स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ५४
।। नारद उवाच ।। ।।
ममापि पार्थ तत्रास्ति मूर्तिर्ब्राह्मणकाम्यया ।।
तत्र नाहं त्यजाम्यंग च्छत्रदण्डविभूषिताम् ।। १ ।।
कार्तिकस्य तु या शुक्ला भवत्येकादशी शुभा ।।
तस्यां मदर्चनं कृत्वा कलिदोषैर्विमुच्यते ।। २ ।।
।। अर्जुन उवाच ।। ।।
बाल्यात्प्रभृति संदेहो ममायं हृदि वर्तते ।।
पृच्छतस्तं च मे विप्र न क्रोधं कर्तुमर्हसि ।। ३ ।।
सदा त्वं मोक्षधर्मेषु परिनिष्ठां परां गतः ।।
सर्वभूतसमो दांतो रागद्वेषविवर्जितः ।। ४ ।।
त्यक्तनिंदास्तुतिर्मौनी मोक्षस्थः परिकीर्त्यसे ।।
त्वं च नारद लोकेषु वायुवच्चपलो मुने ।। ५ ।।
सौदामिनीव विचरन्दृश्यसे प्राज्ञसंमतः ।।
सदा कलिकरो लोके निर्दयः सर्वप्राणिषु ।। ६ ।।
बहूनां हि सहस्राणि देवगंधर्वरक्षसाम् ।।
राज्ञां मुनीन्द्रदैत्यानां कलेर्नष्टानि तेऽभवन् ।। ७ ।।
कस्मात्तदेषा चेष्टा ते संदेहं मे हर द्विज ।।
संदेहान्न सुखं शेते बाणविद्धो मृगो यथा ।। ८ ।।
।। सूत उवाच ।। ।।
शौनकेदं वचः श्रुत्वा फाल्गुनान्नारदो मुनिः ।।
प्रहसन्निव बाभ्रव्यवदनं स निरैक्षत ।। ९ ।।
स च बाभ्रव्यनामा वै हारीतस्यान्वयोद्भवः ।।
ब्राह्मणो नारदमुनेः समीपे वर्तते सदा ।। 1.2.54.१० ।।
स च ज्ञात्वा महाबुद्धिर्नारदस्य मनीषितम् ।।
प्रहसन्निव प्रोवाच फाल्गुनं स्निग्धया गिरा ।। ११ ।।
।। बाभ्रव्य उवाच ।। ।।
सत्यमेतद्यथात्थ त्वं नारदं प्रति पांडव ।।
सर्वोऽपि चात्र वृत्तांते संशयं याति मानवः ।। १२ ।।
तदहं ते प्रवक्ष्यामि यथा कृष्णान्मया श्रुतम् ।।
स्तोककालांतरे पूर्वं सर्वं यादवनंदनः ।। १३ ।।
महीसागरयात्रायां कृष्णस्तत्राययौ प्रभुः ।।
उग्रसेनेन सहितो वसुदेवेन बभ्रुणा ।। १४ ।।
रामेण रौक्मिणेयेन युयुधानादिभिस्तदा ।।
स च ज्ञात्वा ज्ञातिसमं महीसागरसंगमे ।। १५ ।।
पिंडदानादिकं कृत्वा दत्त्वा दानानि भूरिशः ।।
गुहेश्वरादिलिंगानि यत्नतः प्रतिपूज्य च ।। १६ ।।
स्नानं कृत्वा कोटितीर्थे जयादित्यं समर्च्य च ।।
पूजयन्नारदमुनिं युक्तः कृष्णो महामनाः ।। १७ ।।
उग्रसेनेन राज्ञा वै पूर्वजेन जटायुना ।।
मदादिविप्रमुख्यानां बहूनां चोपशृण्वताम् ।।
उग्रसेनो महाराजः कृष्णं प्रोवाच संसदि ।। १८ ।।
।। उग्रसेन उवाच ।। ।।
कृष्ण प्रक्ष्यामि त्वामेकं संशयं वद तं मम ।। १९ ।।
