स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः १३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १२ स्कन्दपुराणम्
अध्यायः १३
वेदव्यासः
अध्यायः १४ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६


॥नारद उवाच॥
इति तस्य मुनींद्रस्य भूपतिः शुश्रुवान्वचः॥
प्राह नाहं गमिष्यामि त्वां विहाय नरं क्वचित्॥ १३.१ ॥
लिंगमाराधयिष्येऽद्य सर्वसिद्धिप्रदं नृणाम्॥
त्वयैवानुगृहीतोऽद्य यांतु सर्वे यथागतम्॥ १३.२ ॥
तद्भूपतिवचः श्रुत्वा बको गृध्रोऽथ कच्छपः॥
उलूकश्च तथैवोचुः प्रणता लोमशं मुनिम्॥ १३.३ ॥
स च सर्वसुहृद्विप्रस्तथेत्येवाह तांस्तदा॥
प्रणोद्यान्प्रणतान्सर्वाननुजग्राह शिष्यवत्॥ १३.४ ॥
शिवदीक्षाविधानेन लिंगपूजां समादिशत्॥
तेषामनुग्रहपरो मुनिः प्रमतवत्सलः॥
तीर्थादप्यधिकं स्थाने सतां साधुसमागमः॥ १३.५ ॥
पचेलिमफलः सद्यो दुरंतकलुपापहः॥
अपूर्वः कोऽपि सद्गोष्ठीसहस्रकिरणोदयः॥ १३.६ ॥
य एकांततयात्यंतमंतर्गततमोपहः॥
साधुगोष्ठीसमुद्भूतसुखामृतरसोर्मयः॥ १३.७ ॥
सर्वे वराः सुधाकाराः शर्करामधुषड्रसाः॥
ततस्ते साधुसंसर्गं संप्राप्ताः शिवशासनात्॥ १३.८ ॥
आरेभिरे क्रियायोगं मार्कंडनृपपूर्वकाः॥
तेषां तपस्यतामेवं समाजग्मे कदाचन॥
तीर्थयात्रानुषंगेन लोमशालोकनोत्सुकः॥ १३.९ ॥
मुख्या पुरुषयात्रा हि तीर्थयात्रानुषंगतः॥
सद्भिः समाश्रितो भूप भूमिभागस्तथोच्यते॥ १३.१० ॥
कृतार्हणातिथ्यविधिं विश्रांतं मां च फाल्गुन॥
प्रणम्य तेऽथ पप्रच्छुर्नाडीजंघपुरः सराः॥ १३.११ ॥
॥त उचुः॥
शापभ्रष्टा वयं ब्रह्मंश्चत्वारोऽपि स्वकर्मणा॥
तन्मुक्तिसाधनार्थाय स्थानं किंचित्समादिश॥ १३.१२ ॥
इयं हि निष्फला भूमिः शपलं भारतं मुने॥ १३.१३ ॥
तत्रापि क्वचिदेकत्र सर्वतीर्थफलं वद॥
इति पृष्टस्त्वहं तैश्च तानब्रवमिदं तदा॥ १३.१४ ॥
संवर्तं परिपृच्छध्वं स वो वक्ष्यति तत्त्वतः॥
सर्वतीर्थफलावाप्तिकारकं भूप्रदेशकम्॥ १३.१५ ॥
॥त उचुः॥
कुत्रासौ विद्यते योगी नाज्ञासिष्म वयं च तम्॥
संवर्तदर्शनान्मुक्तिरिति चास्मदनुग्रहः॥ १३.१६ ॥
यदि जानासि तं ब्रूहि सुहृत्संगो न निष्फलः॥
ततोऽहमब्रवं तांश्च विचार्येदं पुनःपुनः॥ १३.१७ ॥
वाराणस्यामसावास्ते संवर्तो गुप्तलिंगभृत्॥
मलदिग्धो विवसनो भिक्षाशी कुतपादनु॥ १३.१८ ॥
करपात्रकृताहारः सर्वथा निष्परिग्रहः॥
भावयन्ब्रह्म परमं प्रणवाभिधमीश्वरम्॥ १३.१९ ॥
भुक्त्वा निर्याति सायाह्ने वनं न ज्ञायते जनैः॥
योगीश्वरोऽसौ तद्रूपाः सन्त्यन्ये लिंगधारिणः॥ १३.२० ॥
वक्ष्यामि लक्षणं तस्य ज्ञास्यथ तं मुनिम्॥
प्रतोल्या राजमार्गे तु निशि भूमौ शवं जनैः॥ १३.२१ ॥
अविज्ञातं स्थापनीयं स्थेयं तदविदूरतः॥
यस्तां भूमिमुपागम्य अकस्माद्विनिर्वतते॥ १३.२२ ॥
स संवर्तो न चाक्रामत्येष शल्यमसंशयम्॥
प्रष्टव्योऽभिमतं चासावुपाश्रित्य विनीतवत्॥ १३.२३ ॥
यदि पृच्छति केनाहमाख्यात इति मां ततः॥
निवेद्य चैतद्वक्तव्यं त्वामाख्यायाग्निमाविशत्॥ १३.२४ ॥
तच्छ्रुत्वा ते तथा चक्रुः सर्वेपि वचनं मम॥
प्राप्य वाराणसीं दृष्ट्वा संवर्तं ते तथा व्यधुः॥ १३.२५ ॥
शवं दृष्ट्वा च तैर्न्यस्तं संवर्तो वै न्यवर्तत॥
