स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ५१
।। अतिथिरुवाच ।। ।।
यदेतत्परलोकस्य स्वरूपं व्याहृतं त्वया ।।
आगमं समुपाश्रित्य तत्तथैव न संशयः ।। १ ।।
किंत्वत्र नास्तिकाः पापाः सन्दिह्यन्तेऽल्पचेतनाः ।।
तेषां निःसंशयकृते वद कर्मफलं हि यत् ।।२ ।।
इहैव कस्य कस्यैव कर्मणः पापकस्य च ।।
प्रभावात्कीदृशो जायेत्कमठैतद्वदास्ति चेत् ।। ३ ।।
।। कमठ उवाच ।। ।।
सर्वमेतत्प्रवक्ष्यामि स्थिरो भूत्वा शृणुष्व तत् ।।
यथा मम गुरुः प्राह यन्मे चेतसि संस्थितम् ।। ४ ।।
ब्रह्महा क्षयरोगी स्यात्सुरापः श्यावदंतकः ।।
सुवर्णचौरः कुनखी दुश्चर्मा गुरुतल्पगः ।। ५ ।।
संसर्गी सर्वरोगी स्यात्पंचपातकिनस्त्वमी ।।
निंदामाकर्ण्य साधूनां बधिरः संप्रजायते ।। ६ ।।
स्वयं प्रकीर्तयेच्चापि मूकः पापोऽभिजायते ।।
आज्ञालोपी गुरूणां च अपस्मारी भवेन्नरः ।। ७ ।।
अवज्ञाकारकस्तेषां कृमिरेवाभिजायते ।।
उपेक्षतः पूज्यकार्यं दुष्प्रज्ञत्वं च जायते ।। ८ ।।
चौर्याय साधुद्रव्याणां दद्याद्यावत्पदानि च ।।
तावद्वर्षाणि पंगुत्वं स प्राप्नोति नराधमः ।। ९ ।।
दत्त्वा हरति तद्भूयो जायते कृकलासकः ।।
कुपितानप्रसाद्यैव पूज्यान्स्याच्छीर्षरोगवान् ।। 1.2.51.१० ।।
रजस्वलामभिगच्छंश्च चंडालः संप्रजायते ।।
वस्त्रापहारी चित्री स्यात्कृष्णकुष्ठी तथाग्निदः ।। ११ ।।
दर्दुरो रूप्यहारी स्यात्कूटसाक्षी मुखारुजः ।।
परदारांश्च कामेन द्रष्टा स्यादक्षिरोगवान् ।। १२ ।।
प्रतिज्ञायाप्रयच्छन्यो ह्यल्पायुर्जायते नरः ।।
विप्रवृत्त्यपहारी स्यादजीर्णी सर्वदाऽधमः ।। १३ ।।
नैष्ठिकान्नाशनाद्भूयो निवृत्तो रोगवान्सदा ।।
पत्नीबहुत्वे त्वेकस्यां रेतोमोक्षः क्षयी भवेत्।।१४।।
स्वामिना धर्मयुक्तो यस्त्वन्यायेन समाचरेत्।।
स्वयं वा भक्षयेद्द्रव्यं स मूढः स्याज्जलोदरी।।१५।।
दुर्बलं पीड्यमानं यो बलवान्समुपेक्षते।।
अंगहीनः स च भवेदन्नहृत्क्षुधितो भवेत्।।१६।।
व्यवहारे पक्षपाती जिह्वारोगी भवेन्नरः।।
धर्मप्रवृत्तिं सञ्चार्य पत्न्यादीष्टवियोगकृत् ।। १७ ।।
स्वयं पाकाग्रभोजी यो गलरोगमवाप्नुयात् ।।
पंचयज्ञानकृत्वैव भुञ्जानो ग्रामशूकरः ।। १८ ।।
पर्वमैथुन कृन्मेही परित्यज्य स्वगेहिनीम् ।।
वेश्यादिरक्तो मूढात्मा खल्वाटो जायते नरः ।। १९ ।।
परिक्षीणान्मित्रबन्धून्स्वामिनं दयितानुगान् ।।
अवमन्य निवृत्तात्मा क्लिष्टवृत्तिः सदा भवेत् ।। 1.2.51.२० ।।
छद्मनोपचरेद्यस्तु पितरौ स्वामिनं गुरून् ।।
प्राप्तव्यार्थस्यातिकष्टात्परिभ्रंशोर्थजो भवेत् ।। २१ ।।
विश्रब्धस्यापहारी तु दुःखानां भाजनं भवेत् ।।
धार्मिके क्षुद्रकारी यो नरः स वामनो भवेत् ।। २२ ।।
दुर्बलवृषवाही यः कटिलूती भवेत्स च ।। २३ ।।
जात्यंधश्चापि यो गोघ्नो निःपशुर्दुःखकृद्गवाम् ।।
