सामग्री पर जाएँ

महाभारतम्-08-कर्णपर्व-097

विकिस्रोतः तः
← कर्णपर्व-096 महाभारतम्
अष्टमपर्व
महाभारतम्-08-कर्णपर्व-097
वेदव्यासः
कर्णपर्व-098 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
  42. 042
  43. 043
  44. 044
  45. 045
  46. 046
  47. 047
  48. 048
  49. 049
  50. 050
  51. 051
  52. 052
  53. 053
  54. 054
  55. 055
  56. 056
  57. 057
  58. 058
  59. 059
  60. 060
  61. 061
  62. 062
  63. 063
  64. 064
  65. 065
  66. 066
  67. 067
  68. 068
  69. 069
  70. 070
  71. 071
  72. 072
  73. 073
  74. 074
  75. 075
  76. 076
  77. 077
  78. 078
  79. 079
  80. 080
  81. 081
  82. 082
  83. 083
  84. 084
  85. 085
  86. 086
  87. 087
  88. 088
  89. 089
  90. 090
  91. 091
  92. 092
  93. 093
  94. 094
  95. 095
  96. 096
  97. 097
  98. 098
  99. 099
  100. 100
  101. 101

सञ्जय उवाच ।
ततोऽपयाताः शरपातमात्रमवस्थिता वै कुरवो नरेन्द्र ।
विद्युत्प्रकाशं ददृशुः समन्ताद्धनञ्जयास्त्रं समुदीर्यमाणम् ॥8-97-1b

ततोऽग्रसत्सूतपुत्रोऽर्जुनस्य वियद्गतं घोरतरं शरैस्तत् ।
क्रुद्धेन पार्थेन शरं विसृष्टं वधाय कर्णस्य महाविमर्दे ॥8-97-2b

उदीर्यमाणं स्म कुरुन्दहन्तं सुवर्णपुङ्खैर्विशिखैर्ममर्द ।
कर्णस्त्वमोघेष्वसनं दृढज्यं विस्फारयित्वा विसृजञ्छरौघान ॥8-97-3b

रामादुपात्तेन महामहिम्ना ह्याथर्वणेनारिविनाशनेन ।
तदर्जुनास्त्रं व्यघमद्दहन्तं पार्थ च वाणैर्निशितैरविध्यत् ॥8-97-4b

ततो विमर्दः सुमहान्वभूव तत्रार्जुनस्याधिरथेश्च राजन् ।
अन्योन्यमासादयतोः पृषत्कैर्विषाणघातैर्द्विपयोरिवाजौ ॥8-97-5b

ततोऽस्त्रसंघातसमावृतं तदा बभूव राजंस्तुमुलं रणाजिरम् ।
य्त्कर्णपार्थै शरवृष्टिसङ्घैर्निरन्तरं चक्रतुरम्बरं तदा ॥8-97-6b

ततो जालं वाणमयं महान्तं सर्वेऽद्राक्षुः कुरवः सोमकाश्च ।
नान्यं च भूतं ददृशुस्तदा ते बाणान्धकारे तुमुलेऽथ किंचित् ॥8-97-7b

तौ सन्दधानावनिशं च राजन् समस्यन्तौ चापि शराननेकान् ।
सन्दर्शयेतां युधि मार्गान्दिचित्रा न्धनुर्धरौ तौ विविधैः कृतास्त्रैः ॥8-97-8b

तयोरेवं युध्यतोराजिमध्ये सूतात्मजोऽभूदधिकः कदाचित् ।
पार्थः कदाचित्त्वधिकः किरीटी वीर्यास्त्रमायाबलपौरुषेण ॥8-97-9b

दृष्ट्वा तयोस्तं युधि संप्रहारं परस्परस्यान्तरमीक्षमाणयोः ।
घोरं तयोर्दुर्विषहं रणेऽन्यैर्योधाः सर्वे विस्मयमभ्यगच्छन् ॥8-97-10b

ततो भूतान्यन्तरिक्षस्थितानि तौ कर्णपार्थै प्रशशंसुर्नरेन्द्र ।
भोः कर्ण साध्वर्जुन साधु चेति वियत्सु वाणी श्रूयते सर्वतोपि ॥8-97-11b

