स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ५३
।। नारद उवाच ।। ।।
अथान्यत्संप्रवक्ष्यामि शालामाहात्म्य मुत्तमम् ।।
संस्थापिते पुरा स्थाने प्रोक्तोहं द्विजपुंगवैः ।। १ ।।
स्थानस्य रक्षणार्थाय उपायं कुरु सुव्रत ।।
ततो मया प्रतिज्ञातं करिष्ये स्थान रक्षणम् ।। २ ।।
आराधिता मया पश्चाद्ब्रह्मविष्णुमहेश्वराः ।।
त्रयस्त्वेकाग्रचित्तेन ततस्तुष्टाः सुरोत्तमाः ।। ३ ।।
समागम्याथ मां प्रोचुर्नारद व्रियतां वरः ।।
प्रोक्तं तानार्च्य च मया क्रियतां स्थानरक्षणम् ।। ४ ।।
अयमेव वरो मह्यं देयो देवैः सुतोषितैः ।।
स्थानलोपो यथा न स्याद्यथा कीर्तिर्भवेन्मम ।। ५ ।।
एवमस्त्विति देवेशैः प्रतिज्ञातं तदा मुने ।।
स्वांशेन प्रकरिप्याम द्विजानां तव रक्षणम् ।। ६ ।।
एवमुक्त्वा कला मुक्ता देवैस्त्रिपुरुषैः स्वयम् ।।
अंतर्धानं ततः प्राप्ताः सर्वेऽपि सुरसत्तमाः ।। ७ ।।
ततो मया द्विजैः सार्धं शालाग्रे स्थानरक्षणम् ।।
स्थापिताश्च पृथग्देवास्त्रयस्त्रिभुवनेश्वराः ।। ८ ।।
पीड्यमाना यदा विप्राः केनापि च भवंति हि ।।
पूर्वाह्ने चापि ऋग्वेदं मध्याह्ने च यजूं ष्यथ ।। ९ ।।
यामे तृतीये सामानि तारस्वरमधीत्य च ।।
शापं यस्य प्रदास्यंति शालाग्रे भृशरोषिताः ।। 1.2.53.१० ।।
सप्ताहाद्वर्षमध्याद्वा त्रिवर्षाद्भस्मतां व्रजेत् ।।
प्रतिज्ञाता स्थानरक्षा यदि वो नारदाग्रतः ।। ११ ।।
सत्येन तेन नो वैरी भस्मीभवतु ह क्षणात् ।।
अनेन शाप मंत्रेण भस्मीभवति निश्चितम् ।। १२ ।।
शालां त्रिपुरुषां तत्र यः पश्यति दिनेदिने ।।
अर्चयेत्तोषयेच्चासौ स्वर्गलोके महीयते ।। १३ ।।
इति त्रिपुरुषशालामाहात्म्यम् ।। ।।
नारद उवाच ।। ।।
अथान्यत्संप्रवक्ष्यामि मदीयसरसो महत् ।। १४ ।।
माहात्म्यमतुलं पार्थ देवानामपि दुर्लभम् ।।
मया पूर्वं सरः खातं दर्भांकुरशलाकया ।। १५ ।।
मृत्तिका ताम्रपात्रेण त्यक्ता बाह्ये ततः स्वयम् ।।
सर्वेषामेव तीर्थानामाहृत्योदक मुत्तमम् ।। १६ ।।
तत्तत्र सरसि क्षिप्तं तेन संपूरितं सरः ।।
आश्विने मासि संप्राप्ते भानुवारे नरः शुचिः ।। १७ ।।
श्राद्धं यः कुरुते तत्र स्नात्वा दानं विशेषतः ।।
पितरस्तस्य तृप्यंति यावदाभूतसंप्लवम् ।। १८ ।।
नारदीयं सरो ह्येतद्विख्यात जगतीतले ।।
महता पुण्ययोगेन देवैरपि हि लभ्यते ।। १९ ।।
