ऋग्वेदः सूक्तं १.८२

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १.८२ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १.८१ ऋग्वेदः मण्डल १
सूक्तं १.८२
गोतमो राहूगणः*
सूक्तं १.८३ →
दे. इन्द्रः। पंक्तिः, ६ जगती
हारियोजनग्रहः

उपो षु शृणुही गिरो मघवन्मातथा इव ।
यदा नः सूनृतावतः कर आदर्थयास इद्योजा न्विन्द्र ते हरी ॥१॥
अक्षन्नमीमदन्त ह्यव प्रिया अधूषत ।
अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी ॥२॥
सुसंदृशं त्वा वयं मघवन्वन्दिषीमहि ।
प्र नूनं पूर्णवन्धुर स्तुतो याहि वशाँ अनु योजा न्विन्द्र ते हरी ॥३॥
स घा तं वृषणं रथमधि तिष्ठाति गोविदम् ।
यः पात्रं हारियोजनं पूर्णमिन्द्र चिकेतति योजा न्विन्द्र ते हरी ॥४॥
युक्तस्ते अस्तु दक्षिण उत सव्यः शतक्रतो ।
तेन जायामुप प्रियां मन्दानो याह्यन्धसो योजा न्विन्द्र ते हरी ॥५॥
युनज्मि ते ब्रह्मणा केशिना हरी उप प्र याहि दधिषे गभस्त्योः ।
उत्त्वा सुतासो रभसा अमन्दिषुः पूषण्वान्वज्रिन्समु पत्न्यामदः ॥६॥

मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१

सायणभाष्यम्

उपोष्विति षळ्ऋचं नवमं सूक्तम् गोतमस्यार्षमैन्द्रं अन्त्या जगती आद्याः पङ्क्तयः अनुक्रान्तं च- उपोषु षड्जगत्यन्तमिति । सूक्तविनियोगो लैङ्गिकः षोडशिशस्त्रे आद्यासुसदृशमित्यादिके द्वे ऋचौ च विनियुज्यन्ते अथ षोडशीति खण्डे सूत्रितम्-उपोषु शृणुही गिरः सुसंदृशं त्वा वयं मघवन्नित्येका द्वे च पङ्क्ती इति । तत्र प्रथमामृचमाह-


उपो॒ षु शृ॑णु॒ही गिरो॒ मघ॑व॒न्मात॑था इव ।

य॒दा नः॑ सू॒नृता॑वतः॒ कर॒ आद॒र्थया॑स॒ इद्योजा॒ न्विं॑द्र ते॒ हरी॑ ॥१

उपो॒ इति॑ । सु । शृ॒णु॒हि । गिरः॑ । मघ॑ऽवन् । मा । अत॑थाःऽइव ।

य॒दा । नः॒ । सू॒नृता॑ऽवतः । करः॑ । आत् । अ॒र्थया॑से । इत् । योज॑ । नु । इ॒न्द्र॒ । ते॒ । हरी॒ इति॑ ॥

उपो इति । सु । शृणुहि । गिरः । मघऽवन् । मा । अतथाःऽइव ।

यदा । नः । सूनृताऽवतः । करः । आत् । अर्थयासे । इत् । योज । नु । इन्द्र । ते । हरी इति ॥

