स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ५६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६

।। नारद उवाच ।। ।।
अतः परं प्रवक्ष्यामि ब्रह्मेशं लिंगमुत्तमम् ।।
यस्य स्मरणमात्रेण वाजपेयफलं भवेत् ।। १ ।।
एकदा तु पुरा पार्थ सृष्टि कामेन ब्रह्मणा ।।
तपः सुचरितं घोरं सार्धवर्षसहस्रकम् ।। २ ।।
तपसा तेन सन्तुष्टः पार्वतीपतिशंकरः ।।
वरमस्मै ततः प्रादाल्लोककर्त्रे स्ववांछितम् ।। ३ ।।
ततो हृष्टः प्रमुदितः कृतकृत्यः पितामहः ।।
ज्ञात्वा क्षेत्रस्य माहात्म्यं स्वयं लिंगं चकार ह ।।४।।
चखान च सरः पुण्यं नाम्ना ब्रह्मसरः शुभम ।।
महीनगरकात्पूर्वे महापातकनाशनम् ।। ५ ।।
अस्य तीरे महालिंगं स्थापयामास वै विभुः ।।
तत्र देवः स्वयं साक्षाद्विद्यते किल शंकरः ।। ।। ६ ।।
पुष्करादधिकं तीर्थं ब्रह्मेशंनाम फाल्गुन ।।
तत्र स्नात्वा नरो भक्त्या पिण्डदानं समाचरेत् ।। ७ ।।
दानं चैव यथाशक्त्या कार्तिक्यां च विशेषतः ।।
देवं प्रपूजयेद्भक्त्या ब्रह्मेशं हृष्टमानसः ।। ८ ।।
पितरस्तस्य तुष्यंति यावदाभूतसंप्लवम् ।।
पुष्करेषु च यत्पुण्यं कुरुक्षेत्रे रविग्रहे ।। ९ ।।
गंगादिपुण्यतीर्थेषु यत्फलं प्राप्यते नरैः ।।
तत्फलं समवाप्नोति तीर्थस्यास्यावगाहनात् ।। 1.2.56.१० ।।
मोक्षलिंगस्य माहात्म्यं शृणु पार्थ महाद्भुतम् ।।
मया स्थानहितार्थं च समाराध्य महेश्वरम् ।। ११ ।।
स्थापितं प्रवरं लिंगं नाम्ना मोक्षेश्वरं हरम् ।।
दर्भाग्रेण ततः पार्थ कूपं खनितवानहम् ।।१२।।
प्रसाद्य लोककर्तारं ब्रह्माणं परमेष्ठिनम् ।।
कमण्डलोर्ब्रह्मणश्च समानीता सरस्वती ।। १३ ।।
कूपेऽस्मिन्मोक्षनाथस्य लोकानां प्रेतमुक्तये ।।
कार्तिकस्य तु मासस्य शुक्लपक्षे चतुर्दशी ।। १४ ।।
कूपे स्नात्वा नरस्तस्यां तिलपिण्डं समाचरेत् ।।
प्रेतानुद्दिश्य नियतं मोक्षतीर्थफलं भवेत् ।। १५ ।।
कुले न जायते तस्य प्रेतः पार्थ न संशयः ।।
प्रेता मोक्षं प्रगच्छन्ति तीर्थस्यास्य प्रभावतः ।। १६ ।।
जयादित्यकूपवरे नरः स्नात्वा प्रयत्नतः ।।
गर्भेश्वरं नमस्कृत्य न स गर्भेषु मज्जति ।।१७।।
इदं मया पार्थ तव प्रणीतं गुप्तस्य क्षेत्रस्य समासयोगात् ।।
माहात्म्यमेतत्सकलं शृणोति यः स्याद्विशुद्धः किमु वच्मि भूयः ।। १८ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखंडे कौमारिकाखंडे ब्रह्मेश्वरमोक्षेश्वर गर्भश्वरमाहात्म्यवर्णनंनाम षट्पंचाशत्तमोऽध्यायः ।।५६।।