स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ५०

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६

।। अतिथिरुवाच ।। ।।
साध्वबालमते बाल कमठैतत्त्वयोच्यते ।।
शरीरलक्षणं श्रोतुं पुनरिच्छामि तद्वद ।। १ ।।
।। कमठ उवाच ।। ।।
यथैतद्वेद ब्रह्मांडं शरीरं च तथा शृणु ।।
पादमूलं च पातालं प्रपदं च रसातलम् ।। २ ।।
तलातलं तथा गुल्फौ जंघे चास्य महातलम् ।।
जानुनी सुतलं चोरू वितलं चातलं कटिम् ।। ३ ।।
नाभिं महीतलं प्राहुर्भुवर्लोकमथोदरम् ।।
उरःस्थलं च स्वर्लोकं महर्ग्रीवा मुखं जनम् ।। ४ ।।
नेत्रे तपः सत्यलोकं शीर्षदेशं वदंति च ।।
तद्यथा सप्त द्वीपानि पृथिव्यां संस्थितानि च ।। ५ ।।
तथात्र धातवः सप्त नामतस्तान्निबोध मे ।।
त्वगसृङ्मांस मेदोऽस्थिमज्जाशुक्राणि धातवः ।। ६ ।।
अस्थ्नामत्र शतानि स्युस्त्रीणि षष्ट्यधिकानि च ।।
त्रिंशच्छतसहस्राणि नाडीनां कथितानि च ।। ७ ।।
षट्पंचाशत्सहस्राणि तथान्यानि नवैव तु ।।
ता वहंति रसं देहे जलं नद्यो यथा भुवि ।।८।।
सार्धाभिस्तिसृभिश्छन्नं समंताद्रोमकोटिभिः ।।
शरीरं स्थूलसूक्ष्माभिर्दृश्यादृश्या हि ताः स्मृताः ।।९।।
षडंगानि प्रधानानि कथ्यमानानि मे शृणु ।।
द्वौ बाहू सक्थिनी द्वे च मूर्धा जठरमेव च ।। 1.2.50.१० ।।
अंत्राण्यत्र तथा त्रीणि सार्धव्यामत्रयाणि च ।।
त्रिव्यामानि तथा स्त्रीणामाहुर्वेदविदो द्विजाः ।। ११ ।।
ऊर्ध्वनालमधोवक्त्रं हृदि पद्मं प्रकीर्त्यते ।।
हृत्पद्मवामतः प्लीहो दक्षिणे स्यात्तथा यकृत् ।। १२ ।।
मज्जातो मेदसश्चैव वसायाश्च तथा द्विज ।।
मूत्रस्य चैव पित्तस्य श्लेष्मणः शकृतस्तथा ।। ।। १३ ।।
रक्तस्य चरमस्यात्र गर्ता द्व्यंजलयः स्मृताः ।।
गेयः प्रवर्तमानास्ते देहं संधारयंत्युत ।। १४ ।।
सीवन्यश्च तथा सप्त पंच मूर्धानमास्थिताः ।।
एका मेढ्रं गता चैका तथा जिह्वां गता द्विज ।। १५ ।।
नाड्यः सर्वाः प्रवर्तंते नाभिपद्मात्तथात्र च ।।
यासां श्रेष्ठा शिरो याता सुषुम्नेडाऽथ पिंगला ।। १६ ।।
नासिकाद्वारमासाद्य संस्थिते देहवर्धने ।।
वायुरग्निश्चंद्रमाश्च पंचधा पंचधात्र च ।। १७ ।।
प्राणापानसमानाश्च उदानो व्यान एव च ।।
पंच भेदाः स्मृता वायोः कर्मार्ण्येषां वदंति च ।। १८ ।।
उच्छ्वासश्चैव निःश्वासो ह्यन्नपानप्रवेशनम् ।।
