स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ६४

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६

एवं तत्र स्थिते तीरे देव्याराधनतत्परे ।।
सप्तलिंगार्चनरते भीमनन्दननन्दने ।। १ ।।
ततः कालेन केनापि पांडवा द्यूतनिर्जिताः ।।
तत्राजग्मुश्च क्रमतस्तीर्थस्नानकृते भुवम् ।। २ ।।
प्रागेव चंडिकां देवीं क्षेत्रादीशानतः स्थिताम् ।।
आसेदुर्मार्गखिन्नास्ते द्रौपदीपंचमास्तदा ।। ३ ।।
तत्रैव चोपविष्टोऽभूत्तदानीं चंडिकागणः ।।
बर्बरीकश्च तान्वीरान्समायातानपश्यत ।। ४ ।।
परं नासौ वेद पाण्डून्पाण्डवास्तं च नो विदुः ।।
आजन्म यस्मान्नैवाभूत्पाण्डूनां चास्य संगमः ।। ५ ।।
ततः प्रविश्य वै तस्मिन्देवीमासाद्य पांडवाः ।।
पिंडकाद्यं तत्र मुक्त्वा तृषा प्रैक्षि जलं तदा।।६।।
ततो भीमः कुण्डमध्यं जलं पातुं विवेश ह ।।
प्रविशंतं च तं प्राह युधिष्ठिर इदं वचः ।।७।।
उद्धृत्य भीम तोयं त्वं पादौ प्रक्षाल्य भो बहिः ।।
ततः पिबाऽन्यथा दोषो महांस्त्वामुपपत्स्यते ।। ८ ।।
एतद्राज्ञो वचो भीमस्तृषा व्याकुललोचनः ।।
अश्रुत्वैव विवेशासौ कुण्डमध्ये जलेच्छया ।। ९ ।।
स च दृष्ट्वा जलं पातुं तत्रैव कृतनिश्चयः ।।
मुखं हस्तौ च चरणौ क्षालयामास शुद्धये ।। 1.2.64.१० ।।
यतः पीतं जलं पुंसामप्रक्षाल्य च यद्भवेत् ।।
प्रेताः पिशाचास्तद्रूपं संक्रम्य प्रपिबंति तत् ।। ११ ।।
एवं प्रक्षालयाने च पादौ तत्र वृकोदरे ।।
उपरिस्थस्तदा प्राह सत्यं सुहृदयो वचः ।। १२ ।।
दुर्मते भोः किमेतत्त्वं कुरुषे पापनिश्चयः ।।
देवीकुण्डे क्षालयसि मुखं पादौ करौ च यत् ।। १३ ।।
यतो देवी सदानेन जलेन स्नाप्यते मया ।।
दत्र प्रक्षिपंस्तोयं मलपापान्न बिभ्यसि ।। १४ ।।
मलाक्ततोयं यन्नाम अस्पृश्यं तन्नरैरपि ।।
कुतो देवैश्च तत्पापं स्पृश्यते तत्त्वतो वद ।। १५ ।।
शीघ्रं च त्वं निःसरास्मात्कुण्डाद्भूत्वा बहिः पिब ।।
यद्येवं पाप मूढोऽसि तीर्थेषु भ्रमसे कुतः ।। १६ ।।
।। भीम उवाच ।। ।।
किमेतद्भाषसे क्रूर परुषं राक्षसाधम ।।
यतस्तोयानि जंतूनामुपभो गार्थमेव हि ।। १७ ।।
तीर्थेषु कार्यं स्नानं चेत्युक्तं मुनिवरैरपि ।।
अंगप्रक्षालनं स्नानमुक्तं मां निंदसे कुतः ।। १८ ।।
यदि न क्रियते पानमंगप्रक्षालनं तथा ।।
तत्किमर्थं पूर्तधर्माः क्रियन्ते धर्मशालिभिः ।। १९ ।।
