सामग्री पर जाएँ

पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०१२

विकिस्रोतः तः
← अध्यायः ०११ पद्मपुराणम्
अध्यायः ०१२
वेदव्यासः
अध्यायः ०१३ →

शेष उवाच।
इत्युक्तवंतं स्वपतिं वीक्ष्य प्रेम्णा सुनिर्भरम् ।
प्रत्युवाच हसंतीव किंचिद्गद्गदभाषिणी १।
नाथ ते विजयोभूयात्सर्वत्र रणमंडले ।
शत्रुघ्नाज्ञा प्रकर्तव्या हयरक्षा यथा भवेत् २।
स्मरणीया हि सर्वत्र सेविका त्वत्पदानुगा ।
कदापि मानसं नाथ त्वत्तो नान्यत्र गच्छति ३।
परमायोधने कांत स्मर्तव्याहं न जातुचित् ।
सत्यां मयि तव स्वांते युद्धे 3विजयसंशयः ४।
पद्मनेत्र तथा कार्यमूर्मिलाद्या यथा मम ।
हास्यं नैव प्रकुर्वंति मां वीक्ष्य करताडनैः ५।
इयं पत्नी महाभीरोः संग्रामे प्रपलायितुः ।
कातरा यर्हि युद्ध्यंति शूराणां समयः कुतः ६।
इत्येवं न हसंत्युच्चैर्यथा मे देवरांगनाः ।
तथा कार्यं महाबाहो रामस्य हयरक्षणे ७।
योद्धा त्वमादौ सर्वत्र परे ये तव पृष्ठतः ।
धनुष्टंकारबधिराः क्रियंतां बलिनः परे ८।
तवप्रोद्यत्करांभोज करवालभिया बलम् ।
परेषां भवतात्क्षिप्रमन्योन्य भयव्याकुलम् ९।
कुलं महदलं कार्यं परान्विजयता त्वया ।
गच्छ स्वामिन्महाबाहो तव श्रेयो भवत्विह १०।
इदं धनुर्गृहाणाशु महद्गुणविभूषितम् ।
यस्य गर्जितमाकर्ण्य वैरिवृंदं भयातुरम् ११।
इमौ ते त्विषुधी वीर बध्येतां शं यथा भवेत् ।
वैरिकोटिविनिष्पेष बाणकोटि सुपूरितौ १२।
कवचं त्विदमाधेहि शरीरे कामसुंदरे ।
वज्रप्रभा महादीप्ति हतसंतमसंदृढम् १३।
शिरस्त्राणं निजोत्तंसे कुरु कांत मनोरमम् ।
इमेव तंसे विशदे मणिरत्नविभूषिते १४।
इति सुविमलवाचं वीरपुत्रीं प्रपश्यन् ।
नयनकमलदृष्ट्या वीक्षमाणस्तंदंगम् ।
अधिगतपरिमोदो भारतिः शत्रुजेता ।
रणकरणसमर्थस्तां जगादातिधीरः १५।
पुष्कल उवाच।
कांते यत्त्वं वदसि मां तथा सर्वं चराम्यहम् ।
वीरपत्नी भवेत्कीर्तिस्तव कांतिमतीप्सिता १६।
इति कांतिमतीदत्तं कवचं मुकुटं वरम् ।
धनुर्महेषुधीखड्गं सर्वं जग्राह वीर्यवान् १७।
परिधाय च तत्सर्वं बहुशो भासमन्वितः ।
शुशुभेऽतीव सुभटः सर्वशस्त्रास्त्रकोविदः १८।
तमस्त्रशस्त्रशोभाढ्यं वीरमालाविभूषितम् ।
कुंकुमागुरुकस्तूरी चंदनादिकचर्चितम् १९।
नानाकुसुममालाभिराजानुपरिशोभितम् ।
नीराजयामास मुहुस्तत्र कांतिमती सती २०।
