ऋग्वेदः सूक्तं १.१०४
← सूक्तं १.१०३ | ऋग्वेदः - मण्डल १ सूक्तं १.१०४ कुत्स आङ्गिरसः |
सूक्तं १.१०५ → |
दे. इन्द्रः। त्रिष्टुप् |
योनिष्ट इन्द्र निषदे अकारि तमा नि षीद स्वानो नार्वा ।
विमुच्या वयोऽवसायाश्वान्दोषा वस्तोर्वहीयसः प्रपित्वे ॥१॥
ओ त्ये नर इन्द्रमूतये गुर्नू चित्तान्सद्यो अध्वनो जगम्यात् ।
देवासो मन्युं दासस्य श्चम्नन्ते न आ वक्षन्सुविताय वर्णम् ॥२॥
अव त्मना भरते केतवेदा अव त्मना भरते फेनमुदन् ।
क्षीरेण स्नातः कुयवस्य योषे हते ते स्यातां प्रवणे शिफायाः ॥३॥
युयोप नाभिरुपरस्यायोः प्र पूर्वाभिस्तिरते राष्टि शूरः ।
अञ्जसी कुलिशी वीरपत्नी पयो हिन्वाना उदभिर्भरन्ते ॥४॥
प्रति यत्स्या नीथादर्शि दस्योरोको नाच्छा सदनं जानती गात् ।
अध स्मा नो मघवञ्चर्कृतादिन्मा नो मघेव निष्षपी परा दाः ॥५॥
स त्वं न इन्द्र सूर्ये सो अप्स्वनागास्त्व आ भज जीवशंसे ।
मान्तरां भुजमा रीरिषो नः श्रद्धितं ते महत इन्द्रियाय ॥६॥
अधा मन्ये श्रत्ते अस्मा अधायि वृषा चोदस्व महते धनाय ।
मा नो अकृते पुरुहूत योनाविन्द्र क्षुध्यद्भ्यो वय आसुतिं दाः ॥७॥
मा नो वधीरिन्द्र मा परा दा मा नः प्रिया भोजनानि प्र मोषीः ।
आण्डा मा नो मघवञ्छक्र निर्भेन्मा नः पात्रा भेत्सहजानुषाणि ॥८॥
अर्वाङेहि सोमकामं त्वाहुरयं सुतस्तस्य पिबा मदाय ।
उरुव्यचा जठर आ वृषस्व पितेव नः शृणुहि हूयमानः ॥९॥
सायणभाष्यम्
‘ योनिः' इति नवर्चम् एकादशं सूक्तं कुत्सस्यार्षं त्रैष्टुभम् ऐन्द्रम् । 'योनिर्नव' इत्यनुक्रान्तम् । सूक्तविनियोगो लैङ्गिकः ॥
योनि॑ष्ट इंद्र नि॒षदे॑ अकारि॒ तमा नि षी॑द स्वा॒नो नार्वा॑ ।
वि॒मुच्या॒ वयो॑ऽव॒सायाश्वां॑दो॒षा वस्तो॒र्वही॑यसः प्रपि॒त्वे ॥१
योनिः॑ । ते॒ । इ॒न्द्र॒ । नि॒ऽसदे॑ । अ॒का॒रि॒ । तम् । आ । नि । सी॒द॒ । स्वा॒नः । न । अर्वा॑ ।
वि॒ऽमुच्य॑ । वयः॑ । अ॒व॒ऽसाय॑ । अश्वा॑न् । दो॒षा । वस्तोः॑ । वही॑यसः । प्र॒ऽपि॒त्वे ॥१
योनिः । ते । इन्द्र । निऽसदे । अकारि । तम् । आ । नि । सीद । स्वानः । न । अर्वा ।
विऽमुच्य । वयः । अवऽसाय । अश्वान् । दोषा । वस्तोः । वहीयसः । प्रऽपित्वे ॥१
