सामग्री पर जाएँ

पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०२६

विकिस्रोतः तः
← अध्यायः ०२५ पद्मपुराणम्
अध्यायः ०२६
वेदव्यासः
अध्यायः ०२७ →

शेष उवाच।
शत्रुघ्नस्तद्बलं दृष्ट्वा भीषणाकृतिमेघवत् ।
हस्त्यश्वरथपादातैर्बहुभिः परिवारितम् १।
सुमतिं प्रत्युवाचेदं वचोगंभीरशब्दयुक् ।
नानावाक्यविचारज्ञैः पंडितैः परिसेवितः २।
शत्रुघ्न उवाच।
सुमते कस्य नगरं प्राप्तो मे हयसत्तमः ।
बलमेतन्निरीक्षेहं पयोदधितरंगवत् ३।
कस्यैतद्बलमुद्धर्षं चतुरंगसमन्वितम् ।
पुरतो भाति युद्धाय समुपस्थितमादरात् ४।
एतत्सर्वं समाचक्ष्व यथावत्पृच्छतो मम ।
यज्ज्ञात्वा युद्धसंस्थायै निर्दिशामि स्वकान्भटान् ५।
इति वाक्यं समाकर्ण्य सुमतिः शुभबुद्धिमान् ।
उवाच वचनं प्रीतः शत्रुघ्नं वैरितापनम् ६।
सुमतिरुवाच।
चक्रांका नगरी राजन्वर्तते सविधे शुभा ।
यस्यां संति नराः पापरहिता विष्णुभक्तितः ७।
तस्याः पुर्याः पतिरयं सुबाहुर्धर्मवित्तमः ।
तवायं पुरतो भाति पुत्रपौत्रसमावृतः ८।
स्वदारनिरतो नित्यं परदारपराङ्मुखः ।
विष्णोः कथास्य कर्णस्थाना परार्थप्रकाशिनी ९।
परस्वं न समादत्ते षष्ठांशादधिकं नृपः ।
ब्राह्मणा विष्णुभक्त्यैव पूज्यंते तेन धर्मिणा १०।
नित्यं सेवारतो विष्णुपादपद्ममधुव्रतः ।
एष स्वधर्मनिरतः परधर्मपराङ्मुखः ११।
एतस्य बलतुल्यं हि न वीराणां बलं क्वचित् ।
पुत्रस्य पतनं श्रुत्वा रोषशोकसमाकुलः १२।
चतुरंगसमेतोऽयं युद्धाय समुपस्थितः ।
तवापि वीरा बहवो लक्ष्मीनिधिमुखा अमून् १३।
जेष्यंति शस्त्रसंघेन निर्दिशाशु परं हि तान् ।
शत्रुघ्नस्तद्वचः श्रुत्वा प्रोवाच स्वभटान्वरान् १४।
रणप्राप्तिभवोद्धर्षपूरपूरितमानसान् ।
क्रौंचव्यूहोऽद्य रचितः सुबाहुपरिसैनिकैः १५।
मुखपक्षस्थिता योधास्तान्को भेत्स्यति शस्त्रवित् ।
यस्य भेदे निजा शक्तिर्यो वीर विजयोद्यतः १६।
स गृह्णातु मदीयाद्धि पाणिपद्माच्च वीटकम् ।
तदा लक्ष्मीनिधिर्वीरो जग्राह क्रौंचभेदने १७।
सर्वशस्त्रास्त्रविद्वीरैर्बहुभिः परिवारितः ।
उवाच वचनं राजन्यास्येऽहं क्रौंचभेदने १८।
भार्गवः पूर्वमेवासीत्क्रौंचभेत्ता तथा ह्यहम् ।
तथान्यं वीरमावोचत्कोऽस्य सार्धं गमिष्यति १९।
पुष्कलः पृष्ठतस्तस्य यातुं चक्रे मतिं ततः ।
रिपुतापो नीलरत्न उग्राश्वो वीरमर्दनः २०।
सर्वे शत्रुघ्नसंदेशाद्ययुस्तत्क्रौंचभेदने ।
शत्रुघ्नोऽपि रथस्थश्च सर्वायुधधरः परः २१।
पृष्ठतोऽस्य परीयाय बहुभिः सैनिकैर्वृतः ।
तदा प्रचलितौ दृष्टावन्योन्यबलवारिधी २२।
प्रलयं कर्तुमुद्युक्तौ जगतः सुतरंगिणौ ।
