पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०८३

विकिस्रोतः तः
← अध्यायः ०८२ पद्मपुराणम्
अध्यायः ०८३
वेदव्यासः
अध्यायः ०८४ →

नारद उवाच-
भगवन्सर्वमाख्यातं यद्यत्पृष्टं मया गुरो ।
अधुना श्रोतुमिच्छामि भावमार्गमनुत्तमम् १।
शिव उवाच-
साधु विप्र त्वया पृष्टं सर्वलोकहितैषिणा ।
रहस्यमपि वक्ष्यामि तन्मे निगदतः शृणु २।
दास्यः सखायः पितरौ प्रेयस्यश्च हरेरिह ।
सर्वे नित्या मुनिश्रेष्ठ वसंति गुणशालिनः ३।
यथा प्रकटलीलायां पुराणेषु प्रकीर्तिताः ।
तथा ते नित्यलीलायां संति वृंदावने भुवि ४।
गमनागमने नित्यं करोति वनगोष्ठयोः ।
गोचारणं वयस्यैश्च विनाऽसुरविघातनम् ५।
करकीयाभिमानिन्यस्तथा तस्य प्रिया जनाः ।
प्रच्छन्नेनैव भावेन रमयंति निजप्रियम् ६।
आत्मानं चिंतयेत्तत्र तासां मध्ये मनोरमाम् ।
रूपयौवनसंपन्नां किशोरीं प्रमदाकृतिम् ७।
नानाशिल्पकलाभिज्ञां कृष्णभोगानुरूपिणीम् ।
प्रार्थितामपि कृष्णेन तत्र भोगपराङ्मुखीम् ८।
राधिकानुचरीं तत्र तत्सेवनपरायणाम् ।
कृष्णादप्यधिकं प्रेम राधिकायां प्रकुर्वतीम् ९।
प्रीत्यानुदिवसं यत्नात्तयोः संगमकारिणीम् ।
तत्सेवनसुखाह्लादभावेनातिसुनिर्वृताम् १०।
इत्यात्मानं विचिंत्यैव तत्र सेवां समाचरेत् ।
ब्राह्मं मुहूर्त्तमारभ्य यावत्स्यात्तु महानिशा ११।
नारद उवाच-
हरेर्दैनंदिनीं लीलां श्रोतुमिच्छामि तत्त्वतः ।
लीलामजानता सेव्यो मनसा तु कथं हरिः १२।
शिव उवाच-
नाहं जानामि तां लीलां हरेर्नारदतत्त्वतः ।
वृंदादेवीमितो गच्छ सा ते लीलां प्रवक्ष्यति १३।
अविदूर इतः स्थानात्केशीतीर्थसमीपतः ।
सखीसंघवृता सास्ते गोविंदपरिचारिका १४।
सूत उवाच-
इत्युक्तस्तं परिक्रम्य हृष्टो नत्वा पुनः पुनः ।
वृंदाश्रमं जगामाथ नारदो मुनिसत्तमः १५।
वृंदापि नारदं दृष्ट्वा प्रणम्य च पुनःपुनः ।
उवाच च मुनिश्रेष्ठ कथमत्रागतिस्तव १६।
नारद उवाच-
त्वत्तो वेदितुमिच्छामि नैत्यकं चरितं हरेः ।
तदादितो मम ब्रूहि यदि योग्योऽस्मि शोभने १७।
वृंदोवाच-
रहस्यमपिवक्ष्यामि कृष्णभक्तोसि नारद ।
न प्रकाश्यं त्वयाप्येतद्गुह्याद्गुह्यतरं महत् १८।
मध्ये वृंदावने रम्ये पंचाशत्कुंजमंडिते ।
कल्पवृक्षनिकुंजे तु दिव्यरत्नमये गृहे १९।
निद्रितौ तिष्ठतस्तल्पे निबिडालिंगितौ मिथः ।
मदाज्ञाकारिभिः पश्चात्पक्षिभिर्बोधितावपि २०।
गाढालिंगनजानंदमाप्तौ तद्भंगकातरौ ।
न मनः कुरुतस्तल्पात्समुत्थातुं मनागपि २१।
ततश्च सारिकासंघैः शुकाद्यैः परितो मुहुः ।
बोधितौ विविधैर्वाक्यैः स्वतल्पादुदतिष्ठताम् २२।
उपविष्टौ ततो दृष्ट्वा सख्यस्तल्पे मुदान्वितौ ।