हे “इन्द्र “योनिः वेद्याख्य स्थानं ते तव “निषदे निषदनाय उपवेशनाय “अकारि कृतमस्माभिः प्रकल्पितमभूत् । “तं योनिम् “आ “नि "षीद शीघ्रमागत्य तत्रोपविश । शीघ्रागमने दृष्टान्तः । “स्वानो "नार्वा । अर्वा इति अश्वनाम । यथाश्वः स्वानो हेषाशब्दं कुर्वन् स्वकीयं स्थानं शीघ्रमागच्छति तद्वत् । किं कृत्वा । “वयः अश्वबन्धनार्थान् रश्मीन् “विमुच्य रथाद्विश्लिष्य तथा “अश्वान् रथे योजितांश्च तुरगान् “अवसाय विमुच्य । अत्र निरुक्तम्-' अवसायाश्वानिति स्यतिरुपसृष्टो विमोचने ' (निरु. १. १७ ) इति । कीदृशानश्वान् । “प्रपित्वे यागकाले प्राप्ते । ‘ प्रपित्वे प्राप्तेऽभीकेऽभ्यक्ते' ( निरु. ३. २० ) इति यास्कः । “दोषा रात्रौ “वस्तोः अहनि च “वहीयसः आदरातिशयेन वोढॄन् । निषदे । सदेः संपदादिलक्षणो भावे क्विप्। स्वानः । ‘स्यमु स्वन ध्वन शब्दे' । बहुलवचनात् कर्तरि घरञ् । 'कर्षात्वतः° ' इत्यन्तोदात्तत्वम् । वयः । वियन्ति रथेन सह संगच्छन्ते इति विशब्देन रश्मयः उच्यन्ते । वी गत्यादिषु । औणादिकः इप्रत्ययः टिलोपश्च । द्वितीयार्थे प्रथमा । अवसाय ।' षो अन्तकमर्णि '।आदेचः° ' इति आत्वम् ।' समासेऽनञ्पूर्वे॰ ' इति क्त्वो ल्यबादेशः । वहीयसः । ‘ वह प्रापणे ' । तृजन्तात् वोढृशब्दात् ‘तुश्छन्दसि ' इति ईयसुन् । ' तुरिष्ठेमेयःसु ' इति तृलोपे कर्तव्ये ढत्वधत्वष्टुत्वढलोपानामसिद्धत्वात् तदाश्रितस्य ओत्वस्याप्यभावे तृलोप एव क्रियते ॥
ओ त्ये नर॒ इन्द्र॑मू॒तये॑ गु॒र्नू चि॒त्तान्त्स॒द्यो अध्व॑नो जगम्यात् ।
दे॒वासो॑ म॒न्युं दास॑स्य श्चम्न॒न्ते न॒ आ व॑क्षन्त्सुवि॒ताय॒ वर्णं॑ ॥२
ओ इति॑ । त्ये । नरः॑ । इन्द्र॑म् । ऊ॒तये॑ । गुः॒ । नु । चि॒त् । तान् । स॒द्यः । अध्व॑नः । ज॒ग॒म्या॒त् ।
दे॒वासः॑ । म॒न्युम् । दास॑स्य । श्च॒म्न॒न् । ते । नः॒ । आ । व॒क्ष॒न् । सु॒वि॒ताय॑ । वर्ण॑म् ॥२
ओ इति । त्ये । नरः । इन्द्रम् । ऊतये । गुः । नु । चित् । तान् । सद्यः । अध्वनः । जगम्यात् ।
देवासः । मन्युम् । दासस्य । श्चम्नन् । ते । नः । आ । वक्षन् । सुविताय । वर्णम् ॥२
“त्ये ते “नरः यज्ञस्य नेतारो यजमानाः “ऊतये रक्षणाय “इन्द्रम् "ओ । आ उ इत्येतन्निपातद्वयसमुदायः आकारार्थः । आ “गुः आगच्छन्ति । स चेन्द्र आगतान् “तान् "नू "चित् क्षिप्रं “सद्यः तदानीमेव “अध्वनः अनुष्ठानमार्गान् “जगम्यात् गमयतु प्रापयतु । "देवासः सर्वे देवाः "दासस्य उपक्षपयितुः असुरस्य "मन्युं क्रोधं “श्चम्नन् भक्षयन्तु हिंसन्त्वित्यर्थः । अपि च “ते देवाः “नः अस्माकं “सुविताय सुष्ठु प्राप्तव्याय यज्ञाय “वर्णम् अनिष्टनिवारकमिन्द्रम् “आ “वक्षन् आवहन्तु आनयन्तु ॥ जगम्यात् । गमेः अन्तर्भावितण्यर्थात् लिङि बहुलं छन्दसि ' इति शपः श्लुः । श्चम्नन् । चमु अदने '। लेटि व्यत्ययेन श्ना । शकारोपजनश्छान्दसः । यद्वा । श्चम्नातिः प्रकृत्यन्तरं हिंसार्थं द्रष्टव्यम् । वक्षन् । 'वह प्रापणे ' । लेटि सिब्बहुलं लेटि' इति सिप् । ढत्वकत्वषत्वानि । सुविताय । सुपूर्वादेतेः कर्मणि निष्ठा । तन्वादित्वात् उवङ् । ‘सूपमानात् क्तः' इत्युत्तरपदान्तोदात्तत्वम् । वर्णम् । ‘वृञ् वरणे' । अस्मादन्तर्भावितण्यर्थात् ‘ कॄजॄवृसिद्रुपन्यनिस्वपिभ्यो निच्च ' ( उ. सू. ३. २९० ) इति नप्रत्ययः । नित्त्वादाद्युदात्तत्वम् ॥
अव॒ त्मना॑ भरते॒ केत॑वेदा॒ अव॒ त्मना॑ भरते॒ फेन॑मु॒दन् ।
क्षी॒रेण॑ स्नातः॒ कुय॑वस्य॒ योषे॑ ह॒ते ते स्या॑तां प्रव॒णे शिफा॑याः ॥३
अव॑ । त्मना॑ । भ॒र॒ते॒ । केत॑ऽवेदाः । अव॑ । त्मना॑ । भ॒र॒ते॒ । फेन॑म् । उ॒दन् ।
क्षी॒रेण॑ । स्ना॒तः॒ । कुय॑वस्य । योषे॒ इति॑ । ह॒ते इति॑ । ते इति॑ । स्या॒ता॒म् । प्र॒व॒णे । शिफा॑याः ॥३
अव । त्मना । भरते । केतऽवेदाः । अव । त्मना । भरते । फेनम् । उदन् ।
क्षीरेण । स्नातः । कुयवस्य । योषे इति । हते इति । ते इति । स्याताम् । प्रवणे । शिफायाः ॥३
“केतवेदाः केतं ज्ञातं वेदः परेषां धनं येन स तादृशः कुयवनामासुरः “त्मना आत्मना स्वयमेव “अव “भरते ज्ञातं परेषां धनमपहरति । अपि च सोऽसुरः “उदन् उदकेऽन्तर्वर्तमानः सन् 'फेनं फेनयुक्तमुदकमात्मना स्वयमेव “अव “भरते अपहरति । “क्षीरेण क्षरणशीलेन तेनापहृतेनोदकेन “कुयवस्य असुरस्य "योषे भार्ये “स्नातः स्नानं कुर्वाते । तादृश्यौ स्त्रियौ “शिफायाः । शिफा नाम नदी । तस्याः “प्रवणे निम्ने प्रवेष्टुमशक्येऽगाधप्रदेशे “हते नष्टे “स्यातां भवेताम् । हे इन्द्र त्वं परेषां धनमपहृत्य अन्यैर्दुरवगाहे उदकस्य मध्ये वर्तमानं कुयवं सकुटुम्बमवधीरित्यर्थः ॥ त्मना । ‘ मन्त्रेष्वाङ्यादेरात्मनः । इत्याकारलोपः । भरते। 'हृञ् हरणे'। हृग्रहोर्भः ० ' इति भत्वम् । केतवेदाः । ‘ कित ज्ञाने'। कर्मणि घञ् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । उदन् । ‘पद्दन्' इत्यादिनोदकशब्दस्य उदन्नादेशः । ‘ सुपां सुलुक्' इति सप्तम्या लुक् ॥