तस्मिन्विमर्दे रथवाजिनागैस्तदाऽभिघातैर्दलिते हि भूतले ।
ततस्तु पातालतले शयानो नागोऽश्वसेनः कृतवैरोऽर्जुनेन ॥8-97-12b

राजंस्तदा खाण्डवदाहमुक्तो विवेश कोपाद्वसुधातले यः ।
अथोत्पपातोर्ध्वगतिर्जवेन सन्दृश्य कर्णार्जुनयोर्विमर्दम् ॥8-97-13b

अयं हि कालेस्य दुरात्मनो वै पार्थस्य वैरप्रतियातनाय ।
सञ्चिन्त्य तूर्ण प्रविवेश चैव कर्णस्य राजन्शररुपधारी ॥8-97-14b

ततोस्रसङ्घातसमाकुलं तदा बभूव जन्यं विततांशुजालम् ।
तत्कर्णपार्थौ शरसङ्घ्वृष्टिभिर्निरन्तरं चक्रतुरंबरं तदा ॥8-97-15b

तद्वाणजालैकमयं महान्तं सर्वेऽत्रसन्कुरवः सोमकाश्च ।
नान्यत्किञ्चिद्ददृशुः सम्पतद्वै बाणान्धकारे तुमुलेऽतिमात्रम् ॥8-97-16b

ततस्तौ पुरुषव्याघ्रौ सर्वलोकधनुर्धरौ ।
त्यक्तप्राणौ रणे वीरौ युध्दश्रममुपागतौ ॥8-97-17b

समुत्क्षेपैर्वीक्षमाणौ सिक्तौ चन्दनवारिणा ।
सवालव्यजनैर्दिव्यैर्दिविस्थैरप्सरोगणैः ।
शक्रसूर्यकराब्जाभ्यां प्रमार्जितमुखावुभौ ॥8-97-18c

कर्णोऽथ पार्थ न विशेषयद्यदा भृशं च पार्थेन शराभितप्तः ।
ततस्तु वीरः शरविक्षताङ्गो दघ्रे मनो ह्येकशयस्य तस्य ॥8-97-19b

ततो रिपुघ्नं समधत्त कर्णः सुसंचितं सर्पमुखं ज्वलन्तम् ।
रौद्रं शरं सन्नतमुग्रघौतं पार्थार्थमित्येव चिराभिगुप्तम् ॥8-97-20b

सदार्चितं चन्दनचूर्णशायितं सुवर्णतूणीरशयं महार्चिषम् ।
आकर्णपूर्ण विचकर्ष कर्णो विमोक्तुकामः शरमुग्रवेगम् ॥8-97-21b

प्रदीप्तमैरावतवंशसंभवं शिरो जिहीर्षुर्युधि सव्यसाचिनः ।
ततः प्रजज्वाल दिशो नमश्च उल्काश्च घोराः शतशः प्रपेतुः ॥8-97-22b

तस्मिस्तु नागे धनुषि प्रयुक्ते हाहाकृता लोकपालाः सशक्राः ॥8-97-23a

स सूतपुत्रस्तमपाङ्गदेशे अवाड्मुखं संधयति स्म रोषात् ।
न तं स्म जानाति महानुभावमपङ्गदेशेऽभिनिविष्टमाजौ ॥8-97-24b

[न चापि तं बुबुधे सूतपुत्रो बाणे प्रविष्टं योगबलेन नागम् ।
दशशतनयनोऽहिं दृश्य बाणे प्रविष्टं निहत इति सुतो मे स्रस्तगात्रो बभूव ।
जलजकुसुमयोनिः श्रेष्ठभावो जितात्मा त्रिदशपतिमवोचन्मा व्यथिष्ठा जये श्रीः ॥8-97-25c

ततोऽब्रवीन्मद्रराजो महात्मा दृष्ट्वा कर्ण प्रहितेषुं तमुग्रम् ।
ग्रीवायतः कर्ण न् संहितोऽयं समीक्ष्य संधत्स्व शरं परध्नम् ॥8-97-26b

अथाब्रवीत्क्रोधसंरक्तनेत्रो मद्राधिपं सूतपुत्रो मनस्वी ।
न संधत्ते द्विः शरं शल्य कर्णो न मादृशा जिह्ययुध्दा भवन्ति ॥8-97-27b

