पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०६७

विकिस्रोतः तः
← अध्यायः ०६६ पद्मपुराणम्
अध्यायः ०६७
वेदव्यासः
अध्यायः ०६८ →


सप्तषष्टितमोऽध्यायः 5.67
शेष उवाच।
अथ सौमित्रिरागत्य जानकीं नतवान्मुहुः ।
प्रेमगद्गदया शंसन्वाचं रामप्रणोदिताम् १।
सीता समागतं दृष्ट्वा लक्ष्मणं विनयान्वितम् ।
तन्मुखाद्रामसंदेशं श्रुत्वोवाच विलज्जिता २।
सौमित्रे कथमागच्छे रामत्यक्ता महावने ।
तिष्ठामि रामं स्मरन्ती वाल्मीकेराश्रमे त्वहम् ३।
तस्या मुखोदितं वाक्यं श्रुत्वा सौमित्रिरब्रवीत् ।
मातः पतिव्रते रामस्त्वामाकारयते मुहुः ४।
पतिव्रता पतिकृतं दोषं नानयते हृदि ।
तस्मादागच्छ हि मया स्थित्वा स्यंदन उत्तमे ५।
इत्यादि वचनं श्रुत्वा जानकी पतिदेवता ।
मनोरोषं परित्यज्य तस्थौ सौमित्रिणा रथे ६।
तापसीः सकला नत्वा मुनींश्च निगमोज्ज्वलान् ।
रामं स्मरंती मनसा रथे स्थित्वागमत्पुरीम् ७।
क्रमेण नगरीं प्राप्ता महार्हाभरणान्विता ।
सरयूं सरितं प्राप यत्र रामः स्वयं स्थितः ८।
रथादुत्तीर्य ललिता लक्ष्मणेन समन्विता ।
रामस्य पादयोर्लग्ना पतिव्रतपरायणा ९।
रामस्तामागतां दृष्ट्वा जानकीं प्रेमविह्वलाम् ।
साध्वि त्वया सहेदानीं कुर्वे यज्ञसमापनम् १०।
वाल्मीकिं सा नमस्कृत्य तथान्यान्विप्रसत्तमान् ।
जगाम मातृपदयोः सन्नतिं कर्तुमुत्सुका ११।
कौशल्या तामथायांतीं वीरसूं जानकीं प्रियाम् ।
आशीर्भिरभिसंयुज्य ययौ हर्षमनेकधा १२।
कैकेयीपदयोर्नम्रां वीक्ष्य वैदेहपुत्रिकाम् ।
भर्त्रा सह चिरं जीव सपुत्रेत्याशिषं व्यधात् १३।
सुमित्रा स्वपदेनम्रां वीक्ष्य वैदेहपुत्रिकाम् ।
आशिषं व्यदधात्तस्याः पुत्रपौत्रप्रदायिनीम् १४।
सीता ताः सर्वतो नत्वा रामचंद्र प्रिया सती ।
परमं हर्षमापन्ना बभूव किल वाडव १५।
समागतां वीक्ष्य पत्नीं रामचंद्रस्य कुंभजः ।
सुवर्णपत्नीं धिक्कृत्य तामधाद्धर्मचारिणीम् १६।
रामस्तदा यज्ञमध्ये शुशुभे सीतया सह ।
तारयानुगतो यद्वच्छशीव शरदुत्प्रभः १७।
प्रयोगमकरोत्तत्र काले प्राप्ते मनोरमे ।
वैदेह्या धर्मचारिण्या सर्वपापापनोदनम् १८।
सीतया सहितं रामं प्रसक्तं यज्ञकर्मणि ।
निरीक्ष्य जहृषुस्तत्र कौतुकेन समन्विताः १९।
वसिष्ठं प्राह सुमतिं रामस्तत्र क्रतौ वरे ।
किं कर्तव्यं मया स्वामिन्नतः परमवश्यकम् २०।
रामस्य वचनं श्रुत्वा गुरुः प्राह महामतिः ।