हे मघवन्धनवन्निन्द्र गिरः अस्मदीयाः स्तुतीः उपो उपैव सु शृणुहि उपगत्य सम्यक्शृणु अतथा इव पूर्वं यथाविधस्त्वतद्विपरीतो मा भूः अस्मासु पूर्वं यथा अनुग्रहबुद्धियुक्तः तथाविध एव भवेत्यर्थः अपि च नोऽस्मान्सूनृतावतः प्रियसत्यात्मिकावाक्सूनृता तया स्तुतिरूपया वाचा युक्तान् यदाकरः करोषि आत् अनन्तरं त्वमपि अर्थयासे इत् अर्थयस एव याचयस एव नतदास्से अस्माभिः प्रयुक्तास्तुतीः त्वमपि स्वीकरोषीत्यर्थः अतो हे इन्द्र ते हरी त्वदीयावश्वौ नु क्षिप्रं योज रथे योजय ।। शृणुहि उतश्च प्रत्ययाच्छन्दसि वा वचनमिति वचनात् उतश्च प्रत्ययादितिहेर्लुगभावः । अतथा इव तथेवाचरति तथाति सर्वप्रातिपदिकेभ्य इत्येक इति क्विप् तथातेरप्रत्ययः न तथा इव अतथा इव अव्य- यपूर्वपदप्रकृतिस्वरत्वम्। करः डुकृत्र्करणे लुङि कृमृदृरुहिभ्यश्छन्दसीतिच्लेरङादेशः ननुअडः सति शिष्टत्वात् तित्स्वरेणान्तोदात्तेन भवितव्यम् तर्हि लङिव्यत्ययेन शप् ननुकृत्र्करणेइति भ्वादौ पठ्यते अतोव्यत्ययः कस्मात्क्रियते इति चेत् मैवम् यस्मादस्यधातोस्तत्रपाठः अनार्षः तथाहिकः करत्करतीत्यत्र यदाहतुर्न्यासकारहरदत्तौव्यत्ययेनशविति तस्मादस्य धातोर्भ्वादौ पाठो नास्तीति गम्यते किंच यद्ययं पठ्येत करदित्येवमादिरूपसिद्यर्थं कृमृदृरुहिभ्यश्छन्दसीति करोतेरङ्विधानमनर्थकं स्यात् अस्माल्लङिशपिअस्यरूपसिद्धेः लुङ्लङोरर्थभेदान् लुङ्येतद्रूपसिद्धये कर्तव्य- मङ्विधानमिति चेत् न छन्दसि लुङ्लङ्लिट इति लुङादीनामेकत्रविधानेनार्थभेदाभावादिति अनेन प्रकारेणास्माभिर्धातुवृत्तावयं धातुर्निराकृतः अतो व्यत्ययेनेति सिद्धम् । अर्थयासे अर्थयाञ्चा यां चुरादिरात्मनेपदी लेट्याडागमः । योज युजिर्योगे ण्यन्ताल्लोटि छन्दस्युभयथेतिशपआर्ध- धातुकत्वात्णेरनिटीति णिलोपः द्व्यृचोतस्तिङ इति संहितायां दीर्घत्वम् ।। १ ।।


अक्ष॒न्नमी॑मदन्त॒ ह्यव॑ प्रि॒या अ॑धूषत ।

अस्तो॑षत॒ स्वभा॑नवो॒ विप्रा॒ नवि॑ष्ठया म॒ती योजा॒ न्वि॑न्द्र ते॒ हरी॑ ॥२

अक्ष॑न् । अमी॑मदन्त । हि । अव॑ । प्रि॒याः । अ॒धू॒ष॒त॒ ।

अस्तो॑षत । स्वऽभा॑नवः । विप्राः॑ । नवि॑ष्ठया । म॒ती । योज॑ । नु । इ॒न्द्र॒ । ते॒ । हरी॒ इति॑ ॥

अक्षन् । अमीमदन्त । हि । अव । प्रियाः । अधूषत ।

अस्तोषत । स्वऽभानवः । विप्राः । नविष्ठया । मती । योज । नु । इन्द्र । ते । हरी इति ॥

हे इन्द्र त्वया दत्तान्यन्नानि अक्षन् यजमानाभुक्तवन्तः भुक्त्वा च अमीमदन्त हि तृप्ताश्च प्रियाः स्वकीयास्तनूः अवाधूषत अकंपयन् अतिशयितरसास्वादनेन वक्तुमशक्नुवन्तः शरी राण्यकंपयन् तदनन्तरं स्वभानवः स्वायत्तदीप्तयो विप्राः मेधाविनस्ते नविष्ठया नवितृतमया म तीमत्या स्तुत्या अस्तोषतास्तुवन् अन्यत्पूर्ववद्योज्यम्। अक्षन्अदेर्लुङि लुङ्सनोर्घस्लृ इति घस्ला- देशः मस्त्रेघसेत्यादिनाच्लेर्लुक् गमहनेत्यादिनोपधालोपः खरिचेतिचर्त्वं शासिवसिघसीनांचेतिष त्वम् अइणम उदात्तः । अमीमदन्त मदतृप्तियोगे चुरादिरात्मनेपदी लुङिच्लेश्चङिणिलोपोपधाह्रस्वद्विर्भावसन्वद्भावेत्वदीर्घाः । अधूषत धूत्र्कंपने लुङिसिचिव्यत्ययेनगुणाभावः यद्वा छन्दस्यु- भयथेति सिचः सार्वधातुकत्वेनङित्त्वात् ग्क्ृतिचेतिप्रतिषेधः अथवा धूविधूनने तौदादिकः कुटा- दिः अस्मात्कर्मणिलुङि गाङ्कुटादिभ्य इति सिचोङित्त्वाद्गुणाभावः । नविष्ठया णुस्तुतौ करणभूताया अपि स्तुतेः स्वव्यापारे कर्तृत्वात्तृच् तदन्तात्तुश्छन्दसीतीष्ठन्प्रत्ययः तुरिष्ठेमेयःस्वितितृलोपः । मती सुपांसुलुगिति तृतीयायाः पूर्वसवर्णदीर्घत्वम् मन्त्रे वृषेषपचमनविदेति क्तिन उदात्तत्वम् ।। २ ।।

