स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ५८

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६

।। अर्जुन उवाच ।। ।।
गुप्तक्षेत्रमिदं कस्मात्कस्माद्गुप्तं च नारद ।।
यस्य प्रभावः सुमहान्नैव कस्यापि संस्तुतः ।। १ ।।
।। नारद उवाच ।। ।।
पुरातनामत्र कथां गुप्तक्षेत्रस्य कारणे ।।
शृणु पांडव शापेन गुप्तमासीदिदं यथा ।। २ ।।
पुरा निमित्ते कस्मिंश्चित्सर्वतीर्थाधिदैवताः ।।
प्रणामाय ब्रह्मसदो ब्रह्माणं सहिता ययुः ।। ३ ।।
पुष्करस्य प्रभासस्य निमिषस्यार्बुदस्य च ।।
कुरुक्षेत्रस्य क्षेत्रस्य धर्मारण्यस्य देवताः ।। ४ ।।
वस्त्रापथस्य श्वेतस्य फल्गुतीर्थं स्य चापि याः ।।
केदारस्य तथान्येषां क्षेत्राणां कोटिशोऽपि याः ।। ५ ।।
सिंधुसागरयोगस्य महीसागरकस्य च ।।
गंगासागरयोगस्य अधिपाः सूकरस्य च ।। ६ ।।
गंगारेवामुखीनां तु नदीनामधिदेवताः ।।
शोणह्रदपुरोगाणां ह्रदानां चाधिदेवताः ।। ७ ।।
ते सर्वे संघशो भूत्वा श्रैष्ठ्य ज्ञानाय चात्मनः ।।
समुपाजग्मुरमला महतीं ब्रह्मणः सभाम् ।। ८ ।।
तत्र तीर्थानि सर्वाणि समायातानि वीक्ष्य सः ।।
उत्तस्थौ सहितः सर्वैः सभासद्भिः पितामहः ।। ९ ।।
प्रणम्य सर्वतीर्थेभ्यः प्रबद्धकरसंपुटः ।।
तीर्थानि भगवानाह विस्मयोत्फुल्ललोचनः ।। 1.2.58.१० ।।
अद्य नः सद्म सकलं युष्माभिरतिपावितम् ।।
वयं च पाविता भूयो युष्माकं दर्शनादपि ।। ११ ।।
तीर्थानां दर्शनं श्रेयः स्पर्शनं स्नानमेव च ।।
कीर्तनं स्मरणं चापि न स्यात्पुण्यं विना परम् ।।१२।।
महापापान्विता रौद्रास्त्वपि ये स्युः सुनिष्ठुराः ।।
तेऽपि तीर्थैः प्रपूयंते किं पुनर्धर्मसंस्थिताः ।।१३।।
एवमुक्त्वा पुलस्त्यं स पुत्रमभ्यादिदेश ह ।।
शीघ्रमर्घं तीर्थहेतोः समानय यथार्चये ।। १४ ।।
।। पुलस्त्य उवाच ।।
असंख्यानीह तीर्थानि दृश्यंते पद्मसंभव ।।
यथा दिशसि मां तात अर्घमेकमुपानये ।। १५ ।।
धर्मप्रवचने श्लोको यत एष प्रगीयते ।। १६ ।।
भवेयुर्यद्यसंख्याता अर्घयोग्याः समर्चने ।।
ततस्तेषां वरिष्ठाय दातव्योऽर्घः किलैकतः ।। १७ ।।
।। ब्रह्मोवाच ।। ।।
साभिप्रायं साधु वत्स त्वया प्रोक्तमिदं वचः ।।
एवं कुरुष्वैकमर्घमानय त्वं सुशीघ्रतः ।। १८ ।।
।। नारद उवाच ।। ।।
ततः पुलस्त्यो वेगेन समानिन्येऽर्घमुत्तमम् ।।
तं च ब्रह्मा करे गृह्य तीर्थान्याहेति भारतीम् ।। १९ ।।
सर्वैर्भवद्भिः संहत्य मुख्यस्त्वेकः प्रकीर्त्यताम् ।।
तस्मै चार्घं प्रयच्छामि नैवं मामनयः स्पृशेत् ।। 1.2.58.२० ।।
।। तीर्थान्यूचुः ।। ।।
न वयं श्रेष्ठतां विद्मः कथंचन परस्परम् ।।
अस्माद्धेतोश्च संप्राप्ता ज्ञात्वा देहि त्वमेव तत् ।। २१ ।।
।। ब्रह्मोवाच ।। ।।
नाहं वेद्मि श्रेष्ठतां वः कथंचन नमोऽस्तु वः ।।
सर्वे चापारमाहात्म्यं स्वयं मे वक्तुमर्हथ ।। २२ ।।
यत्र गंगा गया काशी पुष्करं नैमिषं तथा ।।