निर्दयो गोषु घाताद्यैः सदा सोध्वसु कष्टगः ।। २४ ।।
निस्तेजकः सभायां यो गलगण्डी स जायते ।।
सदा क्रोधी च चंडालः पूतिवक्त्रश्च सूचकः ।। २५ ।।
अजविक्रयकृद्व्याधः कुण्डाशी भृतको भवेत् ।।
नास्तिकस्तिल पिंडी स्यादश्रद्धो गीतजीवनः ।। २६ ।।
अभक्ष्यादो गण्डमाली स्त्रीखादी चाऽऽसुतस्य कृत् ।।
अन्यायतो ज्ञानग्राही मूर्खो भवति मानवः ।। २७ ।।
शास्त्रचौरः केकराक्षः कथां पुण्यां च द्वेष्टि यः ।।
कृमिवक्त्रः स च भवेद्विभ्रष्टो नरकात्कुधीः ।। २८ ।।
देवद्विजगवां वृत्तिहारको वांतभक्षकृत् ।।
तडागारामभेत्ता यो भवेद्विकलपाणिकः ।। २९ ।।
व्यवहारे च्छलग्राही भृत्यग्रस्तो भवेन्नरः ।।
सदा पुरुषरोगी स्यात्परदाररतो नरः ।। 1.2.51.३० ।।
वात रोगी कुवैद्यः स्याद्दुश्चर्मा गुरुतल्पगः ।।
मधुमेही खरीगामी गोत्रस्त्रीमैथुनोऽप्रसूः ।। ३१ ।।
स्वसारं मातरं पुत्रवधूं गच्छन्नबीजवान् ।।
कृतघ्नः सर्व कार्याणां वैफल्यं समुपाश्नुते ।। ३२ ।।
इत्येष लक्षणोद्देशः पापिनां परिकीर्तितः ।।
चित्रगुप्तोऽपि मुह्येत सकलस्यानुवर्णने ।। ३३ ।।
एते नरक विभ्रष्टा भुक्त्वा योनीः सहस्रशः ।।
एवंविधैश्चिह्निताश्च जायंते लक्षणैर्नराः ।। ३४ ।।
ये हि धर्मं न मन्यंते तथा ये व्यसनैर्जिताः ।।
अनुमानेन बोद्धव्यं यदेते शेषपापिनः ।। ३५ ।।
येषां त्वंतगतं पापं स्वर्गाद्वा ये समागताः ।।
सर्वव्यसननिर्मुक्ता धर्ममेकं भजन्ति ते ।। ३६ ।।
भवंति चात्र श्लोकाः ।।
धर्मादनवमं सौख्यमधर्माद्दुःखसम्भवः ।।
तस्माद्धर्मं सुखार्थाय कुर्यात्पापं विवर्जयेत् ।। ३७ ।।
लोकद्वयेऽपि यत्सौख्यं तद्धर्मात्प्रोच्यते यतः ।।
धर्ममेकमतः कुर्यात्सर्वकार्यार्थसिद्धये ।। ३८ ।।
मुहूर्तमपि जीवेत नरः शुक्लेन कर्मणा ।।
न कल्पमपि जीवेत लोकद्वयविरोधिना ।। ३९ ।।
इति पृष्टं त्वया विप्र यथाशक्त्या मयेरितम् ।।
असूक्तं सूक्तमथवा क्षंतव्यं किं वदामि च ।। 1.2.51.४० ।।
।। नारद उवाच ।। ।।
कमठस्यैतदाकर्ण्य अष्टवर्षस्य भाषितम् ।।
भगवान्भास्करः प्रीतो बभूवातीव विस्मितः ।। ४१ ।।
प्रशशंस च तान्विप्रान्हारीतप्रमुखांस्तदा ।।
अहो वसुमती धन्या द्विजैरेवंविधोत्तमैः ।। ४२ ।।
अथ प्रजापतिर्धन्यो यन्मर्यादाभिपाल्यते ।।
अमीभिर्ब्राह्मणवरैर्धन्या वेदाश्च संप्रति ।। ४३ ।।
येषां मध्ये बालबुद्धिरियमेतादृशी स्फुटा ।।
हारीतप्रमुखानां हि का वै बुद्धिर्भविष्यति।। ४४ ।।
असंशयं त्रिलोकस्थमेषामविदितं न हि ।।
यथैतान्नारदः प्राह भूयस्तस्मादमी बहु ।। ४५ ।।
इति प्रशस्य तान्विप्रान्प्रहृष्टो रविरव्रवीत् ।।
अहं सूर्यो विप्रमुख्या युष्माकं दर्शनात्कृते ।। ४६ ।।
समागतः सूर्यलोकात्प्राप्तं नेत्रफलं च मे ।।
भवद्विधैर्विप्रमुख्यैः संजल्पनसहासनात्।।४७।।
