पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०४०

विकिस्रोतः तः
← अध्यायः ०३९ पद्मपुराणम्
अध्यायः ०४०
वेदव्यासः
अध्यायः ०४१ →

शेष उवाच।
सेनाचरा महाराज्ञो महाबलसमन्विताः ।
समागतास्तं पश्यंतो हयं रामस्य भूपतेः १।
क्वा सावश्वः केन नीतः कथं वा दृश्यते न सः ।
को गंता यमपुर्यां वै वाहं हृत्वा सुमंदधीः २।
विलोकयंतस्तन्मार्गं यावत्सेनाचरा रघोः ।
तावत्प्राप्तो महाराजो महासैन्यपरीवृतः ३।
पप्रच्छ सेवकान्सर्वान्कुत्राश्वो मम सांप्रतम् ।
न दृश्यते कथं वाहः स्वर्णपत्रसुशोभितः ४।
इति तद्वचनं श्रुत्वा सेवकास्ते हयानुगाः ।
प्रोचुर्नाथ मनोवेगो वाहः केनापि कानने ५।
हृतो न लक्ष्यते तस्मादस्माभिर्मार्गकोविदैः ।
तदत्र यत्नः कर्तव्यो हयप्राप्तिं प्रति प्रभो ६।
तेषां वचनमाकर्ण्य पप्रच्छ सुमतिं नृपः ।
शत्रुघ्नः शत्रुसंहारकारीमोहनरूपधृक् ७।
शत्रुघ्न उवाच।
कोऽत्र राजा निवसति कथं वाहस्य संगमः ।
कियद्बलं भूमिपतेर्येन मेऽद्य हृतो हयः ८।
सुमतिरुवाच।
राजन्देवपुरं ह्येतद्देवेनैव विनिर्मितम् ।
कैलासमिव दुर्गम्यं वैरिसंघैः सुसंहतैः ९।
अस्मिन्वीरमणी राजा महाशूरः प्रतापवान् ।
राज्यं करोति धर्मेण शिवेन परिरक्षितः १०।
योऽसौ प्रलयकारी स आस्ते भक्त्या वशीकृतः ।
चंद्रचूडः स्वभक्तस्य पक्षपातं सृजन्सदा ११।
तस्मादत्र महद्युद्धं गृहीतश्चेद्भविष्यति ।
यत्ताः संतः प्रकुर्वंतु रक्षणं कटकस्य हि १२।
एवं श्रुत्वा स शत्रुघ्नः सर्वभूपशिरोमणिः ।
सैन्यव्यूहं रचित्वासौ तिष्ठति स्म महायशाः १३।
अथ तं सुखमासीनं मंत्रयंतं सुमंत्रिणा ।
आजगाम स देवर्षिर्युद्धकौतुकसंयुतः १४।
तमागतं मुनिं दृष्ट्वा शत्रुघ्नस्तपसां निधिम् ।
अभ्युत्थायासने स्थाप्य मधुपर्कमथार्पयत् १५।
स्वागतेन च संतुष्टं नारदं मुनिसत्तमम् ।
उवाच प्रीणयन्वाचा वाक्यवादविशारदः १६।
शत्रुघ्न उवाच।
मदीयोऽश्व कुत्र विप्र कथयस्व महामते ।
न लक्ष्यते गतिस्तस्य सेवकैर्मम कोविदैः १७।
शंस तं येन वा नीतं क्षत्त्रियेण च मानिना ।
कथमत्र हयप्राप्तिर्भविष्यति तपोधन १८।
इति वाक्यं समाकर्ण्य शत्रुघ्नस्य स नारदः ।
उवाच वीणां रणयन्गायन्रामकथां मुहुः १९।
नारद उवाच।
एतद्देवपुरं राजन्भूपो वीरमणिर्महान् ।
तत्पुत्रेण वनस्थेन गृहीतस्तव वाजिराट् २०।
तत्र युद्धं महत्तेऽद्य भविष्यति सुदारुणम् ।
अत्र वीराः पतिष्यंति बलशौर्यसमन्विताः २१।
तस्मादत्र महायत्नात्स्थातव्यं ते महाबल ।
रचय व्यूहरचनां दुर्गमां परसैनिकैः २२।
जयस्ते भविता राजन्कृच्छ्रेणास्मान्नृपोत्तमात् ।
रामं को नु पराजीयाद्भुवने सकले ह्यपि २३।
इत्युक्त्वांतर्दधे विप्रो नभसि स्थितवांस्ततः ।
युद्धं सुदारुणं द्रक्ष्यन्देवदानवयोरिव २४।
शेष उवाच।
अथ राजा वीरमणिः सर्वशूरशिरोमणिः ।
पटहं घोषितुं स्वीये पुरमध्ये महारवम् २५।
आह्वयामास सेनान्यं रिपुवीरं महोन्नतम् ।
कथयामास च क्षिप्रं मेघगंभीरया गिरा २६।
वीरमणिरुवाच।
सेनानीः पटहस्याज्ञां देहि मे शोभने पुरे ।
तच्छ्रुत्वा मे सुसन्नद्धाः शत्रुघ्नं प्रति यांतु ते २७।
इति वाक्यं समाकर्ण्य राज्ञो वीरमणेस्तदा ।
कारयामास पटहं महारवनिनादितम् २८।
गेहे गेहे च रथ्यायां श्रूयते पटहध्वनिः ।
