स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ६५

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६

।। सूत उवाच ।। ।।
उषित्वा सप्तरात्राणि तीर्थेस्मिन्भ्रातृभिः सह ।।
युधिष्ठिरो महातेजा गमनायोपचक्रमे ।। १ ।।
प्रभाते विमले स्नात्वा देवीर्लिंगान्यथार्च्य च ।।
कृत्वा प्रदक्षिणं क्षेत्रं देवीस्तोत्रं जजाप सः ।।
प्रयाणकालेषु सदा जप्यं कृष्णेन कीर्तितम् ।। २ ।।
।। युधिष्ठिर उवाच ।। ।।
देवि पूज्ये महाशक्ते कृष्णस्य भगिनि प्रिये ।।
नत्वा त्वां शरणं यामि मनोवाक्कायकर्मभिः ।। ३ ।।
संकर्षणाभयदाने कृष्णच्छविसमप्रभे ।।
एकानंशे महादेवि पुत्रवत्त्राहि मां शिव ।। ४ ।।
त्वया ततमिदं विश्वं जगदव्यक्तरूपया ।।
इति मत्वा त्वां गतोऽस्मि शरणं त्राहि मां शुभे ।। ५ ।।
कार्यारम्भेषु सर्वेषु सानुगेन मया तव ।।
स्व आत्मा कल्पितो भद्रे ज्ञात्वैतदनुकंप्यताम ।। ६ ।।
।। सूत उवाच ।। ।।
इति ब्रुवाणं राजानं शिरोबद्धाजलिं तदा ।।
वायुपुत्रः प्रहस्यैव सासूयमिदमब्रवीत् ।। ७ ।।
ये त्वां राजन्वदंत्येवं सर्वज्ञोऽयं युधिष्ठिरः ।।
वृथैव वचनं तेषां यतस्त्वं वेत्सि नाण्वपि ।। ८ ।।
को हि प्रज्ञावतां मुख्यः सर्वशास्त्रविदांवरः ।।
स्त्रीणां शरणमापद्येदृजुर्बुद्धिर्यथा भवान् ।। ९ ।।
यतस्त्वमेव वेत्सीदं सर्वशास्त्रेषु कीर्त्यते ।।
जडेयं प्रकृतिर्मूढा यया संमोह्यते जगत् ।। 1.2.65.१० ।।
सचेतनं च पुरुषं प्रकृतिं च विचेतनाम् ।।
प्राहुर्बुधा नराध्यक्ष पुंसश्चप्रकृतिः प्रिया ।। ११ ।।
तत्स्वयं पुरुषो भूत्वा युधिष्ठिर वृथामते ।।
प्रकृतिं नौषि नत्वा तां हासो मेऽतीव जायते ।। १२ ।।
आरोहयेच्छिरो नैव क्वचिद्धित्वा उपानहौ ।।
यथा स मूढो भवति देवीभक्तिरतस्तथा ।। १३ ।।
यदि ते बन्दिवत्पार्थ तिष्ठेद्वाण्यनिवारिता ।।
तत्किमर्थं महादेवं न स्तौषि त्रिपुरान्तकम् ।। १४ ।।
अलक्ष्यमिति वा मत्वा महेशानं महामते ।।
ततः किमर्थ दाशार्हं न स्तौषि पुरुषोत्तमम् ।। १५ ।।
यस्य प्रसादादस्माभिः प्राप्ता द्रुपदनंदिनी ।।
इन्द्रप्रस्थे तथा राज्यं राजसूयस्त्वया कृतः ।। १६ ।।
विजयेन धनुर्लब्धं जरासन्धो मया हतः ।।
प्रत्याहर्तुं तथेच्छामः कौरवेभ्यः स्वकां श्रियम् ।। १७ ।।
यस्य प्रसादात्तं मुक्त्वा कृष्णं हा स्तौषि यज्जयी ।।
अथ स्वयं कौरवाणामुत्पन्नं कुलसत्तमे ।। १८ ।।
जानन्नात्मानमल्पत्वाद्बुद्धेर्न स्तौषि यादवम् ।।
तत्किमर्थं महावीर्यं न स्तौष्यर्जुनमुत्तमम् ।। १९ ।।
येन विद्धं पुरा लक्ष्यं येन कर्णादयो जिताः ।।
येन तत्खांडवं दग्धं यज्ञे येन नृपा जिताः ।। 1.2.65.२० ।।
