स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः १७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः १६ स्कन्दपुराणम्
अध्यायः १७
वेदव्यासः
अध्यायः १८ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६

॥नारद उवाच॥
ततस्तयोः समायोगः सेनयोरुभयोरभूत्॥
युगांते समनुप्राप्ते यथा क्षुब्धसमुद्रयोः॥ १७.१ ॥

सुरासुराणां संमर्दे तस्मिन्परमदारुणे॥
तुमुलं सुमहत्क्रांते सेनयोरुभयोरपि॥ १७.२ ॥

गर्जतां देवदैत्यानां शंखभेरीरवेण च॥
तूर्याणां चैव निर्घोषैर्मातंगानां च बृंहितैः॥ १७.३ ॥

हेषितैर्हयवृंदानां रथनेमिस्वनेन च॥
घोषेण चैव तूर्याणां युगांत इव चाभवत्॥ १७.४ ॥

रोषेणाबिपरीतांगास्त्यक्तजीवितचेतसः॥
समसज्जन्त तेन्योन्यं प्रक्रमेणातिलोहिताः॥ १७.५ ॥

रथा रथैः समासक्ता गजाश्चापि महागजैः॥
पत्तयः पत्तिभिश्चैव हयाश्चापि महाहयैः॥ १७.६ ॥

ततः प्रासाशनिगदाभिंडिपालपरश्वधैः॥
शक्तिभिः पट्टिशैः शूलैर्मुद्गरैः कणयैर्गुडैः॥ १७.७ ॥

चक्रैश्च शक्तिभिश्चैव तोमरैरंकुशैरपि॥
कर्णिनालीकनाराचवत्सदंतार्द्धचंद्रकैः॥ १७.८ ॥

भल्लैर्वेतसपत्रैश्च शुकतुंडैश्च निर्मलैः॥
वृष्टिभिश्चाद्भुताकारैर्गगनं समपद्यत॥ १७.९ ॥

संप्रच्छाद्य दिशः सर्वास्तमोमयमिवाभवत्॥
प्राज्ञायंत न तेऽन्योन्यं तस्मिंस्तमसि संकुले॥ १७.१० ॥

अदृश्यभूतास्तमसि न्यकृंतंत परस्परम्॥
ततो भुजैर्ध्वजैश्छत्रैः शिरोभिश्च सकुंडलैः॥ १७.११ ॥

गजैस्तुरंगैः पादातैः पतद्भिः पतितैरपि॥
आकाशशिरसो भ्रष्टैः पंकजैरिव भूश्चिता॥ १७.१२ ॥

भग्नदंता भिन्नकुंभाश्छिन्नदीर्घमहाकराः॥
गजाः शैलनिभाः पेतुर्धरण्यां रुधिरस्रवाः॥ १७.१३ ॥

भग्नैषाश्च रथाः पेतुर्भग्नाक्षाः शकलीकृताः॥
पत्तयः कोटिशः पेतुस्तुरंगाश्च सहस्रशः॥ १७.१४ ॥

ततः शोणितनद्यश्च हर्षदाः पिशिताशिनाम्॥
वैतालानंददायिन्यो व्यजायंत सहस्रशः॥ १७.१५ ॥

तस्मिंस्तथाविधे युद्धे सेनानीर्ग्रसनोऽरिहा॥
बाणवर्षेण महता देवसैन्यमकंपयत्॥ १७.१६ ॥

ततो ग्रसनमालोक्य यमः क्रोधविमूर्छितः॥
ववर्ष शरवर्षेण विशेषादग्निवर्चसा॥ १७.१७ ॥

स विद्धो बहुभिर्षाणैर्ग्रसनोऽतिपराक्रमः॥
कृतप्रतिकृताकांक्षी धनुरानम्य भैरवम्॥ १७.१८ ॥

शरैः सहस्रैश्च पञ्चलक्षैश्चैव व्यताडयत्॥
ग्रसनेन विमुक्तांस्ताञ्छरान्सोपि निवार्य च॥ १७.१९ ॥

बाणवृष्टिभिरुग्राभिर्यमो ग्रसनमर्दयत्॥
कृतांतशरवृष्टीनां संततीः प्रतिसर्पतीः॥
चिच्छेद शरवर्षेण ग्रसनो दानवेश्वरः॥ १७.२० ॥

विफलां तां समालोक्य यमः स्वशरसंततिम्॥ १७.२१ ॥

प्राहिणोन्मुद्गरं दीप्तं ग्रसनस्य रथं प्रति॥
स तं मुद्गरमायांतमुत्पत्य रथसत्तमात्॥ १७.२२ ॥

