ऋग्वेदः सूक्तं १.१०३
← सूक्तं १.१०२ | ऋग्वेदः - मण्डल १ सूक्तं १.१०३ कुत्स आङ्गिरसः |
सूक्तं १.१०४ → |
दे. इन्द्रः। त्रिष्टुप्। |
तत्त इन्द्रियं परमं पराचैरधारयन्त कवयः पुरेदम् ।
क्षमेदमन्यद्दिव्यन्यदस्य समी पृच्यते समनेव केतुः ॥१॥
स धारयत्पृथिवीं पप्रथच्च वज्रेण हत्वा निरपः ससर्ज ।
अहन्नहिमभिनद्रौहिणं व्यहन्व्यंसं मघवा शचीभिः ॥२॥
स जातूभर्मा श्रद्दधान ओजः पुरो विभिन्दन्नचरद्वि दासीः ।
विद्वान्वज्रिन्दस्यवे हेतिमस्यार्यं सहो वर्धया द्युम्नमिन्द्र ॥३॥
तदूचुषे मानुषेमा युगानि कीर्तेन्यं मघवा नाम बिभ्रत् ।
उपप्रयन्दस्युहत्याय वज्री यद्ध सूनुः श्रवसे नाम दधे ॥४॥
तदस्येदं पश्यता भूरि पुष्टं श्रदिन्द्रस्य धत्तन वीर्याय ।
स गा अविन्दत्सो अविन्ददश्वान्स ओषधीः सो अपः स वनानि ॥५॥
भूरिकर्मणे वृषभाय वृष्णे सत्यशुष्माय सुनवाम सोमम् ।
य आदृत्या परिपन्थीव शूरोऽयज्वनो विभजन्नेति वेदः ॥६॥
तदिन्द्र प्रेव वीर्यं चकर्थ यत्ससन्तं वज्रेणाबोधयोऽहिम् ।
अनु त्वा पत्नीर्हृषितं वयश्च विश्वे देवासो अमदन्ननु त्वा ॥७॥
शुष्णं पिप्रुं कुयवं वृत्रमिन्द्र यदावधीर्वि पुरः शम्बरस्य ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥८॥
सायणभाष्यम्
‘ तत्ते ' इति अष्टर्चं दशमं सूक्तं कुत्सस्यार्षमैन्द्रं त्रैष्टुभम् । तथा चानुक्रान्तं-- तत्तेऽष्टौ ' इति । तृतीये छन्दोमे निष्केवल्ये इदं सूक्तं निविद्धानम्। ‘विश्वजितः' इति खण्डे सूत्रितं-’ तत्त इन्द्रियमिति निष्केवल्यम्' ( आश्व. श्रौ. ८. ७ ) इति ॥
तत्त॑ इंद्रि॒यं प॑र॒मं प॑रा॒चैरधा॑रयंत क॒वयः॑ पु॒रेदं ।
क्ष॒मेदम॒न्यद्दि॒व्य१॒॑न्यद॑स्य॒ समी॑ पृच्यते सम॒नेव॑ के॒तुः ॥१
तत् । ते॒ । इ॒न्द्रि॒यम् । प॒र॒मम् । प॒रा॒चैः । अधा॑रयन्त । क॒वयः॑ । पु॒रा । इ॒दम् ।
क्ष॒मा । इ॒दम् । अ॒न्यत् । दि॒वि । अ॒न्यत् । अ॒स्य॒ । सम् । ई॒मिति॑ । पृ॒च्य॒ते॒ । स॒म॒नाऽइ॑व । के॒तुः ॥१
तत् । ते । इन्द्रियम् । परमम् । पराचैः । अधारयन्त । कवयः । पुरा । इदम् ।
क्षमा । इदम् । अन्यत् । दिवि । अन्यत् । अस्य । सम् । ईमिति । पृच्यते । समनाऽइव । केतुः ॥१