यु॒योप॒ नाभि॒रुप॑रस्या॒योः प्र पूर्वा॑भिस्तिरते॒ राष्टि॒ शूरः॑ ।
अ॒ञ्ज॒सी कु॑लि॒शी वी॒रप॑त्नी॒ पयो॑ हिन्वा॒ना उ॒दभि॑र्भरन्ते ॥४
यु॒योप॑ । नाभिः॑ । उप॑रस्य । आ॒योः । प्र । पूर्वा॑भिः । ति॒र॒ते॒ । राष्टि॑ । शूरः॑ ।
अ॒ञ्ज॒सी । कु॒लि॒शी । वी॒रऽप॑त्नी । पयः॑ । हि॒न्वा॒नाः । उ॒दऽभिः॑ । भ॒र॒न्ते॒ ॥४
युयोप । नाभिः । उपरस्य । आयोः । प्र । पूर्वाभिः । तिरते । राष्टि । शूरः ।
अञ्जसी । कुलिशी । वीरऽपत्नी । पयः । हिन्वानाः । उदऽभिः । भरन्ते ॥४
“उपरस्य उदकमध्ये उप्तस्य अवस्थितस्य “आयोः परेषामुपद्रवार्थमितस्ततो गच्छतः कुयवस्यासुरस्य “नाभिः संनद्धम् आवसनस्थानं "युयोप गूढमासीत् । यथान्यैर्न दृश्यते सोऽसुरस्तथाकरोदित्यर्थः । अपि च "पूर्वाभिः पूरयित्रीभिरात्मनापहृताभिरद्भिः “प्र “तिरते सोऽसुरः प्रवर्धते । स च “शूरः शौर्योपेतः “राष्टि राजते च । आत्मीयेन शौर्येण लोके प्रख्यातो भवतीत्यर्थः। तमिममसुरम् “अञ्जसी आञ्जस्योपेता “कुलिशी कुलं शातयन्ती “वीरपत्नी वीरस्य पालयित्री एतत्संज्ञिकास्तिस्रो नद्यः “पयः पयसा तत्संबन्धिना सारभूतेनोदकेन “हिन्वानाः प्रीणयन्त्यः “उदभिः आत्मीयैरुदकैः “भरन्ते धारयन्ति ।। युयोप । ‘युप विमोहने ' । नाभिः । “नहो भश्च ' ( उ. सू. ४. ५६५ ) इति इञ्प्रत्ययः । राष्टि। ‘राजृ दीप्तौ । ‘ बहुलं छन्दसि ' इति शपो लुक् । व्रश्चादिना षत्वे ष्टुत्वम् । पयः । ‘ सुपां सुलुक्° ' इति तृतीयाया लुक् । हिन्वानाः । हिविः प्रीणनार्थः । इदित्त्वात् नुम् । अस्मात्ताच्छीलिकश्चानश् । आगमानुशासनस्यानित्यत्वात् मुगभावः । चानशो लसार्वधातुकत्वाभावात् तत्स्वराभावे चित्स्वर एव शिष्यते ॥
प्रति॒ यत्स्या नीथाद॑र्शि॒ दस्यो॒रोको॒ नाच्छा॒ सद॑नं जान॒ती गा॑त् ।
अध॑ स्मा नो मघवन्चर्कृ॒तादिन्मा नो॑ म॒घेव॑ निष्ष॒पी परा॑ दाः ॥५
प्रति॑ । यत् । स्या । नीथा॑ । अद॑र्शि । दस्योः॑ । ओकः॑ । न । अच्छ॑ । सद॑नम् । जा॒न॒ती । गा॒त् ।
अध॑ । स्म॒ । नः॒ । म॒घ॒ऽव॒न् । च॒र्कृ॒तात् । इत् । मा । नः॒ । म॒घाऽइ॑व । नि॒ष्ष॒पी । परा॑ । दाः॒ ॥५
प्रति । यत् । स्या । नीथा । अदर्शि । दस्योः । ओकः । न । अच्छ । सदनम् । जानती । गात् ।
अध । स्म । नः । मघऽवन् । चर्कृतात् । इत् । मा । नः । मघाऽइव । निष्षपी । परा । दाः ॥५
