स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ०२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १ स्कन्दपुराणम्
अध्यायः २
वेदव्यासः
अध्यायः ३ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६

॥सूत उवाच॥
ततो द्विजौः परिवृतं नारदं देवपूजितम्॥
अभिगम्योपजग्राह सर्वानथ स पाण्डवः॥ २.१ ॥
ततस्तं नारदः प्राह जयारातिधनंजय॥
धर्मे भवति ते बुद्धिर्देवेषु ब्राह्मणेषु च॥ २.२ ॥
कच्चिदेतां महायात्रां वीर द्वादशवारषिकीम्॥
आचरन्खिद्यसे नैवमथ वा कुप्यसे न च॥ २.३ ॥
मुनीनामपि चेतांसि तीर्थयात्रासु पांडव॥
खिद्यंति परिकृप्यंति श्रेयसां विघ्नमूलतः॥ २.४ ॥
कच्चिन्नैतेन दोषेण समाश्लिष्टोऽसि पांडव॥
अत्र चांगिरसा गीतां गाथामेतां हि शुश्रुम॥ २.५ ॥
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम्॥
निर्विकाराः क्रियाः सर्वाः स तीर्थफलमश्नुते॥ २.६ ॥
तदिदं हृदि धार्यं ते किं वा त्वं तात मन्यसे॥
भ्राता युधिष्ठिरो यस्य सखा यस्य स केशवः॥ २.७ ॥
पुनरेतत्समुचितं यद्विप्रैः शिक्षणं नृणाम्॥
वयं हि धर्मगुरवः स्थापितास्तेन विष्णुना॥ २.८ ॥
विष्णुना चात्र श्रृणुमो गीतां गाथां द्विजान्प्रति॥ २.९ ॥
यस्यामलामृतयशःश्रवणावगाहः सद्यः पुनाति जगदा श्वपचाद्विकुंठः॥
सोहं भवद्भिरुपलब्ध सुतीर्थकीर्तिश्छद्यां स्वबाहुमपि यः प्रतिकूलवर्ती॥ २.१० ॥
प्रियं च पार्थ ते ब्रूमो येषां कुशलकामुकः॥
सर्वे कुशलिनस्ते च यादवाः पांडवास्तथा॥ २.११ ॥
अधुना भीमसेनेन कुरूणामुपतापकः॥
शासनाद्धृतराष्ट्रस्य वीरवर्मा नृपो हतः॥ २.१२ ॥
स हि राज्ञामजेयोऽभूद्यथापूर्वं बलिर्बली॥
कंटकं कंटकेनेव धृतराष्ट्रो जिगाय तम्॥ २.१३ ॥
इत्यादिनारदप्रोक्तां वाचमाकर्ण्य फाल्गुनः॥
अतीव मुदितः प्राह तेषामकुशलं कुतः॥ २.१४ ॥
ये ब्राह्मणमते नित्यं ये च ब्राह्मणपूजकाः॥
अहं च शक्त्या नियतस्तीर्थानि विचरन्ननु॥ २.१५ ॥
आगतस्तीर्थमेतद्धि प्रमोदोऽतीव मे हृदि॥
तीर्थानां दर्शनं धन्यमवगाहस्ततोऽधिकः॥ २.१६ ॥
माहात्म्यश्रवणं तस्मादौर्वोपि मुनिरब्रवीत्॥
तदहं श्रोतुमिच्छामि तीर्थस्यास्य गुणान्मुने॥ २.१७ ॥
एतेनैव श्राव्यमेतद्यत्त्वयांगीकृतं मुने॥
