स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः २३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २२ स्कन्दपुराणम्
अध्यायः २३
वेदव्यासः
अध्यायः २४ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६

॥नारद उवाच॥
ततश्च शैलजा देवी चिक्रीड सुभगा तदा॥
देवगंधर्वकन्याभिर्नगकिंनरसंभवाः॥
मुनीनां चापि याः कन्यास्ताभिः सार्धं च शोभना॥ २३.१ ॥

कदाचिदथ मेरुस्थो वासवः पांडुनंदन॥
सस्मारा मां ययौ चाहं संस्मृतो वासवं तदा॥ २३.२ ॥

मां दृष्ट्वा च सहस्राक्षः समुत्थायातिहर्षितः॥
पूजयामास तां पूजां प्रतिगृह्याहमब्रुवम्॥ २३.३ ॥

महासुर महोन्मादकालानल दिवस्पते॥
कुशलं विद्यते कच्चिच्च नंदसि॥ २३.४ ॥

पृष्टस्त्वेवं मया शक्रः प्रोवाच वचनं स्मयन्॥
कुशलस्यांकुरस्तावत्संभूतो भुवनत्रये॥ २३.५ ॥

तत्फलोदयसंपत्तौ तद्भवान्संस्मृतो मुने॥
वेत्सि सर्वमतं त्वं वै तथापि परिनोदकः॥ २३.६ ॥

निर्वृतिं परमां याति निवेद्यार्थं सुहृज्जने॥ २३.७ ॥

तद्भवाञ्छैलजां देवीं शैलंद्रं शैलवल्लभाम्॥
हरं संभावय वरं यन्नान्यं रोचयंति ते॥ २३.८ ॥

ततस्तद्वाक्यमाकर्ण्य गतोऽहं शैलसत्तमम्॥
ओषधिप्रस्थनिलयं साक्षादिव दिवस्पतिम्॥ २३.९ ॥

तत्र हैमे स्वयं तेन महाभक्त्या निवेदिते॥
महासने पूजितोहमुपविष्टो महासुखम्॥ २३.१० ॥

गृहीतार्घ्यं ततो मां च पप्रच्छ श्लक्ष्णया गिरा॥
कुशलं तपसः शैलः शनैः फुल्लाननांबुजः॥ २३.११ ॥

अहमप्यस्य तत्प्रोच्य प्रत्यवोचं गिरीश्वरम्॥
त्वया शैलेंद्र पूर्वां वाप्यपरां च दिशं तथा॥ २३.१२ ॥

अवगाह्य स्थितवता क्रियते प्राणिपालना॥
अहो धन्योसि विप्रेंद्राः साहाय्येन तवाचल॥ २३.१३ ॥

तपोजपव्रतस्नानौः साध्यंत्यात्मनः परम्॥
यज्ञांगसाधनैः कांश्चित्कंदादिफलदानतः॥ २३.१४ ॥

त्वं समुद्धरसि विप्रान्किमतः प्रोच्यते तव॥
अन्येऽपि जीव बहुधात्वामुपाश्रित्य भूधर॥ २३.१५ ॥

मुदिताः प्रतिवर्तंते गृहस्थमिव प्राणिनः॥
शीतमातपवर्षांश्च क्लेशान्नानाविधान्सहन्॥ २३.१६ ॥

उपाकरोषि जंतूनामेवंरूपा हि साधवः॥
किमतः प्रोच्यते तुभ्यं धन्यस्त्वं पृथिवीधर॥ २३.१७ ॥

कंदरं यस्य चाध्यास्ते स्वयं तव महेश्वरः॥
इत्युक्तवति वाक्यं च यथार्थं मयिफाल्गुन॥ २३.१८ ॥

हिमशैलस्य महिषी मेना आगाद्दिदृक्षया॥
अनुयाता दुहित्रा च स्वल्पाश्च परिचारिकाः॥ २३.१९ ॥