नीराजयित्वा बहुशः किरंती मौक्तिकैर्मुहुः ।
गलदश्रुचलन्नेत्रा परिरेभे पतिं निजम् २१।
दृढं सपरिरभ्यैतां चिरमाश्वासयत्तदा ।
वीरपत्नि कांतिमति विरहं मा कृथा मम २२।
एष गच्छामि सविधे तव भामे पतिव्रते ।
इत्युक्त्वा तां निजां पत्नीं रथमारुरुहे वरम् २३।
तं प्रयांतं पतिं श्रेष्ठं नयनैर्निमिषोज्झितैः ।
विलोकयामास तदा पतिव्रतपरायणा २४।
स ययौ जनकं द्रष्टुं जननीं प्रेमविह्वलाम् ।
गत्वा पितरमंबां च ववंदे शिरसा मुदा २५।
माता पुत्रं परिष्वज्य स्वांकमारोपयत्तदा ।
मुंचंती बाष्पनिचयं स्वस्त्यस्त्विति जगाद सा २६।
पितरं प्राह भरतं रामो यज्ञकरः परः ।
पालनीयो लक्ष्मणेन भवद्भिश्च महात्मभिः २७।
आज्ञप्तोऽसौ जनन्या च पित्रा हृषितया गिरा ।
ययौ शत्रुघ्नकटकं महावीरविभूषितम् २८।
रथिभिः पत्तिभिर्वीरैः सदश्वैः सादिभिर्वृतः ।
ययौ मुदा रघूत्तंस महायज्ञहयाग्रणीः २९।
गच्छन्पांचालदेशांश्च कुरूंश्चैवोत्तरान्कुरून् ।
दशार्णाञ्छ्रीविशालांश्च सर्वशोभासमन्वितः ३०।
तत्र तत्रोपशृण्वानो रघुवीरयशोऽखिलम् ।
रावणासुरघातेन भक्तरक्षाविधायकम् ३१।
पुनश्च हयमेधादि कार्यमारभ्य पावनम् ।
यशो वितन्वन्भुवने लोकान्रामोऽविता भयात् ३२।
तेभ्यस्तुष्टो ददौ हारान्रत्नानि विविधानि च ।
महाधनानि वासांसि शत्रुघ्नः प्रवरो महान् ३३।
सुमतिर्नाम तेजस्वी सर्वविद्याविशारदः ।
रघुनाथस्य सचिवः शत्रुघ्नानुचरो वरः ३४।
ययौ तेन महावीरो ग्रामाञ्जनपदान्बहून् ।
रघुनाथप्रतापेन न कोपि हृतवान्हयम् ३५।
देशाधिपाये बहवो महाबलपराक्रमाः ।
हस्त्यश्वरथपादात चतुरंगसमन्विताः ३६।
संपदो बहुशो नीत्वा मुक्तामाणिक्यसंयुताः ।
शत्रुघ्नं हयरक्षार्थमागतं प्रणता मुहुः ३७।
इदं राज्यं धनं सर्वं सपुत्रपशुबांधवम् ।
रामचंद्रस्य सर्वं हि न मदीयं रघूद्वह ३८।
एवं तदुक्तमाकर्ण्य शत्रुघ्नः परवीरहा ।
आज्ञां स्वां तत्र संज्ञाप्य ययौ तैः सहितः पथि ३९।
एवं क्रमेण संप्राप्तः शत्रुघ्नो हयसंयुतः ।
अहिच्छत्रां पुरीं ब्रह्मन्नानाजनसमाकुलाम् ४०।
ब्रह्मद्विजसमाकीर्णां नानारत्नविभूषिताम् ।
सौवर्णैः स्फाटिकैर्हर्म्यैर्गोपुरैः समलंकृताम् ४१।
यत्र रंभा तिरस्कारकारिण्यः कमलाननाः ।
दृश्यंते सर्वहर्म्येषु ललना लीलयान्विताः ४२।
यत्र स्वाचारललिताः सर्वभोगैकभोगिनः ।
धनदानुचरायद्वत्तथा लीलासमन्विताः ४३।