त्वं हि त्रिलोकीं विचरन्वेत्सि सर्वां हि सारताम्॥ २.१८ ॥
तदेतत्सर्वतीर्थेभ्योऽधिकं मन्ये त्वदा हृतम्॥ २.१९ ॥
॥नारद उवाच॥
उचितं तव पार्थैतद्यत्पृच्छसि गुणिन्गुणान्॥
गुणिनामेव युज्यन्ते श्रोतुं धर्मोद्भवा गुणाः॥
साधूनां धर्मश्रवणैः कीर्तनैर्याति चान्वहम्॥ २.२० ॥
पापानामसदालापैरायुर्याति यथान्वहम्॥
तदहं कीर्तयिष्यामि तीर्थस्यास्य गुणान्बहून्॥ २.२१ ॥
यथा श्रुत्वा विजानासि युक्तमंगीकृतं मया॥
पुराहं विचरन्पार्थ त्रिलोकीं कपिलानुगः॥ २.२२ ॥
गतवान्ब्रह्मणो लोकं तत्रापश्यं पितामहम्॥
स हि राजर्षिदेवर्‌षिमूर्तामूर्तैः सुसंवृतः॥ २.२३ ॥
विभाति विमलो ब्रह्मा नक्षत्रैरुडुराडिव॥
तमहं प्रणिपत्याथ चक्षुषा कृतस्वागतः॥ २.२४ ॥
उविष्टः प्रमुदितः कपिलेन सहैव च॥
एतस्मिन्नंतरे तत्र वार्तिकाः समुपागताः॥ २.२५ ॥
प्रहीयंते हि ते नित्यं जगद्द्रष्टुं हि ब्रह्मणा॥
कृतप्रणामानथ तान्समासीनान्पितामहः॥ २.२६ ॥
चक्षुषामृतकल्पेन प्लावयन्निव चाब्रवीत्॥
कुत्र कुत्र विचीर्णं वो दृष्टं श्रुतमथापि वा॥ २.२७ ॥
किंचिदेवाद्भुतं ब्रूत श्रवणाद्येन पुण्यता॥
एवमुक्ते भगवता तेषां यः प्रवरो मतः॥ २.२८ ॥
सुश्रवानाम ब्रह्माणं प्रणिपत्येदमूचिवान्॥
प्रभोरग्रे च विज्ञप्तिर्यथा दीपो रवेस्तथा॥ २.२९ ॥
तथापि खलु वाच्यं मे परार्थं प्रेरितेन ते॥
मुनिः कात्यायनोनाम श्रुत्वा धर्मान्पुनर्बहून्॥ २.३० ॥
सारजिज्ञासया तस्थावेकांगुष्ठः शतं समाः॥
ततः प्रोवाच तं दिव्या वाणी कात्यायन श्रृणु॥ २.३१ ॥
पुण्ये सरस्वतीतीरे पृच्छ सारस्वतं मुनिम्॥
स ते सारं धर्मसाध्यं धर्मज्ञोऽभिवदिष्यति॥ २.३२ ॥
इति श्रुत्वा मुनिवरो मुनिश्रेष्ठमुपेत्य तम्॥
प्रणम्य शिरसा भूमौ पप्रच्छेदं हृदि स्थितम्॥ २.३३ ॥
सत्यं केचित्प्रशंसंतितपः शौचं तथा परे॥
सांख्यं केचित्प्रशंसंति योगमन्ये प्रचक्षते॥ २.३४ ॥
क्षमां केचित्प्रशंसंति तथैव भृशमार्ज्जवम्॥
केचिन्मौनं प्रशंसंति केचिदाहुः परं श्रुतम्॥ २.३५ ॥
सम्यग्ज्ञानं प्रशंसंति केचिद्वैराग्यमुत्तमम्॥
अग्निष्टोमादिकर्माणि तथा केचित्परं विदुः॥ २.३६ ॥
आत्मज्ञानं परं केचित्समलोष्टाश्मकांचनम्॥
इत्थं व्यवस्थिते लोके कृत्याकृत्यविधौ जनाः॥ २.३७ ॥