क्षुत्परीतोऽपि तं ज्ञात्वा ययुस्तमनु शीघ्रगम्॥ १३.२६ ॥
तिष्ठ ब्रह्मन्क्षणमिति जल्पंतो राजमार्गगम्॥
याति निर्भर्त्सयत्येष निवर्तध्वमिति ब्रुवन्॥ १३.२७ ॥
समया मामरे भोऽद्य नागंतव्यं न वो हितम्॥
पलायनमसौ कृत्वा गत्वा दूरतरं सरः॥
कुपितः प्राह तान्सर्वान्केनाख्यातोऽहमित्युत॥ १३.२८ ॥
निवेदयत शीघ्रं मे यथा भस्म करोमि तम्॥
शापाग्निनाथ वा युष्मान्यदि सत्यं न वक्ष्यथ॥ १३.२९ ॥
अथ प्रकंपिताः प्राहुर्नारदेनेति तं मुनिम्॥
स तानाह पुनर्यातः पिशुनः क्व नु संप्रति॥ १३.३० ॥
लोकानां येन सापाग्नौ भस्मशेषं करोमि तम्॥
ब्रह्मबंधुमहं प्राहुर्भीतास्ते तं पुनर्मुनिम्॥ १३.३१ ॥
॥त ऊचुः॥
त्वं निवेद्य स चास्माकं प्रविष्टो हव्यवाहनम्॥
तत्कालमेव विप्रेंद्र न विद्मस्तत्र कारणम्॥ १३.३२ ॥
॥संवर्त उवाच॥
अहमप्येवमेवास्य कर्ता तेन स्वयं कृतम्॥
तद्ब्रूत कार्यं नैवात्र चिरं स्थास्यामि वः कृते॥ १३.३३ ॥
॥अर्जुन उवाच॥
यदि नारद देवर्षे प्रविष्टोऽसि हुताशनम्॥
जीवितस्तत्कथं भूय आश्चर्यमिति मे वद॥ १३.३४ ॥
॥नारद उवाच॥
न हुताशः समुद्रो वा वायुर्वा वृक्षपर्वतः॥
आयुधं वा न मे शक्ता देहपाताय भारत॥ १३.३५ ॥
पुनरेतत्कृतं चापि संवर्तो मन्यते यथा॥
अहं सन्मानितश्चेति वह्निं प्राप्याप्यगामहम्॥ १३.३६ ॥
यथा पुष्पगृहे कश्चित्प्रविशत्यंग फाल्गुन॥
तथाहमग्निं संविश्य यातवानुत्तरं श्रृणु॥ १३.३७ ॥
संवर्तस्तान्पुनः प्राह मार्कंडेयमुखानिति॥
विशल्यः पंथाः क्षुधितोऽहं पुनः पुरीम्॥
भिक्षार्थं पर्यटिष्यामि प्रश्रं प्रब्रूत चैव मे॥ १३.३८ ॥
॥त ऊचुः॥
शापभ्रष्टा वयं मोक्षं प्राप्स्यामस्तवदनुग्रहात्॥
प्रतीकारं तदाख्याहि प्रणतानां महामुने॥ १३.३९ ॥
यत्र तीर्थे सर्वतीर्थफलं प्राप्नोति मानवः॥
तत्तीर्थं ब्रूहि संवर्त तिष्ठामो यत्र वै वयम्॥ १३.४० ॥
॥संवर्त उवाच॥
नमस्कृत्य कुमाराय दुर्गाभ्यश्च नरोत्तमाः॥
तीर्थं च संप्रवक्ष्यामि महीसागरसंगमम्॥ १३.४१ ॥
अमुना राजसिंहेन इंद्रद्युम्नेन धीमता॥
यजनाद्द्व्यंगुलोत्सेधा कृतेयं वसुधायदा॥ १३.४२ ॥
तदा संताप्यमानाया भुवः काष्ठस्य वै यथा॥
सुस्राव यो जलौघश्च सर्वदेवनमस्कृतः॥ १३.४३ ॥
महीनाम नदी च पृथिव्यां यानिकानिचित्॥
तीर्थानि तेषां सलिलसंभवं तज्जलं विदुः॥ १३.४४ ॥
महीनाम समुत्पन्ना देशे मालवकाभिधे॥
दक्षिणं सागरं प्राप्ता पुण्योभयतटाशिवा॥ १३.४५ ॥
सर्वतीर्थमयी पूर्वं महीनाम महानदी॥
किं पुनर्यः समायोगस्तस्याश्च सरितां पतेः॥ १३.४६ ॥
वाराणसी कुरुक्षेत्रं गंगा रेवा सरस्वती॥ १३.४७ ॥
तापी पयोष्णी निर्विध्या चन्द्रभागा इरावती॥
कावेरी शरयूश्चैव गंडकी नैमिषं तथा॥ १३.४८ ॥
गया गोदावरी चैव अरुणा वरुणा तथा॥
एताः पुण्याः शतशोन्या याः काश्चित्सरितो भुवि॥ १३.४९ ॥
सहस्रविंशतिश्चैव षट्‌शतानि तथैव च॥
तासां सारसमुद्भुतं महीतोयं प्रकीर्तितम्॥ १३.५० ॥
पृथिव्यां सर्वतीर्थेषु स्नात्वा यत्फलमाप्यते॥
तन्महीसागरे प्रोक्तं कुमारस्य वचो यथा॥ १३.५१ ॥
एकत्र सर्वतीर्थानां यदि संयोगमिच्छथ॥
तद्गच्छथ महापुण्यं महीसागरसंगमम्॥ १३.५२ ॥
अहं चापि च तत्रैव बहून्वर्षगणान्पुरा॥
अवसं चागतश्चात्र नारदस्य भयात्तथा॥ १३.५३ ॥
