स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ३४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३३ स्कन्दपुराणम्
अध्यायः ३४
वेदव्यासः
अध्यायः ३५ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६

॥नारद उवाच॥
ततस्तृतीयलिंगस्य चिकीर्षु स्थापनं गुहम्॥
ब्रह्मा प्राहास्य प्रीत्यर्थं स्वयमन्यं प्रकुर्महे॥ ३४.१ ॥

यद्यप्येतच्छुभं लिंगं सर्वदोषविवर्जितम्॥
तथाप्यन्यत्करिष्येऽहं सर्वश्रेष्ठतमं हि यत्॥ ३४.२ ॥

ततो ब्रह्मा सर्वदोषविमुक्तं निर्ममे स्वयम्॥
दृष्टिकांतं मनःकांतं फलकांतं सुलिंगकम्॥ ३४.३ ॥

तत्र स्कंदस्य प्रीत्यर्थं सर्वदेवैर्निनिर्मितम्॥
सरः सुरम्यं तीर्थानि तत्र ते निदधुस्तथा॥ ३४.४ ॥

गंगादिकानि तीर्थानि यानि प्रोचुर्दिवौकसः॥
इदं यावत्सरस्तावत्सर्वैरत्र समुष्यताम्॥ ३४.५ ॥

एवमस्त्विति तान्यूचुः प्रीत्यर्थं शरजन्मनः॥
ततो ब्रह्मा स्वयं तत्र रौद्रैर्मंत्रैर्हुताशनम्॥
गाधिपुत्रादिभिर्विप्रैस्तर्पयामास संयुतः॥ ३४.६ ॥

ततो वैशाखमासस्य चतुर्द्दश्यां शुभे दिने॥
प्रतिष्ठां चक्रिरे लिंगे चिरं विप्रमुका द्विजाः॥ ३४.७ ॥

जगुर्गंधर्वपतयो ननृतुश्चाप्सरोगणाः॥
ततः स्कंदः प्रीतियुक्तः स्नात्वा सरसि शोभने॥ ३४.८ ॥

सर्वतीर्थोदकैः स्नाप्य तल्लिंगं भक्तिसंयुतः॥
विविधैः पूजयामास पुष्पैर्मंत्रैश्च पंचभिः॥ ३४.९ ॥

पूजाकाले स्वयं तत्र लिंगमध्येस्थितो हरः॥
जंगमा जंगमैः सार्धं स्वयं जग्राह पूजनम्॥ ३४.१० ॥

ततस्तं पूजयन्प्राह स्कंदो भक्तिपरिप्लुतः॥
केन केनोपहारेण त्वयि दत्तेन किं फलम्॥ ३४.११ ॥

॥श्रीमहादेव उवाच॥
मम यः स्थापयेल्लिंगं शुभं सद्म च कारयेत्॥
मल्लोके वसतेऽसौ च वावच्चंद्रदिवाकरौ॥ ३४.१२ ॥

मम सद्म सुधाशुभ्रं यावत्संख्यं करोति यः॥
तावंत्येव च जन्मानि यशसासौ विराजते॥ ३४.१३ ॥

ध्वजभूतो ध्वजं दत्त्वा विपापः स्यात्पताकया॥
विधाय चित्रविन्यास गंधर्वैः सह मोदते॥ ३४.१४ ॥

रजःसंशोधनं कृत्वा नरो रोगैः प्रमुच्यते॥
प्राप्नोति देहं हार्दं च सुरसद्मानुलेपनात्॥ ३४.१५ ॥

पुष्पक्षीरादि भिर्दत्तैस्तिलाभोऽक्षतदर्भकैः॥
शंभोः शिरसि दत्त्वार्घ्य दिवि वर्षायुतं वसेत्॥ ३४.१६ ॥

घृतेन हतपापः स्यान्मधुना सुभगो भवेत्॥
विरोगो दधिदुग्धाभ्यां लिंगं संस्नाप्य जायते॥ ३४.१७ ॥

