स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः १४
← अध्यायः १३ | स्कन्दपुराणम् अध्यायः १४ वेदव्यासः |
अध्यायः १५ → |
॥अर्जुन उवाच॥
कुमारनाथमाहात्म्यं यत्त्वयोक्तं कथांतरे॥
तदहं श्रोतुमिच्छामि विस्तरेण महामुने॥ १४.१ ॥
॥नारद उवाच॥
तारकं विनिहत्यैव वज्रांगतनयं प्रभुः॥
गुहः संस्थापयामास लिंगमेतच्च फाल्गुन॥ १४.२ ॥
दर्शनाच्छ्रवणाद्ध्यानात्पूजया श्रुतिवंदनैः॥
सर्वपापापहः पार्थ कुमारेशो न संशयः॥ १४.३ ॥
॥अर्जुन उवाच॥
अत्याश्चर्यमयी रम्या कथेयं पापनाशिनी॥
विस्तरेण च मे ब्रूहि याथातथ्येन नारद॥ १४.४ ॥
वज्रांगः कोप्यसौ दैत्यः किंप्रभावश्च तारकः॥
कथं स निहतश्चैव जातश्चैव कथं गुहः॥ १४.५ ॥
कथं संस्थापितं लिंगं कुमारेश्वरसंज्ञितम्॥
किं फलं चास्य लिंगस्य ब्रूहि तद्विस्तरान्मम॥ १४.६ ॥
॥नारद उवाच॥
प्रणिपत्य कुमाराय सेनान्ये चेश्वराय च॥
श्रृणु चैकमनाः पार्थ कुमारचरितं महत्॥ १४.७ ॥
मानसो ब्रह्मणः पुत्रो दक्षो नाम प्रजापतिः॥
षष्टिं सोऽजनयत्कन्या वीरिण्यां नाम फाल्गुन॥ १४.८ ॥
ददो स दश धर्माय कश्यपाय त्रयोदश॥
सप्तविंशतिं सोमाय चतस्रोरिष्टनेमिने॥ १४.९ ॥
भूतांगिरः कृशाश्वेभ्यो द्वेद्वे चैव ददौ प्रभुः॥
नामधेयान्यमूषां च सपत्नीनां च मे श्रृणु॥ १४.१० ॥
यासां प्रसूतिप्रभवा लोका आपूरितास्त्रयः॥
भानुर्लम्बा ककुद्भूमिर्विश्वा साध्या मरुत्वती॥ १४.११ ॥
वसुर्सुहूर्ता संकल्पा धर्मपत्न्यः सुताञ्छृणु॥
भानोस्तु देवऋषभ सुतोऽभवत्॥ १४.१२ ॥
विद्योत आसील्लंबायां ततश्च स्तनयित्नवः॥
ककुदः शकटः पुत्रः कीकटस्तनयो यतः॥ १४.१३ ॥
भुवो दुर्गस्तथा स्वर्गो नंदश्चैव ततोऽभवत्॥
विश्वेदेवाश्च विश्वाया अप्रजांस्तान्प्रचक्षते॥ १४.१४ ॥
साध्या द्वादश साध्याया अर्थसिद्धिस्तु तत्सुतः॥
मरुत्वान्सुजयंतश्च मरुत्वत्या बभूवतुः॥ १४.१५ ॥
नरनारायणौ प्राहुर्यौ तौ ज्ञानविदो जनाः॥
वसोश्च वसवश्चाष्टौ मुहूर्तायां मुहूर्तकाः॥ १४.१६ ॥
ये वै फलं प्रयच्छंति भूतानां स्वं स्वकालजम्॥
संकल्पायाश्च संकल्पः कामः संकल्पजः सुतः॥ १४.१७ ॥
सुरूपासूत तनयान्रुद्रानेकादशैव तु॥
कपाली पिंगलो भीमो विरुपाक्षो विलोहितः॥ १४.१८ ॥
अजकः शासनः शास्ता शंभुश्चांत्यो भवस्तथा॥