प्रविश्य सेवां कुर्वंति तत्काले ह्युचितां तयोः २३।
पुनश्च सारिकावाक्यैस्तावुत्थाय स्वतल्पतः ।
गच्छतः स्वस्वभवनं भीत्युत्कंठाकुलौ ततः २४।
प्रातश्च बोधितो मात्रा तल्पादुत्थाय सत्वरः ।
कृत्वा कृष्णो दंतकाष्ठं बलदेवसमन्वितः २५।
मात्रानुमोदितो याति गोशालां सखिभिर्वृतः ।
राधापि बोधिता विप्र वयस्याभिः स्वतल्पतः २६।
उत्थाय दंतकाष्ठादि कृत्वाभ्यंगं समाचरेत् ।
स्नानवेदीं ततो गत्वा स्नापिता सा निजालिभिः २७।
भूषागृहे व्रजेत्तत्र वयस्या भूषयंत्यपि ।
भूषणैर्विविधैर्दिव्यैर्गंधमाल्यानुलेपनैः २८।
ततः सखीजनैस्तस्याः श्वश्रूं संप्रार्थ्य यत्नतः ।
कर्तुमाहूयतेस्वन्नं ससखी सा यशोदया २९।
नारद उवाच-
कथमाहूयते देवि पाकार्थं तु यशोदया ।
सतीषु पाककर्त्रीषु रोहिणीप्रमुखास्वपि ३०।
वृंदोवाच-
पूर्वं दुर्वाससा दत्तो वरस्तस्यै महामुने ।
इति कात्यायनी वक्त्राच्छ्रुतमासीन्मया पुरा ३१।
त्वया यत्पच्यते देवि तदन्नं मदनुग्रहात् ।
मिष्टं स्यादमृतस्पर्द्धि भोक्तुरायुष्करं तथा ३२।
इत्याह्वयति तां नित्यं यशोदा पुत्रवत्सला ।
आयुष्मान्मे भवेत्पुत्रः स्वादुलोभात्तथा सती ३३।
श्रुत्वानुमोदिता हृष्टा सापि नंदालयं व्रजेत् ।
ससखीप्रकरा तत्र गत्वा पाकं करोति च ३४।
कृष्णोऽपि दुग्ध्वा गाः काश्चिद्दोहयित्वा जनैः पराः ।
आगच्छति पितुर्वाक्यात्स्वगृहं सखिभिर्वृतः ३५।
अभ्यंगमर्दनं कृत्वा दासैः संस्नापितो मुदा ।
धौतवस्त्रधरः स्रग्वी चंदनाक्तकलेवरः ३६।
द्विफालबद्धचिकुरैर्ग्रीवा भालोपरिस्फुरन् ।
चंद्राकारस्फुरद्भालतिलकालकरंजितः ३७।
कंकणांगदकेयूर रत्नमुद्रा लसत्करः ।
मुक्ताहारस्फुरद्वक्षा मकराकृतिकुंडलः ३८।
मुहुराकारितो मात्रा प्रविशेद्भोजनालयम् ।
अवलंब्य करं सख्युर्बलदेवमनुव्रतः ३९।
भुंक्तेऽथ विविधान्नानि भ्रात्रा च सखिभिर्वृतः ।
हासयन्विविधैर्हास्यैः सखींस्तैर्हसति स्वयम् ४०।
इत्थं भुक्त्वा तथाचम्य दिव्यखट्वोपरि क्षणम् ।
विश्रम्य सेवकैर्दत्तं तांबूलं विभजन्नदन् ४१।
गोपवेषधरः कृष्णो धेनुवृंदपुरस्सरः ।
व्रजवासिजनैः प्रीत्या सर्वैरनुगतः पथि ४२।
पितरं मातरं नत्वा नेत्रांते नापितं गणम् ।
यथायोग्यं तथा चान्यान्विनिवर्त्य वनं व्रजेत् ४३।
वनं प्रविश्य सखिभिः क्रीडयित्वा क्षणं ततः ।
विहारैर्विविधैस्तत्र वने विक्रीडते मुदा ४४।
वंचयित्वा ततः सर्वान्द्वित्रैः प्रियसखैर्वृतः ।
संकेतकं व्रजेद्धर्षात्प्रियासंदर्शनोत्सुकः ४५।
सापि कृष्णं वनं यातं दृष्ट्वा स्वं गृहमागता ।
सूर्यादिपूजाव्याजेन कुसुमाहृतये तथा ४६।