कुरुक्षेत्रं तथा रेवा महीसागरसंगमः ।। २३ ।।
प्रभासाद्यानि शतशो यत्र नस्तत्र का मतिः ।। २४ ।।
।। नारद उवाच ।। ।।
एवमुक्ते पद्मभुवा कोपि नोवाच किंचन ।।
चिरेणेदं ततः प्राह महीसागरसंगमः ।। २५ ।।
ममैनमर्घं त्वं यच्छ चतुरानन शीघ्रतः ।।
यतः कोटिकलायां वा मम कोऽपि न पूर्यते ।। २६ ।।
यतश्चेन्द्रद्युम्नराज्ञा ताप्यमाना वसुंधरा ।।
सर्वतीर्थद्रवीभूता महीनामाभवन्नदी ।। २७ ।।
सा च सर्वाणि तीर्थानि संयुक्तानि मया सह ।।
सर्वतीर्थमयस्तस्मादस्मि ख्यातो जगत्त्रये ।। २८ ।।
गुहेन च महालिंगं कुमारेश्वरमीश्वरम् ।।
संस्थाप्य तीर्थमुख्यत्वं मम दत्तं महात्मना ।। २९ ।।
नारदेनापि मत्तीरे स्थानं संस्थाप्य शोभनम् ।।
सर्वेभ्यः पुण्यक्षेत्रेभ्यो दत्तं श्रैष्ठ्यं पुरा मम ।। 1.2.58.३० ।।
एवं त्रिभिर्हेतुवरैर्ममेवार्घः प्रदीयताम् ।।
गुणैकदेशेऽपि समं मम तीर्थं न वै परम् ।। ३१ ।।
इत्युक्ते वचने पार्थ तीर्थराजेन भारत।।
सर्वे नोचुः किंचनापि किं ब्रह्मा वक्ष्यतीति यत् ।। ३२ ।।
ततो ब्रह्मसुतो ज्येष्ठः श्वेतमाल्यानुलेपनः ।।
दक्षिणं बाहुमुद्धत्य धर्मो वचनमब्रवीत् ।। ३३ ।।।
अहो कष्टमिदं कूक्तं तीर्थराजेन मोहतः ।।
सन्तोऽपि न गुणा वाच्याः स्वयं सद्भिः स्वका यतः ।। ३४ ।।
स्वीयान्गुणान्स्वयं यो हि सम्पत्सु प्रक्षिपन्परान् ।।
ब्रवीति राजसस्त्वेष ह्यहंकारो जुगुप्सितः ।। ३५ ।।
तस्मादस्मादहंकारात्सत्स्वप्येषु गुणेषु च ।।
अप्रख्यातं ध्वस्तरूपमिदं तीर्थं भविष्यति ।।३६।।
स्तंभतीर्थमिति ख्यातं स्तम्भो गर्वः कृतो यतः ।।
स्तंभस्य हि फलं सद्यो ब्रह्मापि प्राप किं परः ।। ३७ ।।
इत्युक्ते धर्मदेवेन हाहेति रव उत्थितः ।।
ततः शीघ्रं समायातो योगीशोऽहं च पांडव ।। ३८ ।।
गुहस्ततो वचः प्राह धर्मदेवसमागमे ।।
अयुक्तमेतच्छापोऽयं दत्तो यद्धर्म धार्ष्ट्यतः ।। ३९ ।।
ब्रवीतु कोऽपि सर्वेषां तीर्थानां तेषु वर्तताम् ।।
यद्यैश्वर्यं नार्हतेसौ महीसागरसंगमः ।। 1.2.58.४० ।।
तिष्ठत्वात्मगुणो यच्च तीर्थराजेन वर्णितः ।।
तत्र को विगुणो नाम मिथ्यावादी यतो गुणः ।। ४१ ।।
अहो न युक्तं पालानां यदि तेऽप्यविमृश्य च ।।
एवमर्थान्करिष्यंति कं यांति शरणं प्रजाः ।। ४२ ।।
एवमुक्ते गुहेनाथ धर्मो वचनमब्रवीत् ।।
सत्यमेतद्यदर्होऽयं महीसागरसंगमः ।। ४३ ।।
मुख्यत्वं सर्वतीर्थानामर्घं चापि पितामहात् ।।
किंतु नात्मगुणा वाच्याः सतामेतत्सदा व्रतम् ।।
परोक्षेपि स्वप्रशंसा ब्रह्माणमपि चालयेत् ।। ४४ ।।
स्वप्रशंसां प्रकुर्वाणः पराक्षेपसमन्विताम् ।।
किं दिवः पृथिवीं पूर्वं ययातिर्न पपात ह ।।
यानि पूर्वं प्रमाणानि कृतानीशेन धीमता ।।४५।।
तानि सम्पालनीयानि तानि कोऽति क्रमेद्बुधः ।।
तव पित्रा समादिश्य यदर्थं स्थापिता वयम् ।। ४६ ।।
पालयामास एतच्च त्वं पालयितुमर्हसि ।।
ईश्वराः स्वप्रमाणेन भवंतो यदि कुर्वते ।। ४७ ।।
