पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०५१

विकिस्रोतः तः
← अध्यायः ०५० पद्मपुराणम्
अध्यायः ०५१
वेदव्यासः
अध्यायः ०५२ →

शेष उवाच।
तच्छ्रुत्वा भाषितं तस्य सुरथस्यांगदाननात् ।
सज्जीभूता रणे सर्वे रथस्था रणकोविदाः १।
पटहानां निनादोऽभूद्भेरीनादस्तथैव च ।
वीराणां गर्जनानादाः प्रादुर्भूता रणांगणे २।
रथचीत्कारशब्देन गजानां बृंहितेन च ।
व्याप्तं तत्सकलं विश्वं दिवं यातो महारवः ३।
रणोत्साहेन संयुक्ता वीरा रणविशारदाः ।
कुर्वंति विविधान्नादान्कातरस्य भयंकरान् ४।
एवं कोलाहले वृत्ते सुरथो नाम भूमिपः ।
स्वसुतैः सैनिकैश्चाथ वृतः प्रायाद्रणांगणे ५।
गजैरथैर्हयैः पत्तिव्रजैः पूर्णां तु मेदिनीम् ।
कुर्वन्समुद्रइव तां प्लावयन्ददृशे भटैः ६।
शंखनादेन संघुष्टं जयनादैस्तथैव च ।
वीक्ष्य तं प्रधनोद्युक्तं सुमतिं प्राह भूमिपः ७।
शत्रुघ्न उवाच।
एष राजा समायातो महासैन्यपरीवृतः ।
अत्र यत्कृत्यमस्माकं तद्वदस्व महामते ८।
सुमतिरुवाच।
योद्धव्यमत्र बहुभिर्वीरै रणविशारदैः ।
पुष्कलादिभिरत्युग्रैः सर्वशस्त्रास्त्रकोविदैः ९।
राज्ञा सह समीरस्य पुत्रः परमशौर्यवान् ।
युद्धं करोतु सुबलः परयुद्धविशारदः १०।
शेष उवाच।
इति ब्रूते महामात्यो यावत्तावन्नृपात्मजाः ।
रणांगणे धनूंष्यद्धा स्फारयामासुरुद्धताः ११।
तान्वीक्ष्य योधाः सुबलाः पुष्कलाद्या रणोत्कटाः ।
अभिजग्मुः स्यंदनैः स्वैर्धनुर्बाणकरा मताः १२।
चंपकेन महावीरः पुष्कलः परमास्त्रवित् ।
द्वैरथेनैव युयुधे महावीरेण शालिना १३।
मोहकं योधयामास जानकिः स कुशध्वजः ।
रिपुंजयेन विमलो दुर्वारेण सुबाहुकः १४।
प्रतापिना प्रतापाग्र्यो बलमोदेन चांगदः ।
हर्यक्षेण नीलरत्नः सहदेवेन सत्यवान् १५।
राजा वीरमणिर्भूरि देवेन युयुधे बली ।
असुतापेन चोग्राश्वो युयुधे बलसंयुतः १६।
द्वैरथं तु महद्युद्धमकुर्वन्युद्धकोविदाः ।
सर्वे शस्त्रास्त्रकुशलाः सर्वे युद्धविशारदाः १७।
एवं प्रवृत्ते संग्रामे सुरथस्य सुतैस्तदा ।
अत्यंतं कदनं तत्र बभूव मुनिसत्तम १८।
पुष्कलश्चंपकं प्राह किं नामासि नृपात्मज ।
धन्योसि यो मया सार्धं रणमध्यमुपेयिवान् १९।
इदानीं तिष्ठ किं यासि कथं ते जीवितं भवेत् ।
एहि युद्धं मया सार्धं सर्वशस्त्रास्त्रकोविद २०।
इत्यभिव्याहृतं तस्य श्रुत्वा राजात्मजो बली ।
जगाद पुष्कलं वीरो मेघगंभीरया गिरा २१।
चंपक उवाच।
न नाम्ना न कुलेनेदं युद्धमत्र भविष्यति ।
तथापि तव वक्ष्येऽहं स्वनामबलपूर्वकम् २२।
मम माता राघवेशो मत्पिता राघवः स्मृतः ।
मम बंधू रामचंद्र स्वःजनो मम राघवः २३।