श्रूयते येन विक्रम्य महेशानोऽपि निर्जितः ।।
स्वर्लोकसंस्थितस्यास्य शरणं याहि स्तौषि च ।। २१ ।।
अथवा तेन शक्रेण राज्यं मे नार्पितं कुतः ।।
इति मत्वा वृथैव त्वं न स्तौषि भ्रातरं मम ।। २२ ।।
ततो मां वा कथं वीरं न स्तौषि त्वं युधिष्ठिर ।।
येन त्वं रक्षितः पूर्वं लाक्षागेहाग्निमध्यतः ।। २३ ।।
वृक्षेणाहत्य मद्रेशो नदीं शुष्कां प्रसारितः ।।
राजराजस्तथा येन जरासंधो निपातितः ।। २४ ।।
पूर्वा दिङ्निर्जिता येन येन पूर्वं बको हतः ।।
हिडम्बश्च महावीरः किर्मीरश्चाधुना वने ।।२५।।
कालेकाले च रक्षामि त्वामेवाहं सदानुगः ।।
न तां पश्यामि रक्षंतीं नत्वा यां स्तौषि भारत।।२६।।
अथ क्षुधाबलं ज्ञात्वा मामौदरिकसत्तमम्।।
क्रूरं साहसिकं चैव न स्तौषि क्षमिणां वरः।।२७।।
ततः सुसंयतो भूत्वा प्रणवं समुदीरयन्।।
कथं न यासि मार्गे त्वं वृथालापो हि दोषभाक्।।२८।।
प्रेताः पिशाचा रक्षांसि वृथालापरतं नरम् ।।
आविशंति तदाविष्टो वक्ताबद्धं पुनः पुनः ।।२९।।
वृथालापी यदश्नाति यत्करोति शुभं क्वचित् ।।
प्रेतादितृप्तये सर्वमिति शास्त्रविनिश्चयः ।।1.2.65.३०।।
नायं तस्यास्ति वै लोकः कुत एव परो भवेत् ।।
तस्माद्विजानता यत्नात्त्याज्यमेव वृथा वचः ।। ३१ ।।
एवं संस्मारितोऽपि त्वं यदि भूयः प्रवर्तसे ।।
भूताविष्टश्चिकित्स्यो नो विविधैरौषधैर्भवान् ।। ३२ ।।
।। सूत उवाच ।। ।।
इति प्रवर्णितां श्रुत्वा भीमसेनेन भारतीम् ।।
पटीमिव प्रविततां विहस्याह युधिष्ठिरः ।। ३३ ।।
नूनं त्वमल्पविज्ञानो वेदाधीतास्त्वया वृथा ।।
मातरं सर्वभूतानामंबिकां यन्न मन्यसे ।। ३४ ।।
स्त्रीपक्ष इति मत्वा तामवजानासि भोः कथम् ।।
स्त्री सती न प्रणम्या किं त्वया कुन्ती वृकोदर ।। ३५ ।।
यदि न स्यान्महामाया ब्रह्मविष्णुशिवार्चिता ।।
तव देहोद्भवः पार्थ कथं स्यात्तत्त्वतो वद ।। ३६ ।।
ईश्वरः परमात्मा तां त्यक्तुं शक्तः कथं न हि ।।
पुनर्भेजे यतो देवीं तेन मन्ये महोर्जिताम् ।। ३७ ।।
वासुदेवोऽपि नित्यं तां स्तौति शक्तिं परात्पराम् ।।
अहं यदि चिकित्स्यः स्यां चिकित्स्यः सोऽपि किं भवान् ।। ३८ ।।
नैवं भूयः प्रवक्तव्यं मौर्ख्यात्प्रति महेश्वरीम् ।।
भूमौ निपत्य शरणं याहि चेत्सुखमिच्छसि ।। ३९ ।।
।। भीम उवाच ।। ।।
सर्वोपायैर्बोधयंति चाटा हस्तगतं नरम् ।।
इदमेवौषधं तत्र तैः सार्धं जल्पनं न हि ।। 1.2.65.४० ।।
मुण्डे मुण्डे मतिर्भिन्ना सत्यमेतन्नृप स्फुटम् ।।
स्वाभीष्टं कुरुते सर्वः कुर्मोऽभीष्टं वयं तथा ।। ४१ ।।
नागायुतसमप्राणो वायुपुत्रो वृकोदरः ।।
न स्त्रियं शरणं गच्छेद्वाङ्मात्रेण कथंचन ।। ४२ ।।