स हि तत्र समीपस्थः पिशुनश्च विशेषतः॥
मरुत्तः कुरुते यत्नं तस्मै ब्रूयादिदं भयम्॥ १३.५४ ॥
अत्र दिग्वाससां मध्ये बहूनां तत्समस्त्वहम्॥
निवसाम्यतिप्रच्छन्नो मरुत्तादतिभीतवत्॥ १३.५५ ॥
पुनरत्रापि मां नूनं कथयिष्यति नारदः॥
तथाविधा हि चेष्टास्य पिशुनस्य प्रदृश्यते॥ १३.५६ ॥
भवद्भिश्च न चाप्यत्र वक्तानां कस्यचित्क्वचित्॥
मरुत्तः कुरुते यत्नं भूपालो यज्ञसिद्धये॥ १३.५७ ॥
देवाचार्येण संत्यक्तो भ्रात्रा मे कारणां तरे॥
गुरुपुत्रं च मां ज्ञात्वा यज्ञार्त्विज्यस्य कारणात्॥ १३.५८ ॥
अविद्यांतर्गतैर्यज्ञकर्मभिर्न प्रयोजनम्॥
मम हिंसात्मकैरस्ति निगमोक्तैरचेतनैः॥ १३.५९ ॥
समित्पुष्पकुशप्रायैः साधनैर्यद्यचेतनैः॥
क्रियते तत्तथा भावि कार्यं कारणवन्नृणाम्॥ १३.६० ॥
तद्यूयं तत्र गच्छध्वं शीघ्रमेव नृपानुगाः॥
अस्ति विप्रः स्वयं ब्रह्मा याज्ञवल्क्यश्च तत्र वै॥ १३.६१ ॥
स हि पूर्वं मिथेः पुर्यां वसन्नाश्रममुत्तमम्॥
आगच्छमानं नकुलं दृष्ट्वा गार्गीं वचोऽब्रवीत्॥ १३.६२ ॥
गार्गि रक्ष पयो भद्रे नकुलोऽयमुपेति च॥
पयः पातुं कृतिमतिं नकुलं तं निराकुरु॥ १३.६३ ॥
इत्युक्तो नकुलः क्रुद्धः स हि क्रुद्धः पुराऽभवत्॥
जमदग्नेः पूर्वजैश्च शप्तः प्रोवाच तं मुनिम्॥ १३.६४ ॥
अहो वा धिग्धिगित्येव भूयो धिगिति चैव हि॥
निर्लज्जता मनुष्याणां दृश्यते पापकारिणाम्॥ १३.६५ ॥
कथं ते नाम पापानि प्रकुर्वंति नराधमाः॥
मरणांतरिता येषां नरके तीव्रवेदना॥ १३.६६ ॥
निमेषोऽपि न शक्येत जीविते यस्य निश्चितम्॥
तन्मात्रपरमायुर्यः पापं कुर्यात्कथं स च॥ १३.६७ ॥
त्वं मुने मन्यसे चेदं कुलीनोऽस्मीति बुद्धिमान्॥
ततः क्षिपसि मां मूढ नकुलोऽयमिति स्मयन्॥ १३.६८ ॥
किमधीतं याज्ञवल्क्य का योगेश्वरता तव॥
निरपराधं क्षिपसि धिगधीतं हि तत्तव॥ १३.६९ ॥
कस्मिन्वेदं स्मृतौ कस्यां प्रोक्तमेतद्ब्रवीहि मे॥
परुषैरिति वाक्यैर्मां नकुलेति ब्रवीषि यत्॥ १३.७० ॥
किमिदं नैव जानासि यावत्यः परुषा गिरः॥
परः संश्राव्यते तावच्छंकवः श्रोत्रतः पुनरा॥ १३.७१ ॥
कंठे यमानुगाः पादं कृत्वा तस्य सुदुर्मतेः॥
अतीव रुदतो लोहशंकून्क्षेप्स्यंति कर्णयोः॥ १३.७२ ॥
वावदूकाश्च ध्वजिनो मुष्णंति कृपणाञ्जनान्॥
स्वयं हस्तसहस्रेण धर्मस्यैवं भवद्विधाः॥ १३.७३ ॥
वज्रस्य दिग्धशस्त्रस्य कालकूटस्य चाप्युत॥
समेन वचसा तुल्यं मृत्योरिति ममाभवत्॥ १३.७४ ॥
कर्णनासिकनाराचान्निर्हरंति शरीरतः॥
वाक्छल्यस्तु न निर्हर्तुं शक्यो हृदिशयो हि सः॥ १३.७५ ॥
यंत्रपीडैः समाक्रम्य वरमेष हतो नरः॥
न तु तं परुषैर्वाक्यैर्जिघांसेत कथंचन॥ १३.७६ ॥
त्वया त्वहं याज्ञवल्क्य नित्यं पंडितमानिना॥
नकुलोसीति तीव्रेण वचसा ताडितः कुतः॥ १३.७७ ॥
॥संवर्त उवाच॥
इति श्रुत्वा वचस्तस्य भृशं विस्मितमानसः॥
याज्ञवल्क्योऽब्रवीदेतत्प्रबद्धकरसंपुटः॥ १३.७८ ॥
नमोऽधर्माय महते न विद्मो यस्य वै भवम्॥
परमाणुमपि व्यक्तं कोत्र विद्यामदः सताम्॥ १३.७९
विरंचिविष्णुप्रसमुखाः सोमेंद्रप्रमुखास्तथा॥
सर्वज्ञास्तेऽपि मुह्यति गणनास्मादृशं च का॥ १३.८० ॥
धर्मज्ञोऽस्मीति यो मोहादात्मानं प्रतिपद्यते॥