तदा भेर्यः समाजघ्नुरुभयोः सेनयोर्दृढाः २३।
रणभेर्यः शंखनादाः श्रूयंते तत्र तत्र ह ।
हेषंते वाजिनस्तत्र गर्जंति द्विरदा भृशम् २४।
हुं हुं कुर्वंति वीराग्र्या नदंति रथनेमयः ।
तत्र प्रकुपिताः शूराः सुबाहुबलदर्पिताः २५।
छिंधि भिंधीति भाषंतो दृश्यंते बहवो रणे ।
एवंभूते रणोद्युक्ते सैन्ये शत्रुघ्नवैरिणोः २६।
मुखसंस्थं सुकेतुं तं लक्ष्मीनिधिरुवाच ह ।
लक्ष्मीनिधिरुवाच।
जनकस्य सुतं विद्धि लक्ष्मीनिधिरिति स्मृतम् २७।
सर्वशस्त्रास्त्रकुशलं सर्वयुद्धविशारदम् ।
मुंचाश्वं रामचंद्रस्य सर्वदानवदंशितुः २८।
नोचेन्मद्बाणनिर्भिन्नो यास्यसे यमसादनम् ।
इति ब्रुवंतं वीराग्र्यं सुकेतुः सहसा त्वरन् २९।
सज्यं चापं विधायाशु बाणान्मुंचन्स्थिरोऽभवत् ।
ते बाणाः शितपर्वाणः स्वर्णपुंखाः समंततः ३०।
दृश्यंते व्यापिनस्तत्र रणमध्ये सुदुर्भराः ।
तद्बाणजालं तरसा निहत्य ।
लक्ष्मीनिधिश्चापमथा ततज्यम् ।
विधाय तस्योरसि बाणषट्कं ।
मुमोच तीक्ष्णं शितपर्वशोभितम् ३१।
तद्बाणाः सुभुजभ्रातुर्हृदयं संविदार्य च ।
गतास्ते भुवि दृश्यंते रुधिराक्ता मलीमसाः ३२।
तद्बाणभिन्नहृदयः सुकेतुः कोपपूरितः ।
जघानशरविंशत्या तीक्ष्णया नतपर्वया ३३।
उभौ बाणविभिन्नांगावुभौ क्षतजविप्लुतौ ।
सैनिकैः परिदृश्यंते किंशुकाविव पुष्पितौ ३४।
मुंचंतौ बाणकोटीश्च संदधंतौ त्वरा शरान् ।
न केनापि विलक्ष्येते लघुहस्तौ महाबलौ ३५।
कुंडलीकृत सच्चापौ वर्षंतौ बाणधारया ।
नवांबुदाविव दिवि शक्रनिर्देशकारिणौ ३६।
तयोर्बाणा गजान्वाहान्नराञ्छूरान्विमस्तकान् ।
कुर्वंतः केवलं दृष्टा न च संधानमोक्षयोः ३७।
पृथिवी सुभटैः पूर्णा सकिरीटैः सकुंडलैः ।
धनुर्बाणकरै रोषसंदष्टाधरयुग्मकैः ३८।
तयोः प्रयुद्ध्यतोर्दर्पात्सर्वशस्त्रास्त्रवेदिनोः ।
युद्धं समभवद्घोरं देवविस्मापनं महत् ३९।
संमर्दोऽभवदत्यंतं वीरकोटिविदारणः ।
न केनचित्क्वचिद्दृष्टं शरजालांतरेंऽबरम् ४०।
तस्मिंस्तु समये लक्ष्मीनिधिर्वीरोऽरिमर्दनः ।
बाणांश्चापे समाधत्त वसुसंख्यान्दृढाञ्छितान् ४१।
चतुर्भिस्तुरगान्वीरः सुकेतोरनयत्क्षयम् ।
एकेन ध्वजमत्युग्रं चिच्छेद तरसा हसन् ४२।
एकेन सारथेः कायाच्छिरोभूमावपातयत् ।
एकेन चापं सगुणमच्छिनद्रोषपूरितः ४३।
एकेन हृदि विव्याध सुकेतोर्वेगवान्नृपः ।
तत्कर्माद्भुतमुद्वीक्ष्य वीरा विस्मयमाययुः ४४।
सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः ।
महतीं स गदां धृत्वा योद्घुकामोऽभ्युपेयिवान् ४५।
तमायांतं समालक्ष्य गदायुद्धविशारदम् ।