हे इन्द्र "ते त्वदीयं “परमम् उत्कृष्टं “तत् प्रसिद्धम् “इदं वर्तमानम् “इन्द्रियं बलं "पुरा पूर्वस्मिन् काले "कवयः क्रान्तदर्शिनः स्तोतारः “पराचैः पराचीनं पराङ्मुखम् । यद्वा । पराचैः पराञ्चनैः। परागमनैर्युक्तम् । युद्धाभिमुखमेव “अधारयन्त धृतवन्तः । अपि च "अस्य इन्द्रस्य “अन्यत् एकम् इदम् अग्न्याख्यं ज्योतिः “क्षमा क्षमायां भूमौ वर्तते । “अन्यत् अप्येकं सूर्याख्यं “दिवि द्युलोके । “ई तदिदमुभयविधमिन्द्रस्य ज्योतिः “सं “पृच्यते परस्परं संयुज्यते । रात्रावादित्योऽग्निना संयुक्तो भवति । ‘अग्निं वावादित्यः सायं प्रविशति तस्मादग्निर्दूरान्नक्तं ददृशे' इति श्रुतेः । अहनि त्वग्निः सूर्येण संगच्छते । ‘ उद्यन्तं वावादित्यमग्निरनुसमारोहति तस्माद्धूम एवाग्नेर्दिवा ददृशे' (तै. ब्रा. २. १.२. ९-१० ) इति श्रुतेः । अनयोः परस्परसंगमने दृष्टान्तः । “समनेव केतुः । समनशब्दः संग्रामवाची । यथा समने संग्रामे युध्यमानयोः उभयोः केतुर्ध्वजो ध्वजान्तरेण संयुज्यते तद्वत् ॥ इन्द्रियम् । इन्द्रस्य लिङ्गं बलम् । इन्द्रियमिन्द्रलिङ्गम् ' इति घच्प्रत्ययान्तो निपात्यते । पराचैः । अव्ययमेतत् उच्चैर्नीचैरिति यथा । यास्कस्त्वाह-’ पराचैः पराञ्चनैः ' ( निरु. ११. २५) इति । क्षमा । ‘सुपां सुलुक् ' इति सप्तम्या लुक् । ईमो मलोपः सांहितिकश्छान्दसः । समनेव । षम ष्टम अवैक्लव्ये '। ‘ अन्येभ्योऽपि दृश्यते ' ( पा. सू. ३. ३. १३० ) इति युच् । ‘सुपां सुलुक् ' इति सप्तम्या आकारः । ‘ इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च ' इति समासः ॥
स धा॑रयत्पृथि॒वीं प॒प्रथ॑च्च॒ वज्रे॑ण ह॒त्वा निर॒पः स॑सर्ज ।
अह॒न्नहि॒मभि॑नद्रौहि॒णं व्यह॒न्व्यं॑सं म॒घवा॒ शची॑भिः ॥२
सः । धा॒र॒य॒त् । पृ॒थि॒वीम् । प॒प्रथ॑त् । च॒ । वज्रे॑ण । ह॒त्वा । निः । अ॒पः । स॒स॒र्ज॒ ।
अह॑न् । अहि॑म् । अभि॑नत् । रौ॒हि॒णम् । वि । अह॑न् । विऽअं॑सम् । म॒घऽवा॑ । शची॑भिः ॥२
सः । धारयत् । पृथिवीम् । पप्रथत् । च । वज्रेण । हत्वा । निः । अपः । ससर्ज ।
अहन् । अहिम् । अभिनत् । रौहिणम् । वि । अहन् । विऽअंसम् । मघऽवा । शचीभिः ॥२
सः इन्द्रः “पृथिवीम् असुरैः पीडितां भूमि “धारयत् धृतवान् । पीडाराहित्येन स्थिताम् अकरोदित्यर्थः । तदनन्तरं "पप्रथच्च तां भूमिं विस्तीर्णामकरोत् । अपि च "वज्रेण आयुधेन हन्तव्यान् वृत्रादीन् “हत्वा “अपः वृष्ट्युदकानि “निः “ससर्ज मेघान्निर्गमयामास । एतदेव स्पष्टीक्रियते । “अहिम् । अन्तरिक्षे वर्तमानं मेघम् अहन् वज्रेण वर्षणार्थमताडयत् । “रौहिणम् । रौहिणो नाम कश्चिदसुरः । तं च "वि “अभिनत् व्यदारयत् । अपि च “मघवा धनवानिन्द्रः “शचीभिः आत्मीयैर्युद्धकर्मभिः “व्यंसं विगतभुजं वृत्रासुरम् "अहन् अवधीत् ॥ पप्रथत् । पृथुं करोति प्रथयति । ‘ तत्करोति । इति णिच् । णाविष्ठवत्प्रातिपदिकस्य कार्यम् ' ( पा. सू. ६. ४. १५५. १ ) इति वचनात् ‘र ऋतो हलादेर्लघोः ' ( पा. सू. ६. ४. १६१ ) इति ऋकारस्य रत्वम् । ‘ टेः ' इति टिलोपः । तस्य स्थानिवद्भावात् वृद्ध्यभावः । प्रथयतेर्लुङि चङि णिलोपः। द्विर्वचने ‘चङ्यन्यतरस्याम्' ( पा. सू. ६. १. २१८) इति चङः पूर्वस्योदात्तत्वम् । न णिलोपस्य स्थानिवत्त्वं, ‘न पदान्त ' इत्यादिना स्वरविधिं प्रति तन्निषेधात् । पूर्वपदस्य असमानवाक्यस्थत्वात् निघाताभावः ॥
स जा॒तूभ॑र्मा श्र॒द्दधा॑न॒ ओजः॒ पुरो॑ विभिं॒दन्न॑चर॒द्वि दासीः॑ ।
वि॒द्वान्व॑ज्रिं॒दस्य॑वे हे॒तिम॒स्यार्यं॒ सहो॑ वर्धया द्यु॒म्नमिं॑द्र ॥३
सः । जा॒तूऽभ॑र्मा । श्र॒त्ऽदधा॑नः । ओजः॑ । पुरः॑ । वि॒ऽभि॒न्दन् । अ॒च॒र॒त् । वि । दासीः॑ ।
वि॒द्वान् । व॒ज्रि॒न् । दस्य॑वे । हे॒तिम् । अ॒स्य॒ । आर्य॑म् । सहः॑ । व॒र्ध॒य॒ । द्यु॒म्नम् । इ॒न्द्र॒ ॥३
सः । जातूऽभर्मा । श्रत्ऽदधानः । ओजः । पुरः । विऽभिन्दन् । अचरत् । वि । दासीः ।
विद्वान् । वज्रिन् । दस्यवे । हेतिम् । अस्य । आर्यम् । सहः । वर्धय । द्युम्नम् । इन्द्र ॥३
“जातूभर्मा । जातू इत्यशनिमाचक्षते । भर्म आयुधम् । अशनिरूपमायुधं यस्य स तथोक्तः । यद्वा जातानां प्रजानां भर्ता । "ओजः ओजसा बलेन निष्पाद्यं कार्यं “श्रद्दधानः आदरातिशयेन कामयमानः' एवंभूतः “सः इन्द्रः "दासीः दस्युसंबन्धीनि “पुरः पुराणि विभिन्दन् विनाशयन् “वि “अचरत् विविधमगच्छत् । हे “वज्रिन् वज्रवन् इन्द्र “विद्वान् स्तुतीः विजानंस्त्वम् “अस्य स्तोतुः “दस्यवे उपक्षयकारिणे शत्रवे “हेतिम् आयुधं विसृजेति शेषः । अपि च हे “इन्द्र “आर्यं “सहः । आर्या विद्वांसः स्तोतारः । तदीयं बलं “वर्धय अतिवृद्धं कुरु । तथा “द्युम्नं तदीयं यशश्च प्रवर्धय ।। जातूभर्मा । ‘ जनी प्रादुर्भावे । ‘ अन्येष्वपि दृश्यते ' इति दृशिग्रहणस्य सर्वोपाधिव्यभिचारार्थत्वात् केवलादपि डप्रत्ययः । जान् तूर्वतीति जातूः । ‘तुर्वी हिंसार्थः । क्विपि ‘राल्लोपः' इति वलोपः । भ्रियते इति भर्म । अन्येभ्योऽपि दृश्यन्ते' इति मनिन् । जातूः भर्म यस्य । छान्दसो रेफलोपः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । पक्षान्तरे तु जनेर्निष्ठा । ‘ जनसनखनाम्' इति आत्वम् । जातं सर्वं भर्म भर्तव्यं येन । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । वर्णव्यापत्त्या अकारस्य ऊकारः ॥