।। सुहृदय उवाच ।। ।।
स्नातव्यं तीर्थमुख्येषु सत्यमेतन्न संशयः ।।
चरेषु किं तु संविश्य स्थावरेषु बहिः स्थितः ।। 1.2.64.२० ।।
स्थावरेष्वपि संविश्य तन्न स्नानं विधीयते ।।
न यत्र देवस्नानार्थं भक्तैः संगृह्यते जलम् ।।२१।।
यच्च हस्तशतादूर्ध्वं सरस्तत्र विधीयते ।।
संवेशेऽपि क्रमश्चायं पादौ प्रक्षाल्य यद्बहिः ।। २२ ।।
ततः स्नानं प्रकर्तव्यमन्यथा दोष उच्यते ।।
किं न श्रुतस्त्वया प्रोक्तः श्लोकः पद्मभुवा पुरा ।। २३ ।।
मलं मूत्रं पुरीषं च श्लेष्म निष्ठीनाश्रु च ।।
गंडूषाश्चैव मुञ्चति ये ते ब्रह्महणैः समाः ।। २४ ।।
तस्मान्निःसर शीघ्रं त्वं यद्येवमजितेन्द्रियः ।।
तत्किमर्थं दुराचार तीर्थेष्वटसि बालिश ।। २५ ।।
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम्।।
निर्विकाराः क्रियाः सर्वाः स हि तीर्थफलं लभेत् ।। २६ ।।
।। भीम उवाच ।। ।।
अधर्मो वापि धर्मोऽस्तु निर्गंतुं नैव शक्नुयाम् ।।
क्षुधा तृषा मया नित्यं वारितुं नैव शक्यते ।। २७ ।।
।। सुहृदय उवाच ।। ।।
जीवितार्थे भवान्कस्मात्पापं प्रकुरुते वद ।।
किं न श्रुतस्त्वया श्लोकः शिबिना यः समीरितः ।। २८ ।।
मुहूर्तमपि जीवेत नरः शुक्लेन कर्मणा ।।
न कल्पमपि जीवेत लोकद्वयविरोधिना ।। २९ ।।
।। भीम उवाच ।। ।।
काकारवेण ते मह्यं कर्णौ बधिरतां गतौ ।।
पास्याम्येव जलं चात्र कामं विलप शुष्य वा ।। 1.2.64.३० ।।
।। सुहृदय उवाच ।। ।।
क्षत्रियाणां कुले जातस्त्वहं धर्माभिरक्षिणाम् ।।
तस्मात्ते पातकं कर्तुं न दास्यामि कथंचन ।। ३१ ।।
तद्वराकाथ शीघ्रं त्वमस्मात्कुंडाद्विनिःसर ।।३२।।
इष्टकाशकलैः शीघ्रं चूर्णयिष्येऽन्यथा शिरः ।।
इत्युक्त्वा चेष्टकां गृह्य मुमोच शिरसः प्रति ।। ३३ ।।
भीमश्च वंचयित्वा तामुत्प्लुत्य बहिराव्रजत् ।।
भर्त्सयंतौ ततश्चोभावन्योन्यं भीमविक्रमौ ।। ३४ ।।
युयुधाते प्रलंबाभ्यां बाहुभ्यां युद्धपारगौ ।।
व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ ।। ३५ ।।
मुष्टिभिः पार्ष्णिघातैश्च जानुभिश्चाभिजघ्नतुः ।।
ततो मुहूर्तात्कौरव्यः पर्यहीयत पांडवः ।। ३६ ।।
हीयमानस्ततो भीम उद्यतोऽभूत्पुनः पुनः ।।
अहीयत ततोऽप्यंग ववृधे बर्बरीककः ।। ३७ ।।
ततो भीमं समुत्पाट्य बर्बरीको बलादिव ।।
निष्पिपेष ततः क्रुद्धस्तदद्भुतमिवाभवत् ।। ३८ ।।