इत्युक्त्वा वचनं भीमो ह्यनुवव्राज तं नृपम् ।।
राजापि सानुगो यातो न साध्विति मुहुर्ब्रुवन् ।। ४३ ।।
ततः क्षणेन विकलस्त्वितश्चेतश्च प्रस्खलत् ।।
उवाच वचनं भीमः सुसंभ्रांतो नृपं प्रति ।। ४४ ।।
धर्मराज महाबुद्धे पश्य मां नृपसत्तम ।।
चक्षुर्भ्यां नैव पश्यामि वैकल्यं किमिदं मम ।। ४५ ।।
।। राजोवाच ।।
भीमभीम ध्रुवं देवी कुपिता ते महेश्वरी ।।
तेन नष्टे चक्षुषी ते महासाहसवल्लभ ।। ४६ ।।
तत्सांप्रतमभिप्रैहि शरणं परमेश्वरीम् ।।
पुनः प्रसन्ना ते दद्यात्कदाचिन्नयने पुनः ।। ४७ ।।
।। भीम उवाच ।। ।।
अहमप्यंग जानामि समो देव्या न कश्चन ।।
प्रभावप्रत्ययार्थं हि सदा निन्दामि तां पुनः ।। ४८ ।।
तस्मात्प्रभावं दृष्ट्वैवं निपत्य वसुधातले ।।
मनोवाग्बुद्धिभिर्नत्वा शरणं स्तौमि मातरम् ।। ४९ ।।
।। सूत उवाच ।। ।।
इत्युक्त्वा भ्रातरं ज्येष्ठं साष्टांगं प्रणिपत्य च ।।
गत्वैव देव्याः शरणं भीमस्तुष्टाव मातरम् ।। 1.2.65.५० ।।
।। भीम उवाच ।। ।।
सर्वभूतांबिके देवि ब्रह्मांडशतपूरके ।।
बालिशं बालकं स्वीयं त्राहित्राहि नमोऽस्तु ते ।। ५१ ।।
त्वं ब्राह्मी ब्रह्मणः शक्तिर्वैष्णवी त्वं च शांभवी ।।
त्रिमूर्तिः शक्तिरूपा त्वं रक्षरक्ष नमोऽस्तु ते ।। ५२ ।।
त्वमैन्द्री च त्वमाग्नेयी त्वं याम्या त्वं च नैर्ऋती ।।
त्वं वारुणी त्वं वायव्या त्वं कौबेरी नमोऽस्तु ते ।।५३ ।।
ऐशानि देवि वाराहि नारसिंहि जयप्रदे ।।
कौमारि कुलकल्याणि कृपेश्वरि नमोऽस्तु ते ।। ५४ ।।
त्वं सूर्ये त्वं तथा सोमे त्वं भौमे त्वं बुधे गुरौ ।।
त्वं शुक्रे त्वं स्थिता राहौ त्वं केतुषु नमोऽस्तु ते ।। ५५ ।।
वससि ध्रुवचक्रे त्वं मुनिचक्रे च ते स्थितिः ।।
भचक्रेषु खचक्रेषु भूचक्रे च नमोऽस्तु ते ।। ५६ ।।
सप्तद्वीपेषु त्वं देवि समुद्रेषु च सप्तसु ।।
सप्तस्वपि च पातालेष्ववसंस्थे नमोऽस्तु ते ।। ५७ ।।
त्वं देवि चावतारेषु विष्णोः साहाय्यकारिणी ।।
विष्णुनाभ्यर्थ्यसे तस्मात्त्राहि मातर्नमोऽस्तु ते ।। ५८ ।।
चतुर्भुजे चतुर्वक्त्रे फलदे चत्वरप्रिये ।।
चराचरस्तुते देवि चरणौ प्रणमामि ते ।। ५९ ।।
महाघोरे कालरात्रि घंटालि विकटोज्वले ।।
सततं सप्तमीपूज्ये नेत्रदे शरणं भव ।। 1.2.65.६० ।।
मेरुवासिनि पिंगाक्षि नेत्रत्राणैककारिणि ।।
हुंहुंकारध्वस्तदैत्ये शरण्ये शरणं भव ।। ६१ ।।
महानादे महावीर्ये महा मोहविनाशिनि ।।
महाबन्धापहे देवि देहि नेत्रत्रयं मम ।। ६२ ।।
सर्वमंगलमंगल्या यदि त्वं सत्यतोंबिके ।।
ततो मे मंगलं देहि नेत्रदानान्नमोस्तु ते ।। ६३ ।।
यदि सर्वकृपालुभ्यः सत्यतस्त्वं कृपावती ।।