“यत् यदा “नीथा नयनहेतुभूता "स्या सा पदवी “प्रति “अदर्शि अस्माभिर्दृष्टाभूत् सा च पदवी “दस्योः उपक्षपयितुः कुयवस्यासुरस्य “सदनं गृहम् “अच्छ आभिमुख्येन गात् गता प्राप्ता । तत्र दृष्टान्तः । “जानती स्वकीयं वत्सम् अभिजानती गौः “ओको "न निवासस्थानं स्वकीयं गोष्ठं यथा ऋजु प्राप्नोति । तद्वन्मार्गोऽप्यसुरगृहं प्राप्त इत्यर्थः । “अध “स्म अथानन्तरमेव हे “मघवन् धनवन्निन्द्र “चर्कृतात् पुनःपुनस्तेनासुरेण कृतादुपद्रवात् “नः अस्मान् रक्षेति शेषः । इत् इत्यवधारणे । अस्मान् रक्षैव “नः अस्मान् “मा "परा "दाः मा परित्याक्षीः । अस्माभिर्ज्ञातेन मार्गेण गत्वा अस्मदुपद्रवकारिणमसुरं जहीति तात्पर्यार्थः । तत्र व्यतिरेके दृष्टान्तोऽभिधीयते । “मघेव “निष्षपी । यथा विनिर्गतसपो विनिर्गतशेपः यथेष्टचारी दासीपतिः मघेव यथा धनान्यस्थाने परित्यजति तथास्मान् मा परित्याक्षीरित्यर्थः । अत्र निरुक्तं-निष्पपी स्त्रीकामो भवति विनिर्गतसपः। सपः सपतेः स्पृशतिकर्मणः। मा नो मघेव निष्षपी परा दाः । स यथा धनानि विभजति मा नस्त्वं तथा परा दाः' (निरु. ५.१६) इति ॥ नीथा । ‘णीञ् प्रापणे '। हनिकुषिनीरमिकाशिभ्यः क्थन् ' इति करणे क्थन्प्रत्ययः । गात् । एतेर्लुङि ‘ इणो गा लुङि' इति गादेशः । ‘ गातिस्था' इति सिचो लुक् । बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । चर्कृतात् । करोतेर्यङ्लुगन्तात् ‘निष्ठा ' इति क्तप्रत्ययः । मघाऽइव । ‘शेश्छन्दसि । इति शेर्लोपः ।' निष्षपी। ' षप समवाये । सपति समवैति योन्या संगच्छते इति सपः शेपः । पचाद्यच् । निर्गतो नित्योद्धृतः सपः शेपो यस्य स स्त्रीव्यसनी निष्षपः । वर्णव्यापत्त्या ईकारः । दाः । ‘डुदाञ् दाने' । लुङि ‘ गातिस्था' इति सिचो लुक् । ‘न माङ्योगे ' इत्यडभावः ॥ ॥ १८ ॥
स त्वं न॑ इन्द्र॒ सूर्ये॒ सो अ॒प्स्व॑नागा॒स्त्व आ भ॑ज जीवशं॒से ।
मान्त॑रां॒ भुज॒मा री॑रिषो नः॒ श्रद्धि॑तं ते मह॒त इं॑द्रि॒याय॑ ॥६
सः । त्वम् । नः॒ । इ॒न्द्र॒ । सूर्ये॑ । सः । अ॒प्ऽसु । अ॒ना॒गाः॒ऽत्वे । आ । भ॒ज॒ । जी॒व॒ऽशं॒से ।
मा । अन्त॑राम् । भुज॑म् । आ । रि॒रि॒षः॒ । नः॒ । श्रद्धि॑तम् । ते॒ । म॒ह॒ते । इ॒न्द्रि॒याय॑ ॥६
सः । त्वम् । नः । इन्द्र । सूर्ये । सः । अप्ऽसु । अनागाःऽत्वे । आ । भज । जीवऽशंसे ।