वंचयित्वा गुरून्याति प्रियसंगेच्छया वनम् ।
इत्थं तौ बहुयत्नेन मिलित्वा कानने ततः ४७।
विहारैर्विविधैस्तत्र दिनं विक्रीडतो मुदा ।
दोलायां च समारूढौ सखिभिर्दोलितौ क्वचित् ४८।
क्वापि वेणुं करस्रस्तं प्रिययापह्नुतं हरिः ।
अन्वेषयन्नुपालब्धो विप्रलब्धप्रियागणैः ४९।
हसितैर्बहुधा ताभिर्हासितस्तत्र तिष्ठति ।
वसंतवायुना जुष्टं वनखण्डं मुदा क्वचित् ५०।
प्रविश्य चंदनांभोभिः कुंकुमादिजलैरपि ।
निषिंचतो यंत्रमुक्तैस्तत्पंकैर्लिंपतो मिथः ५१।
सख्योऽप्येवं निषिंचंति ताश्च तौ सिंचतः पुनः ।
वसंतवायुजुष्टेषु वनखंडेषु सर्वतः ५२।
तत्तत्कालोचितैर्नानाविहारैः सगणौ द्विज ।
श्रांतौ क्वचिद्वृक्षमूलमासाद्य मुनिसत्तम ५३।
उपविश्यासने दिव्ये मधुपानं प्रचक्रतुः ।
ततो मधुमदोन्मत्तौ निद्रया मीलितेक्षणौ ५४।
मिथः पाणी समालंब्य कामबाणवशं गतौ ।
रिरंसूविशतःकुञ्जंस्खलद्वाङ्मनसौपथि ५५।
क्रीडतश्च ततस्तत्र करिणीयूथपौ यथा ।
सख्योऽपि मधुभिर्मत्ता निद्रयापीडितेक्षणाः ५६।
अभितो मंजुकुंजेषु सर्वा एवापि शिश्यिरे ।
पृथगेकेन वपुषा कृष्णोऽपि युगपद्विभुः ५७।
सर्वासां संनिधिं गच्छेत्प्रियया प्रेरितो मुहुः ।
रमयित्वा च ताः सर्वाः करिणीर्गजराडिव ५८।
प्रियया च तथा ताभिः क्रीडार्थं च सरो व्रजेत् ।
जलसेकैर्मिथस्तत्र क्रीडतः सगणौ ततः ५९।
वासः स्रक्चंदनैर्दिव्यैर्भूषणैरपि भूषितौ ।
तत्रैव सरसस्तीरे दिव्यरत्नमये गृहे ६०।
प्रागेव फलमूलानि कल्पितानि मया मुने ।
हरिस्तु प्रथमं भुक्त्वा कांतया परिवेष्टितः ६१।
द्वित्राभिः सेवितो गच्छेच्छय्यां पुष्पविनिर्मिताम् ।
तांबूलैर्व्यजनैस्तत्र पादसंवाहनादिभिः ६२।
सेव्यमानो हसंस्ताभिर्मोदते प्रेयसीं स्मरन् ।
राधिकापि हरौ सुप्ते सगणा मुदितांतरा ६३।
अपि तत्र गतप्राणा तदुच्छिष्टं भुनक्ति च ।
किंचिदेव ततो भुक्त्वा व्रजेच्छय्यानिकेतनम् ६४।
द्रष्टुं कांतमुखांभोजं चकोरीव निशाकरम् ।
तांबूलचर्वितं तस्य तत्रत्याभिर्निवेदितम् ६५।
तांबूलान्यपि चाश्नाति विभजंती प्रियालिषु ।
कृष्णोऽपि तासां शुश्रूषुः स्वच्छंदं भाषितं मिथः ६६।
प्राप्तनिद्र इवाभाति विनिद्रोऽपि पटावृतः ।
ताश्च क्ष्वेली क्षणं कृत्वा कुतश्चिदनुमानतः ६७।
विदश्य रसनां दद्भिः पश्यंत्योऽन्योन्यमाननम् ।
विलीना इव लज्जाब्धौ क्षणमूचुर्न किंचन ६८।
क्षणादेव ततो वस्त्रं दूरीकृत्य तदंगतः ।
साधुनिद्रां गतोऽसीति हासयंत्यो हसंति च ६९।
एवं तैर्विविधैर्हास्यै रममाणौ गणैः सह ।
अनुभूय क्षणं निद्रा सुखं च मुनिसत्तम ७०।
उपविश्यासने दिव्ये सगणौ विस्तृते मुदा ।