ततः कृपां कुरु मयि देहि नेत्रे नमोऽस्तु ते ।। ६४ ।।
पापोयमिति यद्देवि प्रकुप्यसि वृथैव तत् ।।
त्वं मां मोहयसि त्वेवं न ते तत्किं नमोऽस्तु ते ।। ६५ ।।
स्वयमुत्पाद्य यो रेणुं वेष्टितस्तेन कुप्यति ।।
तथा कुप्यसि मे मातरनाथस्यास्य दर्शय ।। ६६ ।।
इति स्तुता पांडवेन देवी कृष्णच्छविच्छविः ।।
रामा रामाभिवदना प्रत्यक्षा समजायत ।। ६७ ।।
विद्युत्कोटिसमाभास मुकुटेनातिशोभिता ।।
सूर्यबिंबप्रभाभ्यां च कुण्डलाभ्यां विभूषिता ।। ६८ ।।
प्रवाहेनेव हारेण सुरनद्या विराजिता ।।
कल्पद्रुमप्रसूनैश्च पूर्णावतंसमंडिता। ।। ६९ ।।
दन्तेन्दुकांतिविध्वस्तभक्तमोहमहाभया ।।
खड्गचर्मशूलपात्रचतुर्भुजविराजिता ।। 1.2.65.७० ।।
वाससा तडिदाभेन मेघलेखेव वेष्टिता ।।
मालया सुममालिन्या भ्राजिता सालिमालया ।। ७१ ।।
सतां शरणदाभ्यां च पद्भ्यां नूपुरराजिता ।।
जयेति पुष्पवर्षैश्च शक्राद्यैरभिपूजिता।। ७२ ।।,
गणैर्देवीभिराकीर्णा शतपद्मैर्महामलैः ।।
तां तादृशीं व्योम्नि दृष्ट्वा मातरं व्योमवाहिनीम् ।। ७३ ।।
भूमौ निपत्य राजेंद्रो नमोनम इति स्थितः ।।,
भीमोपि मातरं दृष्ट्वा यथा बालोऽभिधावति ।। ७४ ।।
तथा सम्मुखमाधावज्जय मातरिति ब्रुवन् ।।
दर्शनेनैव देव्याश्च शुभनेत्रत्रयस्तदा ।। ७९ ।।।
प्रणिपत्य नमस्तुभ्यं नमस्तुभ्यं मुहुर्जगौ ।।
प्रसीद देवि पद्माक्षि पुनर्मातः प्रसीद मे ।। ७६ ।।
पुनः प्रसीद पापस्य क्षमाथीले प्रसीद मे ।। ७७ ।।
एवं स्तुता भगवती स्वयमुत्थाय पार्थिवम् ।।
भीमं चोत्संगमारोप्य कृपयेदं वचोऽब्रवीत् ।। ७८ ।।
।। श्रीदेव्युवाच ।। ।।
यत्त्वयाभिहितं स्तोत्रं तेन तुष्टा तवोपरि ।।
अतो नेत्रत्रयं दत्तं द्वे बाह्ये चांतरं परम् ।। ७९ ।।
नाहं कोपं यत्र तत्र दर्शयामि वृकोदर ।।
त्वं तु प्रमाणपुरुषस्त्वत्तः क्रोधमदर्शयम् ।। 1.2.65.८० ।।
नैतत्प्रियं च कृष्णस्य भ्रातुर्मे क्रोधमाचरम् ।।
भवन्तो वासुदेवस्य यत्र प्राणा बहिश्चराः ।। ८१ ।।
त्वं च निन्दसि मां नित्यं तच्च जाने वृकोदर ।।
मत्प्रभावपरिज्ञानहेतवे कीदृशस्त्विति ।। ८३ ।।
तदेवं नैव भूयस्ते प्रकर्तव्यं कथंचन ।।
अक्षिक्षेपो हि पूज्यानामावहत्यधिकं रुजम् ।। ८४ ।।
तदिदानीं सर्वमेवं क्षन्तव्यं च परस्परम् ।।
यच्च ब्रवीमि त्वां वीर तन्निशामय भारत ।। ८५ ।।
यदा यदा हि धर्मस्य ग्लानिराविर्भवेद्धरिः ।।
तदातदावतीर्याहं विष्णोरस्य सहायिनी ।। ८६ ।।
इदानीं च हरिर्जातो वसुदेवसुतो भुवि ।।
अहं च गोपनन्दस्य एकानंशाभिधा सुता ।। ८७ ।।
तद्यथा भगवान्कृष्णो मम भ्राताभिपूजितः ।।
भवन्तोऽपि तथा मह्यं भ्रातरः पांडवा सदा ।। ८८ ।।