मा । अन्तराम् । भुजम् । आ । रिरिषः । नः । श्रद्धितम् । ते । महते । इन्द्रियाय ॥६
हे “इन्द्र “सः “त्वं “नः अस्मान् “सूर्ये सर्वस्य प्रेरके आदित्ये "आ "भज आभाजय आभिमुख्येन भक्तान" संभक्तान् कुरु । तथा “सः त्वम् “अप्सु अब्देवतासु अस्मानाभाजय । अपि च "जीवशंसे जीवैः प्राणिभिः शंसनीये कामयितव्ये “अनागास्त्वे अपापत्वे पापरहित्येऽस्मानाभाजय । अपि च “नः अस्माकम् “अन्तरां गर्भरूपेण अन्तर्वर्तमानां “भुजं पालयित्रीं प्रजाम् "आ समन्तात् “मा “रीरिषः मा हिंसीः। “ते तव “महते प्रभूताय “इन्द्रियाय बलाय “श्रद्धितम् अस्माभिः श्रद्धानं कृतम् । त्वदीयं बलं बहुमानपूर्वकं स्तुम इत्यर्थः। तस्मात्तादृशबलयुक्तस्त्वं मा रीरिष इति पूर्वेण संबन्धः ॥ अनागास्त्वे । न विद्यते आगः पापं यस्य सोऽनागाः । तस्य भावस्तत्त्वम् । छान्दस उपधादीर्घः । जीवशंसे । 'शंसु स्तुतौ'। कर्मणि घञ्। थाथादिना उत्तरपदान्तोदात्तत्वम् । भुजम् । भुनक्ति पालयतीति भुक् प्रजा। क्विप् । रीरिषः । ‘रिष हिंसायाम्' । स्वार्थे ण्यन्तात् अस्मात् लुङि चङि णिलोपे उपधाह्रस्वत्वादीनि । छान्दसं पदकालीनमभ्यासह्रस्वत्वम् । श्रद्धितम् । श्रच्छब्दस्य ऊर्यादित्वेन ( पा. सू. १. ४. ६१ ) गतित्वात् ‘ गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरत्वम् ॥
अधा॑ मन्ये॒ श्रत्ते॑ अस्मा अधायि॒ वृषा॑ चोदस्व मह॒ते धना॑य ।
मा नो॒ अकृ॑ते पुरुहूत॒ योना॒विन्द्र॒ क्षुध्य॑द्भ्यो॒ वय॑ आसु॒तिं दाः॑ ॥७
अध॑ । म॒न्ये॒ । श्रत् । ते॒ । अ॒स्मै॒ । अ॒धा॒यि॒ । वृषा॑ । चो॒द॒स्व॒ । म॒ह॒ते । धना॑य ।
मा । नः॒ । अकृ॑ते । पु॒रु॒ऽहू॒त॒ । योनौ॑ । इन्द्र॑ । क्षुध्य॑त्ऽभ्यः । वयः॑ । आ॒ऽसु॒तिम् । दाः॒ ॥७
अध । मन्ये । श्रत् । ते । अस्मै । अधायि । वृषा । चोदस्व । महते । धनाय ।
मा । नः । अकृते । पुरुऽहूत । योनौ । इन्द्र । क्षुध्यत्ऽभ्यः । वयः । आऽसुतिम् । दाः ॥७
हे इन्द्र “अध अथ अनन्तरं “मन्ये त्वां मनसा जानामि । “ते तव "अस्मै बलाय “श्रत् “अधायि अस्माभिः श्रद्धा कृता । त्वदीयबलविषयमादरातिशयेन स्तोत्रं कृतमित्यर्थः । “वृषा कामानां वर्षिता स त्वं “महते प्रौढाय “धनाय "चोदस्व चोदय अस्मान् प्रेरय । हे “पुरुहूत पुरुभिर्बहुभिर्यजमानैराहूत इन्द्र "अकृते अनिष्पादिते धनशून्ये “योनौ । गृहनामैतत् । गृहे “नः अस्मान् “मा धाः निधेहि । धनधान्यपूर्णे गृहेऽस्मान् वासयेत्यर्थः । अपि च हे “इन्द्र “क्षुध्यद्भ्यो बुभुक्षितेभ्योऽन्येभ्योऽपि स्तोतृभ्यः “वयः अन्नम् “आसुतिं पेयं क्षीरादिकं च “दाः देहि ॥ अधायि । दधातेः कर्मणि लुङि च्लेश्चिण् । ‘ आतो युक् चिण्कृतोः' इति युक् । क्षुध्यद्भ्यः । ‘ क्षुध बुभुक्षायाम्' । दिवादित्वात् श्यन् । नित्त्वादाद्युदात्तत्वम् ॥
मा नो॑ वधीरिन्द्र॒ मा परा॑ दा॒ मा नः॑ प्रि॒या भोज॑नानि॒ प्र मो॑षीः ।
आ॒ण्डा मा नो॑ मघवञ्छक्र॒ निर्भे॒न्मा नः॒ पात्रा॑ भेत्स॒हजा॑नुषाणि ॥८
मा । नः॒ । व॒धीः॒ । इ॒न्द्र॒ । मा । परा॑ । दाः॒ । मा । नः॒ । प्रि॒या । भोज॑नानि । प्र । मो॒षीः॒ ।
आ॒ण्डा । मा । नः॒ । म॒घ॒ऽव॒न् । श॒क्र॒ । निः । भे॒त् । मा । नः॒ । पात्रा॑ । भे॒त् । स॒हऽजा॑नुषाणि ॥८
मा । नः । वधीः । इन्द्र । मा । परा । दाः । मा । नः । प्रिया । भोजनानि । प्र । मोषीः ।
आण्डा । मा । नः । मघऽवन् । शक्र । निः । भेत् । मा । नः । पात्रा । भेत् । सहऽजानुषाणि ॥८
हे “इन्द्र “नः अस्मान् “मा “वधीः मा हिंसीः । सर्वदा रक्षेत्यर्थः । अपि च “मा “परा "दाः मा परित्याक्षीः । परादानं परित्यागः । अस्मत्कृतां पूजा सर्वदा गृहाणेत्यर्थः । अपि च “नः अस्माकं "प्रिया प्रियाणीप्सितानि “भोजनानि उपभोग्यानि धनानि “मा “प्र “मोषीः मापहार्षीः। अस्मास्वेव धनानि यथा स्युस्तथा कुर्वित्यर्थः । तथा हे "मघवन् धनवन् “शक्र सर्वकार्यशक्तेन्द्र “नः अस्माकम् “आण्डा अण्डसंबन्धीनि गर्भरूपेण निषिक्तान्यपत्यानि “मा “भेत् मा भिनः । गर्भरूपेणावस्थितान् अस्मत्पुत्रान् रक्षेत्यर्थः । “मा च “नः “पात्रा । पतन्ति गच्छन्ति गमनसमर्थानि यानि तान्यपत्यानि पात्राणि । तानि च मा “भेत् मा भिदः । “सहजानुषाणि । जानुभ्यां यानि भूमिं सनन्ति गच्छन्तीत्यर्थः । तानि जानुषाणि । तैः सहितानि मा विनीनशः । वधीः । हन्तेर्माङि लुङि च ' इति वधादेशः । स चादन्तः । सिच् । अतो लोपः' इत्यकारलोपः । तस्य स्थानिवद्भावात् ‘ अतो हलादेः' इति वृद्ध्यभावः । ‘ इट ईटि' इति सिचो लोपः । मोषीः । ‘ मुष स्तेये ' । लुङि सिचः इट् । नेटि ' इति वृद्धिप्रतिषेधः । भेत् ।' भिदिर् विदारणे' । लङि सिपि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । लघूपधगुणः ।' हल्ङ्याब्भ्यः ' इति सिपो लोपः