व्यामोहमेव गच्छंति किं श्रेय इति वादिनः॥
यदेतेषु परं कृत्यम् नुष्ठेयं महात्मभिः॥ २.३८ ॥
वक्तुमर्हसि धर्मज्ञ मम सर्वार्थसाधकम्॥ २.३९ ॥
॥सारस्वत उवाच॥
यन्मां सरस्वती प्राह सारं वक्ष्यामि तच्छृणु॥
छायाकारं जगत्सर्वमुत्पत्तिक्षयधर्मि च॥
वारांगनानेत्रभंगस्वद्वद्भंगुरमेव तत्॥ २.४० ॥
धनायुर्यौवनं भोगाञ्जलचंद्रवदस्थिरान्॥
बुद्ध्या सम्यक्परामृश्य स्थाणुदानं समाश्रयेत्॥ २.४१ ॥
दानवान्पुरुषः पापं नालं कर्तुमिति श्रुतिः॥
स्थाणुभक्तो जन्ममृत्यू नाप्नोतीति श्रुति स्तथा॥ २.४२ ॥
सावर्णिना च गाथे द्वे कीर्तिते श्रृणु ये पुरा॥
वृषो हि भगवान्धर्मो वृषभो यस्य वाहनम्॥ २.४३ ॥
पूज्यते स महादेवः स धर्मः पर उच्यते॥
दुःखावर्ते तमोघोरे धर्माधर्मजले तथा॥ २.४४ ॥
क्रोधपंके मदग्राहे लोभबुद्बदसंकटे॥
मानगंभीरपाताले सत्त्वयानविभूषिते॥ २.४५ ॥
मज्जंतं तारयत्येको हरः संसारसागरात्॥
दानं वृत्तं व्रतं वाचः कीर्तिधर्मौ तथायुषः॥ २.४६ ॥
परोपकरणं कायादसारात्सारमुद्धरेत्॥
धर्मे रागः श्रुतौ चिंता दाने व्यसनमुत्तमम्॥ २.४७ ॥
इंद्रियार्थेषु वैराग्यं संप्राप्तं जन्मनः फलम्॥
देशेऽस्मिन्भारते जन्म प्राप्य मानुष्यमध्रुवम्॥ २.४८ ॥
न कुर्यादात्मनः श्रेयस्तेनात्मा वंचतश्चिरम्॥
देवासुराणां सर्वेषां मानुष्यमतिदुर्लभम्॥ २.४९ ॥
तत्संप्राप्य तथा कुर्यान्न गच्छेन्नरकं यथा॥
सर्वस्य मूलं मानुष्यं तथा सर्वार्थसाधकम्॥ २.५० ॥
यदि लाभे न यत्नस्ते मूलं रक्ष प्रयत्नतः॥
महता पुण्यमूल्येन क्रीयते कायनौस्त्वया॥ २.५१ ॥
गंतुं दुःखोदधेः पारं तर यावन्न भिद्यते॥
अविकारिशरीरत्वं दुष्प्राप्यं वै ततः॥ २.५२ ॥
नापक्रामति संसारादात्महा स नराधमः॥
तपस्तप्यन्ति यतयो जुह्वते चात्र यज्विनः॥
दानानि चात्र दीयंते परलोकार्थमादरात्॥ २.५३ ॥
॥कात्यायन उवाच॥
दानस्य तपसो वापि भगवन्किं च दुष्करम्॥
किं वा महत्फलं प्रेत्य सारस्वत ब्रवीहि तत्॥ २.५४ ॥
॥सारस्वत उवाच॥
न दानाद्दुष्करतरं पृथिव्यामस्ति किचन॥
मुने प्रत्यक्षमेवैतद्दृश्यते लोकसाक्षिकम्॥ २.५५ ॥
परित्यज्य प्रियान्प्राणान्धनार्थे हि महाभयम्॥
प्रविशंति महालोभात्समुद्रमटवीं गिरिम्॥ २.५६ ॥
सेवामन्ये प्रपद्यंते श्ववृत्तिरिति या स्मृता॥
