स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ४४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४३ स्कन्दपुराणम्
अध्यायः ४४
वेदव्यासः
अध्यायः ४५ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६

॥अर्जुन उवाच॥
दिव्यप्राकारमिच्छामि श्रोतुं चाहं मुनीश्वर॥
कथं कार्याणि कानीह स्फुटं यैः पुण्यपापकम्॥ ४४.१ ॥

॥नारद उवाच॥
शपषाः पोशघटकौ विषाग्न तप्तमाषकौ॥
फलं च तंदुलं चैव दिव्यान्यष्टौ विदुर्बुधाः॥ ४४.२ ॥

असाक्षिकेषु चार्थेषु मिथो विवदमानयोः॥
राजद्रोहाभिशापेषु साहसेषु तथैव च॥ ४४.३ ॥

अविदस्तत्त्वतः सत्यं शपथेनाभिलंघयेत्॥
महर्षिभिश्च देवैश्च सत्यार्थाः शपथाः कृताः॥ ४४.४ ॥

जवनो नृपतिः क्षीणो मिथ्याशपथमाचरेत्॥
वसिष्ठाग्रे वर्षमध्ये सान्वयः किल भारत॥ ४४.५ ॥

अंधः शत्रुगृहं गच्छेद्यो मिथ्याशपथांश्चरेत्॥
रौरवस्य स्वयं द्वारमुद्धाटयति दुर्मतिः॥ ४४.६ ॥

मन्यंते वै पापकृतो न कश्चितपश्यतीति नः॥
तांश्च देवाः प्रपश्यंति स्वस्यैवांतरपौरुषाः॥ ४४.७ ॥

आदित्यचंद्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च॥
अहश्च रात्रिश्च उभे च संध्ये धर्मो हि जानाति नरस्य वृत्तम्॥ ४४.८ ॥

एवं तस्मादभिज्ञाय सत्यर्थशपथांश्चरेत्॥
वृथा हि शपथान्कुर्वन्प्रेत्य चेह विनश्यति॥ ४४.९ ॥

इदं सत्यं वदामीति ब्रुवन्साक्षी भवान्यतः॥
शुभाशुभफलं देहि शुचिः पादौ रवेः स्वृशेत्॥ ४४.१० ॥

अथ शास्त्रस्य विप्रोऽपि शस्त्रस्यापि च क्षत्रियः॥
मां संस्पृशंस्तथा वैश्यः शुद्रः स्वगुरुमेव च॥ ४४.११ ॥

मातरं पितरं पूज्यं स्पृशेत्साधारणं त्विदम्॥
कोशस्य रूपं पूर्वं ते व्याख्यातं पांडुनंदन॥ ४४.१२ ॥

विप्रवर्ज्यं तथा केशं वर्णिनां दापयेन्नृपः॥
यो यो यद्देवताभक्तः पाययेत्तस्य तं नरम्॥ ४४.१३ ॥

समभक्तं च देवानामादित्यस्यैव पाययेत्॥
सर्वेषां चोग्रदेवानां स्नापयेदायुधास्त्रकम्॥ ४४.१४ ॥

स्नानोदकं वा संकल्पं गृहीत्वा पाययेन्नवम्॥
त्रिसप्तरात्रमध्ये च फलं कोशस्य निर्दिशेत्॥ ४४.१५ ॥

अतः परं महादिव्यविधानं श्रृणु यद्भवेत्॥
संशयच्छेदि सर्वेषां धार्ष्ट्यत्तद्दिव्यमेव च॥ ४४.१६ ॥

सशिरस्कंप्रदातव्यमिति ब्रह्मा पुराब्रवीत्॥
महोग्राणां च दातव्यमशिरस्कमपि स्फुटम्॥ ४४.१७ ॥

साधूनां वर्णिनां राजा न शिरस्कं प्रदापयेत्॥
न प्रवातेधटं देयं नोष्णकाले हुताशनम्॥ ४४.१८ ॥

वर्णिनां च तथा कालं तंदुलं मुखरोगिणाम्॥ ४४.१९ ॥

कुष्ठपित्तार्दितानां च ब्राह्मणानां च नो विषम्॥
तप्तमाषकमर्हंति सर्वे धर्म्यं निरत्ययम्॥ ४४.२० ॥

न व्याधिमरके देशे शपथान्कोशमेव च॥
दिव्यान्यासुरकैर्मंत्रैः स्तंभयंतीह केचन॥ ४४.२१ ॥