यत्र वीरा धनुर्हस्ताःशरसंधानकोविदाः ।
कुर्वंति तत्र राजानं सुहृष्टं सुमदाभिधम् ४४।
एवंविधं ददर्शासौ नगरं दूरतः प्रभुः ।
पार्श्वे तस्य पुरश्रेष्ठमुद्यानं शोभयान्वितम् ४५।
पुन्नागैर्नागचंपैश्च तिलकैर्देवदारुभिः ।
अशोकैः पाटलैश्चूतैर्मंदारैःकोविदारकैः ४६।
आम्रजंबुकदंबैश्च प्रियालपनसैस्तथा ।
शालैस्तालैस्तमालैश्च मल्लिकाजातियूथिभिः ४७।
नीपैः कदंबैर्बकुलैश्चंपकैर्मदनादिभिः ।
शोभितं सददर्शाथशत्रुघ्नःपरवीरहा ४८।
हयोगतस्तद्वनमध्यदेशे ।
तमालतालादि सुशोभिते वै ।
ययौ ततः पृष्ठत एव वीरो ।
धनुर्धरैः सेवितपादपद्मः ४९।
ददर्श त रचितं देवायतनमद्भुतम् ।
इंद्रनीलैश्च वैडूर्यैस्तथा मारकतैरपि ५०।
शोभितं सुरसेवार्हं कैलासप्रस्थसन्निभम् ।
जातरूपमयैः स्तंभैःशोभितं सद्मनां वरम् ५१।
दृष्ट्वातद्रघुनाथस्य भ्राता देवालयं वरम् ।
पप्रच्छ सुमतिं स्वीयं मंत्रिणं वदतांवरम् ५२।
शत्रुघ्न उवाच।
वदामात्य वरेदं किं कस्यदेवस्य केतनम् ।
का देवता पूज्यतेऽत्र कस्य हेतोः स्थितानघ ५३।
एवमाकर्ण्य यथावदिहसर्वशः ५४।
कामाक्षायाः परं स्थानं विद्धि विश्वैकशर्मदम् ।
यस्या दर्शनमात्रेण सर्वसिद्धिः प्रजापते ५५।
देवासुरास्तु यां स्तुत्वा नत्वा प्राप्ताखिलां श्रियम् ।
धर्मार्थकाममोक्षाणां दात्री भक्तानुकंपिनी ५६।
याचिता सुमदेनात्राहिच्छत्रा पतिना पुरा ।
स्थिता करोति सकलं भक्तानां दुःखहारिणी ५७।
तां नमस्कुरु शत्रुघ्न सर्ववीर शिरोमणे ।
नत्वाशु सिद्धिं प्राप्नोषि ससुरासुरदुर्ल्लभाम् ५८।
इति श्रुत्वाथ तद्वाक्यं शत्रुघ्नः शत्रुतापनः ।
पप्रच्छ सकलां वार्तां भवान्याः पुरुषर्षभः ५९।
शत्रुघ्न उवाच।
कोऽहिच्छत्रापती राजा सुमदः किं तपः कृतम् ।
येनेयं सर्वलोकानां माता तुष्टात्र संस्थिता ६०।
वद सर्वं महामात्य नानार्थपरिबृंहितम् ।
यथावत्त्वं हि जानासि तस्माद्वद महामते ६१।
सुमतिरुवाच।
हेमकूटो गिरिः पूतः सर्वदेवोपशोभितः ।
तत्रास्ति तीर्थं विमलमृषिवृंदसुसेवितम् ६२।
सुमदो हि तपस्तेपे हतमातृपितृप्रजः ।
अरिभिः सर्वसामंतैर्जगाम तपसे हि तम् ६३।
वर्षाणि त्रीणि सपदा त्वेकेन मनसा स्मरन् ।
जगतां मातरं दध्यौ नासाग्रस्तिमितेक्षणः ६४।
वर्षाणि त्रीणि शुष्काणां पर्णानां भक्षणं चरन् ।
चकार परमुग्रं स तपः परमदुश्चरम् ६५।
अब्दानि त्रीणि सलिले शीतकाले ममज्ज सः ।