तदू॒चुषे॒ मानु॑षे॒मा यु॒गानि॑ की॒र्तेन्यं॑ म॒घवा॒ नाम॒ बिभ्र॑त् ।
उ॒प॒प्र॒यंद॑स्यु॒हत्या॑य व॒ज्री यद्ध॑ सू॒नुः श्रव॑से॒ नाम॑ द॒धे ॥४
तत् । ऊ॒चुषे॑ । मानु॑षा । इ॒मा । यु॒गानि॑ । की॒र्तेन्य॑म् । म॒घऽवा॑ । नाम॑ । बिभ्र॑त् ।
उ॒प॒ऽप्र॒यन् । द॒स्यु॒ऽहत्या॑य । व॒ज्री । यत् । ह॒ । सू॒नुः । श्रव॑से । नाम॑ । द॒धे ॥४
तत् । ऊचुषे । मानुषा । इमा । युगानि । कीर्तेन्यम् । मघऽवा । नाम । बिभ्रत् ।
उपऽप्रयन् । दस्युऽहत्याय । वज्री । यत् । ह । सूनुः । श्रवसे । नाम । दधे ॥४
“नाम शत्रूणां नामकं “तत् इन्द्रस्य बलम् “ऊचुषे उक्तवते स्तुवते यजमानाय “कीर्तेन्यं कीर्तनीयं स्तुत्यम् । नामकं तद्बलं “बिभ्रत् धारयन् “मघवा धनवानिन्द्रः “मानुषा मनुष्याणां संबन्धीनि “इमा इमानि दृश्यमानानि “युगानि अहोरात्रसंघनिष्पाद्यानि कृतत्रेतादीनि सूर्यात्मना निष्पादयतीति शेषः । किं पुनस्तन्नाम । “दस्युहत्याय दस्यूनां वृत्रादीनां हननाय “उपप्रयन् गृहसमीपान्निर्गच्छन् “वज्री वज्रवान् “सूनुः शत्रूणां प्रेरयितेन्द्रः “यद्ध यत् खलु “नाम शत्रूणां नामकं “श्रवसे जयलक्षणाय यशसे “दधे धृतवान् ॥ ऊचुषे । ब्रूञ् व्यक्तायां वाचि'। ‘ ब्रुवो वचिः '। लिटः क्वसुः । ‘ वचिस्वपि । इत्यादिना संप्रसारणम् । चतुर्थ्येकवचने भसंज्ञायां वसोः संप्रसारणम्' इति संप्रसारणम् । शासिवसिघसीनां च ' इति षत्वम् । क्वसुप्रत्ययाद्युदात्तत्वम् । कीर्तेन्यम् । ‘ कॄत संशब्दने ' ।' कृत्यार्थे तवैकेन्” ' इति केन्यप्रत्ययः । मघवा । मघशब्दात् ‘छन्दसीवनिपौ' इति मत्वर्थीयो वनिप्। बिभ्रत् । ‘ डुभृञ् धारणपोषणयोः । शतरि जुहोत्यादित्वात् शपः श्लुः । ‘ भृञामित्' इति अभ्यासस्य इत्वम् । नाभ्यस्ताच्छतुः' इति नुमागमप्रतिषेधः । ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् ।
तद॑स्ये॒दं प॑श्यता॒ भूरि॑ पु॒ष्टं श्रदिंद्र॑स्य धत्तन वी॒र्या॑य ।
स गा अ॑विंद॒त्सो अ॑विंद॒दश्वा॒न्त्स ओष॑धीः॒ सो अ॒पः स वना॑नि ॥५
तत् । अ॒स्य॒ । इ॒दम् । प॒श्य॒त॒ । भूरि॑ । पु॒ष्टम् । श्रत् । इन्द्र॑स्य । ध॒त्त॒न॒ । वी॒र्या॑य ।
सः । गाः । अ॒वि॒न्द॒त् । सः । अ॒वि॒न्द॒त् । अश्वा॑न् । सः । ओष॑धीः । सः । अ॒पः । सः । वना॑नि ॥५
तत् । अस्य । इदम् । पश्यत । भूरि । पुष्टम् । श्रत् । इन्द्रस्य । धत्तन । वीर्याय ।
सः । गाः । अविन्दत् । सः । अविन्दत् । अश्वान् । सः । ओषधीः । सः । अपः । सः । वनानि ॥५