ब्राह्मणानां प्रकर्तव्या पूजा संतोषकारिका २१।
मरुत्तेन क्रतुः सृष्टः पूर्वं संभारसंभृतः ।
ब्राह्मणास्तत्र वित्ताद्यैस्तोषिता अभवंस्तदा २२।
अत्यंतं वित्तसंभारं नेतुं विप्राशकन्नहि ।
प्राक्षिपन्हिमवद्देशे वित्तभारासहा द्विजाः २३।
तस्मात्त्वमपि राजाग्र्य लक्ष्मीवान्नृपसत्तम ।
देहि दानादि विप्रेभ्यो यथा स्यात्प्रीतिरुत्तमा २४।
एतच्छ्रुत्वा स राजाग्र्यः पूज्यं मत्वा घटोद्भवम् ।
प्रथमं पूजयामास ब्रह्मपुत्रं तपोधनम् २५।
अनेकरत्नसंभारैः स्वर्णभारैरनेकधा ।
देशैर्जनैः परिवृतैरत्यंतप्रीतिदायकैः २६।
अगस्त्यं पूजयामास सपत्नीकं मनोरमम् ।
तथैव रत्नैः स्वर्णैश्च देशैश्च विविधैरपि २७।
व्यासं सत्यवतीपुत्रं तथैव समपूजयत् ।
च्यवनं भार्यया साकं सुरत्नैः समपूजयत् २८।
अन्यानपि मुनीन्सर्वानृत्विजस्तपसां निधीन् ।
पूजयामास रत्नौघैः स्वर्णभारैरनेकधा २९।
अदात्तदा क्रतौ रामो विप्रेभ्यो भूरिदक्षिणाम् ।
लक्षंलक्षं सुवर्णस्य प्रत्येकं त्वग्रजन्मने ३०।
दीनांधकृपणेभ्यश्च ददौ दानमनेकधा ।
यथासंतोषविहितैर्वित्तै रत्नैर्मनोहरैः ३१।
वासांसि च विचित्राणि भोजनानि मृदूनि च ।
तत्र प्रादाद्यथाशास्त्रं सर्वेषां प्रीतिदायकम् ३२।
हृष्टपुष्टजनाकीर्णं सर्वसत्त्वोपबृंहितम् ।
अत्यंतमभवद्धृष्टं पुरं पुंस्त्रीसमावृतम् ३३।
दानं ददंतं सर्वेषां वीक्ष्य कुंभोद्भवो मुनिः ।
अत्यंतपरमप्रीतिं ययौ क्रतुवरे द्विजः ३४।
तदाभिषेकस्नानार्थं पानीयममृतोपमम् ।
आनेतुं च चतुःषष्टि नृपान्सस्त्रीन्समाह्वयत् ३५।
रामस्तु सीतया सार्द्धमानेतुमुदकं ययौ ।
घटेन स्वर्णवर्णेन सर्वालंकारशोभया ३६।
सौमित्रिरप्यूर्मिलया मांडव्या भरतो नृपः ।
शत्रुघ्नः श्रुतकीर्त्या च कांतिमत्या च पुष्कलः ३७।
सुबाहुः सत्यवत्या च सत्यवान्वीरभूषया ।
सुमदस्तत्र सत्कीर्त्या राज्ञ्या च विमलो नृपः ३८।
राजावीरमणिस्तत्र श्रुतवत्या मनोज्ञया ।
लक्ष्मीनिधिः कोमलया रिपुतापोंगसेनया ३९।
विभीषणो महामूर्त्या प्रतापाग्र्यः प्रतीतया ।
उग्राश्वः कामगमया नीलरत्नोधिरम्यया ४०।
सुरथः सुमनोहार्या तथा मोहनया कपिः ।
इत्यादीन्नृपतीन्विप्रो वसिष्ठः प्राहिणोन्मुनिः ४१।
वसिष्ठः सरयूं गत्वा शिवपुण्यजलाप्लुताम् ।
उदकं मंत्रयामास वेदमंत्रेण मंत्रवित् ४२।
पयः पुनीह्यमुं वाहमुदकेन मनोहृता ।
