सामग्री पर जाएँ

महाभारतम्-08-कर्णपर्व-026

विकिस्रोतः तः
← कर्णपर्व-025 महाभारतम्
अष्टमपर्व
महाभारतम्-08-कर्णपर्व-026
वेदव्यासः
कर्णपर्व-027 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
  42. 042
  43. 043
  44. 044
  45. 045
  46. 046
  47. 047
  48. 048
  49. 049
  50. 050
  51. 051
  52. 052
  53. 053
  54. 054
  55. 055
  56. 056
  57. 057
  58. 058
  59. 059
  60. 060
  61. 061
  62. 062
  63. 063
  64. 064
  65. 065
  66. 066
  67. 067
  68. 068
  69. 069
  70. 070
  71. 071
  72. 072
  73. 073
  74. 074
  75. 075
  76. 076
  77. 077
  78. 078
  79. 079
  80. 080
  81. 081
  82. 082
  83. 083
  84. 084
  85. 085
  86. 086
  87. 087
  88. 088
  89. 089
  90. 090
  91. 091
  92. 092
  93. 093
  94. 094
  95. 095
  96. 096
  97. 097
  98. 098
  99. 099
  100. 100
  101. 101

देबानामाज्ञया विश्वकर्मणा भूम्यादिसाधनै रुद्राय रथनिर्माणम्।। 1 ।।

दुर्योधन उवाच।
तेजसोऽर्धं सुरा दत्त्वा शङ्कराय महात्मने।
पशुत्वमपि चोपेत्य विश्वकर्माणमव्ययम्।। 8-26-1

ऊचुः सर्वे समाभाष्य रथः सङ्कल्प्यतामिति।
विश्वकर्माऽपि सञ्चिन्त्य रथं दिव्यमकल्पयत्।। 8-26-2

समेतां पृथिवीं देवी विशालां पुरमालिनीम्।
सपर्वतवनद्वीपां चक्रे भूतधरां रथम्।। 8-26-3

ईषां नक्षत्रवंशं च छत्रं मेरुमहागिरिम्।
अनेकद्रुसञ्छन्नं रत्नाकरमनुत्तमम्।। 8-26-4

हिमवन्तं च विन्ध्यं च नानाद्रुमलताकुलम्।
अवस्करं प्रतिष्ठानं कल्पयामास वै तदा।। 8-26-5

अस्तंगिरिमधिष्ठानं नानाद्विजगणायुतम्।
चकार भगवांस्त्वष्टा उदयं रथकूबरम्।। 8-26-6

मीननक्रझषावासं दानवालयमुत्तमम्।
समुद्रमक्षं विदधे पत्तनाकरशोभितम्।। 8-26-7

चक्रं चक्रे चन्द्रमसं तारकागणमण्डितम्।
दिवाकरं चाप्यपरं चक्रं चक्रेंऽशुमालिनम्।। 8-26-8

गङ्गां सरस्वतीं तूणीं चक्रे विश्वकृदव्ययः।
अलङ्कारा रथस्यासन्नापगाः सरितस्तथा।। 8-26-9

त्रीनग्नीन्मन्त्रवच्चक्रे रथस्याथ त्रिवेणुकम्।
अनुकर्षान्रथे दीप्तान्वरूथांश्चापि तारकाः।। 8-26-10

[]ओषधीर्वीरुधश्चैव घण्टाजालं च भानुमत्।
अलञ्चकार च रथं मासपक्षर्तुभिर्विभुः।। 8-26-11

अहोरात्रैः कलाभिश्च काष्ठाभिरयनैस्तथा।
द्यां युगं युगपर्वाणि संवर्तकबलाहरकान्।। 8-26-12

शम्यां धृतिं च मेधां च स्थितिं सन्नतिमेव च।
ऋग्वेदं सामवेदं च धुर्यावश्वावकल्पयत्।। 8-26-13

पृष्ठाश्वौ तु यजुर्वेदः कल्पितोऽथर्वणस्तथा।
अश्वानां चाप्यलङ्कारं विदधे पदसञ्चयम्।। 8-26-14