पणीकृत्य मिथोहार चुंबाश्लेषपरिच्छदान् ७१।
अक्षै र्विक्रीडतः प्रेम्णा नर्मालापपुरस्सरम् ।
पराजितोऽपि प्रियया जितोहमिति वै ब्रुवन् ७२।
हारादिग्रहणे तस्याः प्रवृत्तस्ताड्यते तया ।
तयैवं ताडितः कृष्णः करेणास्य सरोरुहे ७३।
विषण्णमानसो भूत्वा गंतुं प्रकुरुते मतिम् ।
जितोऽस्मि चेत्त्वया देवि गृह्यतां यत्पणीकृतम् ७४।
चुंबनादि मया दत्तमित्युक्त्वा सा तथाचरेत् ।
कौटिल्यं तद्भ्रुवोर्द्रष्टुं श्रोतुं तद्भर्त्सनं वचः ७५।
ततः सारीशुकानां च श्रुत्वा वागाहवं मिथः ।
निर्गच्छतस्ततः स्थानाद्गंतुकामौ गृहं प्रति ७६।
कृष्णः कांतामनुज्ञाप्य गवामभिमुखं व्रजेत् ।
सा तु सूर्यगृहं गच्छेत्सखीमंडलसंयुता ७७।
कियद्दूरं ततो गत्वा परावृत्य हरिं पुनः ।
विप्रवेषं समास्थाय याति सूर्यगृहं प्रति ७८।
सूर्यं प्रपूजयेत्तत्र प्रार्थितस्तत्सखीजनैः ।
तदैव कल्पितैर्वेदैः परिहासविगर्भितैः ७९।
ततस्ता ज्ञापितं कांतं परिज्ञाय विचक्षणाः ।
आनंदसागरे मग्ना न विदुः स्वं न चापरम् ८०।
विहारैर्विविधैरेवं सार्द्धयामद्वयं मुने ।
नीत्वा गृहं व्रजेयुस्ताः स च कृष्णो गवां व्रजेत् ८१।
संगम्य स्वसखीन्कृष्णो गृहीत्वा गाः समंततः ।
आगच्छति व्रजं हर्षान्नादयन्मुरलद्यं मुने ८२।
ततो नंदादयः सर्वे श्रुत्वा वेणुरवं हरेः ।
गोधूलिपटलव्याप्तं दृष्ट्वा चापि नभस्तलम् ८३।
विसृज्य सर्वकर्माणि स्त्रियो बालादयोऽपि च ।
कृष्णस्याभिमुखं यांति तद्दर्शनसमुत्सुकाः ८४।
राजमार्गे व्रजद्वारि यत्र सर्वे व्रजौकसः ।
कृष्णोऽपि तान्समागम्य यथावदनुपूर्वशः ८५।
दर्शनस्पर्शनैर्वाचा स्मितपूर्वावलोकनैः ।
गोपवृद्धान्नमस्कारैः कायिकैर्वाचिकैरपि ८६।
अष्टांगपातैः पितरौ रोहिणीमपि नारद ।
नेत्रांतसूचितेनैव विनयेन प्रियां तथा ८७।
एवं तैस्तद्यथायोग्यं व्रजौकोभिः प्रपूजितः ।
गवालये तथा गाश्च संप्रवेश्य समंततः ८८।
पितृभ्यामर्थितो याति भ्रात्रा सह निजालयम् ।
स्नात्वा पीत्वा तत्र किंचिद्भुक्त्वा मात्रानुमोदितः ८९।
गवालयं पुनर्याति दोग्धुकामो गवां पयः ।
ताश्च दुग्ध्वा दोहयित्वा पाययित्वा च काश्चन ९०।
पित्रा सार्द्धं गृहं याति तत्र भावशतानुगः ।
तत्र पित्रा पितृव्यैश्च तत्पुत्रैश्च बलेन च ९१।
भुनक्ति विविधान्नानि चर्व्यचोष्यादिकानि च ।
तन्मतिः प्रार्थनात्पूर्वं राधिका च तदैव ह ९२।
प्रस्थापयेत्सखीद्वारा पक्वान्नानि तदालयम् ।
श्लाघयंश्च हरिस्तानि भुक्त्वा पित्रादिभिः सह ९३।
सभागृहं व्रजेत्तैश्च जुष्टं बंदिजनादिभिः ।
पक्वान्नानि गृहीत्वा याः सख्यस्तत्र पुरागताः ९४।
