः ।
कुर्वंति कामिनां तत्र हृच्छयार्तिं विलोकिताः १३।
चूताः फलादिभिर्नम्रा मंजरीकोटिसंयुताः ।
नागाः पुन्नागवृक्षाश्च शालास्तालास्तमालकाः १४।
कोकिलानां समारावा यत्र च श्रुतिगोचराः ।
सदा मधुपझंकार गतनिद्राः सुमल्लिकाः १५।
दाडिमानां समूहाश्च कर्णिकारैः समन्विताः ।
केतकीकानकीवन्यवृक्षराजिविराजिताः १६।
तस्मिन्वने प्रमदसंयुतचित्तवृत्तिर्गायन्कलं मधुरवाग्विचिकीर्षयोच्चैः ।
उद्यत्कुचाभिरभितो वनिताभिरागाच्छोभानिधान वपुरुद्गतभीर्विवेश १७।
काश्चित्तं नृत्यविद्याभिस्तोषयंति स्म शोभनम् ।
काश्चिद्गानकलाभिश्च काश्चिद्वाक्चतुरोचितैः १८।
भ्रूसंज्ञया पराः काश्चित्तोषयामासुरुन्मदाः ।
परिरंभणचातुर्यैस्तं हृष्टं विदधुः स्त्रियः १९।
ताभिः पुष्पोच्चयं कृत्वा भूषयामास ताः स्त्रियः ।
वाण्या कोमलया शंसन्रेमे कामवपुर्धरः २०।
एवं प्रवृत्ते समये राजराजस्य धीमतः ।
प्रायात्तद्वनदेशं स हयः परमशोभनः २१।
तं स्वर्णपत्ररचितैकललाटदेशं ।
गंगासमं घुसृणकुंकुम पिंजरांगम् ।
गत्यासमं पवनवेगतिरस्करिण्या ।
दृष्ट्वा स्त्रियः परमकौतुकधामदेहम् २२।
ऊचुः पतिं कमलमध्यपिशंगवर्णा -।
स्ताम्राधरप्रतिभयाहतविद्रुमाभाः ।
दंतव्रजप्रमितहास्यसुशोभिवक्त्राः ।
कामस्य बाणनयनादिविमोहनाभाः २३।
स्त्रिय ऊचुः।
कांतकोयं महानर्वास्वर्णपत्रैकशोभितः ।
कस्य वा भाति शोभाढ्यो गृहाण स्वबलादिमम् २४।
शेष उवाच।
तदुक्तं वच आकर्ण्य लीलाललितलोचनः ।
जग्राह हयमेकेन करपद्मेन लीलया २५।
वाचयित्वा स्वर्णपत्रं स्पष्टवर्णसमन्वितम् ।
जहास महिलामध्ये जगाद वचनं पुनः २६।
रुक्मांगद उवाच।
पृथिव्यां नास्ति मे पित्रा समः शौर्येण च श्रिया ।
तस्मिन्कथं विधत्ते स उत्सेकं रामभूमिपः २७।
यस्य रक्षां प्रकुरुते सदा रुद्रः पिनाकधृक् ।
यं देवा दानवा यक्षा नमंति मणिमौलिभिः २८।
कुरुताद्वाजिमेधं वै जनको मे महाबलः ।
या त्वेष वाजिशालायां बध्नंतु मम वै भटाः २९।
इति वाक्यं समाकर्ण्य महिलास्ता मनोहराः ।
प्रहर्षवदना जाताः कांतं तु परिरेभिरे ३०।
गृहीत्वा च हयं पुत्रो राज्ञो वीरमणेर्महान् ।
पुरं पत्नीसमायुक्तो महोत्साहमवीविशत् ३१।
मृदंगध्वनिषु प्रोच्चैराहतेषु समंततः ।
बंदिभिः संस्तुतः प्रागात्स्वपितुर्मंदिरं महत् ३२।
तस्मै स कथयामास हयं नीतं रघोः पतेः ।
वाजिमेधाय निर्मुक्तं स्वच्छंदगतिमद्भुतम् ३३।
रक्षितं शत्रुसूदेन महाबलसमेतिना ।
तच्छ्रुत्वा वचनं तस्य नृपो वीरमणिर्महान् ३४।