महापितृयज्ञे सुसंदृशमित्येषा आहवनीयोपस्थाने विनियुक्ता सूत्रितं च- आहवनीयं सुसंदृशं- त्वेति पंक्त्येति ।

सु॒सं॒दृशं॑ त्वा व॒यं मघ॑वन्वन्दिषी॒महि॑ ।

प्र नू॒नं पू॒र्णव॑न्धुरः स्तु॒तो या॑हि॒ वशाँ॒ अनु॒ योजा॒ न्वि॑न्द्र ते॒ हरी॑ ॥३

सु॒ऽस॒न्दृश॑म् । त्वा॒ । व॒यम् । मघ॑ऽवन् । व॒न्दि॒षी॒महि॑ ।

प्र । नू॒नम् । पू॒र्णऽव॑न्धुरः । स्तु॒तः । या॒हि॒ । वशा॑न् । अनु॑ । योज॑ । नु । इ॒न्द्र॒ । ते॒ । हरी॒ इति॑ ॥

सुऽसन्दृशम् । त्वा । वयम् । मघऽवन् । वन्दिषीमहि ।

प्र । नूनम् । पूर्णऽवन्धुरः । स्तुतः । याहि । वशान् । अनु । योज । नु । इन्द्र । ते । हरी इति ॥

हे मघवन्निन्द्र सुसंदृशं सुष्ठु अनुग्रहदृष्ट्या सर्वस्य द्रष्टारं त्वा त्वां वयं वन्दिषीमहि स्तवामहि स्तु- तिकर्तारो भूयास्मेत्याशास्यते अस्मात्रिर्वन्दिभिः स्तुतस्त्वं पूर्णवन्धुरः स्तोतृभ्योदेयैर्धनैःपूरितेन रथेन युक्तः सन् वशान् अनुकामयमानान् अन्यान् यजमानान्प्रति नूनं प्रयाहि अवश्यं प्रतिष्ठस्व योजेत्यादिपूर्ववत्।। वन्दिषीमहि वदिअभिवादनस्तुत्योः आशीर्लिङ् लिङाशिषीतितस्यार्धधातु- कत्वेनलसार्वधातुकस्वराभावेप्रत्ययाद्युदात्तत्वम् । मघवन्नित्यस्यामन्त्रितं पूर्वमविद्यमानवदित्य- विद्यमानवत्त्वे सति पादादित्वान्निघाताभावः ।। ३ ।।


स घा॒ तं वृष॑णं॒ रथ॒मधि॑ तिष्ठाति गो॒विद॑म् ।

यः पात्रं॑ हारियोज॒नं पू॒र्णमि॑न्द्र॒ चिके॑तति॒ योजा॒ न्वि॑न्द्र ते॒ हरी॑ ॥४

सः । घ॒ । तम् । वृष॑णम् । रथ॑म् । अधि॑ । ति॒ष्ठा॒ति॒ । गो॒ऽविद॑म् ।

यः । पात्र॑म् । हा॒रि॒ऽयो॒ज॒नम् । पू॒र्णम् । इ॒न्द्र॒ । चिके॑तति । योज॑ । नु । इ॒न्द्र॒ । ते॒ । हरी॒ इति॑ ॥

सः । घ । तम् । वृषणम् । रथम् । अधि । तिष्ठाति । गोऽविदम् ।

यः । पात्रम् । हारिऽयोजनम् । पूर्णम् । इन्द्र । चिकेतति । योज । नु । इन्द्र । ते । हरी इति ॥