स वायुं मुष्टिना बद्धुमीहते कृपणो नरः॥ १३.८१ ॥
केचिदज्ञानतो नष्टाः केचिज्ज्ञानमदादपि॥
ज्ञानं प्राप्यापि नष्टाश्च केचिदालस्यतोऽधमाः॥ १३.८२ ॥
वेदस्मृतीतिहासेषु पुराणेषु प्रकल्पितम्॥
चतुःपादं तथा धर्मं नाचरत्यधमः पशुः॥ १३.८३ ॥
स पुरा शोचते व्यक्तं प्राप्य तच्चांतकं गृहम्॥
तथाहि गृह्यकारेण श्रुतौ प्रोक्तमिदं वचः॥ १३.८४ ॥
नकुलं सकुलं ब्रूयान्न कंचिन्मर्मणि स्पृशेत्॥
प्रपठन्नपि चैवाहमिदं सर्वं तथा शुकः॥ १३.८५ ॥
आलस्येनाप्यनाचाराद्वृथाकार्येकमंग तत्॥ १३.८६ ॥
केवलं पाठ मात्रेण यश्च संतुष्यते नरः॥
तथा पंडितमानी च कोन्यस्तस्मात्पशुर्मतः॥ १३.८७ ॥
न च्छंदांसि वृजिनात्तारयंति मायाविनं माययाऽऽवर्तमानम्॥
नीडं शकुंता इव जातपक्षाश्छंदास्येनं प्रजहत्यंतकाले॥ १३.८८ ॥
स्वार्गाय बद्धकक्षो यः पाठमात्रेण ब्राह्मणः॥
स बालो मातुरंकस्थो ग्रहीतुं सोममिच्छति॥ १३.८९ ॥
तद्भवान्सर्वथा मह्यमनयं सोढुमर्हसि॥
सर्वः कोऽपि वदत्येवं तन्मयैवमुदाहृतम्॥ १३.९० ॥
॥नकुल उवाच॥
वृथेदं भाषितं तुभ्यं सर्वलोकेन यत्समम्॥
आत्मानं मन्यसे नैतद्वक्तुं योग्यं महात्मनाम्॥ १३.९१ ॥
वाजिवारणलोहानां काष्ठपाषाणवाससाम्॥
नारीपुरुषतोयानामंतरं महदंतरम्॥ १३.९२ ॥
अन्ये चेत्प्राकृता लोका बहुपापानि कुर्वते॥
प्रधानपुरुषेणापि कार्यं तत्पृष्ठतोनु किम्॥ १३.९३ ॥
सर्वार्थं निर्मितं शास्त्रं मनोबुद्धी तथैव च॥
दत्ते विधात्रा सर्वेषां तथापि यदि पापिनः॥ १३.९४ ॥
ततो विधातुः को दोषस्त एव खलु दुर्भगाः॥
ब्राह्मणेन विशेषेण किं भाव्यं लोकवद्यतः॥ १३.९५ ॥
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः॥
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते॥ १३.९६ ॥
तस्मात्सदा महद्भिश्च आत्मार्थं च परार्थतः॥
सतां धर्मो न संत्याज्यो न्याय्यं तच्छिक्षणं तव॥ १३.९७ ॥
यस्मात्त्वया पीडितोऽहं घोरेण वचसा मुने॥
तस्माच्छीघ्रं त्वां शप्स्यामि शापयोग्यो हि मे मतः॥ १३.९८ ॥
नकुलोऽसीति मामाह भवांस्तस्मात्कुलाधमः॥
शीघ्रमुत्पत्स्यसे मोहात्त्वमेव नकुलो मुने॥ १३.९९ ॥
॥संवर्त उवाच॥
इति वाचं समाकर्ण्य भाव्यर्थकृतनिश्चयः॥
याज्ञवल्क्यो मरौ देशे विप्रस्याजायतात्मजः॥ १३.१०० ॥
दुराचारस्य पापस्य निघृणस्यातिवादिनः॥
दुष्कुलीनस्य जातोऽसौ तदा जातिस्मरः सुतः॥ १३.१०१ ॥
सोऽथ ज्ञानात्समालोक्य भर्तृयज्ञ इति द्विजः॥
गुप्तक्षेत्रं समापन्नो महीसागरसंगमम्॥ १३.१०२ ॥
तत्र पाशुपतो भूत्वा शिवाराधनतत्परः॥
स्वायंभुवं महाकालं पूजयन्वर्ततेऽधुना॥ १३.१०३ ॥
यो हि नित्यं महाकालं श्रद्धया पूजयेत्पुमान्॥
स दौष्कुलीनदोषेभ्यो मुच्यतेऽहिरिव त्वचः॥ १३.१०४ ॥
यथायथा श्रद्धयासौ तल्लिंगं परिपश्यति॥
तथातथा विमुच्येत दोषैर्जन्मशतोद्भवैः॥ १३.१०५ ॥
भर्तृयज्ञस्तु तत्रैव लिंगस्याराधनात्क्रमात्॥
बीजदोषाद्विनिर्मुक्तस्तल्लिंगमहिमा त्वसौ॥ १३.१०६ ॥
बभ्रुं च नकुलं प्राह विमुक्तो दुष्टजन्मतः॥
यस्मात्तस्मादिदं तीर्थं ख्यातं वै बभ्रु पावनम्॥ १३.१०७ ॥
तस्माद्व्रजध्वं तत्रैव महीसागरसंगमम्॥
पंच तीर्थानि सेवन्तो मुक्तिमाप्स्यथ निश्चितम्॥ १३.१०८ ॥