नातिप्रशंसयामास तत्कर्म सुमहामतिः ।
नीत्वा पुनः समायांतं चौरस्येव विचेष्टितम् ३५।
कथयामास जामात्रे शिवायाद्भुतकर्मणे ।
अर्धांगनाधरायांगभूषाय चंद्रधारिणे ३६।
तेन संमंत्रयामास नृपो वीरमणिर्महान् ।
पुत्रसृष्टं महत्कर्म विनिंद्यं महतां मतः ३७।
शिव उवाच।
राजन्पुत्रेण भवतः कृतं कर्म महाद्भुतम् ।
यो जहार महावाहंरामचंद्रस्य धीमतः ३८।
अद्य युद्धं महद्भाति सुरासुरविमोहनम् ।
शत्रुघ्नेन महाराज्ञा वीरकोट्येकरक्षिणा ३९।
मया यो ध्रियते स्वांते जिह्वया प्रोच्यते हि यः ।
तस्य रामस्ययज्ञांगं जहार तव पुत्रकः ४०।
परमत्र महाँल्लाभो भविष्यतितरां रणे ।
यद्रामचरणांभोजं द्रक्ष्यामः स्वीयसेवितम् ४१।
अत्र यत्नो महान्कार्यो हयस्य परिरक्षणे ।
नयिष्यंति बलाद्वाहं मया रक्षितमप्यमुम् ४२।
तस्मादिमं महाराज राज्येन सह सन्नतः ।
वाजिनं भोजनं दत्वा प्रेक्षस्वांघ्रियुगं ततः ४३।
इति वाक्यं समाकर्ण्य शिवस्य स नृपोत्तमः ।
उवाच तं सुरेंद्रादिवंद्यपादांबुजद्वयम् ४४।
वीरमणिरुवाच।
क्षत्रियाणामयं धर्मो यत्प्रतापस्य रक्षणम् ।
तदसौ क्रांतुमुद्युक्तः क्रतुना हयसंज्ञिना ४५।
तस्माद्रक्ष्यः स्वप्रतापो येनकेनापि मानिना ।
यावच्छक्यं कर्म कृत्वा शरीरव्ययकारिणा ४६।
सर्वं कृतं सुतेनेदं गृहीतोऽश्व पुनर्यतः ।
कोपितं रामभूपालं समयार्हं कुरु प्रभो ४७।
क्षत्त्रियाणामिदं कर्म कर्तव्यार्हं भवेन्नहि ।
यदकस्माद्रिपोः पादौ प्रणमेद्भयविह्वलः ४८।
रिपवो विहसंत्येनं कातरोऽयं नृपाधमः ।
क्षुद्रः प्राकृतवन्नीचो नतवान्भयविह्वलः ४९।
तस्माद्भवान्यथायोग्यं योद्धव्ये समुपस्थिते ।
यद्विधेयं विचार्यैव कर्तव्यं भक्तरक्षणम् ५०।
शेष उवाच।
इति वाक्यं समाकर्ण्य चंद्रचूडोवदद्वचः ।
प्रहसन्मेघगंभीरवाण्या संमोहयन्मनः ५१।
यदि देवास्त्रयस्त्रिंशत्कोटयः समुपस्थिताः ।
तथापि त्वत्तः केनाश्वो गृह्यते मम रक्षितुः ५२।
यदि रामः समागत्य स्वात्मानं दर्शयिष्यति ।
तदाहं चरणौ तस्य प्रणमामि सुकोमलौ ५३।
स्वामिना न हि योद्धव्यं महान नय उच्यते ।
अन्ये वीरास्तृणप्रायाः किंचित्कर्तुं न वै क्षमाः ५४।
तस्माद्युद्ध्यस्व राजेंद्र रक्षके मयि सुस्थिते ।
को गृह्णाति बलाद्वाहं त्रिलोकी यदि संगता ५५।
शेष उवाच।
एतद्वचः परं श्रुत्वा चंद्रचूडस्य भूमिपः ।
जहर्ष मानसेऽत्यंतं युद्धकर्मणि कौतुकी ५६।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे वीरमणिपुत्रेण हयग्रहणंनाम एकोनचत्वारिंशत्तमोऽध्यायः ३९ ।