मूर्छितं चैवमादाय विस्फुरन्तं पुनःपुनः ।।
सागराय प्रचलितः क्षेप्तुं तत्र महांभसि ।। ३९ ।।
ददृशुः पांडवा नैतद्देव्या नयनयंत्रिताः ।। 1.2.64.४० ।।
तथा गृहीते कुरुवीरमुख्ये वीरेण तेनाद्भुतविक्रमेण ।।
आश्चर्यमासीद्दिवि देवतानां देवीभिराकाशतले निरीक्ष्य तम् ।। ४१ ।।
सागरस्य ततस्तीरे बर्बरीकं गतं तदा ।।
निरीक्ष्य भगवान्रुद्रो वियत्स्थः समभाषत ।। ४२ ।।
भोभो राक्षसशार्दूल बर्बरीक महाबल ।।
मुंचैनं भरतश्रेष्ठं भीमं तव पितामहम् ।। ४३ ।।
अयं हि तीर्थयात्रायां विचरन्भ्रातृभिर्युतः ।।
कृष्णया चाप्यदस्तीर्थं स्नातुमेवाभ्युपाययौ ।। ४४ ।।
सम्मानं सर्वथा तस्मादर्हः कौरवनंदनः ।।
अपापो वा सपापो वा पूज्य एव पितामहः ।। ४५ ।।
।। सूत उवाच ।। ।।
इति रुद्रवचः श्रुत्वा सहसा तं विमुच्य सः ।।
न्यपतत्पादयोर्हा धिक्कष्टं कष्टं च प्राह सः ।। ४६ ।।
क्षम्यतां क्षम्यतां चेति पुनः पुनरवोचत ।।
शिरश्च ताडयन्स्वीयं रुरोद च मुहुर्मुहुः ।। ४७ ।।
तं तथा परिशोचंतं मुह्यमानं मुहुर्मुहुः ।।
भीमसेनः समालिंग्य आघ्राय च वचोऽब्रवीत् ।। ४८ ।।
वयं त्वां नैव जानीमस्त्वं चास्माञ्जन्मकालतः ।।
अत्र वासश्च ते पुत्र भैमेः कृष्णाच्च संश्रुतः ।। ४९ ।।
परं नो विस्मृतं सर्वं नानादुःखैः प्रमुह्यताम् ।।
दुःखितानां यतः सर्वा स्मृतिर्लुप्ता भवेत्स्फुटम् ।। 1.2.64.५० ।।
तदस्माकमिदं दुःखं सर्वकालविधानतः ।।
मा शोचस्त्वं च तनय न ते दोषोऽस्ति चाण्वपि ।। ५१ ।।
यतः सर्वः क्षत्रियस्य दंड्यो विपथिसंस्थि तः ।।
आत्मापिदंड्यः साधूनां प्रवृत्तः कुपथाद्यदि ।। ५२ ।।
पितृमातृसुहृद्भ्रातृपुत्रादीनां किमुच्यते ।।
अतीव मम हर्षोऽयं धन्योहं पूर्वजाश्च मे ।। ।। ५३ ।।
यस्य त्वीदृशकः पौत्रो धर्मज्ञो धर्मपालकः ।।
वरार्हस्त्वं प्रशंसार्हो भवान्येषां सतां तथा ।। ५४ ।।
तस्माच्छोकं विहायेमं स्वस्थो भवि तुमर्हसि ।। ५५ ।।
बर्बरीक उवाच ।। ।।
पापं मां ताततात त्वं ब्रह्मघ्नादपि कुत्सितम् ।।
अप्रशस्यं नार्हसीह द्रष्टुं स्प्रष्टुमपि प्रभो ।। ५६ ।।
सर्वेषामेव पापानां निष्कृतिः प्रोच्यते बुधैः ।।
पित्रोरभक्तस्य पुनर्निष्कृतिर्नैव विद्यते ।। ५७ ।।
तद्येन देहेन मया ताततातोऽभिपीडितः ।।
तत्त्वमेव समुत्स्रक्ष्ये महीसागरसंगमे ।। ५८ ।।
मैवं भवेयमन्येषु अपि जन्मसु पातकी ।।