योऽयं नाम महाबुद्धिर्नारदो विश्ववंदितः ।।
कस्मादेषोऽतिचपलो वायुवद्भ्रमते जगत् ।।
कलिप्रियश्च कस्माद्वा कस्मात्त्वय्यतिप्रीतिमान् ।। 1.2.54.२० ।।
।। श्रीकृष्ण उवाच ।। ।।
सत्यं राजंस्त्वया पृष्टमेतत्सर्वं वदामि ते ।।
दक्षेण तु पुरा शप्तो नारदो मुनिसत्तमः ।। २१ ।।
सृष्टिमार्गांस्तु तान्वीक्ष्य नारदेन विचालितान् ।।
नावस्थानं च लोकेषु भ्रमतस्ते भविष्यति ।। २२ ।।
पैशुन्य वक्ता च तथा द्वितीयानां प्रचालनात् ।।
इति शापद्वयं प्राप्य द्विविधात्मजचालनात् ।। २३ ।।
निराकर्तुं समर्थोऽपि मुनिर्मेने तथैव तत् ।।
एतावान्साधुवादो हि यतश्च क्षमते स्वयम् ।। २४ ।।
विनाशकालं चावेक्ष्य कलिं वर्धयते यतः ।।
सत्यं च वक्ति तस्मात्स न च पापेन लिप्यते ।।२५।।
भ्रमतोऽपि च सर्वत्र नास्य यस्मात्पृथङ्मनः ।।
ध्येयाद्भवति नैव स्याद्भ्रमदोषस्ततोस्य च ।।
यच्च प्रीतिर्मयि तस्य परमा तच्छृणुष्व च ।। २६ ।।
अहं हि सर्वदा स्तौमि नारदं देवदर्शनम् ।।
महेंद्रगदितेनैव स्तोत्रेण शृणु तन्नृप ।। २७ ।।
श्रुतचारित्रयोर्जाता यस्याहंता न विद्यते ।।
अगुप्तश्रुत चारित्रं नारदं तं नमाम्यहम् ।। २८ ।।
अरतिक्रोधचापल्ये भयं नैतानि यस्य च ।।
अदीर्घसूत्रं धीरं च नारदं तं नमाम्यहम् ।। २९।।
कामाद्वा यदि वा लोभाद्वाचं यो नान्यथा वदेत् ।।
उपास्यं सर्वजंतूनां नारदं तं नमाम्यहम् ।। 1.2.54.३० ।।
अध्यात्मगतितत्त्वज्ञं क्षांतं शक्तं जितेंद्रियम् ।।
ऋजुं यथार्थ वक्तारं नारदं तं नमाम्यहम् ।।३१।।
तेजसा यशसा बुद्ध्या नयेन विनयेन च ।।
जन्मना तपसा वृद्धं नारदं तं नमाम्यहम् ।।३२।।
सुखशीलं सुखं वेषं सुभोजं स्वाचरं शुभम् ।।
सुचक्षुषं सुवाक्यं च नारदं तं नमाम्यहम् ।। ३३ ।।
कल्याणं कुरुते गाढं पापं यस्य न विद्यते ।।
न प्रीयते परानर्थे यो ऽसौ तं नौमि नारदम् ।। ३४ ।।
वेदस्मृतिपुराणोक्तधर्मे यो नित्यमास्थितः ।।
प्रियाप्रियविमुक्तं तं नारदं प्रणमाम्यहम् ।। ३५ ।।
अशनादिष्वलिप्तं च पंडितं नालसं द्विजम् ।।
बहुश्रुतं चित्रकथं नारदं प्रणमाम्यहम् ।। ३६ ।।
नार्थे क्रोधे च कामे च भूतपूर्वोऽस्य विभ्रमः ।।
येनैते नाशिता दोषा नारदं तं नमाम्यहम् ।। ३७ ।।
वीतसंमोहदोषो यो दृढभक्तिश्च श्रेयसि ।।
सुनयं सत्रपं तं च नारदं प्रणमाम्यहम् ।। ३८ ।।
असक्तः सर्वसंगेषु यः सक्तात्मेति लक्ष्यते ।।