तदस्माभिरिदं युक्तं शासनं दिश्यतां परम् ।।
एवमुक्त्वा स्वीयमुद्रां मोक्तुकामं वृषं तदा ।।४८।।
अहं प्रस्तावमन्वीक्ष्य वाक्यमेतदुदैरयम्।।
नमो धर्माय महते विश्वधात्रे महात्मने ।। ४९।।
ब्रह्मविष्णुशिवैर्नित्यं पूजितायाघनाशिने ।।
यदि मुद्रां भवान्धर्म परित्यक्ष्यति कर्हिचित् ।। 1.2.58.५० ।।
तदस्माकं कुतो भावो मा विश्वं नाशय प्रभो ।।
योगीश्वरं गुहं चापि संमानयितुमर्हसि ।। ५१ ।।
शिववन्माननीयो हि यतः साक्षाच्छिवात्मजः ।।
त्वां च देवो गुहः स्वामी संमानयितुमर्हति।।५२।।
युवयोरैक्यभावेन सुखं जीवेदिदं जगत् ।।
त्वया प्रदत्तः शापोऽयं मा प्रत्याख्यातिलक्षणः।।५३।।
अनुग्रहश्च क्रियतां तीर्थराजस्य मानद।।५४।।
एवमुच्चरमाणं मां प्रशस्याहापि पद्मभूः।।
साध्वेतन्नारदेनोक्तं धर्मैतद्वचनं कुरु।।
सम्मानय गुहं चापि गुहः स्वामी यतो हि नः।।
एवमुक्ते ब्रह्मणा च धर्मो वचनमब्रवीत्।।५६।।
नमो गुहाय सिद्धाय किंकरायस्य ते वयम्।।
मदीयां स्कन्द विज्ञप्तिं नाथैनामवधारय ।।५७।।
स्तंभादेतन्महातीर्थमप्रसिद्धं भविष्यति ।।
स्तंभतीर्थमिति ख्यातं सुप्रसिद्धं भविष्यति ।।५८ ।।
स्तम्भतीर्थमिति ख्यातं सर्वतीर्थफलप्रदम् ।।
यश्चात्र स्नानदानानि प्रकरिष्यति मानवः ।। ५९ ।।
यथोक्तं च फलं तस्य स्फुटं सर्वं भविष्यति ।।
शनिवारे ह्यमावास्या भवेत्तस्याः फलं च यत् ।। 1.2.58.६० ।।
महीसागरयात्रायां भवेत्तच्चावधारय ।।
प्रभासदशयात्राभिः सप्तभिः पुष्करस्य च ।। ६१ ।।
अष्टाभिश्च प्रयागस्य तत्फलं प्रभविष्यति ।।
पंचभिः कुरुक्षेत्रस्य नकुलीशस्य च त्रिभिः ।। ६२ ।।
अर्बुदस्य च यत्षड्भिस्तत्फलं च भविष्यति ।।
वस्त्रापथस्य तिसृभिर्गंगायाः पंचभिश्च यत् ।। ६३ ।।
कूपोदर्याश्चतुर्भिश्च तत्फलं प्रभविष्यति ।।
काश्याः षड्भिस्तथा यत्स्याद्गोदावर्याश्च पंचभिः ।। ६४ ।।
तत्फलं स्तंभतीर्थे वै शनिदर्शे भविष्यति ।।
एवं दत्ते वरे स्कंदस्तदा प्रीतमनाभवत् ।। ६५ ।।
ब्रह्मापि स्तंभतीर्थाय ददावर्घं समाहितः ।।
ददौ च सर्वतीर्थानां श्रेष्ठत्वममितद्युतिः ।। ६६ ।।
तीर्थानि च गुहं नाथं सम्मान्य विससर्ज सः ।।
एवमेतत्पुरा वृत्तं गुप्तक्षेत्रस्य कारणम् ।। ६७ ।।
भूयश्चापि प्रसिद्ध्यर्थं प्रेषिताप्सरसोऽत्र मे ।।
विमोक्षिता ग्राहरूपात्त्वया ताश्च कुरूद्वह ।। ६८ ।।
यतो धर्मस्य सर्वस्य नानारूपैः प्रवर्ततः ।।
परित्राणाय भवतः कृष्णस्य च भवो भवे ।।६९।।
तदिदं वर्णितं तुभ्यं सर्वतीर्थफलं महत् ।।
श्रुत्वैतदादितः पूर्वं पुमान्पापैः प्रमुच्यते ।।1.2.58.७०।।
।। सूत उवाच ।। ।।
श्रुत्वेति विजयो धीमान्प्रशशंस सुविस्मितः ।।
विसृष्टो नारदाद्यैश्च द्वारकां प्रति जग्मिवान् ।।७१।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे महीसागरमाहात्म्यवर्णनेऽर्जुनतीर्थयात्रापरिसमाप्तिवर्णनंनामष्टपंचाशत्तमोऽध्यायः ।। ५८ ।।