स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ६३
।। सूत उवाच ।। ।।
अश्वत्थलाक्षावह्नौ च सर्षपान्केसरप्लुतान् ।।
जुह्वतो मंत्रमुख्यैश्च बलातिबलसंज्ञकैः ।। १ ।।
यामे तु प्रथमे याते काचिन्नारी समाययौ ।।
शोणिताक्तैकवसना महोच्चोर्ध्वशिरोरुहा ।। २ ।।
दारुणाक्षी शुक्लदन्ती भयस्यापि भयंकरी ।।
सा रुरोद महारावं प्राप्य तां होमभूमिकाम् ।। ३ ।।
तां दृष्ट्वा चुक्षुभे सद्यो विजयो भीतिमानिव ।।
बर्बरीकश्च निर्भीतिस्तस्याः संमुखमाययौ ।। ४ ।।
ततः कण्ठं समाश्लिष्य तस्या मतिमतां वरः ।।
रुरोद द्विगुणं वीरो मेघवन्नादयन्बहु ।। ५ ।।
तं दृष्ट्वा विस्मिता सा च यावन्मुंचति कर्तिकाम्।।
तावन्निष्पीडिते कंठे मोक्तुं तस्मिन्न चाशकत्।।६।।
पीड्यमाने च बलिना कंठे तस्या मुहुर्मुहुः।।
मुमुोच विविधाञ्छब्दान्वज्राहत इवाचलः ।। ७ ।।
क्षणं रावांस्ततो मुक्त्वा त्राहि मुञ्चेति वक्त्यणु ।।
ततः कृपालुना मुक्ता पादयोः पतिताऽब्रवीत् ।। ८ ।।
शरणं ते प्रपन्नास्मि दासी कर्मकरी तव ।।
महाजिह्वेति मां विद्धि राक्षसीं कामरूपिणीम् ।। ९ ।।
काशीश्मशाननिलयां देवदानवदर्पहाम् ।।
ददासि यदि मे वीर दुर्लभां प्राणदक्षिणाम् ।। 1.2.63.१० ।।
ततस्तपश्चरिष्यामि सर्वभूताभयप्रदा ।।
अस्मिन्नर्थे स्वदेवस्य शपथा मे तथात्मनः ।। ११ ।।
यद्येतद्व्यत्ययं कुर्यां भस्मीभूयां ततः क्षणम् ।।
एवं ब्रुवाणां तां वीरो निगृह्य शपथैर्दृढम् ।। १२ ।।
मुमोच सापि संहृष्टा कृच्छ्रा- न्मुक्ता ययौ वनम् ।।
सोऽपि वीरः खङ्गधारी तत्रैवावस्थितोऽभवत् ।। १३ ।।
ततो मध्यमरात्रौ च गर्जितं श्रूयते महत् ।।
अन्धकारं च संजज्ञे तमोंऽधनरकप्रभम् ।। १४ ।।
ददृशे च ततः शैलः शतशृंगोऽतिविस्तरः ।।
नानाशिलाः प्रमुमुचे नानावृक्षांश्च सोच्छ्रयान् ।। १५ ।।
नानानिर्झर संघोषं ववृषे शोणितं वहु ।।
तं तथा नगमालोक्य निर्भीतो भैमिनंदनः ।। १६ ।।
पर्वतो द्विगुणो भूत्वा पर्वतं सहसाप्लुतः ।।
तदाभिजघ्ने संहृत्य पर्वतं स्वेन भूभृता ।। १७ ।।
तदा विशीर्णः सोऽभूच्च पर्वतो भूमिमंडले ।।
ततो योजनदेहात्मा शतशीर्षः शतोदरः ।। १८ ।।
वक्त्रैर्मुंचन्महाज्वालां रेपलेन्द्रोऽभ्यधावत ।।
तं धावमानं दृष्ट्वैव बर्बरीको महाबलः ।। १९ ।।
विधाय तादृशं रूपं नर्दन्तं चाप्यधावत ।।
ततो मध्यमरात्रौ ती लघु चित्रं च सुष्ठु च ।। 1.2.63.२० ।।
युयुधाते बाणजालैर्यथा प्रावृषि तोयदौ ।।