हिंसाप्रायां बहुक्लेशां कृर्षि चेव तथा परे॥ २.५७ ॥
तस्य दुःखार्जितस्येह प्राणेभ्योपि गरीयसः॥
आयासशतलब्धस्य परित्यागः सुदुष्करः॥ २.५८ ॥
यद्ददाति यदश्राति तदेव धनिनो धनम्॥
अनये मृतस्य क्रीडंति दारैरपि धनैरपि॥ २.५९ ॥
अहन्यहनि याचंतमहं न्ये गुरुं यथा॥
मार्जनं दर्पणस्येव यः करोति दिनेदिने॥ २.६० ॥
दीयमानं हि नापैति भूय एवाभिवर्धते॥
कूप उत्सिच्यमानो हि भवेच्छुद्धो बपहूदकः॥ २.६१ ॥
एकजन्मसुखस्यार्थे सहस्राणि विलापयेत्॥
प्राज्ञो जन्मसहस्रेषु संचिनोत्येकजन्मनि॥ २.६२ ॥
मूर्खो हि न ददात्यर्थानिह दारिद्र्यशंकया॥
प्राज्ञस्तु विसृजत्यर्थानमुत्र तस्य शंकया॥ २.६३ ॥
किं धनेन करिष्यंति देहिनो भंगुराश्रयाः॥
यदर्थं धनमिच्छंति तच्छरीरमशाश्वतम्॥ २.६४ ॥
अक्षरद्वयमभ्यस्तं नास्तिनास्तीति यत्पुरा॥
तदिदं देहिदेहिति विपरीतमुपस्थितम्॥ २.६५ ॥
बोधयंति च यावंतो देहीति कृपणं जनाः॥
अवस्थेयमदानस्य मा भूदेवं भवानपि॥ २.६६ ॥
दातुरेवोपकाराय वदत्यर्थीति देहि मे॥
यस्माद्दाता प्रयात्यूर्ध्वमधस्तिष्ठेत्प्रतिग्रही॥ २.६७ ॥
दरिद्रा व्याधिता मूर्खाः परप्रेष्यकराः सदा॥
अदत्तदानाज्जायंते दुःखस्यैव हि भाजनाः॥ २.६८ ॥
धनवंतमदातारं दरिद्रं वाऽतपस्विनम्॥
उभावंभसि मोक्तव्यौ कंठे बद्धा महाशिलाम्॥ २.६९ ॥
शतेषु जायते शूरः सहस्रेषु च पंडितः॥
वक्ता शतसहस्रेषु दाता जायेत वा न वा॥ २.७० ॥
गोभिर्विप्रैश्च वेदैश्च सतीभिः सत्यवादिभिः॥
अलुब्धैर्दानशीलैश्च सप्तभिर्धार्यते मही॥ २.७१ ॥
शिबिरौशीनरोङ्गानि सुतं च प्रियमौरसम्॥
ब्राह्मणार्थमुपाकृत्य नाकपृष्ठमितो गतः॥ २.७२ ॥
प्रतर्द्दनः काशिपति प्रदाय नयने स्वके॥
ब्राह्मणायातुलां कीर्तिमिह चामुत्र चाश्नुते॥ २.७३ ॥
निमी राष्ट्रं च वैदेहो जामदग्न्यो वसुंधराम्॥
ब्राह्मणेभ्यो ददौ चापि गचश्चोर्वी सपत्तनाम्॥ २.७४ ॥
अवर्षति च पर्जन्ये सर्वभूतनिवासकृत्॥
वसिष्ठो जीवयामास प्रजापतिरिव प्रजाः॥ २.७५ ॥
ब्रह्मदत्तश्च पांचाल्यो राजा बुद्धिमतां वरः॥
निधिं शंखं द्विजाग्र्येभ्यो दत्त्वा स्वर्गमवाप्तवान्॥ २.७६ ॥
सहस्रजिच्च राजर्षिः प्राणानिष्टान्महायशाः॥
ब्राह्मणार्थे परित्यज्य गतो लोकाननुत्तमान्॥ २.७७ ॥