सिनीवालीमनुमतिं कुहूं राकां च सुप्रभाम्।
योक्ताणि चक्रे चाश्वानां कूश्माण्डांश्चापि पन्नगान्। 8-26-15

तालपृष्ठोऽथ नहुषः कार्कोटकधनञ्जयौ।
इतरे चाभवन्नागा हयानां वाहबन्धनम्।। 8-26-16

अभीशवः षडङ्गानि कल्पितानि महीपते।
ओङ्कारः कल्पितस्तस्य प्रतोदो विश्वकर्मणा।। 8-26-17

यज्ञाः सर्वे पृथक्लृप्ता रथाङ्गानि च भागशः।
अधिष्ठानं मनश्चासीत्परिरथ्या सरस्वती।। 8-26-18

नानावर्णानि शस्त्राणि पताकाः पवनेरिताः।
विद्युदिन्द्रधनुर्युक्तं रथं दीप्त्या व्यदीपयत्।। 8-26-19

वर्म योद्धुं च विहितं नमो ग्रहगणाकुलम्।
अभेद्यं भानुमच्चित्रं कालचक्रपरिक्षतम्।। 8-26-20

एवमस्मिन्महाराज कल्पिते रथसत्तमे।
त्वष्ट्रा मनुजशार्दूल द्विषतां भयवर्धने।। 8-26-21

स्वान्यायुधानि दिव्यानि न्यदधाच्छङ्करो रथे।
ध्वजयष्टिं वियत्कृत्वा स्थापयामास गोवृषम्।। 8-26-22

ब्रह्मदण्‍डः कालदम्डो रुद्रदण्डश्च ते ज्वराः।
परिष्कारा र्थस्यासन्समन्ताद्दिशमुद्धताः।। 8-26-23

विचित्रमृतुभिः षड्भिः कृत्वा संवत्सरं धनुः।
छायामेवात्मनश्चक्रे धनुर्ज्यामक्षयां ध्रुवाम्।। 8-26-24

कालो हि भगवान्रुद्रस्तच्च संवत्सरं धनुः।
तस्माद्रौद्री कालरात्री ज्या कृता धनुषो जरा।। 8-26-25

ततो रथे रथाश्वांस्तानृषयः समयोजयन्।
एकैकशः सुसंहृष्टानादाय सुधृतव्रताः।। 8-26-26

दक्षिणस्यां धुरि कृत ऋग्वेदो मन्त्रपारगैः।
सव्यतः सामवेदश्च युक्तो राजन्महर्षिभिः।। 8-26-27

पार्ष्ठिदक्षिणतो युक्तो यजुर्वेदः सुरद्विजैः।
इतरस्यां तथा पार्ष्ठ्यां युक्तो राजन्नथर्वणः।। 8-26-28

एवं ते वाजिनो युक्ता यज्ञविद्भिस्तथा रथे।
अशोभन्त तथा युक्ता यथैवाध्वरमध्यगाः।। 8-26-29

कल्पयित्वा रथं दिव्यं ततो बाणमकल्पयत्।
चिन्तयित्वा हरिं विष्णुमव्ययं यज्ञवाहनम्।। 8-26-30

शरं सङ्कल्पयाञ्चक्रे विश्वकर्मा महामनाः।
तस्य वाजांश्च पुङ्खं च कल्पयामास वै तदा।। 8-26-31

पुण्यगन्धवहं राजञ्श्वसनं राजसत्तम।
अग्नीषोमौ शरमुखे कल्पयामास वै तदा।। 8-26-32

अग्नीषोमात्मकं कृत्स्नमुच्यते वैष्णवं जगत्।
विष्णुरात्मा भगवतो भवस्यामिततेजसः।। 8-26-33

तस्माद्धनुर्ज्यासंस्पर्शं स विषेहे शरस्य वै।
तस्मिञ्शरे तीक्ष्णमन्युममुञ्चद्दुःसहं प्रभुः।। 8-26-34

भृग्वङ्गिरोमन्युभवः क्रोधाग्निरतिदुःसहः।
स नीललोहितो धूम्रः कृत्तिवासा भयानकः।। 8-26-35