हे ऋत्विग्यजमानलक्षणा जनाः “अस्य “इन्द्रस्य “तत् इदं वीर्यं “पुष्टं प्रवृद्धम् । अत एव “भूरि विस्तीर्णं “पश्यत आलोकयत । तस्मै च “वीर्याय “श्रत “धत्तन बहुमानं कुरुत । किं पुनस्तद्वीर्यमिति चेत् उच्यते । “सः इन्द्रः पणिभिरपहृता: “गाः येन वीर्येण "अविन्दत् अलभत । तथा तैरपहृतान् “अश्वान् “सः इन्द्रो येन "अविन्दत् । अपि च "सः इन्द्रः “ओषधीः ओषध्युपलक्षितां सर्वां भूमिं येन वीर्येणालभत । तथा वृत्रेण निरुद्धाः "अपः वृष्ट्युदकानि "सः इन्द्रो येनालभत । तथा “वनानि वननीयानि संभजनीयानि धनानि "सः इन्द्रो येन वीर्येण प्राप्नोत् ॥ धत्तन ।तप्तनप्तनथनाश्च ' इति तस्य तनादेशः । अविन्दत् । विद्लृ लाभे'। ‘शे मुचादीनाम् ' इति नुम् ॥ ॥ १६ ॥
भूरि॑कर्मणे वृष॒भाय॒ वृष्णे॑ स॒त्यशु॑ष्माय सुनवाम॒ सोमं॑ ।
य आ॒दृत्या॑ परिपं॒थीव॒ शूरोऽय॑ज्वनो वि॒भज॒न्नेति॒ वेदः॑ ॥६
भूरि॑ऽकर्मणे । वृ॒ष॒भाय॑ । वृष्णे॑ । स॒त्यऽशु॑ष्माय । सु॒न॒वा॒म॒ । सोम॑म् ।
यः । आ॒ऽदृत्य॑ । प॒रि॒प॒न्थीऽइ॑व । शूरः॑ । अय॑ज्वनः । वि॒ऽभज॑न् । एति॑ । वेदः॑ ॥६
भूरिऽकर्मणे । वृषभाय । वृष्णे । सत्यऽशुष्माय । सुनवाम । सोमम् ।
यः । आऽदृत्य । परिपन्थीऽइव । शूरः । अयज्वनः । विऽभजन् । एति । वेदः ॥६
"भूरिकर्मणे बहुविधेन शत्रुवधादिरूपेण कर्मणा युक्ताय "वृषभाय वृषभवत् सर्वेषु देवेषु श्रेष्ठाय “वृष्णे सेचनसमर्थाय “सत्यशुष्माय अवितथबलायेन्द्राय तदर्थं “सोमं “सुनवाम होमार्थं रसरूपं करवाम । “शूरः शौर्योपेतः “यः इन्द्रः "आदृत्य धनविषयमादरं कृत्वा “अयज्वनः अयजमानस्य “वेदः धनं विभजन् तस्मात् अयजमानाद्विभक्तं कुर्वन्नपहरन् “एति । यजमानेभ्यस्तद्धनं दातुं गच्छति । तत्र दृष्टान्तः। “परिपन्थीव । यथा मार्गनिरोधकश्चोरो गच्छतां पुण्यपुरुषाणां धनं बलात्कारेणापहृत्य गच्छति तद्वत् ॥ आदृत्य । ‘दृङ् आदरे '। ‘समासेऽनञ्पूर्वे क्त्वो ल्यप् ' (पा. सू. ७. १. ३७ )। तस्य स्थानिवद्भावेन कृत्त्वे सति ‘ह्रस्वस्य पिति कृति ' इति तुक् । परिपन्थीव । 'छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि ' ( पा. सू. ५, २. ८९ ) इति इनिप्रत्ययान्तो निपात्यते ।।
तदिं॑द्र॒ प्रेव॑ वी॒र्यं॑ चकर्थ॒ यत्स॒संतं॒ वज्रे॒णाबो॑ध॒योऽहिं॑ ।
अनु॑ त्वा॒ पत्नी॑र्हृषि॒तं वय॑श्च॒ विश्वे॑ दे॒वासो॑ अमद॒न्ननु॑ त्वा ॥७
तत् । इ॒न्द्र॒ । प्रऽइ॑व । वी॒र्य॑म् । च॒क॒र्थ॒ । यत् । स॒सन्त॑म् । वज्रे॑ण । अबो॑धयः । अहि॑म् ।
अनु॑ । त्वा॒ । पत्नीः॑ । हृ॒षि॒तम् । वयः॑ । च॒ । विश्वे॑ । दे॒वासः॑ । अ॒म॒द॒न् । अनु॑ । त्वा॒ ॥७