पानीयदधिदुग्धाद्यैः क्रमाद्दशगुणं फलम्॥
मासं संस्नाप्य वै भक्त्या पिष्टाद्यैश्च विरूक्षयेत्॥ ३४.१८ ॥

कपिलापंचगव्येन सुरसिंधुजलेन वा॥
मां च संस्नाप्य चाभ्यच्च मल्लोकमधिगच्छति॥ ३४.१९ ॥

कुशोदकाद्गंधजलं तस्मात्तीर्थोदकं वरम्॥
तीर्थेभ्यश्च जलं दर्शे महीसागरसंभवम्॥ ३४.२० ॥

कपिलां दत्त्वा यदाप्नोति तत्फलं कलशे पृथक्॥
मृत्ताम्ररौप्यसौवर्णैः क्रमाच्छतगुणं फलम्॥ ३४.२१ ॥

श्रीखंडागरुकाश्मीरशशिनः क्रमशोऽधिकाः॥
मां च तैश्च समालभ्य स्याच्छ्रीमान्सुभगः सुखी॥ ३४.२२ ॥

प्रशस्तो गुग्लुलो धूपस्तस्माच्चंद्रोऽगरुर्वरः॥
धूपानेतान्नरो दत्त्वा सुखं स्वर्गमवाप्नुयात्॥ ३४.२३ ॥

दीपदः कीर्तिमाप्नोति चक्षुरुत्तममेव च॥
नैवेद्यस्य प्रदानेन नरो मृष्टाशनो भवेत्॥ ३४.२४ ॥

पुष्पेण हेमकर्णस्य प्रबद्धेन द्विसंगुणम्॥
फलमाप्नोति पुरुषः सत्यसंधश्च जायते॥ ३४.२५ ॥

अखंडैर्बिल्वपत्रैश्च पुष्पैर्वा विविधैरपि॥
लिंगं प्रपूरणं कृत्वा लक्ष्मेकं वसेद्दिवि॥ ३४.२६ ॥

यस्तु पुष्पगृहं कुर्यान्नरः शुद्धाशयो भवेत्॥
पुष्पकेण विमानेन दिवि संक्रीडते चिरम्॥ ३४.२७ ॥

भूषणांबरदानेन नरो भवति भोगभाक्॥
सच्चामरप्रदानेन जायते पार्थिवो नरः॥ ३४.२८ ॥

रम्यं वितानं यो दद्याच्छत्रुभिर्नाभूयते॥
गीतं वाद्यं प्रनृत्यं च कृत्वा शुद्धो व्रजेत्स माम्॥ ३४.२९ ॥

शंखघंटाप्रदानेन विद्वान्भवति शब्दवान्॥
विधाय रथयात्रां च चिरं शोकैः प्रमुच्यते॥ ३४.३० ॥

नमस्कारं प्रणामं च कृत्वा जायेन्महाकुले॥
वाचयंश्चाग्रतः शास्त्रं मम ज्ञानी प्रजायते॥ ३४.३१ ॥

विमुच्यते मनोमोहैर्भक्त्या स्तुत्वा च मां नरः॥
गोदानफलमाप्नोति निर्माल्यस्फेटनान्मम॥ ३४.३२ ॥

आरार्तिकं भ्रामयित्वा अर्तिहीनः प्रजायते॥
कृत्वा शीतलिकां तापैर्मुच्यते दोष संभवैः॥ ३४.३३ ॥

नत्वा दत्त्वाथ शक्त्या च दानं लिंगस्य संनिधौ॥
फलं शतगुणं प्राप्य इह चामुत्र मोदते॥ ३४.३४ ॥

प्रणामात्पंचदश च स्नानाद्विंशतिं पूजया॥
शतं यथाप्रोक्तविधेरपराधानहं क्षमे॥ ३४.३५ ॥

एतत्सर्वं यथोद्दिष्टं कुमारात्र भविष्यति॥
ये मां प्रपूजयिष्यंति कुमारेश्वर संस्थितम्॥ ३४.३६ ॥

