पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः १०३
← अध्यायः १०२ | पद्मपुराणम् अध्यायः १०३ वेदव्यासः |
अध्यायः १०४ → |
यम उवाच-
एतन्माधवमासस्य समासात्किंचिदीरितम् ।
माहात्म्यं पूर्णिमायाश्च विशेषाद्द्विजसत्तम १।
वैशाखमासे मधुसूदनस्य प्रियं य एनं पठतीतिहासम् ।
स याति कृष्णालयमाशुपूतः कल्पाननेकानिह मोदते च २।
धन्यं यशस्यमायुष्यमिदं स्वस्त्ययनं महत् ।
स्वर्ग्यं श्रीदं सौमनस्यं प्रशस्यमघमर्षणम् ३।
इदं माधवमासस्य माहात्म्यं माधवप्रियम् ।
चरित्रं भूपतेस्तस्य संवादं चावयोरपि ४।
श्रुत्वा पठित्वा विधिवदनुमोद्य मनःप्रियम् ।
भवेद्भक्तिर्भगवति यया स्यात्पापसंक्षयः ५।
अथ गच्छ महीदेव देवलोकाद्यथेच्छया ।
निपात्य भुवि वैदेहं रुदंत्यद्यापि बांधवाः ६।
विलप्यमानैरपि बंधुभिस्तैर्न यावदग्नौ तव तच्छरीरम् ।
प्रक्षिप्यते हंत जवैर्न तावद्याहि स्वयं सुप्त इव प्रबुद्धः ७।
ममप्रसादादिह पुण्ययोगः श्रुतो यथावत्तमिमं विधेहि ।
विधानतो वै समये समंते समागमोंऽते भविता सुरैश्च ८।
सूत उवाच-
इति देववचः श्रुत्वा नत्वा धर्माधिपं ततः ।
पुनः पपात स इह परितुष्टमना द्विजः ९।
धर्मराजप्रसादेन ततस्तत्र महीतले ।
संसुप्तइव चोत्तस्थौ बंधुवर्गसमन्वितः १०।
विधिमेनं द्विजो भूमौ वर्षेवर्षे च स स्वयम् ।
स्वयं च कारयामास माधवस्नापनं जनम् ११।
यमब्राह्मणसंवादो मयायं परिकीर्तितः ।
तस्य माधवमासस्य पुण्यस्नानप्रसङ्गतः १२।
वैशाखमासे सततं हरिप्रिये स्नानं विदध्याच्च ददाति भक्त्या ।
दानं च होमं सुकृतं तथा बुधो हरेःपदं तस्य नदुर्ल्लभं कदा १३।
यःशृणोत्येकचित्तेनमाहात्म्यंमेषसूर्यजम् ।
सर्वपापविनिर्मुक्तो याति विष्णोः परं पदम् १४।
ऋषय ऊचुः -
सूतसूत महाप्राज्ञ त्वयाऽतिकरुणात्मना ।
वैशाखमासमाहात्म्यं कीर्तितं पापनाशनम् १५।
नियमा मधुहन्तुर्ये माधवे कथितास्त्वया ।
पूजनं स्नानदानाद्यं श्रौतस्मार्तविधानतः १६।
यथा च माधवो देवः प्रीयते पापनाशनः ।
अधुना श्रोतुमिच्छामो ध्यानं तस्य महात्मनः १७।
कृष्णस्य भक्तवृन्दानां प्रियस्य भवतारणम् १८।
सूत उवाच-
शृणुध्वं मुनयः सर्वे कृष्णस्य जगदात्मनः ।
गोगोपगोपीप्राणस्य वृन्दावनचरस्य च १९।
एकदा नारदः पृष्टो गौतमेन द्विजोत्तमाः ।
स तस्मै प्राह यद्ध्यानं तद्वक्ष्ये पापनाशनम् २०।
नारद उवाच-
सुमप्रकरसौरभोद्गलितमाध्विकाद्युल्लसत्सुशाखिनवपल्लवप्रकरनम्र शोभायुतम् ।
प्रफुल्लनवमञ्जरीललितवल्लरीवेष्टितं स्मरेत सततं शिवं शितमतिः सुवृन्दावनम् २१।
विकाशि सुमनोरसास्वदनमंजुलैः संचरच्छिलीमुखमुखोद्गतैर्मुखरितान्तरं झंकृतैः ।
कपोतशुकसारिकापरभृतादिभिः पत्रिभिर्विराणितमितस्ततो भुजगशत्रुनृत्याकुलम् २२।
कलिन्ददुहितुश्च लल्लहरिविप्लुषां वाहिभिर्विनिद्र सरसीरुहोदररजश्च योद्धूसरैः ।