एते चान्ये च बहवः स्थाणोर्दानेन भक्तितः॥
रुद्रलोकं गता नित्यं शान्तात्मानो जितेन्द्रियाः॥ २.७८ ॥
एषां प्रतिष्ठिता कीर्तिर्यावत्स्थास्यति मेदिनी॥
इति संचिंत्य सारार्थी स्थाणुदानपरो भव॥ २.७९ ॥
सोऽपि मोह परित्यज्य तथा कात्यायनोऽभवत्॥ २.८० ॥
॥नारद उवाच॥
एवं सुश्रवसा प्रोक्तां कथामाकर्ण्य पद्मभूः॥
हर्षाश्रुसंयुतोऽतीव प्रशशंस मुहुर्मुहुः॥ २.८१ ॥
साधु ते व्याहृतं वत्स एवमेतन्न चान्यथा॥
सत्यं सारस्वतः प्राह सत्या चैवं तथा श्रुतिः॥ २.८२ ॥
दानं यज्ञानां वरूथं दक्षिणा लोके दातारँसर्वभूतान्युपजीवंति दानेनारातीरँपानुदंत दानेन द्विषंतो मित्रा भवंति दाने सर्वं प्रतिष्ठितं तस्माद्दानं परमं वदंतीति॥ २.८३ ॥
संसारसागरे घोरे धर्माधर्मोर्मिसंकुले॥
दानं तत्र निषेवेत तच्च नौरिव निर्मितम्॥ २.८४ ॥
इति संचिंत्य च मया पुष्करे स्थापिता द्विजाः॥
गङ्गायमुनयोर्मध्ये मध्यदेशे द्विजाः सृते॥ २.८५ ॥
स्थापिताः श्रीहरिभ्यां तु श्रीगौर्या वेदवित्तमाः॥
रुद्रेण नागराश्चैव पार्वत्या शक्तिपूर्भवाः॥ २.८६ ॥
श्रीमाले च तथा लक्ष्म्या ह्येवमादिसुरोत्तमैः॥
नानाग्रहाराः संदत्ता लोकोद्धरणकांक्षया॥ २.८७ ॥
न हि दानफले कांक्षा काचिन्नऽस्ति सुरोत्तमाः॥
साधुसंरक्षणार्थं हि दानं नः परिकीर्तितम्॥ २.८८ ॥
ब्राह्मणाश्च कृतस्थाना नानाधर्मोपदेशनैः॥
समुद्धरंति वर्णांस्त्रींस्ततः पूज्यतमा द्विजाः॥ २.८९ ॥
दानं चतुर्विधं दानमुत्सर्गः कल्पितं तथा॥
संश्रुतं चेति विविधं तत्क्रमात्परिकीर्तितम्॥ २.९० ॥
वापीकूपतडागानां वृक्षविद्यासुरौकसाम्॥
मठप्रपागृहक्षेत्रदानमुत्सर्ग इत्यसौ॥ २.९१ ॥
उपजीवन्निमान्यश्च पुण्यं कोऽपि चरेन्नरः॥
षष्ठमंशं स लभते यावद्यो विसृजेद्द्विजः॥ २.९२ ॥
तदेषामेव सर्वेषां विप्रसंस्थापनं परम्॥
देवसंस्थापनं चैव धर्मस्तन्मूल एव यत्॥ २.९३ ॥
देवतायतनं यावद्यावच्च ब्राह्मणगृहम्॥
तावद्दातुः पूर्वजानां पुण्यांशश्चोपतिष्ठति॥ २.९४ ॥
एतत्स्वल्पं हि वाणिज्यं पुनर्बहुफलप्रदम्॥
जीर्णोद्धारे च द्विगुणमेतदेव प्रकीर्तितम्॥ २.९५ ॥
तस्मादिदं त्वहमपिब्रवीमि सुरसत्तमाः॥
नास्ति दानसमं किंचित्सत्यं सारस्वतो जगौ॥ २.९६ ॥
॥नारद उवाच॥