छिन्नचापौ च खङ्गाभ्यां छिन्नखड्गौ च मुष्टिभिः ।। ।। २१ ।।
पर्वताविव सत्पक्षौ चिरं युयुधतुः स्थिरम् ।।
ततः कक्षे समुत्पाट्य भ्रामयित्वा मुहूर्तकम् ।। २२ ।।
भूमौ प्रधर्षयामास प्रसृतं च मुमोच ह ।।
चिक्षेप चाग्निकोणे तं महीसागररोधसि ।। २३ ।।
तद्दूरे रेपलेन्द्राख्यं ग्राममद्यापि वर्तते ।।
एवं स रेपलोनाम वृत्रतुल्यपराक्रमः ।। २४ ।।
नाथः श्मशानस्यावन्त्या विघ्नकृन्निहतोऽभवत् ।।
तं निहत्य पुनर्वीरो बर्बरीकः स्थितोऽभवत् ।। २५ ।।
ततस्तृतीययामे च प्रतीच्या दिश आययौ ।।
पर्वताभा महानादा पादैः कम्पयतीव भूः ।। २६ ।।
दुहद्रुहाख्याश्वतरी मेघभ्रष्टा तडिद्यथा ।।
तामायांतीं तथा दृष्ट्वा सूर्यवैश्वानरप्रभाम् ।। २७ ।।
उपसृत्य जवाद्भैमी रुरोह प्रहसन्निव ।।
वेगात्ततः प्रद्रवतीं तुण्डे प्राहत्य मुष्टिभिः ।। २८ ।।
स्थापयामास तत्रैव तस्थौ सा चातिपीडिता ।।
ततः क्रुद्धा महारावं कृत्वाप्लुत्य दुहद्रुहा ।। २९ ।।
जगत्यामाशु चिक्षेप बर्बरीकं तथेच्छकम् ।।
ततो नदित्वा चातीव पादघातममुंचत ।। 1.2.63.३० ।।
पादौ च वीरः संगृह्य चिक्षेप भुवि लीलया ।।
ततः पुनः समुत्थाय धावंतीं तां निगृह्य सः ।। ।। ३१ ।।
मुष्टिना पातयित्वैव दंतान्कंठमपीडयत् ।।
क्लिन्नं वास इवापीड्य प्राणानत्याजयद्द्रुतम् ।। ३२ ।।
एवं सीकोत्तरस्थाने स्मशानैकपदो द्भवा ।।
शाकिनीनामधीशा सा बर्बरीकेण सूदिता ।। ३३ ।।
हत्वा तां चापि चिक्षेप प्रतीच्यामेव लीलया ।।
दुहद्रुहाख्यमद्यापि तत्र ग्रामं स्म वर्तते ।। ३४ ।।
ततस्तथैव संतस्थौ बर्बरीकोऽभिरक्षणे ।।
ततश्चतुर्थे यामे च प्राप्तः क्षपणकोऽद्भुतः ।। ३५ ।।
मुंडी नग्नो मयूराणां पिच्छधारी महाव्रतः ।।
प्रोवाच चेदं वचनं हाहा कष्टमतीव भोः ।। ३६ ।।
अहिंसा परमो धर्मस्तदग्निर्ज्वाल्यते कुतः ।।
हूयमाने यतो वह्नौ सूक्ष्मजीववधो महान् ।। ३७ ।।
श्रुत्वेदं वचनं तस्य बर्बरीकोऽब्रवीत्स्मयन् ।।
वदने सर्वदेवानां हूयमाने स्म पावके ।। ३८ ।।
अनृतं भाषसे पाप शिक्षायोग्योऽसि दुर्मते ।।
इत्युक्त्वा सहसोत्पत्य कक्षामध्ये स्थिरोऽस्य च ।। ३९ ।।
दन्तान्मुष्टिप्रहारैश्च समाहत्याभ्यपातयत् ।।
रुधिराविलवक्त्रं तं मुमोच पतितं भुवि ।। 1.2.63.४० ।।
स क्षणाच्चेतनां प्राप्य घोरदैत्यवपुर्धरः ।।
भयाद्भैमेः प्रदुद्राव गुहाविवरमाविशत् ।। ४१ ।।
बहुप्रभेति नगरी षष्टियोजनमायता ।।
तस्यां विवेश सहसा तं चानु बर्बरीककः ।। ४२ ।।