इतिदमुक्त्वा विससर्ज तं शरं प्रयत्नतो वर्षगणाभिपूजितम् ।
हतोसि रे फल्गुन इत्यधिक्षिपन्नुवाच चोच्चैर्गिरमूर्जितां वृषः ॥8-97-28b

स सायकः कर्णभुजप्रसृष्टो हुताशनार्कप्रतिमः सुघोरः ।
गुणच्युतः कर्णधनुः प्रमुक्तो वियद्गतः प्राज्वलदन्तरिक्षे ॥8-97-29b

तमापतन्तं ज्वलितं निरीक्ष्य वियद्गतं वृष्णिकुलप्रवीरः ।
रथस्य चक्रं सहसा निपीड्य पञ्चाङ्गुलं मञ्जयति स्म वीरः ॥8-97-30b

ततोऽन्तरिक्षे सुमहान्निनादः संपूजनार्थ मधुसूदनस्य ।8-97-31a
र्दिव्यानि पुष्पाण्यथ सिंहनादाः ।8-97-31b
तस्मिंस्तथा वै धरणीं निमग्ने रथे प्रयत्नान्मधुसूदनस्य ॥8-97-31c

ततः किरीटं वहुरत्नचित्रं जघान नागोऽर्जुनमूर्धतो बलात् ।
गिरेः सुजाताङ्कुरपुष्पितद्रुमं महेन्द्रवज्रं शिखरं यथोत्तमम् ॥8-97-32b

ततः किरीटं तपनीयचित्रं पार्थोत्तमाङ्गदहरत्तरस्वी ।
तद्धेमजालावनतं सुघोरं संप्रज्वलत्तन्निपपात भूमौ ॥8-97-33b

ततोऽर्जुनस्योत्तमगात्रभूषणं सुवर्णमुक्तामणिवज्रचित्रितम् ।
धरावियद्दयोसलिलेषु विश्रुतं बलं निसर्गोत्तममन्युभिः सदा ॥8-97-34b

शरेण मूर्ध्नि प्रजहार सूतजो दिवाकरेन्दुज्वलनग्रहत्विषम् ।
सुवर्णमुक्तामणिवज्रभूषणं पुरन्दरार्थ तपसा प्रयत्नतः ॥8-97-35b

स्वयं कृतं यद्विधिना स्वयंभुवा महार्हरुपं द्विषतां भयंकरम् ।
निजघ्नते देवरिपून्सुरेश्वरः स्वयं ददौ यध्दि मुदाऽर्जुनाय ॥8-97-36b

हरिप्रचेतोहरिवित्तगोप्तृभिः पिनाकपाशाशनिदण्डधारिभिः ।
सुरोत्तमैरप्यविषह्यमर्दितुं प्रसह्य नागेन जहार तद्वृषा ॥8-97-37b

तदुत्तमेषून्मथितं विषाहिना प्रदीप्तपर्चिष्मदतीव सुन्दरम् ।
पपात पार्थस्य किरीटमुत्तमं दिवाकरोस्तादिव पर्वताज्ज्वलन् ॥8-97-38b

महीवियद्दयोसलिलानि वायुना प्रसह्य रुग्णानि विघूर्णितानि वा ।
इतीव शब्दं भुवनेषु तत्तथा जना व्यवस्यन्ति दिशश्च विह्वलाः ॥8-97-39b

विना किरीटं शुशुभे स पार्थः श्यामो युवा शैल इव त्रिशृङ्गैः ॥8-97-40a

ततः समुद्ग्र्थ्य सितेन वाससा स्वमूर्घजानव्यथितस्तदाऽर्जुनः ।
बभौ सुसंपूर्णमरीचिनेन्दुना शिरोगतेनोदयपर्वतो यथा ॥8-97-41b*

स चापि राधेयभुजप्रमुक्तो हुताशनार्कप्रतिमद्युतिर्महान् ।
महोरगः कृतवैरोऽर्जुनेन किरीटमाहृत्य समुत्पपात ॥8-97-42b

तमुत्पतन्तं द्विपदां वरिष्ठो दृष्ट्वा वचः पार्थमुवाच कृष्णः ।
महोरगं पाण्डव पश्यपश्य प्रयोजितं त्वन्निधनार्थमुग्रम् ॥8-97-43b