प्रदीपित मनोभवव्रजविलासिनी वाससां विलोलनपरैर्निषेवितमनारतं मारुतैः २३।
प्रवालनवपल्लवं मरकतच्छदं मौक्तिकप्रभाप्रकरकोरकं कमलरागनानाफलम् ।
स्थविष्ठमखिलर्तुभिः सततसेवितं कामदं तदन्तरपिकल्पकाङ्घ्रिपमुदञ्चितं चिन्तयेत् २४।
सुहेमशिखराचलेउदितभानुवद्भासुरामधोऽस्य कनकस्थलीममृतशीकरासारिणः ।
प्रदीप्तमणिकुट्टिमां कुसुमरेणुपुञ्जोज्ज्वलां स्मरेत्पुनरतन्द्रितो विगतषट्तरङ्गांबुधः २५।
तद्रत्नकुट्टिमनिविष्टमहिष्ठयोगपीठेऽष्टपत्रमरुणं कमलं विचिन्त्य ।
उद्यद्विरोचनसरोचिरमुष्यमध्ये संचिन्तयेत्सुखनिविष्टमथोमुकुन्दम् २६।
सुत्रामहेति दलिताञ्जनमेघपुञ्जप्रत्यग्रनीलजलजन्मसमानभासम् ।
सुस्निग्धनीलघनकुञ्चितकेशजालं राजन्मनोज्ञशितिकण्ठशिखण्डचूडम् २७।
रोलम्बलालितसुरद्रुमसूनुसंपद्युक्तं समुत्कचनवोत्पलकर्णपूरम् ।
लोलालिभिः स्फुरितभालतलप्रदीप्तगोरोचनातिलकमुज्ज्वलचिल्लिचापम् २८।
आपूर्णशारदगताङ्क शशाङ्कबिम्बकान्ताननं कमलपत्रविशालनेत्रम् ।
रत्नस्फुरन्मकरकुण्डलरश्मिदीप्तगण्डस्थलीमुकुरमुन्नतचारुनासम् २९।
सिन्दूरसुन्दरतराधरमिन्दुकुन्दमन्दारमन्दहसितद्युतिदीपिताशम् ।
वन्यप्रवालकुसुमप्रचयावकॢप्तग्रैवेयकोज्ज्वलमनोहरकम्बुकण्ठम् ३०।
मत्तभ्रमद्भ्रमरघुष्टविलम्बमानं संतानकप्रसरदामपरिष्कृतांसम् ।
हारावलीभगणराजितपीवरोरुव्योमस्थलीलसितकौस्तुभभानुमन्तम् ३१।
श्रीवत्सलक्षणसुलक्षितमुन्नतांसमाजानुपीनपरिवृत्तसुजातबाहुम् ।
आबन्धुरोदरमुदारगभीरनाभिं भृङ्गाङ्गनानि करमंजुलरोमराजिम् ३२।
नानामणिप्रघटिताङ्गदकङ्कणोर्मि ग्रैवेयसारसननूपुरतुन्दबन्धम् ।
दिव्याङ्गरागपरिपिञ्जरिताङ्गयष्टिमापीतवस्त्रपरिवीतनितम्बबिम्बम् ३३।
चारूरुजानुमनुवृत्तमनोज्ञजङ्घं कान्तोन्नतप्रपदनिन्दित कूर्मकान्तिम् ।
माणिक्यदर्पणलसन्नखराजराजद्रक्ताङ्गुलिच्छदनुसुन्दरपादपद्मम् ३४।
मत्स्याङ्कुशारिदरकेतुयवाब्जवज्रैः संलक्षितारुणकराङ्घ्रितलाभिरामम् ।
लावण्यसारसमुदायविनिर्मिताङ्गं सौन्दर्यनिन्दितमनोभव देहकान्तिम् ३५।
आस्यारविन्दपरिपूरितवेणुरन्ध्रलोलत्कराङ्गुलिसमीरितदिव्यरागैः ।
शश्वद्भवैः कृतनिविष्टसमस्तजन्तुसंतानसंनतिमनन्तसुखाम्बुराशिम् ३६।
गोभिर्मुखाम्बुजविलीनविलोचनाभिरूधोभरस्खलितमन्थरमन्दगाभिः ।
दन्ताग्रदष्टपरिशिष्टतृणाङ्कुराभिरालम्बिवालधिलताभिरथाभिवीतम् ३७।
संप्रस्नुतस्तनविभूषणपूर्णनिश्चलास्याद्दृढक्षरितफेनिलदुग्धमुग्धैः ।
वेणुप्रवर्तितमनोहरमन्दगीतदत्तोच्चकर्णयुगलैरपितर्णकैश्च ३८।
प्रत्यग्रशृङ्गमृदुमस्तकसंप्रहारसंरम्भभावनविलोलखुराग्रपातैः ।
आमेदुरैर्बहुलसास्नगलैरुदग्रपुच्छैश्च वत्सतरवत्सतरीनिकायैः ३९।
हम्भारवक्षुभितदिग्वलयैर्महद्भिरध्युक्षभिः पृथुककुद्भरभारखिन्नैः ।