आकंठाच्छीर्षसंस्थास्य प्राणकर्म प्रकीर्तितम् ।। १९ ।।
त्यागो विण्मूत्रशुक्राणां गर्भविस्रवणं तथा ।।
अपानकर्म निर्दिष्टं स्थानमस्य गुदोपरि ।। 1.2.50.२० ।।
समानो धारयत्यन्नं विवेचयति चाप्यथ ।।
रसयंश्चैव चरति सर्वश्रोणिष्ववारितः ।। २१ ।।
वाक्प्रवृत्तिप्रदोद्गारे प्रयत्ने सर्वकर्मणाम् ।।
आकंठसुरसंस्थानमुदानस्य प्रकीर्त्यते ।। २२ ।।
व्यानो हृदि स्थितो नित्यं तथा देहचरोपि च ।।
धातुवृद्धिप्रदः स्वेदलालोन्मेषनिमेषकृत् ।। २३ ।।
पाचको रजकश्चैव साधकालोचकौ तथा ।।
भ्राजकश्च तथा देहे पञ्चधा पावकः स्थितः ।। २४ ।।
पाचकस्तु पचत्यन्नं नित्यं पक्वाशये स्थित. ।।।
आमाशयस्थोऽपि रसं रंजकः कुरुते त्वसृक् ।। २५ ।।
साधको हृदिसंस्थश्च बुद्ध्याद्युत्साहकारकः ।।
आलोचकश्च दृक्संस्थो रूपदर्शनशक्ति कृत ।। २६ ।।
त्वक्संस्थो भ्राजको देहं भ्राजयेन्निर्मलीकृतः ।।
क्लेदको बोधकश्चैव तर्पणः श्लेष्मणस्तथा ।। २७ ।।
आलंबकस्तथा देहे पंचधा सोम उच्यते ।।
क्लेदकः क्लेदयत्यन्नं नित्यं पक्वाशये स्थितः ।।२८।।
बोधको रसनास्थश्च रसानामवबोधकः ।।
शिरःस्थश्चक्षुरादीनां तर्पणात्तर्पणः स्मृतः ।। २९ ।।
सर्वसंधिगतश्चैव श्लेष्मणः श्लेष्मकृत्तथा ।।
उरःस्थः सर्वगात्राणि स वै ह्यालंबकः स्थितः ।।1.2.50.३०।।
एवं वाय्वग्निसोमैश्च देहः संधारितस्त्वसौ ।।
आकाशजानि स्रोतांसि तथा कोष्ठविविक्तता ।। ३१ ।।
पार्थिवानीह जानीहि घ्राणकेशनखानि च ।।
अस्थीनि धैर्यं गुरुता त्वङ्मांस हृदयं गुदम् ।। ३२ ।।
नाभिर्मेदो यकृन्मज्जा अंत्रमामाशयः शिरा ।।
स्नायुः पक्वाशयश्चैव प्राहुर्वेदविदो द्विजाः ।। ३३ ।।
नेत्रयोर्मडलं शुक्लं कफाद्भवति पैतृकम् ।।
कृष्णं च मण्डलं वातात्तथा भवति मातृकम् ।। ३४ ।।
पक्ष्ममण्डलमेकं तु द्वितीयं चर्ममण्डलम् ।।
शुक्लं तृतीयं कथित चतुर्थं कृष्णमण्डलम् ।। ३५ ।।
दृङ्मण्डलं पंचमं तु नेत्रं स्यात्पंचमण्डलम् ।।
अपरे नेत्रभागे द्वे उपांगोऽपांग एव च।। ३६ ।।
उपांगो नेत्रपर्यंतो नासा मूलमपांगकः ।।
वृषणौ च तथा प्रोक्तौ मेदोसृक्कफमांसकौ ।। ३७ ।।
असृङ्मांसमयी जिह्वा सर्वेषामेव देहिनाम् ।।
हस्तयोरोष्ठयोर्मेढ्रे ग्रीवायां षट् च कूर्चकाः ।। ३८ ।।
एवमत्र स्थिते जीवो देहेऽस्मिन्सप्तसप्तके ।।
पंचविंशतिको व्याप्य देहं वासोऽस्य मूर्धनि ।। ३९ ।।
