स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ५२
।। अर्जुन उवाच ।। ।।
कोटितीर्थं कथं जातं केन वा निर्मितं मुने ।।
कस्माद्वा कोटितीर्थानां फलमत्रोच्यते मुने ।। १ ।।
।। नारद उवाच ।। ।।
यदा मे स्थापितं स्थानं प्रसाद्याथ मया प्रभुः ।।
ब्रह्मलोकात्समानीतः साक्षाद्ब्रह्मा पितामहः ।। २ ।।
ततो मध्याह्नसमये स्नानार्थे भगवान्विधिः ।।
सस्मार कोटितीर्थानां स्मृतान्यत्रागतानि च ।। ३ ।।
स्वर्गात्त्रिदशलक्षाणि सप्ततिश्च महीतलात् ।।
पातालाद्विंशलक्षाणि स्मृतान्यभ्यागतानि च ।। ४ ।।
अनेन प्रविभागेन लिंगान्यपि कुरूद्वह ।।
आयातानि यथा पूजां विदधाति पितामहः ।। ५ ।।
ततोऽभिषेचनं कृत्वा लिंगान्यभ्यर्च्य पद्मभूः ।।
मध्याह्नकृत्यं संसाध्य मम प्रेम्णा वरं ददौ ।। ६ ।।
ततो भगवता ह्यत्र मनसा निर्मितं सरः ।।
भगवानर्चितस्तीर्थैरिदमूचे प्रजापतिः ।। ७ ।।
किं कुर्म भगवन्धातरादेशं देहि नः प्रभो ।।
तेषां तद्वचनं श्रुत्वा ब्रह्मा प्राह प्रजापतिः ।। ८ ।।
एतस्मिन्सरसि स्थेयं तीर्थैः सर्वैरथात्र च ।।
एकस्मिंश्च तथा लिंगे सर्वलिंगैर्ममार्चनात् ।। ९ ।।
कोटीनामेव तीर्थानां लिंगानां स्नानपूजया ।।
दानेन च फलं त्वत्र यदि सत्यं वचो मम ।। 1.2.52.१० ।।
यः श्राद्धं कुरुते चात्र पिंडदानं यथाविधि ।।
पितॄणामक्षया तृप्तिर्जायते नात्र संशयः ।। ११ ।।
स्नात्वा योऽभ्यर्चयेद्देवं कोटीश्वरमनन्यधीः ।।
कोटिलिंगार्चनफलं व्यक्तं तस्योपजायते ।। १२ ।।
त्रैलोक्ये यानि तीर्थानि गंगाद्याः सरितस्तथा ।।
तेषां स फलमाप्नोति कोटितीर्थावगाहनात् ।। १३ ।।
एवं दत्त्वा वरं ब्रह्मा ब्रह्मलोकं ययौ प्रभुः ।।
कोटितीर्थं च संजातं ततः प्रभृति विश्रुतम् ।।१४।।
अस्य तीरे पुरा पार्थ ब्रह्माद्यैर्देवसत्तमैः ।।
यज्ञान्बहुविधान्कृत्वा ततः सिद्धिं परां ययुः ।। १५ ।।
वसिष्ठाद्यैर्मुनिवरैस्तपश्चीर्णं पुरानघ ।।
मनसोऽभीप्सितान्कामान्प्रापुरन्ये तपोधनाः ।। १६ ।।
अत्र तीर्थे पुरा पार्थ अत्रिणा विहितं तपः ।।
कोटितीर्थाद्दक्षिणतः स्थापितं लिंगमुत्तमम् ।। १७ ।।
अत्रीश्वराभिसंज्ञं तु महापापहरं परम् ।।
स्थापयित्वा च तल्लिंगमग्रे चक्रे सरोवरम् ।। १८ ।।
तत्र स्नात्वा च यो मर्त्यः श्राद्धं कुर्यात्प्रयत्नतः ।।
अत्रीश्वरं समभ्यर्च्य रुद्रलोके वसेच्चिरम् ।।१९।।
भरद्वाजेन मुनिना कोटितीर्थे सरोवरे ।।
तपश्चीर्णं महाबाहो यज्ञाश्च विहिताः किल ।। 1.2.52.२० ।।
भरद्वाजेश्वरं लिंगं स्थापितं सुमनोहरम् ।।
तत्र कृत्वा सरो रम्यं परां मुदमवाप्तवान् ।। २१ ।।
तत्र स्नात्वा नरो भक्त्या श्राद्धं कुर्याद्विधानतः ।।
भरद्वाजेश्वरं पूज्य शिवलोके महीयते ।। २२ ।।
ततश्च कोटितीर्थेऽस्मिन्गौतमो भगवानृषिः ।।
अतप्यत तपो घोरमहल्यासंगमाशया ।। २३ ।।
तं कामं प्राप्तवान्धीमान्परां मुदमुपागतः ।।
अहल्यया समायोगमेतत्तीर्थप्रभावतः ।। २४ ।।