ये भीमभगिनीत्येवं मां स्तोष्यंति नरोत्तमाः ।।
आबाधा नाशयिष्यामि तेषां हर्षसमन्विता ।। ८९ ।।
त्वं च भ्रातुर्जयं वीर प्रदास्यसि महारणे ।।
भुजयोस्ते वसिष्यामि धार्तराष्ट्रनिपातने ।। 1.2.65.९० ।।
कृत्वा राज्यं च वर्षाणि षट्त्रिंशत्तदनन्तरम् ।।
महाप्रस्थानधर्मेण पृथिवीं परिचरिष्यथ ।। ९१ ।।
अस्मिन्नेव ततो देशे लोहोनाम महासुरः ।।
भवतां न्यस्तशस्त्राणां वधार्थं प्रक्रमिष्यति ।। ९२ ।।
ततस्तं सर्वभूतानामवध्यं भवतां कृते ।।
अन्धं कृत्वा पातयिष्ये ततो यूयं प्रयास्यथ ।। ९३ ।।
निस्तीर्य च हिमं सर्वं निमग्नाः बालुकार्णवे ।।
स्वर्गं यास्यति राजैकः सशरीरो गमिष्यति ।। ९४ ।।
अन्धो यत्र कृतो लोहो लोहाणाभिधया पुरम् ।।
भविष्यति च तत्रैव स्थास्येऽहं कलया सदा ।।९५।।
ततः कलियुगे प्राप्ते केलो नाम भविष्यति ।।
मम भक्तस्तस्य नाम्ना भाव्या केलेश्वरीत्यहम् ।। ९६ ।।
वैलाकश्चापरो भक्तो भविष्यति ममोत्तमः ।।
तस्याराधनतः ख्यातिं प्रयास्यामि कलौ युगे ।। ९७ ।।
लोहाणासंस्थितां चैव येर्चयिष्यंति मां जनाः ।।
श्रद्धया सितसप्तम्यां तैश्च सर्वत्र पूजिता ।। ९८ ।।
अंधानां च प्रदास्यामि भावीनि नयनान्यहम् ।।
तस्मिन्दिने तर्पिताहं भक्तिभावेन पांडव ।। ९९ ।।
पादांगुष्ठेन च भवांस्तत्र कुंडं विधास्यति ।।
सर्वतीर्थस्नान तुल्यं तत्र स्नानं च तद्दिने ।। 1.2.65.१०० ।।
मत्स्यानां नेत्रनेत्रस्थतेजस्तन्मात्रमुत्तमम् ।।
उद्धृत्य योजयिष्यामि प्रत्यक्षं तद्भविष्यति ।। १०१ ।।
एवं मम महास्थानं कलौ ख्यातं भविष्यति ।। १०२ ।।
लोहाणाख्यं महाबाहो नाम केलेश्वरीति च ।।
दुर्गमाख्यं ततो हत्वा अस्मिन्क्षेत्रे च भारत।।१०३।।।
दुर्गा नाम भविष्यामि महीसागरपूर्वतः ।।
धर्मारण्ये वसिष्यामि भवतां त्राणकारणात् ।। १०४ ।।
धर्मारण्ये स्थितां चैव येऽर्चयिष्यंति मानवाः ।।
आश्विने मासि चैत्रे वा नवम्यां शुक्लपक्षके ऽ।।। १०५ ।।
स्नात्वा महीसागरे च तेषां दास्यामि वांछितम् ।।
विधिना येऽर्चयिष्यंति मां च श्रद्धास मन्विताः ।। १०६ ।।
पुत्रपौत्रान्प्रदास्यामि स्वर्गं मोक्षं न संशयः ।।
प्रवेशे च कलेः काले भवतां वंशसंभवः ।।
वत्सराजः पांडवानां तोषयिष्यति यत्नतः ।। १०७ ।।
यस्य नाम्ना ततः ख्याता भविष्यामि कलौ युगे ।।
वत्सेश्वरीति वत्सस्य राज्ञः सर्वार्थदायिनी ।।१०८।।
मत्प्रसादात्स राजा वै भवनोत्तापकारिणीम् ।।
अट्टालयांनाम तदा राक्षसीं निहनिष्यति ।। १०९ ।।
तस्याश्चापि वधस्थानमट्टालजमिति स्थितम् ।।
भविष्यति पुरं तत्र मां च संस्थापयिष्यति ।। 1.2.65.११० ।।