त्वगसृग्मांसमित्याहुस्त्रिकं मातृसमुद्भवम् ।।
मेदोमज्जास्थिकं प्रोक्तं पितृजं षट्च कौशिकम् ।। 1.2.50.४० ।।
एवं भूतमयं देहं पंचभूतसमुद्भवैः ।।
अन्नैर्यथा वृद्धिमेति तदहं वर्णयामि ते ।।४१।।
तदन्नं पिण्डकवलैर्ग्रासैर्भुक्तं च देहिभिः ।।
पूर्वं स्थूलाशये वायुः प्राणः प्रकुरुते द्विधा।। ४२।।
संप्रविश्यान्नमध्ये तु पृथगन्नपृथग्जलम्।।
अग्नेरूर्ध्वं जलं स्थाप्य तदन्नं तज्जलोपरि ।। ४३ ।।
जलस्याधः स्वयं प्राणः स्थित्वाग्निं धमते शनैः ।।
वायुना धम्यमानोग्निरत्युष्णं कुरुते जलम्।। ४४ ।।
तदन्नमुष्णतोयेन समंतात्पच्यते पुनः ।।
द्विधा भवति तत्पक्वं पृथक्किट्टं पृथग्रसम् ।। ४५ ।।
मलैर्द्वादशभिः किट्टं भिन्नं देहाद्बहिर्व्रजेत् ।।
कर्णाक्षिनासिकाजिह्वादताः शिश्नं गुदं नखाः ।। ४६ ।।
रोमकूपाणि चैव स्युर्द्वादशैते मलाश्रयाः।।
हृत्पद्मप्रतिबद्धाश्च सर्वा नाड्यः समंततः ।। ४७ ।।
तासां मुखेषु तं सूक्ष्मं व्यानः स्थापयते रसम् ।।
रसेन तेन ता नाडीः समानः पूरयेत्पुनः ।। ४८ ।।
ततः प्रयांति संपूर्णास्ताश्च देहं समंततः ।।
ततः स नाडिमध्यस्थो रञ्जकेनोष्मणा रसः ।। ४९ ।।
पच्यते पच्यमानस्तु रुधिरत्वं भजेत्पुनः ।।
ततस्त्वग्लोमकेशाश्च मांसं स्नायु शिरास्थि च ।। 1.2.50.५० ।।
नखा मज्जा खवैमल्यं शुक्रवृद्धिः क्रमाद्भवेत् ।।
एवं द्वादशधान्नस्य परिणामः प्रकीर्त्यते ।। ५१ ।।
एवमेतद्विनिष्पन्नं शरीरं पुण्यहेतवे ।।
यथैव स्यंदनः शुभ्रो भारसंवाहनाय च ।। ५२ ।।
तैलाभ्यंगादिभिर्यत्नैर्बहुभिः पाल्यते न चेत् ।।
किं कृत्यं साध्यते तेन यदि भारं वहेन्न हि ।। ५३ ।।
एवमेतेन देहेन किं कृत्यं भोजनोत्तमैः ।।
वर्धितेन न चेत्पुण्यं कुरुते पशुवच्च तत् ।। ५४ ।।
भवंति चात्र श्लोकाः ।।
यस्मिन्काले च देशे च वयसा यादृशेन च ।।
कृतं शुभाशुभं कर्म तत्तथा तेन भुज्यते ।। ५५ ।।
तस्मात्सदा शुभं कार्यमविच्छिन्नसुखार्थिभिः ।।
विच्छिद्यंतेऽन्यथा भोगा ग्रीष्मे कुसरितो यथा ।। ५६ ।।
यस्मात्पापेन दुःखानि तीव्राणि सुबहून्यपि ।।
तस्मात्पापं न कर्तव्यमात्मपीडाकरं हि तत् ।। ५७ ।।
एवं ते वर्णितः साधो प्रश्नोऽयं शक्तितो मया ।।
यथा संजायते प्राणी यथा शृणु प्रलीयते ।। ५८ ।।
आयुष्ये कर्मणि क्षीणे संप्राप्ते मरणे नृणाम्।।