इत्येवमुक्त्वा संवर्तो ययावभिमतं द्विजः॥
भर्तृयज्ञं मुनिं प्राप्य ते च तत्र स्थिताभवन्॥ १३.१०९ ॥
ततस्तानाह स ज्ञात्वा गणाञ्ज्ञानेन शांभवान्॥
महद्वो विमलं पुण्यं गुप्तक्षेत्रे यदत्र वै॥ १३.११० ॥
भवन्तोऽभ्यागता यत्र महीसागरसंगमः॥
स्नानं दानं जपो होमः पिंडदानं विशेषतः॥ १३.१११ ॥
अक्षयं जायते सर्वं महीसागर संगमे॥
कृतं तथाऽक्षयं सर्वं स्नानदानक्रियादिकम्॥ १३.११२ ॥
यदात्र स्तानकं चक्रे देवर्षिर्नारदः पुरा॥
तदा ग्रहैर्वरा दत्ताः शनिना च वरस्त्वसौ॥ १३.११३ ॥
शनैश्चरेण संयुक्ता त्वमावास्या यदा भवेत्॥
श्राद्धं प्रकुर्वीत स्नानदानपुरः सरम्॥ १३.११४ ॥
यदि श्रावणमासस्य शनैश्चरदिने शुभा॥
कुहूर्भवति तस्यां तु संक्रांतिं कुरुते रविः॥ १३.११५ ॥
तस्यामेव तिथौ योगो व्यतीपातो भवेद्यदि॥
पुष्करंनाम तत्पर्व सूर्यपर्वशताधिकम्॥ १३.११६ ॥
सर्वयोगसमावापः सथंचिदपि लभ्यते॥
तस्मिन्दिने शनिं लोहं कांचनं भास्करं तथा॥ १३.११७ ॥
महीसागरसंसर्गे पूजयीत यथाविधि॥
शनिमंत्रैः शनिं ध्यात्वा सूर्यमंत्रैर्दिवाकरम्॥ १३.११८ ॥
अर्घ्यं दद्याद्भाकरस्य सर्वपापप्रशांतये॥
प्रयागादिधिकं स्नानं दानं क्षेत्रात्कुरोरपि॥ १३.११९ ॥
पिंडदानं गयाक्षेत्रादधिकं पांडुनंदन॥
इदं संप्राप्यते पर्व महद्भिः पुण्यराशिभिः॥ १३.१२० ॥
पितॄणामक्षया तृप्तिर्जायते दिवि निश्चितम्॥
यथा गयाशिरः पुण्यं पितॄणां तृप्तिदं परम्॥ १३.१२१ ॥
तथा समधिकः पुण्यो महीसागरसंगमः॥ १३.१२२ ॥
अग्निश्च रेतो मृडया च देहे रेतोधा विष्णुरमृतस्य नाभिः॥
एवं ब्रुवञ्छ्रद्धया सत्यवाक्यं ततोऽवगाहेत महीसमुद्रम्॥ १३.१२३ ॥
मुखं च यः सर्वनदीषु पुण्यः पाथोधिरंबा प्रवरा मही च॥
समस्ततीर्थाकृतिरेतयोश्च ददामि चार्घ्यं प्रणमामि नौमि॥ १३.१२४ ॥
ताम्रा रस्याः पयोवाहाः पितृप्रीतिप्रदाः शभाः॥
सस्यमाला महासिन्धुर्दातुर्दात्री पृथुस्तुता॥
इन्द्रद्युम्नस्य कन्या च क्षितिजन्मा रावती॥ १३.१२५ ॥
महीपर्णा महीशृंगा गंगा पश्चिमवाहिनी॥
नदी राजनदी चेति नामाष्टाशमालिकाम्॥ १३.१२६ ॥
स्नानकाले च सर्वत्र श्राद्धकाले पठेन्नरः॥
पृथुनोक्तानि नामानि यज्ञमूर्तिपदं व्रजेत्॥ १३.१२७ ॥
महीदोहे महानंदसंदोहे विश्वमोहिनि॥
जातासि सरितां राज्ञि पापं हर महीद्रवे॥
॥इत्यर्घ्यमंत्रः॥ १३.१२८ ॥
कंकणं रजतस्यापि योऽत्र निक्षिपते नरः॥
स जायते महीपृष्ठे धनधान्ययुते कुले॥ १३.१२९ ॥
महीं च सागरं चैव रौप्यकंकण पूजया॥
पूजयामि भवेन्मा मे द्रव्यानाशो दरिद्रता॥ १३.१३० ॥
॥कंकणक्षेपणम्॥
 यत्फलं सर्वतीर्थेषु सर्वयज्ञैश्च यत्फलम्॥
तत्फलं स्नानदानेन महीसागरसंगमे॥ १३.१३१ ॥
विवादे च समुत्पन्ने अपराधी च यो मतः॥
जलहस्तः सदा वाच्यो महीसागरसंगमे॥ १३.१३२ ॥
संस्नाप्याघोरमंत्रेण स्थाप्य नाभिप्रमाणके॥
जले करं समुद्धृत्य दक्षिणं वाचयेद्द्रुतम्॥ १३.१३३ ॥
यदि धर्मोऽत्र सत्योऽस्ति सत्यश्चेत्संगमस्त्वसौ॥
सत्याश्चेत्क्रतुद्रष्टारः सत्यं स्यान्मे शुभाशुभम्॥ १३.१३४ ॥
एवमुक्त्वा करं क्षिप्य दक्षिणं सकलं ततः॥
निःसृतः पापकारी चेज्ज्वरेणापीड्यते क्षणात्॥ १३.१३५ ॥
सप्ताहाद्दृश्यते चापि तावन्निर्दोषवान्मतः॥