बर्बरीकं ततो दृष्ट्वा नादोऽभूच्च पलाशिनाम् ।।
धावध्वं हन्यतामेष छिद्यतां भिद्यतामिति ।। ४३ ।।
तच्छ्रुत्वा दैत्यवीराणां कोटयो नव भीषणाः ।।
नानायुधधरा वीरं बर्बरीकमुपाद्रवन् ।। ४४ ।।
दृष्ट्वा तान्कोटिशो दैत्यान्क्रुद्धो भीमात्मजात्मजः ।।
निमील्य सहसा नेत्रे तेषां मध्यमधावत ।। ४५ ।।
पादघातैस्ततः कांश्चिद्भुजाघातैस्तथापरान् ।।
हृदयस्याभिघातैश्च क्षणान्निन्ये यमक्षयम् ।। ४६ ।।
यथा नलवनं क्र्रुद्धः कुर्याद्भूमिसमं करी ।।
नवकोटीस्तथा जघ्ने सह तेन पलाशिना ।। ४७ ।।
ततो नागाः समागम्य वासुकिप्रमुखास्तदा ।।
तुष्टुबुर्विविधैर्वाक्यैरूचुः सुहृदयं च ते ।। ४८ ।।
नागानां परमं कृत्यं कृतं ते भैमिनंदन ।।
पलाशीनाम दैत्योयं नीतो यत्सानुगो यमम् ।। ।। ४९ ।।
अनेन हि वयं वीर सानुगेन दुरात्मना ।।
पीडिता विविधोपायैः पातालादप्यधः कृताः ।। 1.2.63.५० ।।
वरं वृणीष्व त्वं तस्मान्नागेभ्योऽभिमतं परम् ।।
वरदाः सर्व एव स्म वयं तुभ्यं सुतोषिताः ।। ५१ ।।
।। सुहृदय उवाच ।। ।।
यदि देयो वरो मह्यं तदेनं प्रवृणोम्यहम् ।।
सर्वविघ्नविनिर्मुक्तो विजयः सिद्धिमाप्नुयात् ।। ५२ ।।
ततस्तथेति तं प्रोचुः प्रहृष्टा वायुभोजनाः ।।
स च तेभ्यः पुरीं दत्त्वा निवृत्तो नागपूजितः ।। ५३ ।।
विवरस्य च मध्येन समागच्छन्महाप्रभम् ।।
सर्वरत्नमयं लिंगं स्थितं कल्पतरोरधः ।। ५४ ।।
अर्च्यमानं सुवह्नीभिर्नागकन्याभिरैक्षत ।।
ततोऽसौ विस्मयाविष्टो नागकन्या ह्यपृच्छत ।। ५५ ।।
केनेदं स्थापितं लिंगं सूर्यवैश्वानरप्रभम् ।।
लिंगादपि चतुर्दिक्षु मार्गाश्चेमे तु कीदृशाः ।। ५६ ।।
इति वीरवचः श्रुत्वा बृहत्कटिपयोधरा ।।
सव्रीडं सस्मितापांगनिर्मोक्षमिदमब्रवीत् ।। ५७ ।।
सर्वपन्नगराजेन शेषेण सुमहात्मना ।।
तप स्तप्त्वा महालिंगमिदमत्र प्रतिष्ठितम् ।। ५८ ।।
दर्शनात्स्पर्शनाद्ध्यानादर्चनात्सर्वसिद्धिदम् ।।
लिंगात्पूर्वेण मार्गोयं याति श्रीपर्वतं भुवि ।। ५९ ।।
एलापत्रेण विहितो नागानां तत्र प्राप्तये ।।
दक्षिणेन च मार्गोऽयं याति शूर्पारकं भुवि ।।1.2.63.६०।।
कर्कोटकेन नागेन कृतोऽयं तत्र प्राप्तये ।।
पश्चिमेन च मार्गोऽयं प्रभासं याति सुप्रभम् ।।६१।।
ऐरावतेन विहितो नागानां गमनाय च ।।
उत्तरेण च मार्गोयं येन यातुं भवान्स्थितः।।६२।।
गुप्तक्षेत्रे सिद्धलिंगं याति शक्तिगुहाऽऽकृतः ।।
विहितस्तक्षकेणासौ यातुं तत्र महात्मना ।।६३।।
इतीदं वर्णितं वीर विज्ञप्तिः श्रूयतां मम।।