अदीर्घसंशंयो वाग्ग्मी नारदं तं नमाम्यहम् ।। ३९ ।।
न त्यजत्यागमं किंचिद्यस्तपो नोपजीवति ।।
अवंध्यकालो यस्यात्मा तमहं नौमि नारदम् ।। 1.2.54.४० ।।
कृतश्रमं कृतप्रज्ञं न च तृप्तं समाधितः ।।
नित्यं यत्नात्प्रमत्तं च नारदं तं नमाम्यहम् ।। ।। ४१ ।।
न हृष्यत्यर्थलाभेन योऽलाभे न व्यथत्यपि ।।
स्थिरबुद्धिरसक्तात्मा तमहं नौमि नारदम् ।। ४२ ।।
तं सर्वगुणसंपन्नं दक्षं शुचिमकातरम् ।।
कालज्ञं च नयज्ञं च शरणं यामि नारदम् ।।४३।।
इमं स्तवं नारदस्य नित्यं राजन्पठाम्यहम् ।।
तेन मे परमा प्रीतिं करोति मुनिसत्तमः ।। ४४ ।।
अन्योपि यः शुचिर्भूत्वा नित्यमेतां स्तुतिं जपेत् ।।
अचिरात्तस्य देवर्षिः प्रसादं कुरुते परम् ।। ४५ ।।
एतान्गुणान्नारदस्य त्वमथाकर्ण्य पार्थिव ।।
जप नित्यं स्तवं पुण्यं प्रीतस्ते भविता मुनिः ।। ४६ ।।
।। बाभ्रव्य उवाच ।। ।।
इति कृष्णमुखाच्छ्रुत्वा नारदस्य गुणान्नृपः ।।
बभूव परमप्री तश्चक्रे तच्च तथा वचः ।। ४७ ।।
ततो नारदमानर्च दत्त्वा दानं च पुष्कलम् ।।
नारदीयद्विजाग्र्याणां नारदः प्रीयतामिति ।। ४८ ।।
ययौ द्वारवतीं कृष्णः सभ्रातृजातिबांधवः ।।
तीर्थयात्रामिमां कृत्वा विधिवत्पुरुषोत्तमः ।। ४९ ।।
तथा त्वमपि कौरव्य नारदस्य गुणानिमान् ।।
श्रुत्वा श्रद्धामयो भूत्वा शृणु कृत्यं यदत्र च ।। 1.2.54.५० ।।
कार्तिके शुक्लद्वादश्यां प्रबोधिन्यामसौ मुनिः ।।
विष्णोर्ध्यानसमाधेश्च प्रबुद्धो जायते सदा ।। ५१ ।।
तस्मिन्दिने नारदेन निर्मितेऽत्रैव कूपके ।।
स्नानं कृत्वा प्रयत्नेन श्राद्धं कुर्यात्समाहितः ।। ५२ ।।
तपो दानं जपश्चात्र कूपे भवति चाक्षयम् ।। ५३ ।।
इदं विष्ण्विति मंत्रेण ततो विष्णुं प्रबोधयेत् ।।
नारदं च मुनिं पश्चान्मन्त्रेणानेन पांडव ।। ५४ ।।
योगनिद्रा यथा त्यक्ता हरिणा मुनिसत्तम ।।
तथा लोकोपकाराय भवानपि परित्यज ।। ५५ ।।
इति मंत्रेण चोत्थाप्य नारदं परिपूजयेत् ।।
कृष्णप्रोदितया स्तुत्या छत्रधोत्रार्चनैः शुभैः ।।५६।।
शक्त्या द्विजानां देयं च छत्रं धोत्रं कमंडलुम् ।।
प्रणम्य ब्राह्मणान्भक्त्या नारदः प्रीयतामिति ।। ५७ ।।
एवं कृते प्रसादात्स मुनेः पापेन मुच्यते ।।
जायते न कलिस्तस्य न चासौख्यं भवेदिह।। ५८ ।। ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे नारदमाहात्म्यवर्णनंनाम चतुःपंचाशत्तमोऽध्यायः ।। ५४ ।।