यज्ञार्थं रामचंद्रस्य सर्वलोकैकरक्षितुः ४३।
उदकं तन्मुनिस्पृष्टं सर्वे रामादयो नृपाः ।
आजह्रुर्मंडपतले विप्रवर्यैरुपस्तुते ४४।
पयोभिर्निर्मलैः स्नाप्य वाजिनं क्षीरसन्निभम् ।
मंत्रेण मंत्रयामास राम हस्तेन कुंभजः ४५।
पुनीहि मां महावाह अस्मिन्ब्रह्मसमाकुले ।
त्वन्मेधेनाखिला देवाः प्रीणंतु परितोषिताः ४६।
इत्युक्त्वा स नृपो रामः सीतया सममस्पृशत् ।
तदा सर्वे द्विजाश्चित्रममन्यंत कुतूहलात् ४७।
परस्परमवोचंस्ते यन्नामस्मरणान्नराः ।
महापापात्प्रमुच्यंते स रामः किं वदत्यहो ४८।
इत्युक्तवति भूमीशे रामे कुंभोद्भवो मुनिः ।
करवालं चाभिमंत्र्य ददौ रामकरे मुनिः ४९।
करवाले धृते स्पृष्टे रामेण स हयः क्रतौ ।
पशुत्वं तु विहायाशु दिव्यरूपमपद्यत ५०।
विमानवरमारूढश्चाप्सरोभिः समंततः ।
चामरैर्वीज्यमानश्च वैजयंत्या विभूषितः ५१।
तदा तं वाजितां त्यक्त्वा दिव्यरूपधरं वरम् ।
वीक्ष्य लोकाः क्रतौ सर्वे विस्मयं प्राप्नुवंस्तदा ५२।
तदा रामः स्वयं जानञ्ज्ञापयन्सर्वतो नरान् ।
पप्रच्छ दिव्यरूपं तं सुरं परमधार्मिकः ५३।
कस्त्वं दिव्यवपुः प्राप्तः कस्मात्त्वं वाजितां गतः ।
कथं सुरस्त्रीसहितः किं चिकीर्षसि तद्वद ५४।
रामस्य वचनं श्रुत्वा देवः प्रोवाच भूमिपम् ।
हसन्मेघरवां वाणीमवदत्सुमनोहराम् ५५।
तवाज्ञातं न सर्वत्र बाह्याभ्यंतरचारिणः ।
तथापि पृच्छते तुभ्यं कथयामि यथातथम् ५६।
अहं पुराभवे राम द्विजः परमधार्मिकः ।
अचरं प्रतिकूलं वै वेदस्य रिपुतापन ५७।
कदाचिद्धुतपापायास्तीरेऽहं गतवान्पुरा ।
अनेकवृक्षललिते सर्वत्रसुमनोरमे ५८।
तत्र स्नात्वा पितॄंस्तृप्त्वा दानं दत्त्वा यथाविधि ।
ध्यानं तव महाबाहो कृतवान्वेदसंमितम् ५९।
तदा जनाः समायाता बहवस्तत्र भूपते ।
तेषां प्रवंचनार्थाय दंभमेनमकारिषम् ६०।
अनेकक्रतुसंभारैः पूर्णमजिरमुत्तमम् ।
वासोभिश्छादितं रम्यं चषालादियुतं महत् ६१।
अग्निहोत्रोद्भवोधूमः सर्वतो नभसोंगणम् ।
चकार रम्यमतुलं चित्रकारिवपुर्धरः ६२।
अनेकतिलकश्रीभिः शोभितांगो महत्तपाः ।
दर्भशोभः समित्पाणिर्दंभो मूर्तिधरः किमु ६३।
दुर्वासास्तत्र स्वच्छंदं पर्यटञ्जगतीतलम् ।
प्राप तत्र महातेजा धूतपापसरित्तटे ६४।
ददर्श मां दंभकरं मौनधारिणमग्रतः ।
अनर्घ्यकरमुन्मत्तमस्वागतवचः करम् ६५।
दृष्ट्वातीव क्रुधाक्रांतः समुद्र इव पर्वणि ।
शशापासौ मुनिस्तीव्रो दंभिनं मां महामतिः ६६।