वाराणस्यां यथा वत्स विश्वनाथोऽस्मि संस्थितः॥ ३४.३७ ॥

गुप्तक्षेत्रे तथा स्थास्ये कुमारेश्वरमध्यतः॥ ३४.३८ ॥

श्रुत्वेति वचनं रुद्राद्देवानां श्रृण्वतां गुहः॥
विस्मितः प्रणिपत्यैनं तुष्टाव गिरिजापतिम्॥ ३४.३९ ॥

नमः शिवायास्तु निरामयाय नमः शिवायास्तु मनोमयाय॥
नमः शिवायास्तु सुरार्चिताय तुभ्यं सदा भक्तकृपापराय॥ ३४.४० ॥

नमो भवायास्तु भवोद्भवाय नमोस्तु ते ध्वस्तमनोभवाय॥
नमोऽस्तु ते गूढमहाव्रताय नमोऽस्तु मायगहनाश्रयाय॥ ३४.४१ ॥

नमोस्तु शर्वाय नमः शिवाय नमोस्तु सिद्धाय पुरातनाय॥
नमोस्तु कालाय नमः कलाय नमोऽस्तु ते कालकलातिगाय॥ ३४.४२ ॥

नमो निसर्गात्मकभूतिकाय नमोऽस्त्वमेयोक्षमहर्द्धिकाय॥
नमः शरण्याय नमोऽगुणाय नमोऽस्तु ते भीमगुणानुगाय ॥ ३४.४३ ॥

नमोऽस्तु नानाभुवनाधिकर्त्रे नमोऽस्तु भक्ताभिमतप्रदात्रे॥
नमोऽस्तु कर्मप्रसावाय धात्रे नमः सदा ते भगवन्सुकर्त्रे॥ ३४.४४ ॥

अनंतरूपाय सदैव तुभ्यमसह्यकोपाय सदैव तुभ्यम्॥
अमेयमानाय नमोस्तु तुभ्यं वृषेंद्रयानाय नमोऽस्तु तुभ्यम्॥ ३४.४५ ॥

नमः प्रसिद्धाय महौषधाय नमोऽस्तु ते व्याधिगणापहाय॥
चराचरायाथ विचारदाय कुमारनाथाय नमः शिवाय॥ ३४.४६ ॥

ममेश भूतेश महेश्वरोसि कामेश वागीश बलेश धीश॥
क्रोधेश मोहेश परापरेश नमोस्तु मोक्षेश गुहशयेश॥ ३४.४७ ॥

इति संस्तूय वरदं शूलपाणिमुमापतिम्॥
प्रणिपत्य उमापुत्रो नमोनम उवाच ह॥ ३४.४८ ॥

एवं भक्तिपराक्रांतमात्मयोग्यं स्तवं शिवः॥
अभिनन्द्य चिरं कालमिदं वचनमब्रवीत्॥ ३४.४९ ॥

त्वया दुःखं न संचिंत्यं मम भक्तवधात्मकम्॥
कर्मणानेन श्लाघ्योऽसि मुनीनामपि पुत्रक॥ ३४.५० ॥

ये च सायं तथा प्रातस्त्वत्कृतेन स्तवेन माम्॥
स्तोष्यंति परया भक्त्या श्रुणु तेषां च यत्फलम्॥ ३४.५१ ॥

न व्याधिर्न च दारिद्र्यं न चैवेष्टवियोजनम्॥
भुक्त्वा भोगान्दुर्लभांश्च मम यास्यंति सद्म ते॥ ३४.५२ ॥

तथान्यानपि दास्यामि वरान्परमदुर्लभान्॥
भक्त्या तवातितुष्टोऽहं प्रीत्यर्थं तव पुत्रक॥ ३४.५३ ॥

महीसा गरकूले तु ये मां स्तोष्यंति पूजया॥
तेषां दतक्षयं सर्वं वैशाख्यां दानपूजनम्॥ ३४.५४ ॥

सरस्यत्र च ये स्नानं प्रकरिष्यंति मानवाः॥
सर्वतीर्थफला वाप्तिर्वैशाख्यां प्रभविष्यति॥ ३४.५५ ॥