ग्रीष्मे चचार पंचाग्नीन्प्रावृट्सु जलदोन्मुखः ६६।
त्रीणि वर्षाणि पवनं संरुध्य स्वांतगोचरम् ।
भवानीं संस्मरन्धीरो न च किंचन पश्यति ६७।
वर्षे तु द्वादशेऽतीते दृष्ट्वैतत्परमं तपः ।
विभाव्य मनसातीव शक्रः पस्पर्ध तं भयात् ६८।
आदिदेश सकामं तु परिवारपरीवृतम् ।
अप्सरोभिः सुसंयुक्तं ब्रह्मेंद्रादिजयोद्यतम् ६९।
गच्छ कामसखे मह्यं प्रियमाचर मोहन ।
सुमदस्य तपोविघ्नं समाचर यथा भवेत् ७०।
इति श्रुत्वा महद्वाक्यं तुरासाहः स्वयंप्रभुः ।
उवाच विश्वविजये प्रौढगर्वो रघूद्वह ७१।
काम उवाच।
स्वामिन्कोऽसौ हि सुमदः किं तपः स्वल्पकं पुनः ।
ब्रह्मादीनां तपोभंगं करोम्यस्य तु का कथा ७२।
मद्बाणबलनिर्भिन्नश्चंद्रस्तारां गतः पुरा ।
त्वमप्यहल्यां गतवान्विश्वामित्रस्तु मेनिकाम् ७३।
चिंतां मा कुरु देवेंद्र सेवके मयि संस्थिते ।
एष गच्छामि सुमदं देवान्पालय मारिष ७४।
एवमुक्त्वा कामदेवो हेमकूटं गिरिं ययौ ।
वसंतेन युतः सख्या तथैवाप्सरसांगणैः ७५।
वसंतस्तत्र सकलान्वृक्षान्पुष्पफलैर्युतान् ।
कोकिलान्षट्पदश्रेण्या घुष्टानाशु चकार ह ७६।
वायुः सुशीतलो वाति दक्षिणां दिशमाश्रितः ।
कृतमालासरित्तीर लवंगकुसुमान्वितः ७७।
एवंविधे वने वृत्ते रंभानामाप्सरोवरा ।
सखीभिः संवृता तत्र जगाम सुमदांतिकम् ७८।
तत्रारभत गानं सा किन्नरस्वरशोभना ।
मृदंगपणवानेकवाद्यभेदविशारदा ७९।
तद्गानमाकर्ण्य नराधिपोऽसौ ।
वसंतमालोक्य मनोहरं च ।
तथान्यपुष्टारटितं मनोरमं ।
चकार चक्षुः परिवर्तनं बुधः ८०।
तं प्रबुद्धं नृपं वीक्ष्य कामः पुष्पायुधस्त्वरन् ।
चकार सत्वरं सज्यं धनुस्तत्पृष्ठतोऽनघ ८१।
एकाप्सरास्तत्र नृपस्य पादयोः ।
संवाहनं नर्तितनेत्रपल्लवा ।
चकार चान्या तु कटाक्षमोक्षणं ।
चकार काचिद्भृशमंगचेष्टितम् ८२।
अप्सरोभिस्तथाकीर्णः कामविह्वलमानसः ।
चिंतयामास मतिमाञ्जितेंद्रियशिरोमणिः ८३।
एता मे तपसो विघ्नकारिण्योऽप्सरसां वराः ।
शक्रेण प्रेषिताः सर्वाः करिष्यंति यथातथम् ८४।
इति संचिंत्य सुतपास्ता उवाच वरांगनाः ।
का यूयं कुत्र संस्थाः किं भवतीनां चिकीर्षितम् ८५।
अत्यद्भुतं जातमहो यद्भवत्योऽक्षिगोचराः ।
यास्तपोभिः सुदुष्प्राप्यास्ता मे तपस आगताः ८६।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे कामाक्षोपाख्यानं नाम द्वादशोऽध्यायः १२ ।