शत्रुघ्नं यांतु ये सर्वे वीरा राजपुरे स्थिताः २९।
ये वै राज्ञः समुल्लंघ्य शासनं वीरमानिनः ।
पुत्रा वा भ्रातरो वापि ते वध्याः स्युर्नृपाज्ञया ३०।
शृण्वंतु वीराः पुनरप्याह ते पटहे रवम् ।
श्रुत्वा विधीयतामाशु कर्तव्यं मा विलंबितम् ३१।
शेष उवाच।
इति पटहरवं स्वकर्णगोचरं ।
नरवरवीरवरा ययुर्नृपोत्तमम् ।
कनककवचभूषितस्वदेहाः ।
समरमहोत्सव हृष्टचित्तकोशाः ३२।
केचिद्ययुः शिरस्त्राणं धृत्वा शिरसि शोभनम् ।
कवचेन सुशोभाढ्याः शतकोटिसुशोभिताः ३३।
रथेन हययुग्मेन मणिकांचनशोभिना ।
ययुस्ते राजसंदेशान्नृवरालयमुन्मदाः ३४।
केचिन्मतंगजैर्मत्तैः केचिद्वाहैः सुशोभनैः ।
ययुर्नपगृहं सर्वे राजसंदेशकारकाः ३५।
विविक्तस्वर्णकवचशिरस्त्राणसुशोभितः ।
रुक्मांगदोऽपि च निजे रथे तिष्ठन्मनोजवे ३६।
शुभांगदोऽनुजस्तस्य महारत्नमयं दधत् ।
कवचं वपुषि श्रेष्ठं निजं प्रायाद्रणोत्सवे ३७।
राजभ्राता वीरसिंहः सर्वशस्त्रास्त्रकोविदः ।
ययौ नृपाज्ञया तत्र शासनं भूमिपस्य हि ३८।
जामेयस्तस्य राज्ञोऽपि बलमित्र इति स्मृतः ।
सन्नद्धः कवची खड्गी जगाम नृपमंदिरम् ३९।
सेनानी रिपुवारोऽपि सेनां तां चतुरंगिणीम् ।
सज्जां विधाय भूपाय न्यवेदयदथो महान् ४०।
अथ राजा वीरमणिः सर्वशस्त्रास्त्रपूरितम् ।
मणिसृष्टोच्चचक्रोच्चमारोहत्स्यंदनोत्तमम् ४१।
ततो वीरार्णवे शंखनिनादश्च समंततः ।
श्रूयते कातरान्वीरान्प्रेरयन्निव संगरे ४२।
भेर्यः समंततो जघ्नुः शुभवादकवादिताः ।
अनीकान्यत्र तस्यासन्संग्रामाय प्रतस्थुषः ४३।
सर्वे कृतस्वस्त्ययनाः सर्वाभरणभूषिताः ।
सर्वशस्त्रास्त्रसंपूर्णा ययुः समरमण्डलम् ४४।
भेरीशंखनिनादेन पूरिताश्च नगा गुहाः ।
आकारितुं गतः किं नु तद्रवः स्वर्गसंस्थितान् ४५।
तस्मिन्कोलाहले वृत्ते राजा वीरमणिर्महान् ।
रणोत्साहेन संयुक्तो ययौ प्रधनमंडलम् ४६।
आगत्य संस्थितस्तावद्रथपत्तिसमाकुलम् ।
समुद्र इव तत्स्थानात्प्लावितुं पुरुषानयात् ४७।
तदागतं बलं दृष्ट्वा रथिभिः शस्त्रकोविदैः ।
कोलाहलीकृतं सर्वमुवाच सुमतिं नृपः ४८।
शत्रुघ्न उवाच।
समागतो वीरमणिर्मम वाजिधरो बली ।
योद्धुं मां महता भूयः सैन्येन चतुरंगिणा ४९।
कथं युद्धं प्रकर्तव्यं के योत्स्यंति बलोत्कटाः ।
तान्सर्वान्दिश मे वीरान्यथा स्याज्जय ईप्सितः ५०।
सुमतिरुवाच।
स्वामिन्नसौ महाराजो महासैन्यपरीवृतः ।
समागतः स युद्धार्थं शिवभक्तिसमन्वितः ५१।
सांप्रतं युद्ध्यतां वीरः पुष्कलः परमास्त्रवित् ।
अन्येपि नीलरत्नाद्या योद्धारो युद्धकोविदाः ५२।
शिवेन सह योद्धव्यं राज्ञा वा भवतानघ ।
द्वंद्वयुद्धेन जेतव्यो महाबलपराक्रमः ५३।
अनेन विधिना राजञ्जयस्तेऽत्र भविष्यति ।
पश्चाद्यद्रोचते स्वामिंस्तत्कुरुष्व महामते ५४।
शेष उवाच।
इति वाक्यं समाकर्ण्य शत्रुघ्नः परवीरहा ।
सुभटानादिदेशाथ युद्धाय कृतनिश्चयः ५५।
सर्वैः ससैन्यैर्युद्धार्थं राजभिः शस्त्रकोविदैः ।
यथा स्यान्मे जयः क्षिप्रं यतितव्यं तथा पुनः ५६।
जयार्थं राघवस्यैव श्रुत्वा ते रणकोविदाः ।
महोत्साहेन संयुक्ता ययुर्योद्धुं तु सैनिकैः ५७।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे वीर-।
मणिना सह युद्धनिश्चयोनाम चत्वारिंशत्तमोऽध्यायः ४० ।