जग्राह वामहस्तेन लीलया ग्रसनोऽरिहा॥
तेनैव मुद्गरेणाथ यमस्य महिषं रुषा॥ १७.२३ ॥

ताडयामास वेगेन स पपात महीतले॥
उत्पत्याथ यमस्तस्मान्महिषान्निपतिष्यतः॥ १७.२४ ॥

प्रासेन ताडयामास ग्रसनं वदने दृढम्॥
स तु प्राप्तप्रहारेण मूर्छितो न्यपतद्भुवि॥ १७.२५ ॥

ग्रसनं पतित दृष्ट्वा जंभो भीमपराक्रमः॥
यमस्य भिंडिपालेन प्रहारमकरोद्धृदि ॥ १७.२६ ॥

यमस्तेन प्रहारेण सुस्राव रुधिरं मुखात्॥
अतिगाढ प्रहारार्त्तः कृतांतोमूर्छितोऽभवत्॥ १७.२७ ॥

कृतांतमर्दितं दृष्ट्वा गदापाणिर्धनादिपः॥
वृतो यक्षायुतगणैर्जंभं प्रत्युद्ययौ रुषआ॥ १७.२८ ॥

जंभो रुषा तमायांतं दानवा नीकसंवृतः॥
जग्राह वाक्यं राज्ञस्तु यता स्निग्धेन भाषितम्॥ १७.२९ ॥

ग्रसनो लब्धसंज्ञोऽथ यमस्य प्राहिणोद्गदाम्॥
मणिहेमपरिष्कारां गुर्वी परिघमर्दिनीम्॥ १७.३० ॥

तामापतंतीं संप्रेक्ष्य गदां महिषवाहनः॥
गदायाः प्रतिघातार्थं जगज्ज्वलनभैरवम्॥ १७.३१ ॥

दंडं मुमोच कोपेन ज्वालामालासमाकुलम्॥
स गदां वियति प्राप्य ररासांबुधरोद्धतम्॥ १७.३२ ॥

संवट्टश्चाभवत्ताभ्यां शैलाभ्यामिव दुःसहः॥
ताभ्यां निष्पेषनिर्ह्राद जडीकृतदिगंतरम्॥ १७.३३ ॥

जगद्व्याकुलतां यातं प्रलयागमशंकया॥
क्षणात्प्रशांतनिर्ह्रादं ज्वलदुल्कासमाचितम्॥ १७.३४ ॥

निष्पेषणं तयोर्भीमम भूद्गनगोचरम्॥
निहत्याथ गदां दण्डस्ततो ग्रसनमूर्धनि॥ १७.३५ ॥

पपात पौरुषं हत्वा यथा दैवं पुरार्जितम्॥
सतु तेन प्रहारेण दृष्ट्वा सतिमिरादिशः॥ १७.३६ ॥

पपात भूमौ निःसंज्ञो भूमिरेणुविभूषितः॥
ततो हाहारवो घोरः सेनयोरुभयोरभूत्॥ १७.३७ ॥

ततो महूर्तमात्रेण ग्रसनः प्राप्य चेतनाम्॥
अपश्यत्स्वां तनुं ध्वस्तां विलोलाभरणांबराम्॥ १७.३८ ॥

स चापि चिंतयामास कृतप्रतिकृतक्रियाम्॥
धिगस्तु पौरुषं मह्यं प्रभोरग्रेसरः कथम्॥ १७.३९ ॥

मय्याश्रितानि सैन्यानि जिते मयि जितानि च॥
असंभावितरूपो हि सज्जनो मोदते सुखम्॥ १७.४० ॥

संभावितस्त्वशक्तश्चेत्तस्य नायं परोऽपि वा॥
एवं संचिंत्य वेगेन समुत्तस्थौ महाबलः॥ १७.४१ ॥

मुद्गरं कालदण्डाभं गृहीत्वा गिरिसंनिभम्॥
ग्रसनो घोरसंकल्पः संदष्टौष्ठपुटच्छदः॥ १७.४२ ॥

रथेन त्वरितोऽगच्छदाससादांतकं रणे॥
समासाद्य यमं युद्धे ग्रसनो भ्राम्य मुद्गरम्॥ १७.४३ ॥

वेगेन महता रौद्रं चिक्षेप यममूर्धनि॥
विलोक्य मुद्गरं दीप्तं यमः संभ्रांतलोचनः॥ १७.४४ ॥

वंचयामास दुर्द्धर्षं मुद्गरं तं महाबलः॥
तस्मिन्नपसृते दूरं चंडानां भीमकर्मणाम्॥ १७.४५ ॥

याम्यानां किंकराणां च अयुतं निष्पिपेष ह॥
ततस्तदयुतं दृष्ट्वा हतं किंकरवाहिनी॥ १७.४६ ॥