आदित्यायुतसङ्काशस्तेजोज्वालावृतो भवः।
दुश्चर्यच्यावको जेता हन्ता ब्रह्मद्विषां वरः।। 8-26-36

तस्याङ्गानि समाश्रित्य स्थितं विश्वमिदं जगत्।
जङ्गमाजङ्गमं राजञ्छुशुभेऽद्भुतदर्शनम्।। 8-26-37

दृष्टा तु तं रथं दिव्यं कवची स शरासनी।
आददे स शरं दिव्यं सोमविष्ण्वग्निवायुजम्।। 8-26-38

तमादाय महादेवस्त्रासयन्दैत्यदानवान्।
आरुरोह तदा यत्तः कम्पयन्निव रोदसी।। 8-26-39

महर्षिभिः स्तूयमानो वन्द्यमानश्च वन्दिभिः।
उपनृत्तश्चाप्सरसां गणैर्नृत्तविशारदैः।। 8-26-40

स शोभमानो वरदः खङ्गी बाणी शरासनी।
हसन्निवाब्रवीद्देवः सारथिः को भवेदिति।। 8-26-41

।। इति श्रीमन्महाभारते
कर्णपर्वणि षड्विंशोऽध्यायः।। 26 ।।

== == 


 (पाठान्तरः)
स्थाणुरुवाच
यदि शक्तिर्न वः काचिद् बिभर्तुं मामकं बलम् ।
अहमेतान् हनिष्यामि युष्मत्तेजोऽर्धबृंहितः॥ ११॥
ततस्तथेति देवेशस्तैरुक्तो राजसत्तम ।
अर्धमादाय सर्वेषां तेजसाभ्यधिकोऽभवत् ॥ १२॥
स तु देवो बलेनासीत् सर्वेभ्यो बलवत्तरः।
महादेव इति ख्यातस्ततः प्रभृति शङ्करः ॥ १३॥
ततोऽब्रवीन्महादेवो धनुर्बाणधरो ह्यहम् ।
हनिष्यामि रथेनाजौ तान् रिपून् वो दिवौकसः॥१४॥
ते यूयं मे रथं चैव धनुर्बाणं तथैव च ।
पश्यध्वं यावदद्यैतान् पातयामि महीतले ॥१५॥
देवा ऊचुः
मूर्तीः सर्वाः समाधाय त्रैलोक्यस्य ततस्ततः ।
रथं ते कल्पयिष्यामो देवेश्वर सुवर्चसम् ॥१६॥
तथैव बुद्ध्या विहितं विश्वकर्मकृतं शुभम्।
ततो विबुधशार्दूलास्ते रथं समकल्पयन् ॥ १७॥
विष्णुं सोमं हुताशं च तस्येषुं समकल्पयन् ।
शृङ्गमग्निर्बभूवास्य भल्लः सोमो विशाम्पते ॥१८॥
कुडमलश्चाभवद् विष्णुस्तस्मिन्निषुवरे तदा।
रथं वसुन्धरां देवीं विशालपुरमालिनीम् ॥ १९॥
सपर्वतवनद्वीपां चक्रुर्भूतधरां तदा।
मन्दरः पर्वतश्चाक्षो जङ्घा तस्य महानदी ॥२०॥
दिशश्च प्रदिशश्चैव परिवारो रथस्य तु।
ईषा नक्षत्रवंशश्च युगः कृतयुगोऽभवत् ॥ २१॥
कूबरश्च रथस्यासीद् वासुकिर्भुजगोत्तमः।
अपस्करमधिष्ठाने हिमवान् विन्ध्यपर्वतः।
उदयास्तावधिष्ठाने गिरी चक्रुः सुरोत्तमाः ॥ २२ ॥
समुद्रमक्षमसृजन् दानवालयमुत्तमम् ।
सप्तर्षिमण्डलं चैव रथस्यासीत् परिष्करः ॥२३॥
गङ्गा सरस्वती सिन्धुर्धुरमाकाशमेव च ।