अत्र स्नात्वा च जप्त्वा च तपस्तप्त्वा तथैव च॥ १३.१३६ ॥
रुद्रलोकं सुबहवो गताः पुण्येन कर्मणा॥
सोमवारे विशेषेण स्नात्वा योत्र सुभक्तितः॥ १३.१३७ ॥
पंच तीर्थानि कुरुते मुच्यते पंचपातकैः॥
इत्याद्युक्तं बहुविधं तीर्थमाहात्म्यमुत्तमम्॥ १३.१३८ ॥
भर्तृयज्ञः शिवस्यो च तेषामाराधने क्रमम्॥
शिवागमोक्तमादिश्य पूजायोगं यथाविधि॥ १३.१३९ ॥
शिवभक्तिसमुद्रैकपूरितः प्राह तान्मुनिः॥
न शिवात्परमो देवः सत्यमेतच्छिवव्रताः॥ १३.१४० ॥
शिवं विहाय यो ह्यान्यदसत्किंचिदुपासते॥
करस्थं सोऽमृतं त्यक्त्वा मृगतृष्णां प्रधावति॥ १३.१४१ ॥
शिवशक्तिमयं ह्येतत्प्रत्यक्षं दृश्यते जगत्॥
लिंगांकं च भगांकं च नान्यदेवांकितं क्वचित्॥ १३.१४२ ॥
यश्च तं पितरं रुद्रं त्यक्त्वा मातरमं बिकाम्॥
वर्ततेऽसौ स्वपितरं त्यक्तोदपितृपिंडकः॥
यस्य रुद्रस्य माहात्म्यं शतरूद्रीयमुत्तमम्॥ १३.१४३ ॥
श्रृणुध्वं यदि पापानामिच्छध्वं क्षालनं परम्॥
ब्रह्मा हाटकलिंगं च समाराध्य कपर्दिनः॥ १३.१४४ ॥
जगत्प्रधानमिति च नाम जप्त्वा विराजते॥
कृष्णमूले कृष्णलिंगं नाम चार्जितमेव च॥ १३.१४५ ॥
सनकाद्यैश्च तल्लिंगं पूज्याजयुर्जगद्गतिम्॥
दर्भांकुरमयं सप्त मुनयो विश्वयोनिकम्॥ १३.१४६ ॥
नारदस्त्वंतरिक्षे च जदद्बीजमिदं गृणन्॥
वज्रमिद्रो लिंगमेवं विश्वात्मानं च नाम च॥ १३.१४७ ॥
सूर्यस्ताम्रं तथा लिंगं नाम विश्वसृजं जपन्॥
चंद्रश्च मौक्तिकं लिंगं जपन्नाम जगत्पतिम्॥ १३.१४८ ॥
इंद्रनीलमयं वह्निर्नाम विश्वेश्वरं जपन्॥
पुष्परागं गुरुलिंगं विश्वयोनिं जपन्हरम्॥ १३.१४९ ॥
पद्मरागमयं शुक्रो विश्वकर्मेति नाम च॥
हेमलिंगं च धनदो जपन्नाम्ना तथेश्वरम्॥ १३.१५० ॥
रौप्यजं विश्वदेवाश्च नामापि जगतांपतिम्॥
वायवो रीतिजं लिंगं शंभुमित्येव नाम च॥ १३.१५१ ॥
काशजं वसवो लिंगं स्वयंभुमिति नाम च॥
त्रिलोहं मातरो लिंगं नाम भूतेशमेव च॥ १३.१५२ ॥
लौहं च रक्षसां नाम भूतभव्यभवोद्भवम्॥
गुह्यकाः सीसजं लिंगं नाम योगं जपंति च॥ १३.१५३ ॥
जैगीषव्यो ब्रह्मरंध्रं नाम योगेश्वरं जपन्॥
निमिर्नयनयोर्लिंगे जपञ्शर्वेति नाम च॥ १३.१५४ ॥
धन्वंतरिर्गोमयं च सर्वलोकेश्वरेश्वरम्॥
गंधर्वा दारुजं लिंगं सर्वश्रेष्ठेति नाम च॥ १३.१५५ ॥
वैडूर्यं राघवो लिंगं जगज्ज्येष्ठेति नाम च॥
बाणो मारकतं लिंगं वसिष्ठमिति नाम च॥ १३.१५६ ॥
वरुणः स्फाटिकं लिंगं नाम्ना च परमेश्वरम्॥
नागा विद्रुमलिंगं च नाम लोकत्रयंकरम्॥ १३.१५७ ॥
भारती तारलिंगं च नाम लोकत्रयाश्रितम्॥
शनिश्च संगमावर्ते जगन्नाथेति नाम च॥ १३.१५८ ॥
शनिदेशे मध्यरात्रौ महीसागरसंगमे॥
जातीजं रावणो लिंगं जपन्नाम सुदुर्जयम्॥ १३.१५९ ॥
सिद्धाश्च मानसं नाम काममृत्युजरातिगम्॥
उंछजं च बलिर्लिंगं ज्ञानात्मेत्यस्य नाम च॥ १३.१६० ॥
मरीचिपाः पुष्पजं च ज्ञानगम्येति नाम च॥
शकृताः शकृतं लिंगं ज्ञानज्ञेयेति नाम च॥ १३.१६१ ॥
फेनपाः फेनजं लिंगं नाम चापि सुदुर्विदम्॥
कपिलो वालुकालिंगं वरदं च जपन्हरम्॥ १३.१६२ ॥
सारस्वतो वाचिलंगं नाम वागीश्वरेति च॥
गणा मूर्तिमयं लिंगं नाम रुद्रेति चाब्रुवन्॥ १३.१६३ ॥
जांबूनदमयं देवाः शितिकण्ठेति नाम च॥
शंखलिंगं बुधो नाम कनिष्ठमिति संजपन्॥ १३.१६४ ॥