स एवमुक्तो मधुसूदनेन गाण्डीवधन्वा हरिमुग्रवाचा ।
उवाच को न्वेष ममाद्य नागः क्षयाय नागाद्गरुडस्य वक्त्रम् ॥8-97-44b

कृष्ण उवाच ।
योऽसौ त्वया खाण्डवे चित्रभानुं संतर्पयाणेन धनुर्धरेण ।
वियद्गतो जननीगुप्तदेहो मत्वैकरूपं निहताऽस्य माता ॥8-97-45b

स एष तद्वैरमनुस्मरन्वै त्वां प्रार्थयत्यात्मवधाय नूनम् ।
नभश्च्युतां प्रज्वलितामिवोल्कां पश्यैनमायान्तममित्रसाह ॥8-97-46b

सञ्जय उवाच ।
ततः स जिष्णुः परिवृत्य रोषाच्चिच्छेद षड्भिर्निशितैः सुधारैः ।
नागं वियत्तिर्यगिवोत्पतन्तं स च्छिन्नगात्रो निपपात भूमौ ॥8-97-47b

[हते च तस्मिन्भुजगे किरीटिना स्वयं विभुः पार्थिव भूतलादथ ।
समुज्जहाराशु पुनः पतन्तं रथं भुजाभ्यां पुरुषोत्तमस्ततः ॥]8-97-48b

तस्मिन्मुहूर्ते दशभिः पृषत्कैः शिलाशितैर्बर्हिणबर्हवाजितैः ।
विव्याघ कर्णः पुरुषप्रवीरो धनञ्जयं तिर्यगवेक्षमाणः ॥8-97-49b

ततोऽर्जुनो द्वादशभिः सुमुक्तैर्वराहकर्णैर्निशितैः समर्प्य ।
नाराचमाशीविषतुल्यवेगमाकर्णपूर्णायतमुत्ससर्ज ॥8-97-50b

स चित्रवर्मेषुवरो विदार्य प्राणान्निरस्यन्निव साधुमुक्तः ।
कर्णस्य पीत्वा रुधिरं विवेश वसुंधरां शॊणितदिग्धवाजः ॥8-97-51b

ततो वृषो बाणनिपातकोपितो महोरगो दण्डविघट्टितो यथा ।
तदाऽऽशुकारी व्यसृजच्छरोत्तमान् महाविषः सर्प इवोत्तमं विषम् ॥8-97-52b

जनार्दनं द्वादशभिः पराभिनन्नवैर्नवत्या च शरैस्तथाऽर्जुनम् ।
शरेण घोरेण पुनश्च पाण्डवं विदार्य कर्णो व्यनदज्जहास च ॥8-97-53b

तमस्य हर्षं ममृषे न पाण्डवो बिभेद मर्माणि ततोऽस्य मर्मवित् ।
परःशतैः पत्रिभिरिन्द्रविक्रमस्तथा यथेन्द्रो बलमोजसा रणे ॥8-97-54b

ततः शराणां नवतिं तदाऽर्जुनः ससर्ज कर्णेऽन्तकदण्डसंनिभाम् ।
तैः पत्रिभिर्विद्धतनुः स विव्यथे तथा यथा वज्रविदारितोऽचलः ।8-97-55b

मणिप्रवेकोत्तमवज्रहाटकैरलंकृतं चास्य वराङ्गभूषणम् ।
प्रविद्धमुर्व्यां निपपात पत्रिभिर्धनञ्जयेनोत्तमकुण्डलेपि च ॥8-97-56b

महाधनं शिल्पिवरैः प्रयत्नतः कृतं यदस्योत्तमवर्म भास्वरम् ।
सुदीर्घकालेन ततोऽस्य पाण्डवः क्षणेन बाणैर्बहुधा व्यशातयत् ॥8-97-57b

तस्येषुभिः खण्डितकुण्डलोऽन्तः परिक्षतश्चाभ्यधिकं तदानीम् ।
सलोहिताङ्गश्रवणश्चकाशे सलोहिताङ्गश्रवणो यथा दिवि ॥8-97-58b