अस्मिन्क्षेत्रे महालिंगं गौतमेश्वरसंज्ञितम् ।।
स्थापयामास भगवानहल्यासरसस्तटे ।। २५ ।।
।। अर्जुन उवाच ।। ।।
अहल्यया कदा ब्रह्मन्खानितं वै महत्सरः ।।
तन्मम ब्रूहि सकलमहल्यासरःकारणम् ।। २६ ।।
।। नारद उवाच ।। ।।
अहल्या शापमापन्ना गौतमात्किल फाल्गुन ।।
पुरा चेंद्रसमायोगे परं दुःखमुपागता ।। २७ ।।
ततो दुःखार्तः स मुनिः कोटितीर्थेऽकरोत्तपः ।।
तपसा तेन वै पार्थाहल्यया सह संगतः ।। २८ ।।
ततः साध्वी परं हृष्टा अत्र क्षेत्रे सरोवरम् ।।
चकार सुमहत्पुण्यं तीर्थोदैः परिपूरितम् ।। २९ ।।
अहल्यासरसि स्नानं पिंडदानं समाचरेत् ।।
गौतमेशं च संपूज्य ब्रह्मलोकं स गच्छति ।। 1.2.52.३० ।।
कोटितीर्थे नरश्रेष्ठ अनेके मुनयोऽमलाः ।।
तपस्तप्त्वा सुघोरं च परां सिद्धिमपागताः ।। ३१ ।।
राजभिर्बहुभिः पूर्वं तपो दानं तथाध्वराः ।।
अस्मिंस्तीर्थे सुविहिताः परां सिद्धिमुपागताः ।। ३२ ।।
अस्य तीरे द्विजं चैकं मृष्टान्नैर्यश्च तर्पयेत् ।।
तेन श्रद्धासहायेन कोटिर्भवति तर्पिता ।। ३३ ।।
अस्य तीरे नरः पार्थ रत्नानि विविधानि च ।।
गोभूमितिलधान्यानि वासांसि विविधानि च ।। ३४ ।।
श्रद्धया परया पार्थ द्विजेभ्यः संप्रयच्छति ।।
शतकोटिगुणं पुण्यं कोटितीर्थप्रभावतः ।।
कोटितीर्थे प्रतिश्रुत्य द्विजेभ्यो न प्रयच्छति ।। ३५ ।।
नरके पातयित्वा च कुलमेकोत्तरं शतम् ।।
आत्मानं पातयेत्पश्चाद्दारुणं रौरवं महत् ।। ३६ ।।
माघमासे तु संप्राप्ते प्रातःकाले तथाऽमले ।।
यः स्नाति मकरादित्ये तस्य पुण्यं शृणुष्व मे ।। ३७ ।।
सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम्।।
सर्वदानव्रतैर्यच्च कोटि तीर्थे दिनेदिने ।। ३८ ।।
तत्पुण्यं लभते मर्त्यो नात्र कार्या विचारणा ।।
कन्यागते सवितरि यः श्राद्धं कुरुते नरः ।। ३९ ।।
पितरस्तस्य तुष्यंति गयाश्राद्धशतैर्न तु ।।
कार्तिके मासि संप्राप्ते स्नानादि कुरुते यदि ।। 1.2.52.४० ।।
तदक्षयफलं सर्वं ब्रह्मणो वचनं यथा ।।
इष्ट्वात्र यज्ञमेकं तु कोटियज्ञफलं लभेत् ।। ४१ ।।
कन्यां ब्राह्मेण विधिना दत्त्वा कोटिगुणं फलम् ।।
सर्वदानं कोटिगुणं कोटितीर्थे भवेद्यतः ।। ४२ ।।
कोटि तीर्थे त्यजेत्प्राणान्हृदि कृत्वा तु माधवम् ।।
तस्य पार्थ चिरं स्वर्गे ह्यक्षया शाश्वती गतिः ।। ४३ ।।
कोटितीर्थे तीर्थवरे देहत्यागं करोति यः ।।
तस्य पूजां प्रकुर्वंति ब्रह्माद्या देवतागणाः ।। ४४ ।।
अस्य तीरे देहदाहो यस्य कस्य प्रजायते ।।
अस्थिक्षेपो यस्य भवेन्महीसागरसंगमे ।। ४५ ।।
तत्फलं गदितुं पार्थ वागीशोऽपि न वै क्षमः ।।
एतज्ज्ञात्वा परं पार्थ कोटितीर्थं प्रसेवते ।। ४६ ।।
दिनेदिने फलं तस्य कापिलं गोसहस्रकम् ।।
स्वर्गे मर्त्ये च पाताले तस्मादेतत्सुदुर्लभम् ।। ४७ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कोटितीर्थमाहात्म्यवर्णनंनाम द्विपञ्चाशत्तमोऽध्यायः ।। ५२ ।।