मन्नाम रामदासश्च सदा रामस्य सेवकः ।
तारयिष्यति मां युद्धे रामो भक्तकृपाकरः २४।
लोकानां मतमास्थाय प्रब्रवीमि तवाधुना ।
सुरथस्य सुतश्चाहं माता वीरवतीमम २५।
मन्नामयो मधौ सर्वाञ्छोभनान्विदधाति वै ।
मधुपायंरसावा संत्यजंति मधुमोहिताः २६।
वर्णेन स्वर्णसदृशो मध्ये लिंगवपुर्धरः ।
तदाख्ययाभिधां वीर जानीहि मम मोहिनीम् २७।
युध्यस्व बाणैः प्रधनेन को जेतुं हि मां क्षमः ।
इदानीं दर्शयिष्यामि स्वपराक्रममद्भुतम् २८।
शेष उवाच।
इति श्रुत्वा महद्वाक्यं पुष्कलो हृदि तोषितः ।
तं दुर्जयं मन्यमानः शरान्मुंचन्रणेऽभवत् २९।
शरसंघं प्रमुंचंतं कोटिधा पुष्कलं ययौ ।
चंपकः कोपसंयुक्तो धनुः सज्यमथाकरोत् ३०।
मुमोच निशितान्बाणान्वैरिवृंदविदारणान् ।
स्वनामचिह्नितान्स्वर्णपुंखभागसमन्वितान् ३१।
तांश्चिच्छेद महावीरः पुष्कलः प्रधनांगणे ।
शरांधकारं सर्वत्र मुंचन्बाणाञ्छिलाशितान् ३२।
स्वबाणच्छेदनं दृष्ट्वा कृतं वीरेण चंपकः ।
आह्वयामास बलिनं पुष्कलं कोपपूरितः ३३।
मा प्रयाहि रणं त्यक्त्वेति ब्रुवन्समरे पुनः ।
पुष्कलं हृदये बाणैर्विव्याध दशभिस्त्वरन् ३४।
ते बाणाः पुष्कलस्याहो हृदये तीव्रवेगिनः ।
आगत्य सुभृशं लग्नाः शोणितं पपुरूर्जितम् ३५।
तैर्बाणैर्व्यथितो वीरः शरान्पंच समाददे ।
सुतीक्ष्णाग्रान्महाकोपाद्वारयन्पर्वतानिव ३६।
ते बाणास्तस्य बाणाश्च परस्परमथोर्जिताः ।
आकाशे रचिताश्छिन्नाः शतधा राजसूनुना ३७।
छित्त्वा बाणान्सुतीक्ष्णाग्रान्सुरथांगोद्भवो बली ।
बाणाञ्छतं समाधत्त पुष्कलं ताडितुं हृदि ३८।
ते बाणाः शतधाच्छिन्नाः पुष्कलेन महात्मना ।
अपतन्समरोपांते शरवेगप्रपीडिताः ३९।
तदा तत्सुमहत्कर्म दृष्ट्वा राज्ञः सुतो बली ।
सहस्रेण शराणां च ताडयन्वक्षसि स्फुटम् ४०।
तानप्याशु प्रचिच्छेद पुष्कलः परमास्त्रवित् ।
पुनरप्याशु स्वे चापे समाधत्तायुतं शरान् ४१।
तानप्याशु प्रचिच्छेद पुष्कलः परमास्त्रवित् ।
ततोऽत्यतं प्रकुपितः शरवृष्टिमथाकरोत् ४२।
शरवृष्टिं समायांतीं मत्वा चंपक वीरहा ।
साधुसाधुप्रशंसंतं पुष्कलं समताडयत् ४३।
पुष्कलश्चंपकं दृष्ट्वा महावीर्यसमन्वितम् ।
ब्रह्मणोऽस्त्रसमाधत्त स्वे चापे सर्वशस्त्रवित् ४४।
तेन मुक्तं महाशस्त्रं प्रजज्वाल दिशो दश ।
खं रोदसी व्याप्य विश्वं प्रलयं कर्तुमुद्यतम् ४५।
चंपको मुक्तमस्त्रं तद्दृष्ट्वा सर्वास्त्रकोविदः ।
तत्संहर्तुं तदेवास्त्रं मुमोच रिपुमुद्यतम् ४६।
द्वयोरेकतमं तेजः प्रलयं मेनिरे जनाः ।
संजहार तदास्त्रास्त्रमेकीभूतं परास्त्रकम् ४७।