महत्या गदया युक्तं रथादवततार सः ४६।
गदामादाय महतीं सर्वायसविनिर्मिताम् ।
जातरूपविचित्रांगीं सर्वशोभापुरस्कृताम् ४७।
लक्ष्मीनिधिर्भृशं क्रुद्धः सुकेतोर्वक्षसि त्वरन् ।
ताडयामास हृदये गदां वज्राग्निसन्निभाम् ४८।
गदया ताडितो वीरो नाकंपत महामुने ।
मदोन्मत्तो यथा दंती बालेन स्रग्भिराहतः ४९।
उवाच तं स वीराग्र्यो नृपं लक्ष्मीनिधिं तदा ।
सहस्वैकं प्रहारं मे यदि शूरः परंतप ५०।
इत्युक्त्वा ताडयामास ललाटे गदया भृशम् ।
गदया ताडितो भालेऽसृग्वमन्कुपितो भृशम् ५१।
मूर्ध्नि तं ताडयामास गदया कालरूपया ।
सुकेतुरपि तं स्कंधे ताडयामास धर्मवित् ५२।
एवं भृशं प्रकुपितौ गदायुद्धविशारदौ ।
गदायुद्धं प्रकुर्वाणौ परस्परजयैषिणौ ५३।
अन्योन्याघातविमतौ परस्परवधोद्यतौ ।
न कोपि तत्र हीयेत न को जीयेत संयुगे ५४।
मूर्ध्नि भाले तथा स्कंधे हृदि गात्रेषु सर्वतः ।
रुधिरौघ परिक्लिन्नौ महाबलपराक्रमौ ५५।
तदा लक्ष्मीनिधिः क्रुद्धो गदामुद्यम्य वेगवान् ।
जगाम प्रबलं हंतुं हृदि राजानुजं बली ५६।
तमायांतमथालोक्य स्वगदां महतीं दधत् ।
ययौ तं तरसा हंतुं राजभ्राता बलाद्बलम् ५७।
गदां तेन विनिक्षिप्तां स्वकरे धृतवानयम् ।
तयैव गदया तस्य हृदि जघ्ने महाबलः ५८।
स्वगदां तेन वै नीतां दृष्ट्वा लक्ष्मीनिधिर्नृपः ।
बाहुयुद्धेन तं योद्धुमियेष बलवत्तमम् ५९।
तदा राजानुजः क्रुद्धो बाहुभ्यामुपगृह्य तम् ।
युयुधे सर्वयुद्धस्य ज्ञातावीरेषु सत्तमः ६०।
तदा लक्ष्मीनिधिस्तस्य हृदि जघ्ने स्वमुष्टिना ।
तदा सोपि शिरस्येनं मुष्टिमुद्यम्य चाहनत् ६१।
मुष्टिभिर्वज्रसंकाशैस्तलस्फोटैश्च दारुणैः ।
अन्योन्यं जघ्नतुः क्रुद्धौ संदष्टाधरपल्लवौ ६२।
मुष्टी मुष्टि दंता दंति कचा कचि नखा नखि ।
उभयोरभवद्युद्धं तुमुलं रोमहर्षणम् ६३।
तदा प्रकुपितो भ्राता नृपतेश्च रणे नृपम् ।
गृहीत्वा भ्रामयित्वाथ पातयामास भूतले ६४।
लक्ष्मीनिधिः करे गृह्य तं नृपानुजमुच्चकैः ।
भ्रामयित्वा शतगुणं गजोपस्थे जघान तम् ६५।
स तदा पतितो भूमौ संज्ञां प्राप्य क्षणादनु ।
तथैव भ्रामयामास व्योम्नि वेगेन विक्रमी ६६।
एवं प्रयुध्यमानौ तौ बाहुयुद्धं गतौ पुनः ।
पादे पादं करे पाणिं हृदि हृद्वदने मुखम् ६७।
एवं परस्परं श्लिष्टौ परस्परवधैषिणौ ।
उभावपि पराक्रांतावुभावपि मुमूर्च्छतुः ६८।
तद्दृष्ट्वा विस्मयं प्राप्ताः प्रशशंसुः सहस्रशः ।
धन्यो लक्ष्मीनिधिर्भूपो धन्यो राजानुजो बली ६९।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे गदायुद्धंनाम षड्विंशतितमोऽध्यायः २६ ।