स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः २४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २३ स्कन्दपुराणम्
अध्यायः २४
वेदव्यासः
अध्यायः २५ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६

॥नारद उवाच॥
एवं श्रुत्वा सभार्यः स प्रमोदप्लुतमानसः॥
प्रणम्य मामिति प्राह यद्येवं पुण्यवानहम्॥ २४.१ ॥

पुनः किंचित्प्रवक्ष्यामि पुत्र्या मे दक्षिणः करः॥
उत्तानः कारणं किं तच्छ्रोतुमिच्छामि नारद॥ २४.२ ॥

इति पृष्टोऽस्मि शैलेन प्रावोचं कारणं तदा॥
सर्वदैव करो ह्यस्याः सर्वेषां प्राणिनां प्रति॥ २४.३ ॥

अभयस्य प्रदाताऽसावुत्तानस्तु करस्ततः॥
एषा भार्या जगद्भर्तुर्वृषांकस्य महीधर॥ २४.४ ॥

जननी सर्वलोकस्य भाविनी भूतभाविनी॥
तद्यथा शीघ्रमेवैषा योगं यातु पिनाकिना॥ २४.५ ॥

त्वया विधेयं विधिवत्तथा शैलेन्द्रसत्तम॥
अस्त्यत्र सुमहतकार्यं देवानां हिमभूधर॥ २४.६ ॥

इति प्रोच्य तमापृच्छ्य प्रावोचं वासवाय तत्॥
मम भूयस्तु कर्तव्यं तन्मया कृतमेव हि॥ २४.७ ॥

किं तु पंचशरः प्रेर्यः कार्यशेषेऽत्र वासव॥
इत्यादिश्य गतश्चाहं तारकं प्रति फाल्गुन॥ २४.८ ॥

कलिप्रियत्वात्तस्यैनमर्थं कथयितुं स्फुटम्॥
हिमाद्रिरपि मे वाक्यप्रेरितः पार्वतीं प्रति॥ २४.९ ॥

भवस्याराधनां कर्तुं ससखीमादिशत्तदा॥
सा तं परिचचारेशं तस्या दृष्ट्वा सुशीलताम्॥ २४.१० ॥

पुष्पतोयफलाद्यानि नियुक्ता पार्वती व्यधात्॥
महेन्द्रोपि च मद्वाक्यात्स्मरं सस्मार भारत॥ २४.११ ॥

स च तत्स्मरणं ज्ञात्वा वसंतरतिसंयुतः॥
चूतांकुरास्त्रःऋ सहसा प्रादुरासीन्मनोभवः॥ २४.१२ ॥

तमाह च वचो धीमान्स्मरन्निव च तं स्पृशन्॥
उपदेशेन बहुना किं त्वां प्रति रतिप्रिय॥ २४.१३ ॥

चित्ते वससि तेन त्वं वेत्सि भूतमनोगतम्॥
तथापि त्वां वदिष्यामि स्वकार्यपरतां स्मरन्॥ २४.१४ ॥

ममैकं सुमहत्कार्यं कर्तुमर्हसि मन्मथ॥
महेश्वरं कृपानाथं सतीभार्यावियोजितम्॥ २४.१५ ॥

संयोजय पुनर्देव्या हिमाद्रिगृहजातया॥
देवी देवश्च तुष्टौ ते करिष्यत इहेप्सितम्॥ २४.१६ ॥

॥मदन उवाच॥
अलीकमेतद्देवेन्द्र स हि देवस्य पोरतिः॥
नान्यासादयितव्यानि तेजांसि मुनरब्रवीत्॥ २४.१७ ॥

वेदान्तेषु च मां विप्रा गर्हसंयति पुनःपुनः॥
महाशनो महापाप्मा कामोऽयम नलो गहान्॥ २४.१८ ॥

आवृतं ज्ञानमेतेन ज्ञानिनां नित्यवैरिणा॥
तस्मादयं सदा त्याज्यः कामऽहिरिव सत्तमैः॥ २४.१९ ॥

एवं शीलस्य मे कस्मात्प्रतुष्यति महेश्वरः॥
मद्यपस्येव पापस्य वासुदेवो जगद्गुरः॥ २४.२० ॥

॥इंद्र उवाच॥
मैवं ब्रूहि महाभाग त्वां विनाकः पुमान्भुवि॥
धर्ममर्थं तथा कामं मोक्षं वा प्राप्तुमीश्वरः॥ २४.२१ ॥

यत्किंचित्साध्यते लोके मूलं तस्य च कामना॥
कथं कामं विनिंदति तस्मात्ते मोक्षसाधकाः॥ २४.२२ ॥

सत्यं चापि श्रुतेर्वाक्यं तव रूपं त्रिधागतम्॥
तामसं राजसं चैव सात्त्विकं चापि मन्मथ॥ २४.२३ ॥

अमुक्तितः कामनया रूपं तत्तामसं तव॥
सुखबुद्ध्या स्पृहा या च रूपं तद्राजसं तव॥ २४.२४ ॥

केवलं यावदर्थार्थं तद्रूपं सात्त्विकं तव॥
तत्ते रूपत्रयमिदं ब्रूहि नोपासते हि के॥ २४.२५ ॥