रुद्रस्य पार्षदाश्चान्ये विरूपायाः सुताः स्मृताः॥ १४.१९ ॥
प्रजापतेरंगिरसः स्वधा पत्नी पितॄनथ॥
जज्ञे सनी(ची?)तथा पुत्रमथर्वागिरसं प्रभुम्॥ १४.२० ॥
कृशाश्वस्य च द्वे भार्ये अर्चिश्च दिषणा तथा॥
अस्त्रगामो ययोः पुत्रः ससंहारः प्रकीर्तितः॥ १४.२१ ॥
पतंगी यामिनी ताम्रा तिमिश्चारिष्टनेमिनः॥
पतंग्यसूत पतगान्यामिनी शलभानथ॥ १४.२२ ॥
ताम्रायाः श्येनगृध्राद्यास्तिमेर्यादोगणास्तथा॥
अथ कश्यपपत्नीनां यत्प्रसूदमिदं जगत्॥ १४.२३ ॥
श्रृणु नामानि लोकानां मातॄणां शंकराणि च॥
अदितिर्दितिर्दनुः सिंही दनायुः सुरभिस्तथा॥ १४.२४ ॥
अरिष्टा विनता ग्रावा दया क्रोधवशा इरा॥
कद्रुर्मुनिश्च ते चोभे मातरस्ताः प्रकीर्तिताः॥ १४.२५ ॥
आदित्याश्चादितेः पुत्रा दितेर्दैत्याः प्रकीर्तिताः॥
दनोश्च दानवाः प्रोक्ता राहुः सिंहीसुतो ग्रहः॥ १४.२६ ॥
दनायुषस्तथा जातो दनायुश्च गणो बली॥
गावश्च सुरभेर्जातारिष्टापुत्रा युगंधराः॥ १४.२७ ॥
विनतासूत अरुणं गरुडं च महाबलम्॥
ग्रावायाः श्वापदाः पुत्रा गणः क्रोधवशस्तथा॥ १४.२८ ॥
जातः क्रोधवशायाश्च इराया भूरुहाः स्मृताः॥
कद्रूसुताः स्मृता नागा मुनेरप्सरसां गणाः॥ १४.२९ ॥
तत्र द्वौ तनयौ यौ च दितेस्तौ विष्णुना हतौ॥
हिरण्यकशिपुर्वीरो हिरण्याक्षस्तथाऽपरः॥ १४.३० ॥
ततो निहतपुत्रा सा दितिराराध्य कश्यपम्॥
अयाचत वरं देवी पुत्रमन्यं महाबलम्॥ १४.३१ ॥
समरे शक्रहंतारं स तस्या अददात्प्रभुः॥
नियमे चापि वर्तस्व वर्षाणां च सहस्रकम्॥ १४.३२ ॥
इत्युक्ता सा तथा चक्रे पुष्करस्था समाहिता॥
वर्तंत्या नियमे तस्याः सहस्राक्षः समाहितः॥ १४.३३ ॥
उपासामाचरद्भक्त्या सा चैनमन्वमन्यत॥
दशवत्सरशेषस्य सहस्रस्य तदा दितिः॥ १४.३४ ॥
उवाच शक्रं सुप्रीता भक्त्या शक्रस्य तोषिता॥
॥दितिरुवाच॥
अत्रोत्तीर्णव्रतप्रायां विद्धि देवसत्तम॥ १४.३५ ॥
भविष्यति तव भ्राता तेन सार्धमिमां श्रियम्॥
भोक्ष्यसे त्वं यथानयायं त्रैलोक्यं हतकंटकम्॥ १४.३६ ॥
इत्युक्त्वा निद्रयाविष्टा चरणाक्रांतमूर्धजा॥
दिवा सुप्ता दितिर्देवी भाव्यर्थबलनोदिता॥ १४.३७ ॥
तत्तु रंध्रमवेक्ष्यैव योगमूर्तिस्तदाविशत्॥
जठरस्थं दितेर्गर्भं चक्रे वज्रेण सप्तधा॥ १४.३८ ॥