अश्विनौ मृन्मयं लिंगं नाम्ना चैव सुवेधसम्॥
विनायकः पिष्टलिंगं नाम्ना चापि कपर्दिनम्॥ १३.१६५ ॥
नावनीतं कुजो लिंगं नाम चापि करालकम्॥
तार्क्ष्य ओदनलिंगं च हर्यक्षेति हि नाम च॥ १३.१६६ ॥
गौडं कामस्तथा लिंगं रतिदं चेति नाम च॥
शची लवणलिंगं तु बभ्रुकेशेति नाम च॥ १३.१६७ ॥
विश्वकर्मा च प्रासादलिंगं याम्येति नाम च॥
विभीषणश्च पांसूत्थं सुहृत्तमेति नाम च॥
वंशांकुरोत्थं सगरो नाम संगतमेव च॥ १३.१६८ ॥
राहुश्च रामठं लिंगं नाम गम्येति कीर्तयन्॥
लेप्यलिंगं तथा लक्ष्मीर्हरिनेत्रेति नाम च॥ १३.१६९ ॥
योगिनः सर्वभूतस्थं स्थाणुरित्येव नाम च॥
नानाविधं मनुष्याश्च पुरुषंनाम नाम च॥ १३.१७० ॥
तेजोमयं च ऋक्षाणि भगं नाम च भास्वरम्॥
किंनरा धातुलिंगं च सुदीप्तमिति नाम च॥ १३.१७१ ॥
देवदेवेति नामास्ति लिंगं च ब्रह्मराक्षसाः॥
दंतजं वारणा लिंगं नाम रंहसमेव च॥ १३.१७२ ॥
सप्तलोकमयं साध्या बहूरूपेति नाम च॥
दूर्वाकुरमयं लिंगमृतवः सर्वनाम च॥ १३.१७३ ॥
कौंकुममप्सरसो लिंगं नाम शंभोः प्रियेति च॥
सिंदूरजं चोर्वशी च नाम च प्रियवासनम्॥ १३.१७४ ॥
ब्रह्मचारि गुरुर्लिंगं नाम चोष्णीषिणं विदुः॥
अलक्तकं च योगिन्यो नाम चास्य सुबभ्रुकम्॥ १३.१७५ ॥
श्रीखंडं सिद्धयोगिन्यः सहस्राक्षेति नाम च॥
डाकिन्यो मांस लिंगं च नाम चास्य च मीढुषम्॥ १३.१७६ ॥
अप्यन्नजं च मनवो गिरिशेति च नाम च॥
अगस्त्यो व्रीहिजं वापि सुशांतमिति नाम च॥ १३.१७७ ॥
यवजं देवलो लिंगं पतिमित्येव नाम च॥
वल्मीकजं च वाल्मीकिश्चिरवासीति नाम च॥ १३.१७८ ॥
प्रतर्दनो बाणलिंगं हिरण्यभुजनाम च॥
राजिकं च तथा दैत्या नाम उग्रेति कीर्तितम्॥ १३.१७९ ॥
निष्पावजं दानवाश्च लिंगनाम च दिक्पतिम्॥
मेघा नीरमयं लिंगं पर्जन्यपतिनाम च॥ १३.१८० ॥
राजमाषमयं यक्षा नाम भूतपतिं स्मृतम्॥
तिलान्नजं च पितरो नाम वृषपतिस्तथा॥ १३.१८१ ॥
गौतमो गोरजमयं नाम गोपतिरेव च॥
वानप्रस्थाः फलमयं नाम वृक्षावृतेति च॥ १३.१८२ ॥
स्कंदः पाषाणलिंगं च नाम सेनान्य एव च॥
नागश्चाश्वतरो धान्यं मध्यमेत्यस्य नाम च॥ १३.१८३ ॥
पुरोडाशमयं यज्वा स्रुवहस्तेति नाम च॥
यमः कालायसमयं नाम प्राह च धन्विनम्॥ १३.१८४ ॥
यवांकुरं जामदग्न्यो भर्गदैत्येति नाम च॥
पुरूरवाश्चाश्चान्नमयं बहुरूपेति नाम च॥ १३.१८५ ॥
मांधाता शर्करालिंगं नाम बाहुयुगेति च॥
गावः पयोमयं लिंगं नाम नेत्रसहस्रकम्॥ १३.१८६ ॥
साध्या भर्तृमयं लिंगं नाम विश्वपतिः स्मृतम्॥
नारायणो नरो मौंजं सहस्रशिरनाम च॥ १३.१८७ ॥
तार्क्ष्यं पृथुस्तथा लिंगं सहस्रचरणाभिधम्॥
पक्षिणो व्योमलिंगं च नाम सर्वात्मकेति च॥ १३.१८८ ॥
पृथिवी मेरुलिंगं च द्वितनुश्चास्य नाम च॥
भस्मलिंगं पशुपतिर्नाम चास्य महेश्वरः॥ १३.१८९ ॥
ऋषयो ज्ञानलिंगं च चिरस्थानेति नाम च॥
ब्राह्मणा ब्रह्मलिंगं च नाम ज्येष्ठेति तं विदुः॥ १३.१९० ॥
गोरोचनमयं शेषो नाम पशुपतिः स्मृतम्॥
वासुकिर्विषलिंगं च नाम वै शंकरेति च॥ १३.१९१ ॥
तक्षकः कालकूटाख्यं बहुरूपेति नाम च॥
हालाहलं च कर्कोट एकाक्ष इति नाम च॥ १३.१९२ ॥
श्रृंगी विषमयं पद्मो नाम धूर्जटिरेव च॥
पुत्रः पितृमयं लिंगं विश्वरूपेति नाम च॥ १३.१९३ ॥