माध्यंदिने सवने ‘अर्वाङेहि ' इत्येषा पोतुः प्रस्थितयाज्या । सूत्रितं च-अर्वाङेहि सोमकामं त्वाहुस्तवायं सोमस्त्वमेह्यर्वाङ्' ( आश्व. श्रौ. ५. ५) इति ॥
अ॒र्वाङेहि॒ सोम॑कामं त्वाहुर॒यं सु॒तस्तस्य॑ पिबा॒ मदा॑य ।
उ॒रु॒व्यचा॑ ज॒ठर॒ आ वृ॑षस्व पि॒तेव॑ नः शृणुहि हू॒यमा॑नः ॥९
अ॒र्वाङ् । आ । इ॒हि॒ । सोम॑ऽकामम् । त्वा॒ । आ॒हुः॒ । अ॒यम् । सु॒तः । तस्य॑ । पि॒ब॒ । मदा॑य ।
उ॒रु॒ऽव्यचाः॑ । ज॒ठरे॑ । आ । वृ॒ष॒स्व॒ । पि॒ताऽइ॑व । नः॒ । शृ॒णु॒हि॒ । हू॒यमा॑नः ॥९
अर्वाङ् । आ । इहि । सोमऽकामम् । त्वा । आहुः । अयम् । सुतः । तस्य । पिब । मदाय ।
उरुऽव्यचाः । जठरे । आ । वृषस्व । पिताऽइव । नः । शृणुहि । हूयमानः ॥९
हे इन्द्र त्वम् “अर्वाङ् अस्मदभिमुखः सन् “एहि आगच्छ । किं कारणमिति चेत् यस्मात्त्वां “सोमकामं सोमविषयाभिलाषम् “आहुः पुराविदः कथयन्ति ।“अयम् अस्मदीयः सोमः “सुतः ऋत्विग्भिरभिषुतः। अत आगच्छेत्यर्थः । आगत्य च "मदाय हर्षार्थं “तस्य तम् अस्मदीयमभिषुतं सोमं “पिब । एतदेव स्पष्टीक्रियते । “उरुव्यचाः उरु विस्तीर्णं व्यचो व्यापनं यस्य तादृशो महावयवो भूत्वा “जठरे आत्मीये उदरे “आ “वृषस्व सोममासिञ्च । आ समन्तात् पूरयेत्यर्थः । एवंभूतस्त्वं "हूयमानः स्तुतिभिराहूयमानः सन् "पितेव पुत्राणां वाक्यानि शृणोति तथा “नः अस्माकं वाक्यानि “शृणुहि शृणु ॥ सोमकामम् । सोमविषयः कामः अभिलाषो यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । आहुः । ‘ ब्रुवः पञ्चानामादित आहो ब्रुवः' (पा. सू. ३. ४.८४) इति झेः उसादेशः धातोराहादेशश्च । तस्य । क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वात् चतुर्थ्यर्थे षष्ठी । मदाय । ‘मदी हर्षे'। मदोऽनुपसर्गे' इति भावे अप् । उरुव्यचाः । ‘ व्यच व्याजीकरणे'। औणादिकः असिप्रत्ययः । व्यचेः कुटादित्वमनसि' (का. १. २. १. १ ) इति वचनात् ङित्त्वाभावेन संप्रसारणाभावः । परादिश्छन्दसि बहुलम् ' इत्युत्तरपदाद्युदात्तत्वम् । यद्वा । उरु विचति व्याप्नोतीति उरुव्यचाः । कृदुत्तरपदप्रकृतिस्वरत्वम् । वृषस्व । वृष सेचने'। व्यत्ययेनात्मनेपदशप्रत्ययौ । शृणुहि ।' उतश्च प्रत्ययाच्छन्दसि वावचनम् इति हेर्लुगभावः ॥ ॥ १९ ॥
टिप्पणी
मण्डल १ | ||||||
---|---|---|---|---|---|---|
|