एकैकं च पुनः खण्डं चकार मघवा ततः॥
सप्तधा सप्तधा कोपादुद्बुध्य च ततो दितिः॥ १४.३९ ॥
न हंतव्यो न हंतव्य इति सा शक्रमब्रवीत्॥
वज्रेण कृत्त्यमानानां बुद्धा सा रोदनेन च॥ १४.४० ॥
ततः शक्रश्च मा रोदीरिति तांस्तान्यथाऽवदत्॥
निर्गत्य जठरात्तस्मात्ततः प्रांजलिरग्रतः॥ १४.४१ ॥
उवाच वाक्यं चात्रस्तो मातरं रिषपूरिताम्॥
दिवास्वापं कृथा मातः पादाक्रांतशिरोरुहा॥ १४.४२ ॥
सुप्ताथ सुचिरं वाते धिन्नो गर्भो मया तव॥
कृता एकोनपंचाशद्भागा वज्रेण ते सुताः॥ १४.४३ ॥
सत्यं भवतु ते वाक्यं सार्धं भोक्ष्यामि तैः श्रियम्॥
दास्यामि तेषां स्थानानि दिवि यावदहं दिते॥ १४.४४ ॥
मा रोदीरिति मे प्रोक्ताः ख्याताश्च मरुतस्त्विति॥
इत्युक्ता सा च सव्रीडा दितिर्जाता निरुत्तरा॥ १४.४५ ॥
सार्धं तैर्गतवानिंद्रो दिगंते वायवः स्मृताः॥
ततः पुनश्च भर्तारं दितिः प्रोवाच दुःखिता॥ १४.४६ ॥
पुत्रं मे भगवन्देहि शक्रहंतारमूर्जितम्॥
यो नास्त्रशस्त्रैर्वध्यत्वं गच्छेत्त्रिदिववासिनाम्॥ १४.४७ ॥
न ददास्युत्तरं विद्धि मृतामेव प्रजापते॥
इत्युक्तः स तदोवाच तां पत्नीमतिदुःखिताम्॥ १४.४८ ॥
दशवर्षसहस्राणि तपोनिष्ठा तु तप्स्यसे॥
वज्रसारमयैरंगैरच्छेद्यैरायसैर्दृढैः॥ १४.४९ ॥
वज्रांगोनाम पुत्रस्ते भविता धर्मवत्सलः॥
सा तु लब्धवरा देवी जगाम तपसे वनम्॥ १४.५० ॥
दशवर्षसहस्राणि तपो घोरं समाचरत्॥
तपसोंऽते भगवती जनयामास दुर्जयम्॥ १४.५१ ॥
पुत्रमप्रतिकर्माणमजेयं वज्रदुश्छिदम्॥
स जातामात्र एवाभूत्सर्वशा स्त्रार्थपारगः॥ १४.५२ ॥
उवाच मातरं भक्त्या मातः किं करवाण्यहम्॥
तमुवाच ततो हृष्टा दितिर्दैत्याधिपं सुतम्॥ १४.५३ ॥
बहवो मे हताः पुत्राः सहस्राक्षेण पुत्रक॥
तेषआमपचितिं कर्तुमिच्छे शक्रवधादहम्॥ १४.५४ ॥
बाढमित्येव सं प्रोच्य जगाम त्रिदिवं बली॥
ससैन्यं समरे शक्रं स च बाह्वायुधोऽजयत्॥ १४.५५ ॥
पादेनाकृष्य देवेंद्रं सिंहः क्षुद्रमृगं यथा॥
मातुरंतिकमागच्छद्याचमानं भयातुरम्॥ १४.५६ ॥
एतस्मिन्नंतरे ब्रह्मा कश्यपश्च महातपाः॥
आगता तत्र संत्रस्तावथो ब्रह्मा जगाद तम्॥ १४.५७ ॥
मुंचामुं पुत्र याचंतं किमनेन प्रयोजनम्॥
अवमानो वधः प्रोक्तो वीरसंभावितस्य च॥ १४.५८ ॥