लज्जयानतसर्वांगी प्रविवेश सदो महत्॥
ततो मां शैलमहिषी ववंदे प्रणिपत्य सा॥ २३.२० ॥

वस्त्रनिर्गूढवदना पाणिपद्मकृतांजलिः॥
तामहं सत्यरूपाभिराशीर्भिः समवर्धयम्॥ २३.२१ ॥

पतिव्रता शुभाचारा सुबगा वीरसूः शुभे॥
सदा वीरवती चापि भव वंशोन्नतिप्रद॥ २३.२२ ॥

ततोऽहं विस्मिताक्षीं च हिमवद्गिरिपुत्रिकाम्॥
मृदुवाण्या प्रत्यवोचमेहि बाले ममांतिकम्॥ २३.२३ ॥

ततो देवी जगन्माता बालबावं स्वकं मयि॥
दर्शयंती स्वपितरं कंठे गृह्यांकमावि शत्॥ २३.२४ ॥

उवाच वाचं तां मंदं मुनिं वंदय पुत्रिके॥
मुनेः प्रसादतोऽवश्यं पतिमाप्स्यसि संमतम्॥ २३.२५ ॥

इत्युक्ता सा ततो बाला वस्त्रांतपि हितानना॥
किंचित्सहुंकृतोत्कंपं प्रोच्य नोवाच किंचन॥ २३.२६ ॥

ततो विस्मितचित्तोहमुपचारविदांवरः॥
प्रत्यवोचं पुनर्देवीमेहि दास्यामि ते शुभे॥ २३.२७ ॥

रत्नक्रीडनकं रम्यं स्तापितं सुचिरं मया॥
इत्युक्ता सा तदोत्थाय पितुरंकात्सवेगतः॥ २३.२८ ॥

वंदमाना च मे पादौ मया नीतांक मात्मनः॥
मन्यता तां जगत्पूज्यामुक्तं बाले तवोचितम्॥ २३.२९ ॥

न तत्पश्यामि यत्तुभ्यं दद्म्याशीः का तवोचिता॥
इत्युक्ते मातृवात्सल्याच्छैलेन्द्र महिषी तदा॥ २३.३० ॥

नोदयामास मां मंदमानशीःशंकिता तदा॥
भगवन्वेत्सि सर्वं त्वमतीतानागतं प्रभो॥ २३.३१ ॥

तदहं ज्ञातुमिच्छामि कीदृशोऽस्याः पतिर्भवेत्॥
श्रुत्वेति सस्मितमुखः प्रावोचं नर्मवल्लभः॥ २३.३२ ॥

न जातोऽस्याः पतिर्भद्रे वर्तते च कुलक्षणः॥
नग्नोऽतिनिर्धनः क्रोधीवृतः क्रूरैश्च सर्वदा॥ २३.३३ ॥

श्रुत्वेति संभ्रमाविष्टो ध्वस्तवीर्यो हिमाचलः॥
मां तदा प्रत्युवाचेदं साश्रुकण्ठो महागिरिः॥ २३.३४ ॥

अहो विचित्रः सं सारो दुर्वेद्यो महतामपि॥
प्रवरस्त्वपि शक्त्या यो नरेषु न कृपायते॥ २३.३५ ॥

यत्नेन महता तावत्पुण्यैर्बहुविधैरपि॥
साधयत्यात्मनो लोको मानुष्य मतिदुर्लभम्॥ २३.३६ ॥

अध्रुवं तद्ध्रवत्वे च कथंचित्परिकल्प्यते॥
तत्रापि दुर्लभानाम समानव्रतचारिणी॥ २३.३७ ॥

साध्वी महाकुलोत्पन्ना भार्याया स्यात्पतिव्रता॥
तत्रापि दुर्लभं यच्च तया धर्मनिषेवणम्॥ २३.३८ ॥

सह वेदपुराणोक्तं जगत्त्रयहितावहम्॥
एतत्सुदुर्लभं यच्च तस्यां चैव प्रजायते॥ २३.३९ ॥

तदपत्यमपत्यार्थं संसारे किल नारद॥
एतेषां दुर्लभानां हि किंचित्प्राप्नोति पुण्यवान्॥ २३.४० ॥

