स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ४८

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६

।। नारद उवाच ।। ।।
अथातः संप्रवक्ष्यामि सोमनाथमहिं स्फुटम् ।।
शृण्वन्यां कीर्त यिष्यामि पापमोक्षमवाप्नुयात् ।। १ ।।
पुरा त्रेतायुगे पार्थ चौडदेशसमुद्भवौ ।।
ऊर्जयंतश्च प्रालेयो विप्रावास्तां महाद्युती । २ ।।
तावेकदा पुराणार्थे श्लोकमेकमपश्यताम् ।।
तं दृष्ट्वा सर्वशास्त्रज्ञावास्तां कंटकितत्वचौ ।। ३ ।।
प्रभासाद्यानि तीर्थानि पुलस्त्यायाह पद्मभूः ।
न यैस्तत्राप्लुतं चैव किं तैस्तीर्थमुपासितम् ।। ४ ।।
इति श्लोकं पठित्वा तौ पुनःपुनरभिष्टुतम् ।।
तर्ह्येव च प्रभासाय निःसृतौ स्नातुमुत्तमौ ।। ५ ।।
तौ वनानि नदीश्चैव व्यतिक्रम्य शनैःशनैः ।।
महर्षिगणसंकीर्णामुत्तीणौ नर्मदां शिवाम् ।। ६ ।।
गुप्तक्षेत्रस्य माहात्म्यं महीसागरसंगमम् ।।
तत्र स्नात्वा प्रभासाय तन्मध्येन प्रतस्थतुः ।। ७ ।।
ततो मार्गस्य शून्यत्वात्तृट्क्षुधापीडितौ भृशम् ।।
आस्तां विचेतनौ विप्रौ सिद्धलिंगसमीपतः ।। ८ ।।
सिद्धनाथं नमस्कृत्य संप्रयातौ सुधैर्यतः ।।
क्षुधावेगेन तीव्रेण तृषा मध्यार्कतापितौ ।। ९ ।।
सहसा पतितौ भूमौ स्थूणपादौ विमूर्छितौ ।।
ततो मुहूर्तात्प्रालेय ऊर्जयंतमभाषत ।। 1.2.48.१० ।।
किंचिद्विश्वस्य धैर्याच्च सखे किं न श्रुतं त्वया ।।
यथा यथा विवर्णांगो जायते तीर्थयात्रया ।। ११ ।।
तथातथा भवेद्दानैर्दीनः सोमेश्वरो हरः ।।
तथाऽऽस्तां लुंठमानौ तावेवमुक्ते श्रुतेऽपि च ।। १२ ।।
लुंठमानो जगामैव प्रालेयः किंचिदंतरे ।।
उत्थितं सहसा लिंगं भूमिं भित्त्वा सुदुर्दृशम् ।। १३ ।।
खे वाणी चाभवत्तत्र पुष्पवर्षपुरःसरा ।।
प्रालेय तव हेतोस्तु सोमनाथसमं फलम् ।।
उत्थितं सागरतटे लिंगं तिष्ठात्र सुव्रत ।। १४ ।।
।। प्रालेय उवाच ।। ।।
यद्येवं सत्यमेतच्च तथाप्यात्मा प्रकल्पितः ।। १५ ।।
प्रभासाय प्रयातव्यं यदाऽऽ मृत्योर्मया स्फुटम् ।।
ततश्चैवोर्ज्जयंतोऽपि मूर्छाभावाल्लुठन्पुरः ।। १६ ।।
अपश्यदुत्थितं लिंगं स चैवं प्रत्यपद्यत ।।
ततः प्रत्यक्षतां प्राप्तो भवश्चक्रे तयोर्दृढे ।। १७ ।।
दृष्ट्या तनू ततो यातौ प्रभासं शिवसद्म च ।।
तावेतौ सोमनाथौ द्वौ सिद्धेश्वरसमीपतः ।। १८ ।।
ऊर्जयंतः प्रतीच्यां च प्रालेयस्येश्वरोऽपरः ।।
सोमकुडांभसि शनैः स्नात्वार्णवमहीजले ।। १९ ।।
सोमनाथद्वयं पश्येज्जन्मपापात्प्रमुच्यते ।।
ब्रह्मात्र स्थापयित्वा तु हाटकेश्वर संज्ञितम् ।। 1.2.48.२० ।।
महीनगरके लिंगं पातालात्सुमनोहरम् ।।
तुष्टाव देवं प्रयतः स्तुतिं तां शृणु पांडव ।। २१ ।।
नमस्ते भगवन्रुद्र भास्करामिततेजसे ।।
नमो भवाय रुद्राय रसायांबुमयाय ते ।। २२ ।।
शर्वाय क्षितिरूपाय सदा सुरभिणे नमः ।।
ईशाय वायवे तुभ्यं संस्पर्शाय नमोनमः ।। २३ ।।
पशूनां पतये चापि पावकायातितेजसे ।।
भीमाय व्योमरूपाय शब्दमात्राय ते नमः ।। २४ ।।
महादेवाय सोमाय अमृताय नमोऽस्तु ते ।।
उग्राय यजमानाय नमस्ते कर्मयोगिने ।। २५ ।।
इत्येवं नामभिर्दिव्यैः स्तव एष उदीरितः ।।
यः पठेच्छृणुयाद्वापि पितामहकृतं स्तवम् ।। २६ ।।
हाटकेश्वरलिंगस्य नित्यं च प्रयतो नरः ।।
अष्टमूर्तेः स सायुज्यं लभते नात्र संशयः ।। २७ ।।
हाटकेश्वरलिंगं च प्रयतो यः स्मरेदपि ।।
तस्य स्याद्वरदो ब्रह्मा तेनेदं स्थापितं जय ।। २८ ।।
एवंविधानि तीर्थानि महीसागरसंगमे ।।
बहूनि संति पुण्यानि संक्षेपाद्वर्णितानि मे ।। २९ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे स्तम्भतीर्थमाहात्म्ये सोमनाथवृत्तांतवर्णनंनामाष्टचत्वारिंशोऽध्यायः ।। ४८ ।।