बहूनि च पुनस्तानि प्रदत्तानि यशोदया ।
सख्यस्तत्र तया दत्तं कृष्णोच्छिष्टं नयंति च ९५।
सर्वं ताभिः समानीय राधिकायै निवेद्यते ।
सापि भुक्त्वा सखीवर्गयुता तदनुपूर्वशः ९६।
सखीभिर्मंडिता तिष्ठेदभिसर्त्तुं समुद्यता ।
प्रस्थाप्यते मया काचिदित एव ततः सखी ९७।
तयाभिसारिता साथ यमुनायाः समीपतः ।
कल्पवृक्षनिकुंजेऽस्मिन्दिव्यरत्नमये गृहे ९८।
सितकृष्णनिशायोग्यवेषा याति सखीवृता ।
कृष्णोऽपि विविधं तत्र दृष्ट्वा कौतूहलं ततः ९९।
कात्यायन्या मनोज्ञानि श्रुत्वा संगीतकान्यपि ।
धनधान्यादिभिस्ताश्च प्रीणयित्वा विधानतः १००।
जनैराराधितो मात्रा याति सख्यानिकेतनम् ।
मातरि प्रस्थितायां च भोजयित्वा ततो गृहम् १०१।
संकेतकं कांतयात्र समागच्छेदलक्षितः ।
मिलित्वा तावुभावत्र क्रीडतो वनराजिषु १०२।
विहारैर्विविधै रासलास्यहासपुरस्सरैः ।
सार्द्धयामद्वयं नीत्वा रात्रेरेवं विहारतः १०३।
सुषुप्सू विशतः कुंजं पक्षिणीभिरलक्षितौ ।
एकांते कुसुमैः कॢप्ते केलितल्पे मनोहरे १०४।
सुप्ता वा तिष्ठतस्तत्र सेव्यमानौ निजालिभिः ।
इति ते सर्वमाख्यातं नैत्यकं चरितं हरेः १०५।
पापिनोऽपि विमुच्यंते श्रवणादस्य नारद ।
नारद उवाच-
धन्योऽस्म्यनुगृहीतोऽस्मि त्वया देवि न संशयः १०६।
हरेर्दैनंदिनीलीला यतो मेऽद्य प्रकाशिता ।
सूत उवाच-
इत्युक्त्वा तां परिक्रम्य तया चापि प्रपूजितः १०७।
अंतर्धानं गतो ब्रह्मन्नारदो मुनिसत्तमः ।
मयाप्येतच्चानुपूर्व्यात्सर्वमेव प्रकीर्तितम् १०८।
जपेन्नित्यं प्रयत्नेन मंत्रयुग्ममनुत्तमम् ।
कृष्णवक्त्रादिदं लब्धं पुरा रुद्रेण यत्नतः १०९।
तेनोक्तं नारदायापि नारदेन ममोदितम् ।
संस्कारांश्च विधायैव मयाप्येतत्तवोदितम् ११०।
त्वयाप्येतद्गोपनीयं रहस्यं परमाद्भुतम् ।
शौनक उवाच-
कृतकृत्योभवं साक्षात्त्वत्प्रसादादहं गुरो १११।
रहस्यानां रहस्यं यत्त्वया मह्यं प्रकाशितम् ।
सूत उवाच-
धर्मानेतानुपातिष्ठञ्जल्पन्मंत्रमहर्निशम् ११२।
अचिरादेव तद्दास्यमवाप्स्यसि न संशयः ।
मयापि गम्यते ब्रह्मन्नित्यमायतनं विभोः ११३।
गुरोर्गुरोर्भानुजायाः कूले गोपीश्वरस्य च ११४।
इदं चरित्रं परमं पवित्रं प्रोक्तं महेशेन महानुभावम् ।
शृण्वंति ये भक्तियुता मनुष्यास्ते यांति नित्यं पदमच्युतस्य ११५।
धन्यं यशस्यमायुष्यमारोग्याभीष्टसिद्धिदम् ।
स्वर्गापवर्गसंपत्तिकारणं पापनाशनम् ११६।
भक्त्या पठंति ये नित्यं मानवा विष्णुतत्पराः ।
न तेषां पुनरावृत्तिर्विष्णुलोकात्कथंचन ११७।
इति श्रीपद्मपुराणे पातालखंडे वृंदावनमाहात्म्ये त्र्यशीतितमोऽध्यायः ८३।
समाप्तं वृंदावनमाहात्म्यम् ।