यदत्र दीयते दानं हूयते यच्च पावके ।।
सर्वं तदक्षयं विद्याज्जपानशनसाधनात् ।। 1.2.53.२० ।।
नारदीये सरःश्रेष्ठे स्नात्वा यो नारदेश्व रम् ।।
पूजयेच्छ्रद्धया मर्त्यः सर्वपापैः प्रमुच्यते ।। २१ ।।
अत्र तीर्थे पुरा पार्थ सर्वनागैस्तपः कृतम् ।।
कद्रूशापस्य मोक्षार्थमात्मनो हितका म्यया ।। २२ ।।
ततः सिद्धिं परां प्राप्ता एतर्त्तार्थप्रभावतः ।।
ततो नागेश्वरं लिंगं स्थापयामासुरूर्जितम् ।। २३ ।।
नारदादुत्तरे भागे सर्वे नागाः प्रहर्षिताः ।।
नारदीये सरःश्रेष्ठे यः स्नात्वा पूजयेद्धरम् ।। २४ ।।
नागेश्वरं महाभक्त्या तस्य पुण्यमनन्तकम् ।।
तेषां सर्पभयं नास्ति नागानां वचनं यथा ।। २५ ।।
इति नारदीयसरोमाहात्म्यम् ।।
।। नारद उवाच ।। ।।
अपरद्वारकानाम देवी चात्रास्ति पांडव ।। २६ ।।
सा च ब्रह्मांडद्वारे वै सदैव विहितालया ।।
चतुर्विंशतिकोटीभिर्देवीभिः परिरक्षिता ।। २७ ।।
ततो दीर्घं तपस्तप्त्वा मयानीतात्र तोषिता ।।
अपरस्मिंस्ततो द्वारे स्था पिता परमेश्वरी ।। २८ ।।
पूर्वस्मिन्नगरद्वारे स्थापिता द्वारवासिनी ।।
नवमी चैत्रमासस्य कृष्णपक्षे भवेत्तु या ।। २९ ।।
कुण्डे स्नानं नरः कृत्वा तां च देवीं प्रपूजयेत् ।।
बलिबाकुलनैवेद्यैर्गन्धधूपादिपूजनैः ।। 1.2.53.३० ।।
सप्तजन्मकृतं पापं नाशमायाति तत्क्षणात् ।।
यान्यान्प्रार्थयते कामांस्तांस्ताना प्नोति मानवः ।। ३१ ।।
वन्ध्या च लभते पुत्रं स्नानमात्रेण तत्र वै ।।
नवम्यां चैत्रमासस्य पुष्पधूपार्घ्यपूजया ।। ३२ ।।
विघ्नानि नाशयेद्देवी सर्व सिद्धिं प्रयच्छति ।।
भक्तानां तत्क्षणादेव सत्यमेतन्न संशयः ।। ३३ ।।
उत्तरद्वारकां चापि पूज्यैवं विधिवन्नरः ।।
एतदेव फलं सोपि प्राप्नुयान्मान वोत्तमः ।। ३४ ।।
पूर्वद्वारे तु वै देवी या स्थिता द्वारवासिनी ।।
तस्याः पूजनमात्रेण प्राप्नुयाद्वांछितं फलम् ।। ३५ ।।
आश्विने मासि संप्राप्ते नव रात्रे विशेषतः ।।
उपोष्य नवरात्रं च स्नात्वा कुण्डे समाहितः ।। ३६ ।।
पूजयेद्देवतां भक्त्या पुष्पधूपान्नतर्पणैः ।।
अपुत्रो लभते पुत्रान्निर्धनो लभते धनम् ।। ३७ ।।
वन्ध्या प्रसूयते पार्थ नात्र कार्या विचारणा ।। ३८ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वर खण्डे कौमारिकाखंडे कोटितीर्थादिमाहात्म्यवर्णनंनाम त्रिपंचाशत्तमोऽध्यायः ।। ५३ ।। ।।।५।।