दशार्बुदमिता क्रुद्धा ग्रसनायान्वधावत॥
ग्रसनस्तु समालोक्य तां किंकरमयां शुभाम्॥ १७.४७ ॥

मेने यमसहस्राणि तादृग्रूपबला हि सा॥
विगाह्य ग्रसनं सेना ववर्ष शरवृष्टिभिः॥ १७.४८ ॥

कल्पांतघोरसंकाशो बभूव स महारणः॥
केचिच्छैलेन बिभिदुः केचिद्बाणैरजिह्यगैः॥ १७.४९ ॥

पिपिषुर्गदया केचित्कोचिन्मुद्गरवृष्टिभिः॥
केचित्प्रासप्रहारैश्च ताडयामासुरुद्धताः॥ १७.५० ॥

अपरे किंकरास्तस्य ललंबुर्बाहुमंडले॥
शिलाभिरपरे जघ्नुर्द्रुमैरन्ये महोच्छ्रयैः॥ १७.५१ ॥

तस्यापरे च गात्रेषु दशनांश्चन्यपातयन्॥
अपरे मुष्टिभिः पृष्ठं किंकरास्ताडयंति च ॥ १७.५२ ॥

एवं चाभिद्रुतस्तैः स ग्रसनः क्रोधमूर्छितः॥
उत्साद्य गात्रं भूपृष्ठे निष्पिपेष सहस्रशः॥ १७.५३ ॥

कांश्चिदुत्थाय जघ्नेऽसौ मुष्टिभिः किंकरान्रणे॥
कांश्चित्पादप्रहारेण धावन्नन्यानचूर्णयत्॥ १७.५४ ॥

क्षणैकेन स तान्निन्ये यमलोकायभारत॥
स च किंकरयुद्धेन ववृधेऽग्निरिवैधसा॥ १७.५५ ॥

तमालोक्य यमोऽश्रांतं श्रांतंस्तांश्च हतान्स्वकान्॥
आजगाम समुद्यम्य दंडं महिषवाहनः॥ १७.५६ ॥

ग्रसनस्तु तमायांतमाजघ्ने गदयोरसि॥
अचिंतयित्वा तत्कर्म ग्रसनस्यांतकोऽरिहा॥ १७.५७ ॥

व्याघ्रान्दंडेन संजघ्ने स रथान्न्य पतद्भुवि॥
ततः क्षणेन चोत्थाय संचिंत्यात्मानमुद्धतः॥ १७.५८ ॥

वायुवेगेन सहसा ययौ यमरथं प्रति॥
पदातिः स रथं तं च समारुह्य यमं तदा॥ १७.५९ ॥

योधयामास बाहुभ्यामाकृष्य बलिनां वरः॥
यमोऽपि शस्त्राण्युत्सृज्च बाहुयुद्धे प्रवर्तते॥ १७.६० ॥

ग्रसनं कटिवस्त्रे तु यमं गृह्य बलोत्कटः॥
भ्रामयामास वेगेन संभ्रमाविष्टचेतसम्॥ १७.६१ ॥

विमोच्याथ यमः कष्टात्कंठेऽवष्टभ्य चासुरम्॥
बाहुभ्यां भ्रामयामास सोऽप्यात्मानममोचयत्॥ १७.६२ ॥

ततो जघ्नतुरन्योन्यं मुष्टिभिर्निर्दयौ च तौ॥
दैत्येंद्रस्यातिवीर्यत्वात्परिश्रांततरो यमः॥ १७.६३ ॥

स्कंधे निधाय दैत्यस्य मुखं विश्रांतिमैच्छत॥
तमा लक्ष्य ततो दैत्यः श्रांतमुत्पाट्य चौजसा॥ १७.६४ ॥

निष्पिपेष महीपृष्ठे विनिघ्नन्पार्ष्णिपाणिभिः॥
ततो यमस्य वदनात्सुस्राव रुधिरं बहु॥ १७.६५ ॥

निर्जीवमिति तं दृष्ट्वा ततः संत्यज्य दानवः॥
जयं प्राप्योद्धतं नादं मुक्त्वा संत्रास्य देवताः॥ १७.६६ ॥

स्वकं सैन्यं समासाद्य तस्थौ गिरिरिवाचलः॥ १७.६७ ॥

नादेन तस्य ग्रसनस्य संख्ये महायुधैश्चार्दितसर्वगात्राः॥
गते कृथांते वसुधां च निष्प्रभे चकंपिरे कांदिशिकाः सुरास्ते॥ १७.६८ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्त्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे तारकसैन्यदेवसैन्ययोर्मध्ये यमग्रसनयोर्युद्धवर्णनं नाम सप्तदशोऽध्यायः॥ १७ ॥ छ ॥