न मामस्मादभिप्रायादर्हः कोऽपि निवर्तितुम् ।। ५९ ।।
यतोंऽशेन विलुप्येत प्रायश्चित्तान्निवारकः ।।
एवमुक्त्वा समुत्प्लुत्य ययौ चैवार्णवं बली ।। 1.2.64.६० ।।
समुद्रोऽपि चकंपे च कथमेनं निहन्म्यहम् ।।
ततः सिद्धांबिकायाश्च देव्यस्तत्र चतुर्दश ।। ६१ ।।
समालिंग्य च संस्थाप्य रुद्रेण सहिता जगुः ।।
अज्ञातविहिते पापे नास्ति वीरेंद्र कल्मषम् ।। ६२ ।।
शास्त्रेषूक्तमिदं वाक्यं नान्यथा कर्तुमर्हसि ।।
अमुं च पृष्ठलग्नं त्वं पश्य भोः स्वं पितामहम् ।। ६३ ।।
पुत्रपुत्रेति भाषंतमनु त्वा मरणोन्मुखम् ।।
अधुना चेत्स्वकं देहं वीर त्वं परित्यक्ष्यसि ।। ६४ ।।
ततस्त्यक्ष्यति भीमोऽपि पातकं तन्महत्तव ।।
एवं ज्ञात्वा धारय त्वं स्वशरीरं महामते ।। ६५ ।।
अथ चेत्त्यक्तुकामस्त्वं तत्रापि वचनं शृणु ।।
स्वल्पेनैव च कालेन कृष्णाद्देवकिनंदनात् ।। ६६ ।।
देहपातस्तव प्रोक्तस्तं प्रतीक्ष यदीच्छ सि ।।
यतो विष्णुकराद्वत्स देहपातो विशिष्यते ।। ६७ ।।
तस्मात्प्रतीक्ष तं कालमस्माकं प्रार्थितेन च ।।
एवमुक्तो निववृते बर्बरीकोऽपि दुर्मनाः ।। ६८ ।।
रुद्रं देवीश्च चामुंडां सोपालंभं वचोऽब्रवीत् ।।
त्वमेव देवि जानासि रक्ष्यते शार्ङ्गधन्विना ।। ६९ ।।
पांडवा भूमिलाभार्थे तत्ते कस्मादुपेक्षितम् ।।
त्वया च समुपागत्य रक्षितोऽयं वृकोदरः ।। 1.2.64.७० ।।
।। देव्युवाच ।। ।।
अहं च रक्षयिष्यामि स्वभक्तं कृष्णमृत्युतः ।।
यस्माच्च चंडिकाकृत्ये कृतोऽनेन महारणः ।।
तस्माच्चंडिलनाम्नायं विश्वपूज्यो भविष्यति ।। ७१ ।।
एवमुक्त्वा गताः सर्वे देवा देव्यस्त्वदृश्यताम् ।।
भीमोऽपि तं समादाय पांडुभ्यः सर्वमूचिवान् ।। ७२ ।।
विस्मिताः पांडवास्तं च पूजयित्वा पुनः पुनः ।।
यथोक्तविधिना चक्रुस्तीर्थस्नानमतंद्रिताः ।। ७३ ।।
भीमोपि यत्र रुद्रेण मोक्षितस्तत्र सुप्रभम् ।।
लिंगं संस्थापयामास भीमेश्वरमिति श्रुतम् ।। ७४ ।।
ज्येष्ठमासे कृष्णपक्षे चतुर्दश्यामुपोषितः ।।
रात्रौ संपूज्य भीमेशं जन्मपापाद्विमुच्यते ।। ७५ ।।
यथैव लिंगानि सुपूजितानि सप्तात्र मुख्यानि महाफलानि ।।
भीमेश्वरं लिंगमिदं तथैव समस्तपापापहरं सुपूज्यम् ।। ७६ ।। ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे भीमेश्वरमाहात्म्यवर्णनंनाम चतुःषष्टितमोऽध्यायः ।। ६४ ।।