प्रतिघातविदस्तेषां योजयेद्धर्मवत्सलान्॥
दिव्यानां स्तभकाञ्ज्ञात्वा पापान्नित्यं महीपतिः॥ ४४.२२ ॥

विवासयेत्स्वकाद्राष्ट्रात्ते हि लोकस्य कंटकाः॥
तेषामन्वेषणे यत्नं राजा नित्यं समाचरेत्॥ ४४.२३ ॥

ते हि पापसमाचारास्तस्करेभ्योऽपि तस्कराः॥
प्राग्दृष्टदोषान्स्वल्पेषु दिव्येषु विनियोजयेत्॥ ४४.२४ ॥

महत्स्वपि न चार्थेषु धर्मज्ञान्धर्मवत्सलान्॥
न मिथ्यावचनं येषां जन्मप्रभृति विद्यते॥ ४४.२५ ॥

श्रद्दध्यात्पार्थिवस्तेषां वचना देव भारत॥
ज्ञात्वा धर्मिष्ठतां राजा पुरुषस्य विचक्षणः॥ ४४.२६ ॥

क्रोधाल्लोभात्कारयंश्च स्वयमेव प्रदुष्यति॥
तस्मात्पापिषु दिव्यं स्यात्तत्रादौ प्रोच्यते धटे॥ ४४.२७ ॥

सुसमायां पृथिव्यां च दिग्भागे पूर्वदक्षिणे॥
यज्ञियस्य तु वृक्षस्य स्थाप्यं स्यान्मुंडकद्वयम्॥ ४४.२८ ॥

स्तंभकस्य प्रमाणं च सप्तहस्तं प्रकीर्तितम्॥
द्वौ हस्तौ निखनेत्काष्ठं दृश्यं स्याद्धस्तपंचकम्॥ ४४.२९ ॥

अंतरं तु तयोः कार्यं तथा हस्तचतुष्टयम्॥
मुंडकोपरि काष्ठं च दृढं कुर्याद्विचक्षणः॥ ४४.३० ॥

चतुर्हस्तं तुलाकाष्ठमव्रणं कारयेत्स्थिरम्॥
खदिरार्जुनवृक्षाणां शिंशपाशालजं त्वथ॥ ४४.३१ ॥

तुलाकाष्ठे तु कर्तव्यं तथा वै शिक्यकद्वयम्॥
प्राङ्मुखो निश्चलः कार्यः शुचौ देशे धटस्तथा॥ ४४.३२ ॥

पाषाणस्यापि जायेत् स्तंभेषु च धटस्तथा॥
वणिक्सुवर्णकारो वा कुशलः कांस्यकारकः॥ ४४.३३ ॥

तुलाधारधरः कार्यो रिपौ मित्रे च यः समः॥
श्रावयेत्प्राड्विवाकोऽपि तुलाधारं विचक्षणः॥ ४४.३४ ॥

ब्रह्मघ्ने ये स्मृता लोका ये च स्त्रीबालघातके॥
तुलाधारस्य ते लोकास्तुलां धारयतो मृषा॥ ४४.३५ ॥

एकस्मिंस्तोलयेच्छिक्ये ज्ञातं सूपोषितं नरम्॥
द्वितीये मृत्तिकां शुभ्रां गौरां तु तुलयेद्बुधः॥ ४४.३६ ॥

इष्टिकाभस्मपाषाणकपालास्थीनि वर्जयेत्॥
तोलयित्वा ततः पूर्वं तस्मात्तमवतारयेत्॥ ४४.३७ ॥

मूर्ध्नि पत्रं ततो न्यस्य न्यस्तपत्रं निवेशयेत्॥
पत्रे मंत्रस्त्वयं लेख्यो यः पुरोक्तः श्वयंभुवा॥ ४४.३८ ॥

ब्रह्मणस्त्वं सुता देवी तुलानाम्नेति कथ्यते॥
तुकारो गौरवे नित्यं लकारो लघुनि स्मृतः॥ ४४.३९ ॥

गुरुलाघवसंयोगात्तुला तेन निगद्यसे॥
संशयान्मोचयस्वैनमभिशस्तं नरं शुभे॥ ४४.४० ॥

भूय आरोपयेत्तं तु नरं तस्मिन्सपत्रकम्॥
तुलितो यदि वर्धेत शुद्धो भवति धर्मतः॥ ४४.४१ ॥

हीयमानो न शुद्धः स्यादिति धर्मविदो विदुः॥
शिक्यच्छेदे तुलाभंगे पुनरारोपयेन्नरम्॥ ४४.४२ ॥