सर्वमेतदवाप्नोति स कोपि यदिवा न वा॥
किंचित्केनापि हि न्यूनं संसारः कुरुते नरम्॥ २३.४१ ॥

अथ संसारिको दोषः स्वकृतं यत्र भुज्यते॥
गार्हस्थ्यं च प्रशंसंति वेदाः सर्वेऽपि नारद॥ २३.४२ ॥

नेति केचित्तत्र पुनः कथं ते यदि नो गृही॥
अतो धात्रा च शास्त्रेषु सुतलाभः प्रशंसितः॥ २३.४३ ॥

पुनश्चसृष्टिवृद्ध्यर्थं नरकत्राणनाय च॥
तत्र स्त्रीणां समुत्पत्तिं विना सृष्टिर्न जायते॥ २३.४४ ॥

सा च जातिप्रकृत्यैव कृपणा दैन्यभागिनी॥
तासामुपरि मावज्ञा भवेदिति च वेधसा॥
शास्त्रेषूक्तमसंदिग्धं वाक्यमेतन्महात्फलम्॥ २३.४५ ॥

दशपुत्रसमा कन्या दशपुत्रान्प्रवर्द्धयन्॥
यत्फलं लभते मर्त्यस्तल्लभ्यं कन्ययैकया॥ २३.४६ ॥

तस्मात्कन्या पितुः शोच्या सदा दुःखविवर्धिनी॥ २३.४७ ॥

यापि स्यात्पूर्णसर्वार्था पतिपुत्रधनान्विता॥
त्वयोक्तं च कृते ह्यस्यास्तद्वाक्यं मम शोकदम्॥ २३.४८ ॥

केन दोषेण मे पुत्री न योग्या आशिषामता॥
न जातोऽस्याः पतिः कस्माद्वर्तते वा कुलक्षणः॥ २३.४९ ॥

निर्धनश्च मुने कस्मात्सर्वेषां सर्वदः कुतः॥
इति दुर्घटवाक्यं ते मनो मोहयतीव मे॥ २३.५० ॥

इति तं पुत्रवात्सल्यात्सभार्यं शोकसंप्लुतम्॥
अहमाश्वासयं वाग्भिः सत्याभिः पांडुनंदन॥ २३.५१ ॥

मा शुचः शैलराज त्वं हर्षस्थानेऽतिपुण्यभाक्॥
श्रृणु तद्वचनं मह्यं यन्मयोक्तं च ह्यर्थवत्॥ २३.५२ ॥

जगन्माता त्वियं बाला पुत्री ते सर्वसिद्धिदा॥
पुरा भवेऽभवद्भार्या सतीनाम्ना भवस्य या॥ २३.५३ ॥

तदस्याः किमहं दद्मि रवेर्दीपमिवाल्पकः॥
संचिंत्येति महादेव्या नाशिषं दत्तवानहम्॥ २३.५४ ॥

न जातोऽभवद्भार्या पतिश्चेति वर्तते च भवो हि सः॥
न स जातो महादेवो भूतभव्यभवोद्भवः॥ २३.५५ ॥

शरण्यः शाश्वतः शास्ता शंकरः परमेश्वरः॥ २३.५६ ॥

सर्वे देवा यत्पदमामनंति वेदैश्च सर्वैरपि यो न लभ्यः॥
ब्रह्मादिविश्वं ननु यस्य शैल बालस्य वा क्रीडनकं वदंति॥ २३.५७ ॥

स चामंगल्यशीलोऽपि मंगलां यतनो हरः॥
निर्धनः सर्वदश्चासौ वेद स्वं स्वयमेव सः॥ २३.५८ ॥

स च देवोऽचलः स्थाणुर्महादेवोऽजरो हरः॥
भविष्यति पतिः सोऽस्यास्तत्किमर्थं तु शोचसि॥ २३.५९ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेशमाहात्म्ये हिमवदाश्वासनंनाम त्रयोविंशोऽध्यायः॥ २३ ॥ छ ॥