स तं विवर्माणमथोत्तपेषुभिः शितैश्चतुर्भिः कुपितः पराभिनत् ।
स विव्यथेऽत्यर्थमरिप्रताडितो यथाऽऽतुरः पित्तकफानिलज्वरैः ॥8-97-59b

महाधनुर्मण्डलनिः सृतैः शितैः क्रियाप्रयत्नप्रहितैर्बलेन च ।
ततक्ष कर्ण बहुभिः शरोत्तमैर्बिभेद मर्मस्वपि चार्जुनस्त्वरन् ॥8-97-60b

दृढाहतः पत्रिभिरुग्रवेगैः पार्थेन कर्णो विविधैः शिताग्रैः ।
बभौ गिरिर्गैरिकधातुरक्तः क्षरन्प्रपातैरिव रक्तमम्भः ॥8-97-61b

[ततोऽर्जुनः कर्णमवक्रगैर्नवैः सुवर्णपुङ्खैः सुदृढैरयस्मयैः ।
यमाग्निदण्डप्रतिमैः स्तनान्तरे पराभिनत्क्रौञ्चमिवाद्रिमग्निजः ॥8-97-62b

ततः शरावापमपास्य सूतजो धनुश्च तच्छक्रशरासनोपमम् ।
ततो रथस्थः स मुमोह च स्खलन् प्रशीर्णमुष्टिः सुभृशाहतः प्रभो ॥8-97-63b

न चार्जुनस्तं व्यसने तदेषिवान्निहन्तुमार्यः पुरुषव्रते स्थितः ।
ततस्तमिन्द्रावरजः सुसंभ्रमादुवाच किं पाण्डव हे प्रमाद्यसे ॥8-97-64b

नैवाहितानां सततं विपश्चितः क्षणं प्रतीक्षन्त्यपि दुर्बलीयसाम् ।
विशेषतोऽरीन्व्यसनेषु पण्डितो निहत्य धर्मं च यशश्च विन्दते ॥8-97-65b

तदेकवीरं तव चाहितं सदा त्वरस्व कर्ण सहसाऽभिमर्दितुम् ।
पुरा समर्थः समुपैति सूतजो भिन्धि त्वमेनं नमुचिं यथा हरिः ॥8-97-66b

ततस्तदेवेत्यभिपूज्य सत्वरं जनार्दनं कर्णमविध्यदर्जुनः ।
शरोत्तमैः सर्वकुरुत्तमस्त्वरं स्तथा यथा शम्बरहा पुरा बलिम् ॥8-97-67b

साश्चं तु कर्णं सरथं किरीटी समाचिनोद्भारत वत्सदन्तैः ।
प्रच्छादयामास दिशश्च बाणैः सर्वप्रयत्नात्तपनीयपुङ्खैः ॥8-97-68b

स वत्सदन्तैः पृथुपीनवक्षाः समाचितः सोऽधिरथिर्विभाति ।
सुपुष्पिताशोकपलाशशाल्मलिर्यथाऽचलश्चन्दनकाननायुतः ॥8-97-69b

शरैः शरीरे बहुभिः समर्पितैर्विभाति कर्णः समरे विशांपते ।
महीरुहैराचितसानुकन्दरो यथा गिरीन्द्रः स्फुटकर्णिकारवान् ॥8-97-70b

स बाणस्ङ्घान्बहुधा व्यवासृजन् विभाति कर्णः शरजालरश्मिवान् ।
सलोहितो रक्तगभस्तिमण्डलो दिवाकरोऽस्ताभिमिखो यथा तथा ॥8-97-71b

बाह्वन्तरादाधिरथेर्विमुक्तान् बाणान्महाहीनिव दीप्यमानान् ।
व्यध्वंसयन्नर्जुनवाहुमुक्ताः शराः समासाद्य दिशः शिताग्राः ॥8-97-72b

[ततः स कर्णः समवाप्य धैर्य बाणान्विमुञ्चन्कुपिताहिकल्पान् ।
विव्याध पार्थ दशभिः पृषत्कैः कृष्णं च षड्भिः कुपिताहिकल्पैः ॥8-97-73b

ततः किरीटी भृशमुग्रनिः स्वनं महाशरं सर्पविषानलोपमम् ।
अयस्मयं रौद्रमहास्रसंभृतं महाहवे क्षेप्तुमना महामतिः ॥8-97-74b