अंत्यजा अपि पूयन्ते किं पुनर्मादृशा द्विजाः ।।
सर्वथा नारदो धन्यो योऽसौ त्रैलोक्यतत्त्ववित्।। ४८ ।।
युष्माभिर्बध्यते श्रेयो यस्य वै धूतकिल्विषैः ।।
प्रणमामि च वः सर्वान्मनोबुद्धिसमाधिभिः ।।
तपो विद्या च वृत्तं च यतो वार्द्धक्यकारणम्।।४९।।
वरं मत्तो वृणीध्वं च दुर्लभं यं हृदीच्छत।।
यूयं स्वयं हि वरदा मत्संगो मास्तु निष्फलः।।1.2.51.५०।।
देवतानां हि संसर्गो निष्फलो नोपजायते ।।
तस्मान्मत्तो वरं किंचिद्वृणुध्वं प्रददामि वः ।।५१।।
।। श्रीनारद उवाच।। ।।
इति सूर्यवचः श्रुत्वा प्रहृष्टास्ते द्विजोत्तमाः ।।५२।।
संपूज्य परया भक्त्या पाद्यार्घ्यस्तुतिवंदनैः ।।
मंडलादीन्महाजप्यान्गृणंतः प्रोचिरे रविम्।।५३।।
जयादित्य जय स्वामिञ्जय भानो जयामल।।
जय वेदपते शश्वत्तारयास्मानहर्पते ।। ५४ ।।
विप्राणां त्वं परो देवो विप्रसर्गोऽपि त्वन्मयः ।।
नितरां पूतमेतन्नः स्थानं देव त्वयेक्षितम् ।। ५५ ।।
अद्य नः सफला वेदा अद्य नः सफलाः क्रियाः ।।
अद्य नः सफलं गेहं त्वया संगम्य गोपते ।। ५६ ।।
वरं यदि प्रदातासि तदेनं प्रवृणीमहे ।।
आस्माकीनमिदं स्थानं न हि त्याज्यं कथंचन ।। ५७ ।।
।। श्रीसूर्य उवाच ।। ।।
यस्माद्भवद्भिः पूर्वं हि जयादित्येति चोदितम् ।।
जयादित्य इति ख्यातस्तस्मात्स्थास्येऽत्र सर्वदा ।। ५८ ।।
यावन्मही समुद्राश्च पर्वता नगराणि च ।।
तावत्स्थानमिदं विप्रा न हि त्यक्ष्यामि कर्हिचित्।।५९।।
दारिद्र्यरोगसंघातान्दद्रवो मंडलानि च ।।
कुष्ठादीन्नाशयिष्यामि भजतामत्र संस्थितः ।। 1.2.51.६० ।।
यो मामत्र स्थितं चापि पूजयिष्यति मानवः ।।
सूर्यलोकमिवागम्य पूजां तस्य भजाम्यहम् ।। ६१ ।।
।। श्रीनारद उवाच ।। ।।
एवमुक्ते भगवता हारीताद्या द्विजोत्तमाः ।।
मूर्तिं संस्थापयामासुर्वेदोदितविधानतः ।। ६२ ।।
ततो द्विजाः प्राहुरेवं कमठं त्वत्कृते रविः ।।
अत्र स्वामी स्थितस्तस्मात्प्रथमं स्तुहि त्वं रविम्।। ६३ ।।
इत्युक्तो ब्राह्मणैः सर्वैः कमठो वाग्ग्मिनां वरः ।
प्रणिपत्य जयादित्यं महास्तोत्रमिदं जगौ ।। ६४ ।।
न त्वं कृतः केवलसंश्रुतश्च यजुष्येवं व्याहरत्यादिदेव ।।
चतुर्विधा भारती दूरदूरं धृष्टः स्तौमि स्वार्थकामः क्षमैतत् ।। ६५ ।।
मार्तंडसूर्यांशुरविस्तथेन्द्रो भानुर्भगश्चार्यमा स्वर्णरेताः ।। ६६ ।।
दिवाकरो मित्रविष्णुश्च देव ख्यातस्त्वं वै द्वादशात्मा नमस्ते ।।
लोकत्रयं वै तव गर्भगेहं जलाधारः प्रोच्यसे खं समग्रम् ।। ६७ ।।
नक्षत्रमाला कुसुमाभिमाला तस्मै नमो व्योमलिंगाय तुभ्यम् ।। ६८ ।।
त्वं देवदेवस्त्वमनाथनाथस्त्वं प्राप्यपालः कृपणे कृपालुः ।।
त्वं नेत्रनेत्रं जनबुद्धिबुद्धिराकाशकाशो जय जीवजीवः ।। ६९ ।।
दारिद्र्यदारिद्र्य निधे निधीनाममंगलामंगल शर्मशर्म ।।