दंभं करोषि चेत्तीरे सरितस्त्वं सुदुर्मते ।
तस्मात्प्राप्नुहि निर्वाच्यं पशुत्वं तापसाधम ६७।
शापं प्रदत्तं संश्रुत्य दुःखितोऽहं तदाभवम् ।
अग्राहिषं पदे तस्य मुनेर्दुर्वाससः किल ६८।
तदा मे कृतवान्राम द्विजोऽनुग्रहमुत्तमम् ।
वाजितां प्राप्नुहि मखे राजराजस्य तापस ६९।
पश्चात्तद्धस्तसंपर्काद्याहि तत्परमं पदम् ।
दिव्यं वपुर्मनोहारि धृत्वा दंभविवर्जितम् ७०।
तेन शापोपिसंदिष्टो ममानुग्रहतां गतः ।
यदहं तव हस्तस्य स्पर्शं प्राप्तो मनोरमम् ७१।
यदेव राम देवादिदुर्लभं बहुजन्मभिः ।
तत्तेऽहं करजस्पर्शं प्राप्तवानिह दुर्लभम् ७२।
आज्ञापय महाराज त्वत्प्रसादादहं महत् ।
गच्छामि शाश्वतं स्थानं तव दुःखादिवर्जितम् ७३।
न यत्र शोको न जरा न मृत्युः कालविभ्रमः ।
तत्स्थानं देव गच्छामि त्वत्प्रसादान्नराधिप ७४।
इत्युक्त्वा तं परिक्रम्य विमानवरमारुहत् ।
अनेकरत्नखचितं सर्वदेवाधिवंदितम् ७५।
गतोऽसौ शाश्वतस्थानं रामपादप्रसादतः ।
पुनरावृत्तिरहितं शोकमोहविवर्जितम् ७६।
तेन तत्कथितं श्रुत्वा रामं ज्ञात्वेतरे जनाः ।
विस्मयं प्रापिरे सर्वे परस्परमुदुन्मदाः ७७।
शृणु द्विजमहाबुद्धे दंभेनापि स्मृतो हरिः ।
ददाति मोक्षं सुतरां किं पुनर्दंभवर्जनात् ७८।
यथाकथंचिद्रामस्य कर्तव्यं स्मरणं परम् ।
येन प्राप्नोति परमं पदं देवादिदुर्लभम् ७९।
तच्चित्रं वीक्ष्य मुनयः कृतार्थं मेनिरे निजम् ।
यद्रामचरणप्रेक्षा करस्पर्शपवित्रितम् ८०।
गते तस्मिन्सुरे स्वर्गं हयरूपधरे पुरा ।
उवाच रामस्तपसां निधीन्वेदविदुत्तमान् ८१।
किं कर्तव्यं मयाब्रह्मन्हयो नष्टो गतः सुखम् ।
होमः कथं पुरोभावी सर्वदैवततर्पकः ८२।
यथा स्यात्सुरसंतृप्तिर्यथा मे मख उत्तमः ।
तथा कुर्वंतु मुनयो यथा मे स्याद्विधिश्रुतम् ८३।
इति वाक्यं समाश्रुत्य जगाद मुनिसत्तमः ।
वसिष्ठः सर्वदेवानां चित्ताभिज्ञानकोविदः ८४।
कर्पूरमाहर क्षिप्रं येन देवाः स्वयं पुरा ।
प्राप्य हव्यं ग्रहीष्यंति मद्वाक्यप्रेरिताधुना ८५।
इति वाक्यं समाकर्ण्य रामः क्षिप्रमुपाहरत् ।
कर्पूरं बहुदेवानां प्रीत्यर्थं बहुशोभनम् ८६।
तदा मुनिः प्रहृष्टात्मा देवानाह्वयदद्भुतान् ।
ते सर्वे तत्क्षणात्प्राप्ताः स्वपरीवारसंवृताः ८७।
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे यज्ञप्रारंभोनाम सप्तषष्टितमोऽध्यायः ६७।