स घ स खल्विन्द्रः वृषणं कामाभिवर्षकं गोविदं गवां लंभयितारं तं रथं अधितिष्ठाति ईदृशं रथं अधितिष्ठतु आरूढो भवतु हे इन्द्र यो रथः हारियोजनं एतत्संज्ञकधानामिश्रितं पूर्णसोमेन पूर्णं पात्रं चिकेतति ज्ञापयति तं रथं अधितिष्ठेति पूर्वेणान्वयः अधिष्ठाय च त्वदीयावश्वौ क्षिप्रंयोजय ।। घ ऋचि तुनुघेति दीर्घः । रथं अधिशीङ्स्थासांकर्मेत्यधिकरणस्य कर्मसंज्ञा । तिष्ठाति तिष्ठतेर्लेट्याडागमः। चिकेतति कित ज्ञाने लेट्यडागमः जुहोत्यादित्वाच्छपःश्लुः बहुलंछन्दसीति वक्तव्यमिति वचनात् नाभ्यस्तस्याचिपितीति लघूपधगुणप्रतिषेधो न भवति ।। ४ ।।


यु॒क्तस्ते॑ अस्तु॒ दक्षि॑ण उ॒त स॒व्यः श॑तक्रतो ।

तेन॑ जा॒यामुप॑ प्रि॒यां म॑न्दा॒नो या॒ह्यन्ध॑सो॒ योजा॒ न्वि॑न्द्र ते॒ हरी॑ ॥५

यु॒क्तः । ते॒ । अ॒स्तु॒ । दक्षि॑णः । उ॒त । स॒व्यः । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

तेन॑ । जा॒याम् । उप॑ । प्रि॒याम् । म॒न्दा॒नः । या॒हि॒ । अन्ध॑सः । योज॑ । नु । इ॒न्द्र॒ । ते॒ । हरी॒ इति॑ ॥

युक्तः । ते । अस्तु । दक्षिणः । उत । सव्यः । शतक्रतो इति शतऽक्रतो ।

तेन । जायाम् । उप । प्रियाम् । मन्दानः । याहि । अन्धसः । योज । नु । इन्द्र । ते । हरी इति ॥

हे शतक्रतो बहुकर्मवन्निन्द्र त्वे त्वदीये रथे दक्षिणो दक्षिणपार्श्वस्थोऽश्वोयुक्तोऽस्तु उत अपि च सव्यः वामपार्श्वस्थोपियुक्तोऽस्तु तेन रथेन अन्धसः सोमलक्षणस्यान्नस्य पानेन मन्दानो मत्तस्त्वं प्रियां प्रीणयित्रीं जायामुपयाहि सा यत्र वर्तते तत्र गच्छेत्यर्थः तदर्थं हे इन्द्र त्वदीयावश्वौ रथे क्षिप्रं योजय अनयोत्तरया च पीतसोमस्येन्द्रस्य स्वगृहं प्रतिप्रस्थानं प्रतिपाद्यते ।। मन्दानः मदिस्तुतिमोदमदस्वमकान्तिगतिषु लिटःकानच् द्विर्वचनप्रकरणे छन्दसिवेतिवक्तव्यमिति द्विर्वचनाभावः । अन्धसः अद भक्षणे अदेर्नुम् धश्च(उ.सू. ४.६४५) इत्यसुन्धातोर्नुमागमो धकारान्तादेशश्च ।। ५ ।।

अन्त्येष्वहःसु हारियोजनस्य युनज्मीत्येषा याज्या। सूत्रितं च-युनज्मि ते ब्रह्मणा केशिना हरी इति याज्यानुवाक्ये अन्त्येष्वहःस्विति । तामेतां सूक्ते षष्ठीमृचमाह—

यु॒नज्मि॑ ते॒ ब्रह्म॑णा के॒शिना॒ हरी॒ उप॒ प्र या॑हि दधि॒षे गभ॑स्त्योः ।

उत्त्वा॑ सु॒तासो॑ रभ॒सा अ॑मन्दिषुः पूष॒ण्वान्व॑ज्रि॒न्समु॒ पत्न्या॑मदः ॥६

यु॒नज्मि॑ । ते॒ । ब्रह्म॑णा । के॒शिना॑ । हरी॒ इति॑ । उप॑ । प्र । या॒हि॒ । द॒धि॒षे । गभ॑स्त्योः ।

उत् । त्वा॒ । सु॒तासः॑ । र॒भ॒साः । अ॒म॒न्दि॒षुः॒ । पू॒ष॒ण्ऽवान् । व॒ज्रि॒न् । सम् । ऊं॒ इति॑ । पत्न्या॑ । अ॒म॒दः॒ ॥