तत्कर्मचाद्भुतं दृष्ट्वा पुष्कलस्तिष्ठतिष्ठ च ।
ब्रुवञ्छरानमोघांस्तु चंपकं स क्रुधाहनत् ४८।
चंपकस्ताञ्छरान्मुक्तानगणय्य महामनाः ।
रामास्त्रं प्रमुमोचाथ पुष्कलं प्रति दारुणम् ४९।
तन्मुक्तमस्त्रमालोक्य चंपकेन महात्मना ।
छेत्तुं यावन्मनश्चक्रे तावद्ग्रस्तः शरेण सः ५०।
बद्धश्चंपकवीरेण रथे स्वे स्थापितः पुनः ।
पुरं प्रेषयितुं तावन्मनश्चक्रे महामनाः ५१।
हाहाकारो महानासीद्बद्धे पुष्कलसंज्ञिके ।
शत्रुघ्नं प्रययुर्योधाः पलायनपरायणाः ५२।
भग्नांस्तान्वीक्ष्य शत्रुघ्नो हनूमंतमुवाच ह ।
केन वीरेण मे भग्नं बलं वीरैरलंकृतम् ५३।
तदोवाच महीनाथ पुष्कलं परवीरहा ।
बद्ध्वा नयति वीरोऽसौ चंपकः स्वपदोद्धुरः ५४।
तस्येदृग्वाक्यमाकर्ण्य शत्रुघ्नः कोपसंयुतः ।
उवाच पवनोद्भूतं मोचयाशु नृपात्मजात् ५५।
महाबलः सुतश्चास्य बद्ध्वा यः पुष्कलं भटम् ।
तस्मान्मोचय वीराग्र्य कथं तिष्ठसि चाहवे ५६।
एतद्वाक्यं समाकर्ण्य हनूमानोमिति ब्रुवन् ।
जगाम तं मोचयितुं पुष्कलं चंपकाद्भटात् ५७।
हनूमंतमथालोक्य तं मोचयितुमागतम् ।
बाणैः शतैश्च साहस्रैर्जघान परकोपनः ५८।
बाणांस्तान्स बभंजाशु मुक्तांस्तेन महात्मना ।
पुनरप्येनमेवाशु बाणान्मुंचन्महानभूत् ५९।
तान्सर्वांश्चूर्णयामास नाराचान्वैरिमोचितान् ।
शालं करे समाधृत्य जघान नृपनंदनम् ६०।
शालं तेन विनिर्मुक्तं तिलशः कृतवान्बली ।
गजो हनूमता मुक्तो नृपनंदन मस्तके ६१।
सोऽप्याहतश्चंपकेन मृतो भूमौ पपातसः ।
शिलाः संमोचयामास हनूमान्परमास्त्रवित् ६२।
चंपकस्ताः शिलाः सर्वाः क्षणाच्चूर्णितवान्भृशम् ।
बाणयंत्रिकया ब्रह्मन्महच्चित्रमभूदिदम् ६३।
स्वमुक्तास्ताः शिलाः सर्वाश्चूर्णिता वीक्ष्य मारुतिः ।
चुकोप हृदयेऽत्यतं बहुवीर्यमिति स्मरन् ६४।
आगत्य च करे धृत्वा नभस्युत्पतितः कपिः ।
तावद्ययौ नेत्रपथादुपरि क्षिप्रवेगवान् ६५।
चंपकस्तं हनूमंतं युयुधे नभसि स्थितः ।
बाहुयुद्धेन महता ताडितः कपिपुंगवः ६६।
चुकोप मानसे वीरो गर्वपर्वतदारुणः ।
पदा धृत्वा चंपकं तं ताडयामास भूतले ६७।
ताडितोऽसौ कपींद्रेण क्षणादुत्थाय वेगवान् ।
हनूमंतं तु लांगूले धृत्वा बभ्राम सर्वतः ६८।
कपींद्रस्तद्बलं वीक्ष्य हसन्पादेऽग्रहीत्पुनः ।
भ्रामयित्वा शतगुणं गजोपस्थे ह्यपातयत् ६९।
पपात भूमौ सुबलो राजसूनुः स चंपकः ।
मूर्च्छितो वीरभूषाढ्यमलंकुर्वन्रणांगणम् ७०।
तदा हाहेति वै लोकाश्चुक्रुशुश्चंपकानुगाः ।
पुष्कलं मोचयामास बद्धं चंपकपाशतः ७१।

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधेपुष्कलमोचनं नामैकपंचाशत्तमोऽध्यायः ५१।