स्वकर्मवशगो देही कृष्यते यमकिंकरैः ।। ५९ ।।
पंचतन्मात्रसहितः समनोबुद्ध्यहंकृतिः ।।
पुण्यपापमयैः पाशैर्बद्धो जीवस्त्यजे द्वपुः ।। 1.2.50.६० ।।
शीर्ष्णश्च सप्तभिश्छिद्रैर्निर्गच्छेत्पुण्यकर्मणाम् ।।
अधश्च पापिनां यांति योगिनां ब्रह्मरंध्रतः ।। ६१ ।।
तत्क्षणात्सोऽथ गृह्णाति शारीरं चातिवाहिकम् ।।
अंगुष्ठपर्वमात्रं तु स्वप्राणैरेव निर्मितम् ।। ६२ ।।
ततस्तस्मिन्स्थितं जीवं देहे यमभटास्तदा ।।
बद्ध्वा नयंति मार्गेण याम्येनाति यथाबलम्।। ६३ ।।
तप्तांबरीषतुल्येन अयोगुडनिभेन च ।।
प्रतप्तसिकतेनापि ताम्रपात्रनिभेन च ।। ६४ ।।
षडशीतिसहस्राणि योजनानां महीतलात् ।।
कृष्यमाणो यमपुरीं नीयते पापकृद्भटैः।।६५।।
क्वचिच्छीतं महादुर्गमन्धकारं क्वचिन्महत्।।
अग्निसंस्पर्शवदनैः काककाकोलजंबुकैः ।६६।।
मक्षिकादंशमशकैर्भक्ष्यते सर्पवृश्चिकैः ।।
भक्ष्यमाणोऽपि तैर्जंतुः क्रंदते म्रियते न हि ।। ६१७ ।।
क्वचिच्च भक्ष्यते घोरै राक्षसैः कृष्यतेऽस्यते ।।
दह्यमानोतिघोरेण सैकतेन च नीयते ।। ६८ ।।
मुहूतैर्दशभिर्याति तं मार्गमतिदुस्तरम् ।।
तं कालं सुमहद्वेत्ति पुरुषो वर्षसंमितम् ।। ६९ ।।
तार्यते च नदीं घोरां पूयशोणितवाहिनीम् ।।
नदीं वैतरणीं नाम केशशैवलशाद्वलाम् ।। 1.2.50.७० ।।
ततो यमस्य पुरतः स्थाप्यते यमकिंकरैः ।।
पापी महाभयं पश्येत्कालांतकमुखैर्वृतम् ।। ७१ ।।
पुण्यकर्मा सौम्यरूपं धर्मराजं तदा किल ।।
मनुष्या एव गच्छंति यमलोकेन चापरे ।। ।। ७२ ।।
मरणानंतरं तेषां जंतूनां योनिपूरणम् ।।
तथाहि प्रेता मनुजाः श्रूयंते नान्यजंतवः ।। ७३ ।।
धार्मिकः पूज्यते तत्र पापः पाशगलो भवेत् ।।
धार्मिकश्च यथा याति तं मार्गं शृणु वच्मि ते ।। ७४ ।।
आरामद्रुमदातारः फलपुष्पवता पथा ।।
छायया च सुखं यांति तथा ये च्छत्रदा नराः ।। ।। ७५ ।।
उपानहप्रदा यानैर्वितृषाः पूर्तधर्मिणः ।।
विमानैर्यानदा यांति तथा शय्यासनप्रदाः ।। ७६ ।।
भक्ष्यभोज्यैस्तथा तृप्ता यांति भोजनदायिन ।।
दीपप्रदाः प्रकाशेन गोप्रदास्तां नदीं सुखम् ।।७७।।
श्रीसूर्यं श्रीमहादेवं भक्ता ये पुरुषोत्तमम् ।।
जन्मप्रभृति ते यांति पूज्यमाना यमानुगैः ।। ७८ ।।
महीं गां कांचनं लोहं तिलान्कार्पासमेव च ।।
लवणं सप्तधान्यं च दत्त्वा याति सुखं नरः ।।७९।।