अट्टालयाजग्रामे मामर्चयिष्यंति ये जनाः ।।
वत्सेश्वरीं सिताष्टम्यामाश्विने तैः सदार्चिता ।। १११ ।।
वत्सेश्वरीं च ये देवीं पूजयिष्यंति मानवाः ।।
तेषां सर्वफलावाप्तिर्भविष्यति न संशयः ।। ११२ ।।
इत्थमट्टालये वासो लोहाणे च भविष्यति ।।
धर्मारण्ये महाक्षेत्रे महीसागरसंनिधौ ।। ११३ ।।
मम लोकहितार्थाय लोहस्य च निशम्यताम् ।।
अधीकृतो मया लोहो बह्वीस्तप्तां तपः समाः ।। ।। ११४ ।।
वृत्रासुर इवाजेयो लोकानुत्सादयिष्यति ।।
तं च विश्वपतिर्धीमानवतीर्य बुधो हरिः ।। ११५ ।।
यत्र हंता तत्र ग्रामं लोहाटीति भविष्यति ।।
गयोनाम महादैत्यो भवतां विघ्नकृत्तदा ।।११६।।
प्रस्थाने लोहवद्भावी करिष्ये तं नपुंसकम् ।।
गयत्राडेति मां तत्र पूजयिष्यंति मानवाः ।। ।। ११७ ।।
ग्रामं चापि गयत्राडं तत्र ख्यातं भविष्यति ।।
गयत्राडे गयत्राडां येऽर्चयिष्यंति मानवाः ।। ११८ ।।
माघाष्टम्यां न शिष्यंति तस्य सर्वेऽप्युपद्रवाः ।।
ये च मां कोपयिष्यंति पांडवाराधितां सदा ।। ११९ ।।
तेषां पुंस्त्वं हरिष्यामि महारौद्राधितिष्ठति ।।
परिवारश्च मे चात्र षण्ढः सर्वो भविष्यति ।। 1.2.65.१२० ।।
तस्मिन्कलियुगे घोरे रौद्रे रुद्रेऽतिनिर्घृणे ।।
एवं तृतीयं तन्मह्यं स्थानमत्र भविष्यति ।। १२१ ।।
भवत्सु च स्वर्गतेषु गयोऽपि सुमहत्तपः ।।
तप्त्वा प्राप्य पुनः पुंस्त्वं लोकान्संपीडयिष्यति ।। १२२ ।।
गयातीर्थं गतं तं च गयाध्वंसनकाम्यया ।।
बुध एव जगत्स्वामी तत्र तं सूदयिष्यति ।। १२३ ।।
इत्थं श्रीमान्पीतवासा अवतीर्य बुधः प्रभुः ।।
बहूनि कृत्वा कर्माणि स्वस्थानं प्रतिपत्स्यते ।। १२४ ।।
इति संक्षेपतः प्रोक्तं भविष्यं पांडवा मया ।।
भवतां चित्तनिर्वृत्यै श्रूयतां भूय एव च ।। १२५ ।।
इदं तीर्थवरं मह्यं संसेव्यं सर्वदा प्रियम् ।।
कृतं यदत्रागमनं तेन प्रीतिः परा मम ।। १२६ ।।
भीमस्य चापि पौत्रेण दृढं संतोषिताऽस्मि च ।।
देव्यः सर्वाश्च मद्रूपं नैतज्ज्ञेयम तोऽन्यथा ।। १२७ ।।
व्रजध्वं चापि तीर्थानि यानि वो न कृतानि च ।।
आबाधास्वस्मि सर्वासु स्मरणीया स्वसेव च ।। १२८ ।।
आपृच्छे चापि वः सर्वान्यूयं कृष्णसमा मम ।। १२९ ।।
।। सूत उवाच ।। ।।
इति देव्या वचः श्रुत्वा विस्मयोत्फुल्ललोचनाः ।।
पुनःपुनः प्रणम्यैनां नापश्यन्दीपवद्गताम् ।। 1.2.65.१३० ।।
ततस्ते बर्बरीकं च संस्थाप्यात्रैव निष्ठितम् ।।
आगच्छ योगे चोक्त्वेदं चक्रुस्तीर्थानि मुख्यशः ।। १३१ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे बर्बरीकोपाख्याने केलेश्वरी वत्सेश्वरीदुर्गादेवीगयत्राडामाहात्म्यवर्णनंनाम पञ्चषष्टितमोऽध्यायः ।। ६५ ।।