युनज्मि । ते । ब्रह्मणा । केशिना । हरी इति । उप । प्र । याहि । दधिषे । गभस्त्योः ।

उत् । त्वा । सुतासः । रभसाः । अमन्दिषुः । पूषण्ऽवान् । वज्रिन् । सम् । ऊं इति । पत्न्या । अमदः ॥

हे इन्द्र केशिना केशयुक्तौ शिखावन्तौ ते हरी त्वदीयावश्वौ ब्रह्मणा स्तोत्ररूपेण मन्त्रेण युनेज्मि रथे संयोजयामि तेन रथेन उपप्रयाहि त्वद्गृहमुपगच्छ गभस्त्योः बाहुनामैतत् बाह्वोः अश्वबन्धकान् रश्मीन्दधिषे धारयस्व त्वा त्वां सुतासो यज्ञेऽभिषुताः सोमाः रभसाः वेगवन्तः तीव्राः क्षिप्रमदकारिण- इत्यर्थः उदमन्दिषुः उत्कृष्टमदयुक्तमकार्षुः। हे वज्रिन् अतस्त्वं स्वगृहं गत्वा पूषण्वान्। अत्र पूषन् शब्दः पुष्टौ वर्तते। पुष्टिर्वै पूषा पुष्टिमेवावरुन्ध इति श्रुतेः । सोमपानजनितया पुष्ट्या युक्तः सन्पत्न्या स्वभार्यया सह समु अमदः सम्यगेव तृप्तो भव ।। केशिना केशशब्दान्मत्वर्थीय इनिः। सुपांसुलुगिति विभक्तेराकारः ।रभसाः । अर्शआदित्वादच् । अमन्दिषुः व्यत्ययेन परस्मैपदम् । पूषण्वान्पुषपुष्टौ श्वन्नुक्षन्नित्यादौ पूषन्निति निपात्यते। तच्चात्र भावसाधनं द्रष्टव्यम्। पूषाअस्यास्तीति पूषण्वान्मादुपधाया इति मतुपो वत्वम् । नलोपे अनोनुडिति नुट्। ह्रस्वनुड्भ्यां मतुप् इति मतुप उदात्तत्वम् । अमदः। मदी हर्षे छन्दसि लुङ्लङ्लिटः इति प्रार्थनायां लङ्। श्यनि प्राप्ते व्यत्ययेन शप् ।। ६ ।।

[सम्पाद्यताम्]

टिप्पणी

  • अस्य सूक्तस्य ऋषिः गोतमः रहूगणस्य पुत्रः अस्ति। रहूगणः अर्थात् रंहूगणः। मनुष्यस्य रथः मार्गोपरि रङ्हणं करोति, देवानां रथः रोहणं करोति। नारद पुराणे एवं भागवत पुराणे सौवीरराजस्य रहूगणस्य कथा प्रसिद्धमस्ति। अस्मिन् कथायां रहूगणः स्वशिबिकायाः वहनार्थाय जड भरतस्य योजनं करोति। जड भरतस्य योजनकारणेन शिबिकायाः गत्याः उच्चावचनं भवति एवं तत्पश्चात् सौवीरराजस्य जड भरतेन सह संवादं प्रचलति। रथस्य रंहणे गोतमः केन प्रकारेण परिवर्तनं कर्तुं शक्यते। गोतमः अर्थात् यः सूर्यस्य रश्मीनां स्वहितार्थाय उपयोगं कर्तुं सर्वाधिकः समर्थः अस्ति। सूर्यरश्मिरूप प्राणानां उपयोगः सः जडप्रकृत्याः (अहल्यायाः) रूपांतरणे करोति। गोतमस्य वैशिष्ट्यं अस्ति यत् यत्र - यत्र सः भूम्यामुपरि गर्तं निर्माति, तत्र - तत्र गर्तः उदकेन पूरितं भवति। अयं उदकं किं भवितुं शक्यते। अयं आनन्दस्य रसं भवितुं शक्यते। जैमिनीय ब्राह्मणे कथनमस्ति यत् गोतमस्य इच्छा स्वप्रजायां श्रद्धायाः समावेशस्य अस्ति। लौकिक रूपेण प्रचलितस्य राहुग्रहस्य दृष्ट्या, यदा राहोः असुरस्य सृष्टिरभवत्, तदा राहुः क्षुधया पीडितः अभवत्। तेन शिवतः भोजनं अपृच्छत्। शिवः कथयति यत् त्वं भोजनरूपेण स्वअङ्गानि भक्षय। अनेन कारणेन राहुग्रहः शिरोमात्रमस्ति। अङ्गानां भक्षणस्य तात्पर्यं एकान्तिक साधना, आनन्दरहित साधना अस्ति। डा. फतहसिंहः रहूशब्द व्याख्या रह - रहस्ये अनुसारं करोति स्म।