एवं निःसंशयं ज्ञानं यच्चान्यायं न लोपयेत्॥
एतत्सर्वं रवौ वारे कार्यं संपूज्य भास्करम्॥ ४४.४३ ॥

अथातः संप्रवक्ष्यामि विषदिव्यं श्रृणुष्व मे॥ ४४.४४ ॥

द्विप्रकारं च तत्प्रोक्तं घटसर्पविषं तथा॥
शृंगिणो वत्सनाभस्य हिमशैलभवस्य वा॥ ४४.४५ ॥

यवाः सप्त प्रदातव्या अथवा षड्घृतप्लुताः॥
मूर्ध्नि विन्यस्तपत्रस्य पत्रे चैवं निवेशयेत्॥ ४४.४६ ॥

त्वं विष ब्रह्मणः पुत्र सत्यधर्मे व्यवस्थितः॥
त्रायस्वैनं नरं पापात्सत्येनास्य भवामृतम्॥ ४४.४७ ॥

येन वेगैर्विना जीर्णं छर्दिमूर्च्छाविवर्जितम्॥
तं तु शुद्धं विजानीयादिति धर्मविदो विदुः॥ ४४.४८ ॥

क्षुधितं क्षुधितः सर्पं घटस्थं प्रोच्य पूर्ववत्॥
संस्पृशेत्तालिकाः सप्त न दशेच्छुध्यतीति सः॥ ४४.४९ ॥

अग्निदिव्यं यथा प्राह विरंचिस्तच्छृणुष्व मे॥
सप्तमंडलकान्कुर्याद्देवस्याग्रे रवेस्तथा॥ ४४.५० ॥

मंडलान्मंडलं कार्यं पूर्वेणेति विनिश्चयः॥
षोडशांतुलकं कार्यं मंडलात्तावदं तरम्॥ ४४.५१ ॥

आर्द्रवाससमाहूय तथा चैवाप्युपोपितम्॥
कारयेत्सर्वदिव्यानि देवब्राह्मणसंनिधौ॥ ४४.५२ ॥

प्रत्यक्षं कारयेद्दिव्यं राज्ञो वाधिकृतस्य वा॥
ब्राह्मणानां श्रुतवतां प्रकृतीनां तथैव च॥ ४४.५३ ॥

पश्चिमे दिनकाले हि प्राङ्मुखः प्राञ्जलिः शुचिः॥
चतुरस्रे मंडलेऽन्ये कृत्वा चैव समौ करौ॥ ४४.५४ ॥

लक्षयेयुः कृतादीनि हस्तयोस्तस्य हारिणः॥
सप्ताश्वत्थस्य पत्राणि भध्नीयुः करयोस्ततः॥ ४४.५५ ॥

नवेन कृतसूत्रेण कार्पासेन दृढं यथा॥
ततस्तु सुसमं कृत्वा अष्टांगुलमथायसम्॥ ४४.५६ ॥

पिंडं हुताशसंतप्तं पंचाशत्पलिकं दृढम्॥
आदौ पूजां रवेः कृत्वा हुताशस्याथ कारयेत्॥ ४४.५७ ॥

रक्तचंदनधूपाभ्यां रक्तपुष्पैस्तथैव च॥
अभिशस्तस्य पत्रं च बध्नीयाच्चैव मूर्धनि॥ ४४.५८ ॥

मंत्रेणानेन संयुक्तं ब्राह्मणाभिहितेन च॥
त्वमग्ने वेदाश्चत्वारस्त्वं च यज्ञेषु हूयसे॥ ४४.५९ ॥

पापं पुनासि वै यस्मात्तस्मात्पावक उच्यसे॥
त्वं मुखं सर्वदेवानां त्वं मुखं ब्रह्मवादिनाम्॥ ४४.६० ॥

जठरस्थोऽसि भूतानां ततो वेत्सि शुभाशुभम्॥
पापेषु दर्शयात्मानमर्चिष्मान्भव पावक॥ ४४.६१ ॥

अथवा शुद्धभावेषु शीतो भवमहाबल॥
ततोऽभिशस्तः शनकैर्मंडलानि परिक्रमेत्॥ ४४.६२ ॥

परिक्रम्य शनैर्जह्याल्लोहपिंडं ततः क्षितौ॥
विपत्रहस्तं तं पश्चात्कारयेद्व्रीहिमर्दनम्॥ ४४.६३ ॥