अस्मद्वाक्येन यो मुक्तो जीवन्नपि मृतो हि सः॥
शत्रुं ये घ्नंति समरे न ते वीराः प्रकीर्तिताः॥ १४.५९ ॥
कृत्वा मानपरिग्लनिं ये मुंचंति वरा हि ते॥
यतामान्यतमं मत्वा त्वया मातुर्वचः कृतम्॥ १४.६० ॥
तथा पितुर्वचः कार्यं मुंचामुं पुत्र वासवम्॥
एतच्छ्रुत्वा तु वज्रांगः प्रणतो वाक्यमब्रवीत्॥ १४.६१ ॥
न मे कृत्यमनेनास्ति मातुराज्ञा कृता मया॥
त्वं सुरासुरनाथो वै मम च प्रपितामहः॥ १४.६२ ॥
करिष्ये त्वद्वचो देव एष मुक्तः शतक्रतुः॥
न च कांक्षे शक्रभुक्तामिमां त्रैलोक्यराजताम्॥ १४.६३ ॥
परभुक्ता यथा नारी परभुक्तामिवस्रजम्॥
यच्च त्रिभुवनेष्वस्ति सारं तन्मम कथ्यताम्॥ १४.६४ ॥
॥ब्रह्मोवाच॥
तपसो न परं किंचित्तपो हि महतां धनम्॥
तपसा प्राप्यते सर्वं तपोयोग्योऽसि पुत्रक॥ १४.६५ ॥
॥वज्रांग उवाच॥
तपसे मे रतिर्देव न विघ्नं तत्र मे भवेत्॥
त्वत्प्रसादेन भगवन्नित्युक्त्वा विरराम सः॥ १४.६६ ॥
॥ब्रह्मोवाच॥
क्रूरभावं परित्यज्य यदीच्छसि तपः सुत॥
अनया चित्तबुद्ध्या तत्त्वयाप्तं जन्मनः फलम्॥ १४.६७ ॥
इत्युक्त्वा पद्मजः कन्यां ससर्ज्जयतलोचनाम्॥
तामस्मै प्रददौ देवः पत्न्यर्थं पद्मसंभवः॥ १४.६८ ॥
वरांगीति च नामास्याः कृतवांश्च पितामहः॥
जगाम च ततो ब्रह्मा कश्यपेन समं दिवम्॥ १४.६९ ॥
वज्रांगोऽपि तया सार्धं जगाम तपसे वनम्॥
ऊर्द्धूबाहुः स दैत्येंद्रोऽतिष्ठदब्दसहस्रकम्॥ १४.७० ॥
कालं कमलपत्राक्षः शुद्धबुद्धिर्महातपाः॥
तावानधोमुखः कालं तावत्पंचाग्निसाधकः॥ १४.७१ ॥
निराहारो घोरतपास्तपोराशिरजायत॥
ततः सोंऽतर्जले चक्रे कालं वर्षसहस्रकम्॥ १४.७२ ॥
जलांतरप्रविष्टस्य तस्य पत्नी महाव्रता॥
तस्यैव तीरे सरसस्तत्परा मौनमाश्रिता॥ १४.७३ ॥
निराहारं पतिं मत्वा तपस्तेपे पतिव्रता॥
तस्यास्तपसि वर्तंत्या इंद्रश्चक्रे विभीषिकाम्॥ १४.७४ ॥
भूत्वा तु मर्कटाकारस्तस्याअभ्याशमागतः॥
अपविध्य दृशं तस्या मूत्रविष्ठे चकार सः॥ १४.७५ ॥
तथा विलोलवसनां विलोलवदनां तथा॥
विलोलकेशां तां चक्रे विधित्सुस्तपसः क्षतिम्॥ १४.७६ ॥
ततश्च मेषरूपेण क्लेशं तस्याश्चकार सः॥
ततो भुजंगरूपेण बद्धा चरणयोर्द्वयोः॥ १४.७७ ॥
अपाकर्षत दूरं स तस्माद्देवभृतस्तथा॥
तपोबालाच्च सा तस्य न वध्यत्वं जगाम ह॥ १४.७८ ॥