रोगप्ररोगः प्रथितः पृथिव्यां चिरं जयादित्य जयाप्रमेय ।।1.2.51.७०।।
व्याधिग्रस्तं कुष्ठरोगाभिभूतं भग्न प्राणं शीर्णदेहं विसंज्ञम् ।।
माता पिता बांधवाः संत्यजंति सर्वैस्त्यक्तं पासि कोस्ति त्वदन्यः ।। ७१ ।।
त्वं मे पिता त्वं जननी त्वमेव त्वं मे गुरुर्बान्धवाश्च त्वमेव ।।
त्वं मे धर्मस्त्वं च मे मोक्षमार्गो दासस्तुभ्यं त्यज वा रक्ष देव ।।७२।।
पापोऽस्मि मूढोऽस्मि महोग्रकर्मा रौद्रोऽस्मि नाचारनिधानमस्मि ।।
तथापि तुभ्यं प्रणिपत्य पादयोर्जयं भक्तानामर्पय श्रीजयार्क ।। ७३ ।।
।। नारद उवाच ।। ।।
एवं स्तुतो जयादित्यः कमठेन महात्मना ।।
स्निग्धगंभीरया वाचा प्राह तं प्रहसन्निव ।। ७४ ।।
जयादित्याष्टकमिदं यत्त्वया परिकीर्तितम् ।।
अनेन स्तोष्यते यो मां भुवि तस्य न दुर्लभम् ।। ७५ ।।
रविवारे विशेषेण मां समभ्यर्च्य यः पठेत् ।।
तस्य रोगा न शिष्यंति दारिद्र्यं च न संशयः ।। ७६ ।।
त्वया च तोषितो वत्स तव दद्मि वरंत्वमुम् ।।
सर्वज्ञो भुवि भूत्वा त्वं ततो मुक्तिमवाप्स्यसि ।। ७७ ।।
त्वत्पिता स्मृतिकारश्च भविष्यति द्विजार्चितः ।।
स्थानस्यास्य न नाशश्च कदाचित्प्रभविष्यति ।। ७८ ।।
न चैतत्स्थानकं वत्स परित्यक्ष्यामि कर्हिचित् ।।
एवमुक्ता स भगवान्ब्राह्मणैरर्चितः स्तुतः ।। ७९ ।।
अनुज्ञाप्य द्विजेद्रांस्तांस्तत्रैवांतर्दधे प्रभुः ।।
एवं पार्थ समुत्पन्नो जयादित्योऽत्र भूतले ।। 1.2.51.८० ।।
आश्विने मासि संप्राप्ते रविवारे च सुव्रत ।।
आश्विने भानुवारेण यो जयादित्यमर्चयेत् ।।८१।।
कोटितीर्थे नरः स्नात्वा ब्रह्महत्यां व्यपोहति।।
पूजनाद्रक्तमाल्यैश्च रक्तचंदनकुंकुमैः।।८२।।
लेपनाद्गंधधूपाद्यै नैवेद्येर्घृतपायसैः ।।
ब्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः ।। ८३ ।।
मुच्यते सर्वपापेभ्यः सूर्यलोकं च गच्छति ।।
पुत्रदारधनान्यायुः प्राप्य सां सारिकं सुखम् ।। ८४ ।।
इष्टकामैः समायुक्तः सूर्यलोके चिरं वसेत् ।। ८५ ।।
सर्वेषु रविवारेषु जयादित्यस्य दर्शनम् ।।
कीर्तनं स्मरणं वापि सर्व रोगोपशांतिदम् ।। ८६ ।।
अनादिनिधनं देवमव्यक्तं तेजसां निधिम् ।।
ये भक्तास्ते च लीयंते सौरस्थाने निरामये ।। ८७ ।।
सूर्योपरागे संप्राप्ते रविकूपे समाहितः ।।
स्नानं यः कुरुते पार्थ होमं कुर्यात्प्रयत्नतः ।। ८८ ।।
दानं चैव यथाशक्त्या जयादित्याग्रतः स्थितः ।।
तस्य पुण्यस्य माहात्म्यं शृणुष्वैकमना जय ।। ८९ ।।
कुरुक्षेत्रेषु यत्पुण्यं प्रभासे पुष्करेषु च ।।
वाराणस्यां च यत्पुण्यं प्रयागे नैमिषेऽपि वा ।।
तत्पुण्यं लभते मर्त्यो जयादित्यप्रसादतः ।। 1.2.51.९० ।। ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे जयादित्य माहात्म्यवर्णनंनामैकपंचाशत्तमोऽध्यायः ।। ५१ ।।