उपस्करो रथस्यासन्नापः सर्वाश्च निम्नगाः ॥२४॥
अहोरात्रं कलाश्चैव काष्ठाश्च ऋतवस्तथा।
अनुकर्षं ग्रहा दीप्ता वरूथं चापि तारकाः॥ २५॥
धर्मार्थकामं संयुक्तं त्रिवेणुं दारु बन्धुरम् ।
ओषधीर्वीरुधश्चैव घण्टाः पुष्पफलोपगाः ॥ २६ ॥
सूर्याचन्द्रमसौ कृत्वा चक्रे रथवरोत्तमे ।
पक्षौ पूर्वापरौ तत्र कृते रात्र्यहनी शुभे ॥ २७ ॥
दश नागपतीनीषां धृतराष्ट्रमुखांस्तदा।
योक्त्राणि चक्रुर्नागांश्च निःश्वसन्तो महोरगान्॥२८
द्यां युगं युगचर्माणि संवर्तकबलाहकान् ।
कालपृष्ठोऽथ नहुषः कर्कोटकधनंजयौ ॥ २९ ॥
इतरे चाभवन् नागा हयानां बालबन्धनाः ।
दिशश्च प्रदिशश्चैव रश्मयो रथवाजिनाम् ॥ ३०॥
संध्यां धृतिं च मेधां च स्थितिं संनतिमेव च ।
ग्रहनक्षत्रताराभिश्चर्म चित्रं नभस्तलम् ॥ ३१ ॥
सुराम्बुप्रेतवित्तानां पतीँ लोकेश्वरान् हयान् ।
सिनीवालीमनुमतिं कुहूं राकां च सुव्रताम् ॥ ३२॥
योक्त्राणि चक्रुर्वाहानां रोहकांस्तत्र कण्टकान् ।
धर्मः सत्यं तपोऽर्थश्च विहितास्तत्र रश्मयः ॥ ३३ ॥
अधिष्ठानं मनश्चासीत् परिरथ्या सरस्वती।
नानावर्णाश्च चित्राश्च पताकाः पवनेरिताः॥३४॥
विद्युदिन्द्रधनुर्नद्धं रथं दीप्तं व्यदीपयन् ।
वषटकारः प्रतोदोऽभूद् गायत्री शीर्षबन्धना ॥ ३५॥
यो यज्ञे विहितः पूर्वमीशानस्य महात्मनः ।
संवत्सरो धनुस्तद् वै सावित्री ज्या महास्वना ॥ ३६॥
दिव्यं च वर्म विहितं महार्हं रत्नभूषितम् ।
अभेद्यं विरजस्कं वै कालचक्रबहिष्कृतम् ॥ ३७॥
ध्वजयष्टिरभून्मेरुः श्रीमान् कनकपर्वतः।
पताकाश्चाभवन् मेघास्तडिद्भिः समलङ्कृताः ॥ ३८॥
रेजुरध्वर्युमध्यस्था ज्वलन्त इव पावकाः।
क्लृप्तं तु तं रथं दृष्ट्वा विस्मिता देवताऽभवन् ॥ ३९ ॥
सर्वलोकस्य तेजांसि दृष्ट्वैकस्थानि मारिष ।
युक्तं निवेदयामासुर्देवास्तस्मै महात्मने ॥ ४० ॥
एवं तस्मिन् महाराज कल्पिते रथसत्तमे।
देवैर्मनुजशार्दूल द्विषतामभिमर्दने ॥४१॥
स्वान्यायुधानि मुख्यानि न्यदधाच्छङ्करो रथे।
ध्वजयष्टिं वियत् कृत्वा स्थापयामास गोवृषम्॥४२॥
ब्रह्मदण्डः कालदण्डो रुद्रदण्डस्तथा ज्वरः।
परिस्कन्दा रथस्यासन् सर्वतोदिशमुद्यताः ॥ ४३॥

कर्णपर्व-025 पुटाग्रे अल्लिखितम्। कर्णपर्व-027
  1. ओषधीर्वीरुधश्चैव घण्टाः पुष्पफलोपगाः - पाठभेदः