को भवानधुनैवेतो दैत्यपृष्ठ गतोऽभवत् ।।
अधुनैव तथैकाकी समायातोऽत्र नो वद ।।६४।।
वयं च सर्वास्ते दास्यस्त्वां पतिं प्रवृणीमहे ।।
अस्माभिः सहितः क्रीड विविधास्वत्र भूमिषु ।। ६५ ।।
।। बर्बरीक उवाच ।। ।।
अहं कुरुकुलोत्पन्नः पांडुपुत्रस्य पौत्रकः ।।
बर्बरीक इति ख्यातस्तं दैत्यं हंतुमागतः ।। ६६ ।।
स च दैत्यो हतः पापः पुनर्यास्ये महीतलम् ।।
भवतीभिश्च मे नास्ति कृत्यं भोभोः कथंचन ।। ६७ ।।
ब्रह्मचारिव्रतं यस्मादहं सततमास्थितः ।।
इत्युक्त्वाभ्यर्च्य तल्लिंगं प्रणिपत्य च दण्डवत् ।। ६८ ।।
ऊर्ध्वमाचक्रमे वीरः कातरं ताभिरीक्षितः।।
ततो बहिः समागत्य सप्रकाशं मुखं तदा ।।६९।।
प्रहर्षेणैव पूर्वस्या विजयं ददृशे दिशः ।।
तस्मिन्काले च विजयः कर्म सर्वं समाप्तवान् ।। 1.2.63.७० ।।
कांत्या सूर्यसमाभास ऊर्ध्वमाचक्रमे क्षणात् ।।
ततो वियद्गतं देवैः पुष्पवर्षमभून्महत् ।। ७१ ।।
जगुर्गंधर्वमुख्याश्च ननृतुश्चाप्सरोगणाः ।।
विजयो बर्बरीकं च ततो वचनमब्रवीत् ।। ७२ ।।
तव प्रसादाद्वीरेश सिद्धिः प्राप्ता मयातुला ।।
चिरं जीव चिरं नंद चिरं वस चिरं जय ।। ७३ ।।
अत एव हि साधृनां संगमिच्छंति साधवः ।।
औषधं सर्वदोषाणां भवेत्सत्यं गमो यतः ।। ७४ ।।
त्वं च होमस्थितं भस्म सिंदूरसदृशप्रभम् ।।
निःशल्यं सविवरकं पूर्यमाणं गृहाण च ।। ७५ ।।
अक्षय्यमेतत्संग्रामे प्रथमं ते प्रमुंचतः ।।
शत्रूणां स्थानकं मृत्योर्देहं ध्वस्तं करिष्यति ।। ७६ ।।
एवं सुखेन विजयः शत्रूणां ते भविष्यति ।। ७७ ।।
।। बर्बरीक उवाच ।। ।।
उपकुर्यान्निराकांक्षो यः स साधुरितीर्यते ।।
साकांक्षमुपकुर्याद्यः साधुत्वे तस्य को गुणः ।। ७८ ।।
तद्देहि भस्म चान्यस्मै केनाप्यर्थो न मेऽण्वपि ।।
प्रसादसुमुखां दृष्टिं विना नान्यद्वृणोमि ते ।। ७९ ।।
।। देवा ऊचुः ।। ।।
कुरूणां पांडवानां च भविष्यति महान्रणः ।।
ततो भूमिस्थितं भस्म प्राप्स्यंति यदि कौरवाः ।। 1.2.63.८० ।।
महाननर्थो भविता पांडवानां ततः स्फुटम् ।।
तस्माद्गृहाण त्वं भस्म सोपि चक्रे तथो वचः ।। ८१ ।।
देवीभिः सहिता देवाः संमान्य विजयं च ते ।।
सिद्धैश्वर्यं ददुस्तस्मै सिद्धसेनेति नाम च ।। ८२ ।।
एवं स विजयो विप्रः सिद्धिं लेभे सुदुर्लभाम् ।।
बर्बरीकश्च कृत्वैतद्देवीभक्तिरतोऽवसत् ।। ८३ ।। ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे कार्यसिद्धिवर्णनंनाम त्रिषष्टितमोऽध्यायः ।। ६३ ।।