तेषां तत्र गतानां च पापिनां पुण्यकर्मिणाम् ।।
चित्रगुप्तः प्रेतपाय निरूपयति वै ततः ।। 1.2.50.८० ।।
प्रेतलोके स वसति ततः संवत्सरं नरः ।।
वत्सरेण च तेनास्य शरीरमभिजायते ।। ८१ ।।
सोदकुम्भमथान्नाद्यं बांधवैर्यत्प्रदीयते ।।
दिनेदिने स तद्भुक्त्वा तेन वृद्धिं प्रयाति च ।। ८२ ।।
पूर्वदत्तमथान्नाद्यं प्राप्नोति स्वयमेव च ।।
स्वयं येन न दत्तं च तथा दाता न विद्यते ।। ८३ ।।
न चाप्युदकदातासौ क्षुत्तृड्भ्यामतिपीड्यते ।।
बांधवैस्तूदकं दत्तं नदीभूत्वोपतिष्ठति ।। ८४ ।।
मासिमासि च यच्छ्राद्धं षोडशश्राद्धपूर्वकम् ।।
अत्र न क्रियते यस्य प्रेतत्वात्स न मुच्यते ।। ८५ ।।
मानुषेण दिनेनैव प्रेतलोके दिनं स्मृतम् ।।
तस्माद्दिनेदिने देयं प्रेतायान्नं च वत्सरम् ।। ८६ ।।
तं च स्माशानिकानाम गणा याम्या भयावहाः ।।
शीतवातातपोपेतं तत्र रक्षंति पापिनम् ।। ८७ ।।
यथेह बन्धने कश्चिद्रक्ष्यते विषमैर्नरैः ।।
प्रेतपिंडा न दीयंते षोडशश्राद्धपूर्वकाः ।। ८८ ।।
यस्य तस्य न मोक्षोऽस्ति प्रेतत्वाद्वै युगैरपि ।।
ततः सपिण्डीकरणे बांधवैः सुकृते नरः ।। ८९ ।।
पूर्णे संवत्सरे देहं संपूर्णं प्रतिपद्यते ।।
पापात्मा घोररूपं तु धार्मिको दिव्यमुत्तमम् ।। 1.2.50.९० ।।
ततः स नरकं याति स्वर्गं वा स्वेन कर्मणा ।।
रौरवाद्याश्च नरकाः पातालतलसंस्थिताः ।।९१।।
सुराद्याः सत्यपर्यंताः स्वर्लोकस्योर्ध्वमाश्रिताः ।।
इतिहासपुराणेषु वेदस्मृतिषु यच्छुतम् ।। ९२ ।।
पुण्यं तेन भवेत्स्वर्गो नरकस्तद्विपर्ययात् ।।
तत्रापि कालवसति कर्मणामनुरूपतः ।।९३।।
अर्वाक्सपिंडीकरणं यस्य वर्षाच्च वा कृतम् ।।
प्रेतत्वमपि तस्यापि प्रोक्तं संवत्सरं धुवम् ।। ९४ ।।
यैरिष्टं च त्रिभिर्मेधैरर्चितं वा सुरत्रयम् ।।
प्रेतलोकं न ते यांति तथा ये समरे हताः।।९५।।
शुद्धेन पुण्येन दिवं च शुद्धां पापेन शुद्धेन तथा तमोंधम्।।
मिश्रेण स्वर्गं नरकं च याति देहस्तथैवास्य भवेच्च तादृक्।। ९६ ।।
प्रश्नत्रयं चेति तव प्रणीतमुत्पत्तिमृत्यू परलोकवासः ।।
यथा गुरुर्मे समुदाजहार किं भूय इच्छत्युत तद्वदामि ।। ९७ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्ड कौमारिकाखण्डे आदित्यकमठसंवादे जीवस्य पारलौकिकगत्यादिवर्णनंनाम पंचाशत्तमोऽध्यायः ।। ५० ।।