पारदं च शिवा देवी नाम त्र्यम्बक एव च॥
मत्स्याद्याः शास्त्रलिंगं च नाम चापि वृषाकपिः॥ १३.१९४ ॥
एवं किं बहुनोक्तेन यद्यत्सत्त्वं विभूतिमत्॥
जगत्यामस्ति तज्जातं शिवाराधनयोगतः॥ १३.१९५ ॥
भस्मनो यदि वृक्षत्वं ज्ञायते नीरसेवनात्॥
शिवभक्तिविहीनस्य ततोऽस्य फलमुच्यते॥ १३.१९६ ॥
धर्मार्थकाममोक्षाणां यदि प्राप्तौ भवेन्मतिः॥
ततो हरः समाराध्यस्त्रिजगत्याः प्रदो मतः॥ १३.१९७ ॥
य इदं शतरुद्रीयं प्रातःप्रातः पठिष्यति॥
तस्य प्रीतः शिवो देवः प्रदास्यत्यखिलान्वरान्॥ १३.१९८ ॥
नातः परं पुण्यतमं किंचिदस्ति महाफलम्॥
सर्ववेदरहस्यं च सूर्येणोक्तमिदं मम॥ १३.१९९ ॥
वाचा च यत्कृतं पापं मनसा वाप्युपार्जितम्॥
पापं तन्नाशमायाति कीर्तिते शतरुद्रिये॥ १३.२०० ॥
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात्॥
भयान्मुच्येत भीतश्च जपेद्यः शतरुद्रियम्॥ १३.२०१ ॥
नाम्नां शतेन यः कुम्भैः पुष्पैस्तावद्भिरीश्वरम्॥
प्रणामानां शतेनापि मुच्यते सर्वपातकैः॥ १३.२०२ ॥
लिंगानां शतमेतच्च शतमाराधकास्तथा॥
नामानि च शतं सर्वदोषसंनाशकं स्मृतम्॥ १३.२०३ ॥
विशेषादेषु लिंगेषु यः पठिष्यति पंचसु॥
पंचभिर्विषयोद्भूतैः स दोषैः परिमुच्यते॥ १३.२०४ ॥
॥नारद उवाच॥
निशम्यैवं प्रार्थ्यतेऽपि गुप्तक्षेत्रे मुदान्विताः॥
पंचलिंगानयर्चयंतः शिवध्यानपराभवन्॥ १३.२०५ ॥
ततो बहुतिथे काले प्रत्यक्षीभूय शंकरः॥
प्राहतान्मुदितो देवस्तेषां भक्तिविशेषतः॥ १३.२०६ ॥
॥शिव उवाच॥
बकोलूकगृध्रकूर्मा इन्द्रद्युम्न च पार्थिव॥
सारूप्यां मुक्तिमापन्ना मल्लोके निवसिष्यथ॥ १३.२०७ ॥
लोमशश्चापि मार्कंडो जीवन्मुक्तौ भविष्यतः॥
इत्युक्ते देवदेवेन लिंगं स्थापितवान्नृपः॥ १३.२०८ ॥
इन्द्रद्युम्नेश्वरं नाम महाकालाख्यमित्युत॥
ज्ञात्वा तीर्थगुणान्राजा कीर्तिमिच्छंश्चिरंतनीम्॥ १३.२०९ ॥
त्रिरम्यमतुलं लिंगं संस्थाप्येदमुवाच ह॥
यावच्चंद्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी॥ १३.२१० ॥
इन्द्रद्युम्नेश्वरं लिंगं नंदताच्छाश्वतीः समाः॥
ततस्तथेति भगवाच्छिवः प्रोच्याब्रवीत्पुनः॥ १३.२११ ॥
अत्र यो नियतं लिंगमैंद्रद्युम्नं प्रपूजयेत्॥
स गणो जायते नूनं मम लोके निवत्स्यति॥ १३.२१२ ॥
इत्युक्त्वा सह तैश्चैव पंचभिः शशिशेखरः॥
रुद्रलोकम गाद्देवस्तेऽपि जाता गणाः पुनः॥ १३.२१३ ॥
एवं प्रभावो राजाभूदिंद्रद्युम्नो महीपतिः॥
यजता येन वीरेण निर्मितेयं महीनदी॥ १३.२१४ ॥
एवंविधःस पुण्योऽयं महीसागरसंगमः॥
अभूत्ततोऽपि संक्षेपात्तव पार्थ प्रकीर्तितः॥ १३.२१५ ॥
स्नात्वात्र संगमे यश्च इन्द्रद्युम्नेश्वरं नरः॥
पूजयेत्तस्य वासः स्याद्यत्रेशः पार्वतीपतिः॥ १३.२१६ ॥
सर्वबन्धहरं लिंगं गाणपत्यप्रदं त्विदम्॥
यतो बन्धान्विहायैव स्थापितं तेन फालल्गुन॥ १३.२१७ ॥
इतीदमुक्तं तव पुण्यकारि माहात्म्यमस्योत्तमसंगमस्य॥
माहात्म्यमत्यद्बुतपुण्यमिन्द्रद्युम्नेश्वरस्यापि च पुण्यकारि॥ १३.२१८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे महीसागरसंगममाहात्म्यशतरुद्रियलिंगमाहात्म्येन्द्रद्युम्नेश्वरलिंगमाहात्म्य वर्णनंनाम त्रयोदशोऽध्यायः॥ १३ ॥ छ ॥