त्वं साक्षात्परमः पूज्यः कुरु कार्यमिदं हि नः॥
अथ वा पीडितान्दृष्ट्वा सामान्यानपि पंडिताः॥
स्वप्राणैरपि त्रायांति परमेतन्महाफलम्॥ २४.२६ ॥

इति संचिंत्य कार्यं त्वं सर्वथा कुरु तत्स्फुटम्॥ २४.२७ ॥

इत्या कर्ण्य तथेत्युक्त्वा वसंतरतिसंयुतः॥
पिकादिसैन्यसंपन्नो हिमाद्रिं प्रययौ स्मरः॥ २४.२८ ॥

तत्रापश्यत शंभोः स पुण्यमाश्रममंडलम्॥
नानावृक्षसमाकीर्णं शांतसत्त्वसमाकुलम्॥ २४.२९ ॥

तत्रापश्यत्त्रिनेत्रस्य वीरकंनाम द्वारपम्॥
यथा साक्षान्महेशानं गणआंश्चायुतशोऽस्य च॥ २४.३० ॥

ददर्श च महेशानं नासाग्रकृतलोचनम्॥
देवदारुद्रुमच्छायावेदिका मध्यमाश्रितम्॥
समाकायं सुखासीनं समाधिस्थं महेश्वरम्॥ २४.३१ ॥

निस्तरंगं विनिर्गृह्य स्थितमिंद्रियगोचरान्॥
आत्मानमात्मना देवं प्रविष्टं तपसो निधिम्॥ २४.३२ ॥

तं तथाविधमालोक्य सोंतर्भेदाय यत्नवान्॥
भ्रमरध्वनिव्याजेन विवेश मदनो मनः॥ २४.३३ ॥

एतस्मिन्नंतरे देवो विकासितविलोचनः॥
सस्मार नगराजस्य तनयां रक्तमानसः॥ २४.३४ ॥

निवेदिता वीरकेण विवेश च गिरेः सुता॥
तस्मिन्काले महाभागा सदा यद्वदुपैति सा॥ २४.३५ ॥

ततस्तस्यां मनः स्वीयमनुरक्तमवेक्ष्य च॥
निगृह्य लीलया देवः स्वकं पृष्ठमवैक्षत॥
तावदापूर्णधनुषमपश्यत रतिप्रियम्॥ २४.३६ ॥

तन्नाशकृपया देवो नानास्थानेषु सोऽगमत्॥
तावत्पस्यति पृष्ठस्तमाकृष्य धनुषः शरम्॥ २४.३७ ॥

स नदीः पर्वताश्चैव आश्रमान्सरसीस्तथा॥
परिभ्रमन्महादेवः पृष्ठस्थं तमवैक्षत॥ २४.३८ ॥

जगत्त्रयं परिभ्रम्य पुनरागात्स्वमाश्रमम्॥
पृष्ठस्थमेव तं वीक्ष्य निःश्वासं मुमुचे हरः॥ २४.३९ ॥

ततस्तृतीयनेत्रोत्थवह्निना नाकवासिनाम्॥
क्रोशतां गमितः कामो भस्मत्वं पांडुनंदन॥ २४.४० ॥

सस तु तं भस्मसात्कृत्वा हरनेत्रोद्भवोऽनलः॥
व्यजृंभत जगद्दग्धुं ज्वालापूरितदिङ्‌मुखः॥ २४.४१ ॥

ततो भवो जगद्धेतोर्व्यभजज्जातवेदसम्॥
साहंकारे जने चंद्रे सुमनस्सु च गीतके॥ २४.४२ ॥

भृंगेषु कोकिलास्येषु विहारेषु स्मरानलम्॥
तत्प्राप्तौ स्नेहसंयुक्तं कामिनां हृदयं किल॥ २४.४३ ॥

ज्वालयत्यनिशं सोऽग्निर्दुश्चिकित्स्योऽसुखावहः॥
विलोक्य हरनिःश्वासज्वालाभस्मीकृतं स्मरम्॥ २४.४४ ॥

विललाप रतिर्द्दीना मधुना बंधुना सह॥
विलपंती सुबहुशो मधुना परिसांत्विता॥ २४.४५ ॥

रत्याः प्रलापमाकर्ण्य देवदेवो वृषध्वजः॥
कृपया परया प्राह कामपत्नीं निरीक्ष्य च॥ २४.४६ ॥

अमूर्तोऽपि ह्ययं भद्रे कार्यं सर्वं पतिस्तव॥
रतिकाले ध्रुवं बाले करिष्यति न संशयः॥ २४.४७ ॥

यदा विष्णुश्च भविता वसुदेवात्मजो विभुः॥
तदै तस्य सुतो यः स्यात्सपतिस्ते भविष्यति॥ २४.४८ ॥

सा प्रणम्य ततो रुद्रमिति प्रोक्ता रतिस्ततः॥
जगाम स्वेच्छया गत्या वसंतादिभिरन्विता॥ २४.४९ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेश्वरमाहात्म्ये कामदहनोनाम चतुर्विशोऽध्यायः॥ २४ ॥ छ ॥