कालो ह्यदृश्यो नृप विप्रशापान्निदर्शयन्कर्णवधं ब्रुवाणः ।
भूमिस्तु चक्रं ग्रसतीत्यवोच त्कर्णस्य तस्मिन्वघकाल आगते ॥8-97-75b

न चास्य धोरं प्रतिभाति चास्त्रं यद्भार्गवोऽस्मै प्रददौ महात्मा ।
चक्रं च वामं ग्रसते भूमिरस्य प्राप्ते तस्मिन्वध्काले नृवीर ॥8-97-76b

ततो रथो घूर्णितवान्नरेन्द्र शापात्तदा ब्राह्मणसत्तमस्य ।
प्राप्तं वधं शंसति चाप्यथास्रं प्रणश्यमानं द्विजमुख्यशापात् ॥8-97-77b

ततश्च क्रमपतत्तस्य भूमौ स विह्वलः समरे सूतपुत्रः ।
सवेदिकश्चैत्य इवातिमात्रः सुपुष्पितो भूमितले निमग्नः ॥8-97-78b

मग्ने रथे ब्राह्मणशापमूढो ह्यस्त्रं च तं मोघमिषुं च सर्पम् ।
अमृष्यमाणो व्यसनानि तानि ह्स्तौ विधुन्वन्विजगर्ह धर्मम् ॥8-97-79b

धर्मप्रधानं किल पाति धर्म इत्यब्रुवन्धर्मविदः सदैव ।
वयं च धर्मे प्रयताम नित्यं चर्तुयथाशक्ति यथाश्रुतं च ।
स चापि निघ्नाति न पाति भक्तान् मन्ये न नित्यं परिपाति धर्मः ॥8-97-80c

एवं ब्रुवन्प्रस्खलिताश्वसूतो विचाल्यमानोऽर्जुनबाणपातैः ।
मर्माभिघाताच्छिथिलः त्रियासु पुनः पुनर्धर्ममसौ जगर्ह ॥8-97-81b

ततः शरैर्भीमतरैरविध्यत्रिभिराहवे ।
हस्ते कृष्णं तथा पार्थमभ्यविध्यच्च सप्तभिः ॥8-97-82b

ततोऽर्जुनः सप्तदश तिग्मवेगानजिह्नगान् ।
इन्द्राशनिसमान्घोरानसृजत्पावकोपमान् ॥8-97-83b

निर्भिद्य ते भीमवेगा ह्यपतन्प्रूथिवीतले ।
कम्पितात्मा ततः कर्णः शक्त्या चेष्टामदर्शयत् ॥8-97-84b

बलेनाथ स संस्तभ्य ब्रह्मास्त्रं समुदैरयत् ।
ऎन्द्रं ततोऽर्जुनश्चापि तं दृष्ट्वाऽभ्युपमन्त्रयत् ॥8-97-85b

गाण्डीवं ज्यां च बाणांश्च सोऽनुमत्र्य परंतपः ।
व्यसृजच्छरवर्षाणि वर्षाणीव पुरंदरः ॥8-97-86b

ततस्तेजोमया वाणा रथात्पार्थस्य निः सृताः ।
प्रादुरासन्महावीर्याः कर्णस्य रथमन्तिकात् ।
स कर्णोऽग्रसदस्यास्त्रं कुर्वन्मोक्षं महारथः ॥8-97-87c

ततोऽब्रवीद्वृष्णिवीरस्तस्मिन्नस्रे विनाशिते ।
विसृजास्रं परं पार्थ राधेयो ग्रसते शरान् ॥8-97-88b

ततो ब्रह्मास्त्रमत्युग्रं संमत्र्य समयोदयत् ।
छादयित्वा ततो बाणैः कर्ण प्रत्यस्यदर्जुनः ॥8-97-89b

[द्वितीयां च तृतीयां च चतुर्थी पञ्चमीं तथा ।
षष्ठीमथास्य चिच्छेद सप्तमीं च तथाऽष्टमीम् ।
नवमीं दशमीं चास्य तथा चैकादशीं वृषः ॥8-97-90c

ज्याशतं शतसंधानः स क्रर्णो नावबुध्यते ॥8-97-91a

ततो ज्यां विनिधायान्यामभिमत्र्य च पाण्डवः ।
शरैरवाकिरत्कर्ण दीप्यमानैरिवाहिभिः ॥8-97-92b