तत् । इन्द्र । प्रऽइव । वीर्यम् । चकर्थ । यत् । ससन्तम् । वज्रेण । अबोधयः । अहिम् ।
अनु । त्वा । पत्नीः । हृषितम् । वयः । च । विश्वे । देवासः । अमदन् । अनु । त्वा ॥७
हे "इन्द्र “तत् "वीर्यं वीरकर्म "प्रेव "चकर्थ प्रख्यातमिवाकार्षीः । किं पुनस्तद्वीर्यम् । “ससन्तं स्वपन्तं मदोन्मत्तम् "अहिं वृत्रं “वज्रेण कुलिशेन “यत् येन वीर्येण त्वम् 'अबोधयः । प्रबुद्धः सन् मया सह युद्धं करोत्विति “हृषितं तादृशस्य वृत्रस्य हननेन प्राप्तहर्षं त्वाम् “अनु पश्चात् "पत्नीः देवपत्न्यः “अमदन् हर्षं प्राप्ताः । अपि च “वयश्च गमनशीला मरुतोऽपि तथा “विश्वे “देवासः अन्ये च सर्वे देवाः त्वाम् “अनु पश्चात् अमदन अमाद्यन् ॥ ससन्तम् । षस स्वप्ने '। अदादित्वात् शपो लुक् । पत्नीः ।' वा छन्दसि ' इति पूर्वसवर्णदीर्घत्वम् । अमदन् । मदी हर्षे '। व्यत्ययेन शप् ॥
शुष्णं॒ पिप्रुं॒ कुय॑वं वृ॒त्रमिं॑द्र य॒दाव॑धी॒र्वि पुरः॒ शंब॑रस्य ।
तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥८
शुष्ण॑म् । पिप्रु॑म् । कुय॑वम् । वृ॒त्रम् । इ॒न्द्र॒ । य॒दा । अव॑धीः । वि । पुरः॑ । शम्ब॑रस्य ।
तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥८
शुष्णम् । पिप्रुम् । कुयवम् । वृत्रम् । इन्द्र । यदा । अवधीः । वि । पुरः । शम्बरस्य ।
तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥८
हे "इन्द्र त्वं शुष्णादींश्चतुरोऽसुरान् "यदा “अवधीः हतवानसि तदानीं “शम्बरस्य असुरस्य “पुरः नगराणि “वि दारितवानसि । असुराणां मुख्येषु हतेष्वन्यान्यन्यप्यसुरपुराणि विदीर्णानि आसन्नित्यर्थः । यदनेन सूक्तेन प्रार्थितमस्मदीयं तत् मित्रादयः “ममहन्तां पूजितं कुर्वन्तु । शुष्णम् । शुष शोषणे'। अन्तर्भावितण्यर्थात् ' तृषिशुषिरसिभ्यः किच्च ' ( उ. सू. ३. २९२ ) इति नप्रत्ययः । ‘ नित् । इत्यनुवृत्तेराद्युदात्तत्वम् । पिप्रुम् । ‘पॄ” पालनपूरणयोः, पृ इत्येके '। औणादिक कुप्रत्ययः । ‘ छन्दस्युभयथा ' इति तस्य सार्वधातुकत्वे सति शप् । जुहोत्यादित्वात् श्लुः । ‘ अर्तिपिपर्त्योश्च ' इति अभ्यासस्य इत्वम् । कुयवम् । यवो यवनं मिश्रणम् । कुत्सितं यवनमस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । शम्बरस्य । शमयतीति शम्ब आयुधम् । ‘शमेर्बन्' ( उ. सू. ४. ५३४) । ततो मत्वर्थीयो रप्रत्ययः ॥ ॥ १७ ॥
मण्डल १ | ||||||
---|---|---|---|---|---|---|
|