इति सारस्वतप्रोक्तां तथा पद्मभुवेरिताम्॥
साधुसाध्वित्यमोदंत सुराश्चाहं सुविस्मिताः॥ २.९७ ॥
ततः सभाविसर्गांते सुरम्ये मेरुमूर्धनि॥
उपविश्य शिलापृष्ठे अहमेतदचिंतयम्॥ २.९८ ॥
सत्यमाह विरंचिस्तु स किमर्थं तु जीवति॥
येनैकमपि तद्धृत्तं नैव येन कृतार्थता॥ २.९९ ॥
तदहं दानपुण्यं हि करिष्यामि कथं स्फुटम्॥
कौपीनदण्डात्मधनो धनं स्वल्पं हि नास्ति मे॥ २.१०० ॥
अनर्हते यद्ददाति न ददाति तथार्हते॥
अर्हानर्हपरिज्ञानाद्दानधर्मो हि दुष्करः॥ २.१०१ ॥
देशेकाले च पात्रे च शुद्धेन मनसा तथा॥
न्यायार्जितं च यो दद्याद्यौवने स तदश्नुते॥ २.१०२ ॥
तमोवृतस्तु यो दद्यात्क्रोधात्तथैव च॥
भुंक्ते दान फलं तद्धि गर्भस्थो नात्र संशयः॥ २.१०३ ॥
बालत्वेऽपि च सोऽश्राति यद्दत्तं दम्भकारणात्॥
दत्तमन्यायतो वित्तं वै चार्थकारणम्॥ २.१०४ ॥
वृद्धत्वे हि समश्राति नरो वै नात्र भविष्यति॥
तस्माद्देशे च काले च सुपात्रे विधिना नरः॥
शुभार्जितं प्रयुञ्जीत श्रद्धया शाठ्यवर्जितः॥ २.१०५ ॥
तदेतन्निर्धनत्वाच्च कथं नाम भविष्यति॥
सत्यमाहुः पुरा वाक्यं पुराणमुनयोऽमलाः॥ २.१०६ ॥
नाधनस्यास्त्ययं लोको न परश्च कथंचन॥
अभिशस्तं प्रपश्यंति दरिद्रं पार्श्वतः स्थितम्॥ २.१०७ ॥
दारिद्र्यं पातकं लोके कस्तच्छंसितुमर्हति॥
पतितः शोच्यते सर्वैर्निर्धनश्चापि शोच्यते॥ २.१०८ ॥
यः कृशाश्वः कृशधनः कृशभृत्यः कृशातिथिः॥
स वै प्रोक्तः कृशोनाम न शरीरकृशः कृशऋ २.१०९ ॥
अर्थवान्दुष्कुलीनोऽपि लोके पूज्यतमो नरः॥
शशिनस्तुल्यवंशोऽपि निर्धनः परिभूयते॥ २.११० ॥
ज्ञानवृद्धास्तपोवृद्धा ये च वृद्धा बहुश्रुताः॥
ते सर्वे धनवृद्धस्य द्वारि तिष्ठन्ति किंकराः॥ २.१११ ॥
यद्यप्ययं त्रिभुवने अर्थोऽस्माकं पराग्नहि॥
तथाप्यन्यप्रार्थितो हि तस्यैव फलदो भवेत्॥ २.११२ ॥
अथवैतत्पुरा सर्वं चिंतयिष्यामि सुस्फुटम्॥
विलोकयामि पूर्वं तु किंचिद्योग्यं हि स्थानकम्॥ २.११३ ॥
स चिंतयित्वेति बहुप्रकारं देशांश्च ग्रामान्नगराणि चाश्रमान्॥
बहूनहं पर्यटन्नाप्तवान्हि स्थानं हितं स्थापये यत्र विप्रान्॥ २.११४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे नारदार्जुनसंवादे दानप्रशंसावर्णनंनाम द्वितीयऽध्यायः॥ २ ॥ छ ॥