उत्तम्भितश्रुतिपुटीपरिपीतवंशध्वानामृतोद्धतविकासिविशालघोणैः ४०।
गोपैः समानगुणशीलवयोविलासवेशैश्च मूर्छितकलस्वनवेणुवीणैः ।
मन्दोच्चतारपटुगानपरैर्विलोलदोर्वल्लरीललितलास्यविधानदक्षैः ४१।
जङ्घान्तपीवरकटीरतटीनिबद्धव्यालोलकिङ्किणिघटारणितैरटद्भिः ।
मुग्धैस्तरक्षुनखकल्पितकान्तभूषैरव्यक्तमंजुवचनैः पृथुकैः परीतम् ४२।
अथ सुललितगोपसुन्दरीणां पृथुकबरीषनितम्बमन्थराणाम् ।
गुरुकुचभरभंगुरावलग्नत्रिवलिविजृम्भितरोमराजिभाजाम् ४३।
तदतिरुचिरचारुवेणुवाद्यामृतरसपल्लविताङ्गजाङ्घ्रिपस्य ।
मुकुलविमलरम्यरूढरोमोद्गमसमलंकृतगात्रवल्लरीणाम् ४४।
तदतिरुचिर मन्दहासचन्द्रातपपरिजृम्भितरागवारिराशेः ।
तरलतरतरङ्गभङ्गविप्रुट्प्रकरघनश्रमबिन्दुसंततानाम् ४५।
तदतिललितमन्दचिल्लिचापच्युतनिशितेक्षणमारबाणवृष्ट्या ।
दलितसकलमर्मविह्वलाङ्गप्रविसृतदुःसहवेपथुव्यथानाम् ४६।
तदतिरुचिरवेषरूपशोभामृतरसपानविधानलालसानाम् ।
प्रणयसलिलपूरवाहिनीनामलसविलोलविलोचनाम्बुजानाम् ४७।
विस्रंसत्कबरीकलापविगलत्फुल्लत्प्रसूनास्रवन् ।
माध्वीलम्पटचञ्चरीकघटयासंसेवितानां मुहुः ।
मारोन्मादमदस्खलन्मृदुगिरामालोलकाञ्च्युल्लस-।
न्नीवीविश्लथमानचीनसिचयान्तार्चिर्नितम्बत्विषाम् ४८।
स्खलितलसितपादाम्भोजमन्दाभिघातच्छुरितमणितुलाकोट्याकुलाशामुखानाम् ।
चलदधरदलानांकुड्मलापक्ष्मलाक्षि-
द्वयसरसिरुहाणामुल्लसत्कुण्डलानाम् ४९।
द्राघिष्ठश्वसनसमीरणाभितापप्रम्लानीभवदरुणौष्ठपल्लवानाम् ।
नानोपायनविलसत्कराम्बुजानामालीभिः सततनिषेवितं समन्तात् ५०।
तासामायतलोलनीलनयनव्याकोशलीनाम्बुज-
स्रग्भिः संपरिपूजिताखिलतनुं नानाविलासास्पदम् ।
तन्मुग्धाननपङ्कजप्रविगलन्माध्वीरसास्वादिनीं-
बिभ्राणं प्रणयान्मदाक्षिमधुहृन्मालां मनोहारिणीम् ५१।
गोपीगोपपशूनां बहिः स्मरेदग्रतोऽस्य गीर्वाणघटांवित्तार्थिनीं विरिञ्चित्रिनयनशतमन्युपूर्विकां स्तोत्रपराम् ५२।
तद्वद्दक्षिणतो मुनिनिकरं दृढधर्मवाञ्छया समाम्नायपरम् ।
योगीन्द्रानथ पृष्ठे मुमुक्षमाणान्समाधिना तु सनकाद्यान् ५३।
सव्ये सकान्तानथ यक्षसिद्धगन्धर्वविद्याधरचारणांश्च ।
सकिन्नरानप्सरसश्च मुख्याः कामार्थिनीर्नर्तनगीतवाद्यैः ५४।
शङ्खेन्दुकुन्दधवलं सकलागमज्ञं सौदामिनीततिपिशङ्गजटाकलापम् ।
तत्पादपङ्कजगताममलां च भक्तिं वाञ्छन्तमुज्झिततरान्यसमस्तसङ्गम् ५५।
नानाविध श्रुतिगुणान्वितसप्तरागग्रामत्रयीगतमनोहरमूर्छनाभिः ।
संप्रीणयन्तमुदिताभिरपि प्रभक्त्या संचिन्तयन्नभसि मां द्रुहिणप्रसूतम् ५६।
इति ध्यात्वाऽत्मानं पटुविशदधीर्नन्दतनयं नरो बुद्ध्यैवाऽर्घप्रभृतिभिरनिन्द्योपहृतिभिः ।
यजेद्भूयो भक्त्या स्ववपुषि बहिष्ठैश्च विभवैरिति प्रोक्तं सर्वं यदभिलषितं भूसुरवराः ५७।
इति श्रीपद्मपुराणे पातालखंडे वैशाखमाहात्म्ये त्र्युत्तरशततमोऽध्यायः १०३।