निर्विकारौ करौ दृष्ट्वा शुद्धो भवति धर्मतः॥
भयाद्वा पातयेद्यस्तु तदधो वा विभाव्यते॥ ४४.६४ ॥

पुनस्त्वाहारयेल्लोहं विधिरेष प्रकीर्तितः॥
अथातः संप्रऐवक्ष्यामि तप्तमाषविधिं श्रृणु॥ ४४.६५ ॥

कारयेदायसं पात्रं ताम्रं वा षोडशांगुलम्॥
चतुरंगुलखातं तु मृन्मयं वापि कारयेत्॥ ४४.६६ ॥

पूरयेद्‌घृततैलाभ्यां पलैर्विशतिभिस्ततः॥
सुतप्ते निक्षिपेत्तत्र सुवर्णस्य तु माषकम्॥ ४४.६७ ॥

वह्न्युक्तं विन्यसेन्मंत्रमभिशस्तस्य मूर्धनि॥
अंगुष्ठांगुलियोगेन तप्तमाषं समुद्धरेत्॥ ४४.६८ ॥

शुद्धं ज्ञेयमसंदिग्धं विस्फोटादिविवर्जितम्॥
फालशुद्धिं प्रवक्ष्यामि तां श्रृणु त्वं धनंजय॥ ४४.६९ ॥

आयसं द्वादशपलं घटितं फालमुच्यते॥
अष्टांगुलमदीर्घं च चतुरंगुलविस्तृतम्॥ ४४.७० ॥

वह्न्युक्तं विन्यसेन्मंत्रमभिशस्तस्य मूर्धनि॥
त्रिःपरावर्तयेज्जिह्वा लिहन्नस्मात्षडंगुलम्॥ ४४.७१ ॥

गवां क्षीरं प्रदातव्यं जिह्वाशोधनमुत्तमम्॥
जिह्वापरीक्षणं कुर्याद्दग्धा चेन्न तु विमोच्यते॥ ४४.७२ ॥

तं विशुद्धं विजानीयाद्विशुद्धा चेत्तु जायते॥
तंदुलस्याथ वक्ष्यामि विधिधर्मं सनातनम्॥ ४४.७३ ॥

चौर्ये तु तंदुला देया न चान्यत्र कथंचन॥
तंदुलानुदके सिक्त्वा रात्रौ तत्रैव स्थापयेत्॥ ४४.७४ ॥

प्रभाते कारिणे देया भक्षणाय न संशयः॥
त्रिःकॉत्वः प्राङ्‌मुखश्चैव पत्रे निष्ठीवयेत्ततः॥ ४४.७५ ॥

पिप्पलस्याथ भूर्जस्य न त्वन्यस्य कथंचन॥
तांस्तु वै कारयेच्छुद्धांस्तंदुलाञ्छालिसंभवान्॥ ४४.७६ ॥

मृन्मये भाजने कृत्वा सवितुः पुरतः स्थितः॥
तन्दुलान्मंत्रयेच्छुद्धान्मन्त्रेणानेन धर्मतः॥ ४४.७७ ॥

दीयसे धर्मतत्त्वज्ञैर्मानुषाणां विशोधनम्॥
स्तुतस्तन्दुल सत्येन धर्मतस्त्रातुमर्हसि॥ ४४.७८ ॥

निष्ठीवने कृते तेषां सवितुः पुरतः स्थिते॥
शोणितं दृश्यते यस्य तमशुद्धं विनिर्दिशेत्॥ ४४.७९ ॥

एवमष्टविधं दिव्यं पापसंशयच्छेदनम्॥
भट्टादित्यस्य पुरतो जायते कुरुनंदन॥ ४४.८० ॥

जलदिव्यं तथा प्राहुर्द्विप्रकारं पुराविदः॥
जलहस्तं स्मृतं चैकं मज्जनं चापरं विदुः॥ ४४.८१ ॥

बाणक्षेपस्तथादानं यावद्वीर्यवता कृतम्॥
तावत्तं मज्जयेज्जीवेत्तथा तच्छुद्धिमादिशेत्॥ ४४.८२ ॥

एवंविधमिदं स्थानं भट्टादित्यस्य भारत॥
ममैव कृपया भानोर्जातमेतन्महीतले॥ ४४.८३ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे भट्टादित्यमाहात्म्ये दिव्यवर्णनंनाम चतुश्चत्वारिंशोऽध्यायः॥ ४४ ॥ छ ॥