क्षमया च महाभागा क्रोधमण्वपि नाकरोत्॥
ततो गोमायुरूपेण तमदूषयदाश्रमम्॥ १४.७९ ॥
अग्निरूपेण तस्याश्च स ददाह महाश्रमम्॥
चकर्ष वायुरूपेण महोग्रेण च तां शुभाम्॥
एवं सिहवृकाद्याभिर्भीषिकाभिः पुनःपुनः॥ १४.८० ॥
विरराम यदा नैव वज्रांगमहिषी तदा॥
शैलस्य दुष्टतां मत्वा शापं दातुं व्यवस्यत॥ १४.८१ ॥
तां शापाभिमुखीं दृष्ट्वा शैलः पुरुषाविग्रहः॥
उवाच तां वरारोहां त्वरयाथ सुलोचनाम्॥ १४.८२ ॥
॥शैल उवाच॥
नाहं महाव्रते दुष्टः सेव्योऽहं सर्वदेहिनाम्॥
अतिखेदं करोत्येष ततः क्रुद्धस्तु वृत्रहा॥ १४.८३ ॥
एतस्मिन्नंतरे जातः कालो वर्षसहस्रिकः॥
तस्मिन्याते स भगवान्काले कमलसंभवः॥ १४.८४ ॥
तुष्टः प्रोवाच वज्रांगं तमागम्य जलाशये॥ १४.८५ ॥
॥ब्रह्मोवाच॥
ददामि सर्वकामांस्ते उत्तिष्ठ दितिनन्दन॥
एवमुक्तस्तदोत्थाय दैत्येंद्रस्तपसो निधिः॥
उवाच प्रांजलिर्वाक्यं सर्वलोकपितामहम्॥ १४.८६ ॥
॥वज्रांग उवाच॥
आसुरो मेऽस्तु मा भावः शक्रराज्ये च मा रतिः॥
तपोधर्मरतिश्चास्तु वृणोम्येतत्पितामह॥ १४.८७ ॥
एवमस्त्विति तं ब्रह्मा प्राह विस्मितमानसः॥
उपेक्षते च शक्रं स भाव्यर्थं कोऽतिवर्तते॥ १४.८८ ॥
ऋषयो मनुजा देवाः शिवब्रह्ममुखा अपि॥
भाव्यर्थं नाति वर्तंते वेलामिव महोदधिः॥ १४.८९ ॥
इति चिंत्य विरिंचोऽपि तत्रैवांतरधीयत॥
वज्रांगोऽपि समाप्ते तु तपसि स्थिरसंयमः॥ १४.९० ॥
आहारमिच्छन्स्वां भार्यां न ददर्शाश्रमे स्वके॥
भार्याहीनोऽफलश्चेति स संचिंत्य इतस्ततः॥ १४.९१ ॥
विलोकयन्स्वकां भार्यां विधित्सुः कर्म नैत्यकम्॥
विलोकयन्ददर्शाथ इहामुत्र सहयिनीम्॥ १४.९२ ॥
रुदन्तीं स्वां प्रियां दीनां तरुप्रच्छादिताननाम्॥
तां विलोक्य ततो दैत्यः प्रोवाच परिसांत्वयन्॥ १४.९३ ॥
॥वज्रांग उवाच॥
केन तेऽपकृतं भीरु वर्तंत्यास्तपसि स्वके॥
कथं रोदिषि वा बाले मयि जीवति भर्तरि॥
कं वा कामं प्रयच्छामि शीघ्रं प्रब्रूहि भामिनि॥ १४.९४ ॥
गृहेश्वरीं सद्गुणभूषितां शुभां पंग्वंधयोगेन पतिं समेताम्॥
न लालयेत्पूरयेन्नैव कामं स किं पुमान्न पुमान्मे मतोस्ति॥ १४.९५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेश्वरमाहात्म्ये वज्रांगेतिहासवर्णनं नाम चतुर्दशोऽध्यायः॥ १४ ॥ छ ॥