तस्य ज्याच्छेदनं कर्णो ज्यावधानं च संयुगे ।
नान्वभुध्यत शीघ्रत्वात्तदद्भुतमिवाभवत् ॥8-97-93b

अस्त्रैरस्त्राणि संवार्य प्रनिघ्नन्सव्यसाचिनः ।
चक्रे चाप्यधिकं पार्थात्स्ववीर्यमतिदर्शयन् ॥8-97-94b

ततः कर्णोऽर्जुनं दृष्ट्वा स्वस्यास्त्रेण च पीडितम् ।
अभ्यसेत्यब्रवीत्पार्थमातिष्ठास्त्रं व्रजेति च ॥8-97-95b

ततोऽग्निसदृशं घोरं शरं सर्पविषोपमम् ।
अश्मसारमयं दिव्यमभिमत्र्य परंतपः ।
रौद्रमस्रं समाधाय क्षेतुकामः किरीटिने ॥8-97-96c

ततोऽग्रसन्मही चक्रं राधेयस्य तदा नृप ॥8-97-97a

ततोऽवतीर्य राघेयो रथादाशु समुद्यतः ।
चक्रं भुजाभ्यामालम्ब्य सुमुत्क्षेप्तुमियेष सः ॥8-97-98b

सप्तद्वीपा वसुमती सशैलवनकानना ।
गीर्णाचक्रा समुत्क्षिप्ता कर्णॆन चतुरङ्गुलम् ॥8-97-99b

ग्रस्तचकस्तु राधेयः क्रोधादश्रूण्यवर्तयत् ।
अर्जुनं वीक्ष्य संरब्धमिदं वचनमब्रवीत् ॥8-97-100b

भोभो पार्थ महेष्वास मुहूर्त परिपालय ।
यावच्चक्रमिदं ग्रस्तमुध्दरामि महीतलात् ॥8-97-101b

सव्यं चक्रं महीग्रस्तं दृष्ट्वा दैवादिदं मम ।
पार्थ कापुरुषाचीर्णमभिसन्धिं विसर्जय ॥8-97-102b

न त्वं कापुरुषाचीर्ण मार्गमास्थातुमर्हसि ।
ख्यातस्त्वमसि कौन्तेय विशिष्टो रणकर्मसु ।
विशिष्टतरमेव त्वं कर्तुमर्हसि पाण्डव ॥8-97-103c

प्रकीर्णकेशे विमुखे ब्राह्मणेऽथ कृताञ्जलौ ।
शरणागते न्यस्तशस्त्रे याचमाने तथाऽर्जुन ॥8-97-104b

अबाणे भ्रष्टकवचे भ्रष्टभग्नायुधे तथा ।
न विमुञ्चन्ति शस्त्राणि शूराः साधुव्रते स्थिताः ॥8-97-105b

त्वं च शूरतमो लोके साधुवृत्तश्च पाण्डव ।
अभिज्ञो युध्दधर्माणां तस्मात्क्षममुहूर्तकम् ॥8-97-106b

दिव्यास्त्रविदमेयात्मा कार्तवीर्यसमो युधि ।
यावच्चक्रमिदं ग्रस्तमुद्धरामि महाभुज ॥8-97-107b

न मां रथस्थो भूमिष्ठं विकलं हन्तुमर्हसि ।
न वासुदेवात्त्वत्तो वा पाण्डवेयविभेम्यहम् ॥8-97-108b

त्वं हि क्षत्रियदायादो महाकुलविवर्धनः ।
अतस्त्वां प्रब्रवीम्येष मुहूर्त क्षम पाण्डव ॥8-97-109b

|| इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुध्दे सप्तनवतितमोऽध्यायः ॥



  • 41bगोकर्णा सुमुखी कृतेन इषुणा गोपुत्रसम्प्रेषिता।

गोशब्दात्मजभूषणं सुविहितं सुव्यक्तगोऽसुप्रभम्।।

दृष्ट्वा गोगतकं जहार मुकुटं गोशब्दगोपूरि वै।

गोकर्णासनमर्दनश्च न ययावप्राप्य मृत्योर्वशम्।।