रहूगणोपरि टिप्पणी


उन्नेतर्ऋत्विजोपरि टिप्पणी

हरिरुपरि डा. श्रद्धा चौहानस्य अभिव्यक्तिः

पुराणेषु सार्वत्रिक रूपेण हरि शब्दस्य निरुक्तिः एवं भवति - यः त्रयाणां लोकानां दुःखस्य हरणं करोति, सः हरिरस्ति। कथनं सरलमस्ति, क्रियान्वनं कठिनं। सूर्यः ब्रह्माण्डतः ऊर्जायाः कर्षणं स्वरश्मिभिः करोति, इति ब्राह्मणग्रन्थेषु कथितमस्ति। सूर्यस्य रश्मयः एव तस्य हयाः सन्ति। मर्त्य स्तरे, आत्मा सूर्यस्य रूपमस्ति, इन्द्रियाणि तस्य हया सन्ति। अपि च, द्युलोके हरणस्य यः कार्यं सूर्यः स्वरश्मिभिः करोति, मर्त्यलोके तत् कार्यं गजः स्वशुण्डेन करोति। अतः गजस्य संदर्भ तस्य शुण्ड एव रश्मिः अस्ति।

सोमयागस्य अन्तिमं कृत्यं हारियोजनग्रहः भवति यत्र उन्नेता ऋत्विजः द्रोणकलशं स्व मूर्द्ध्नि स्थापयित्वा तेन अग्न्यां सोमाहुतिः ददाति। तत्पश्चात् चमसाध्वर्यवः द्रोणकलशे धानां विकीर्य तस्य भक्षणं कुर्वन्ति। एते धानाः ऋणात्मकेन स्थितितः धनात्मके स्थित्यां प्रवेशस्य प्रतीकाः सन्ति। हारियोजन ग्रहस्य संदर्भे, इन्द्रं स्तुवन्ति यत् सः स्वरथे हरि-द्वयस्य योजनं करोतु(योजा न्विद्र ते हरी - ऋ. १.८२)। ब्राह्मणेषु कथनमस्ति यत् ऋक् - सामः इन्द्रस्य हरी सन्ति। अन्यत्र (तैत्तिरीय संहिता २.५.६.२) कथनमस्ति यत् दर्श एवं पूर्णमासः इन्द्रस्य हरी सन्ति। एभिः वाक् दर्शमस्ति, ददृश इव हि वाक् भवति, सा अदृश्यमिव एव भवति, शकुनादिरूपेण कदाचिदेव प्रकटीभवति। पूर्णमा मनः अस्ति, तत् मनस्य द्विरूपाः सन्ति - अचेतन मनः एवं चेतन मनः। पूर्णिमायाः मनः पूर्णरूपेण चैतन्यमनस्य प्रतीकमस्ति। कौशीतकि ब्राह्मण १७.१ मध्ये कथनमस्ति यत् प्राणः एव हरिरस्ति। अयं संकेतं करोति यत् प्राणः सूर्यस्य अथवा हरेः रूपमस्ति एवं मन - वाक् तस्य हरी सन्ति। एवं प्रकारेण सूर्य, पृथिवी एवं चन्द्रमसः त्रिक् अथवा संवत्सरस्य निर्माणं भवति। यदा एवं भवति, तदैव हरिः दुःखानां हरणं कर्तुं शक्नोति। यदा प्राणः भक्ष्यस्य आहरणं कर्तुं इच्छति, तदा वाक् एवं मनः भक्ष्यपदार्थस्य उचितानुचितस्य निर्णयं करिष्यन्तः।

हरेः प्रतिमायां चतुर्बाहुषु शंख, चक्र, पद्म एवं गदा भवन्ति। शंखः धनात्मकतायाः प्रदाता अस्ति, एवं पुराणेषु कथनमस्ति। - - - -



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.८२&oldid=159380" इत्यस्माद् पुनः प्राप्तिः