कुमारेशं तु मां भक्त्या महीसागरसंगमे॥
स्नात्वा संपूजयेन्नित्यं तस्य जातिस्मृतिर्भवेत्॥ ३४.५६ ॥

जातिस्मृतिरियं पुत्र यस्यां जातौ प्रजायते॥
स्मरतेऽस्याः प्रकर्तव्यं श्रेयोरूपं सुदुर्लभम्॥ ३४.५७ ॥

यस्मिन्काले ह्यनावृष्टिर्जायते कृत्तिकासुत॥
स्नापयेद्विधिवन्मां च कलशैर्विविधैः शुभैः॥ ३४.५८ ॥

एकरात्रं त्रिरात्रं वा पञ्चरात्रं च सप्त वा॥
स्नापयेद्गंधतोयेन कुंकुमेन विलेपयेत्॥ ३४.५९ ॥

करवीरै रक्तपुष्पैर्जपापुष्पैस्तथैव च॥
अर्चयेत्पुष्पमालाभिः परिधायारुणवाससी॥ ३४.६० ॥

भोजयेद्ब्रह्णांश्चैव तापसाञ्छंसिवव्रतान्॥
लक्षहोमं प्रकुर्वीत शिवहोमं ग्रहादिकम्॥ ३४.६१ ॥

भूमिदानं ततः कुर्यात्तत्तो दद्याद्गवाह्निकम्॥
आघोषयेच्छिवां शांतिं रुद्रजाप्यं हि कारयेत्॥ ३४.६२ ॥

अनेनैव विधानेन कृतेन तु द्विजोत्तमैः॥
आगर्भितास्तदा मेघा वर्षते नात्र संशयः॥ ३४.६३ ॥

विविधैः पूर्यते धान्यः शाद्वलैश्च वसुन्धरा॥
आरोग्यं हि भवेच्चैव जने गोपकुले तथा॥ ३४.६४ ॥

धर्मयुक्तो भवेद्राजा परचक्रैर्न पीड्यते॥
गृतेन स्नापयेन्मां च अर्कक्रांतौ नरोऽत्र यः॥ ३४.६५ ॥

कन्यादान फलं तस्य नात्र कार्या विचारणा॥
क्षीरेण स्नापयेद्देवं तथा पंचामृतेन यः॥ ३४.६६ ॥

अग्निष्टोमस्य यज्ञस्य फलं तस्योपजायते॥
कुमारेश्वरतीर्थेयः प्राणत्यागं करोति हि॥ ३४.६७ ॥

रुद्रलोके वसेत्तावद्यावदाभूतसंप्लवम्॥
अयने विषुवे चैव ग्रहणे चंद्रसूर्ययोः॥ ३४.६८ ॥

पौर्णमास्याममावास्यां संक्रांतौ वैधृते तथा॥
कुमारेशं नरः स्नात्वा महीसागरसंगमे॥ ३४.६९ ॥

भक्त्या योभ्यर्चयेन्मां च तस्य पुण्यफलं श्रृणु॥
यन्महीतलतीर्थेषु स्नाने स्यात्तु महत्फलम्॥३४.७० ॥

यच्चर्चितेषु लिंगेषु सर्वेषु स्यात्फलं च तत्॥
आरोग्यं पुत्रलाभं च धनलाभं सुखंसुतम्॥ ३४.७१ ॥

निश्चितं लभते मर्त्यः कुमारेश्वरसेवया॥
ब्रह्मचारी शुचिर्भूत्वा यस्तिष्ठेदत्र तापसः॥ ३४.७२ ॥

परं पाशुपतं योगं प्राप्य याति लयं मयि॥
पापात्मनां च मर्त्यानां सद्योऽस्मि फलदर्शकः॥ ३४.७३ ॥

दिव्येनाष्टविधेनात्र कोशः साधारणोऽत्र च॥
अघोराद्यैः पंचमंत्रैः स्नाप्य लिंगं महोज्जवलम्॥ ३४.७४ ॥

अघोरेणैव तत्तोयं दद्याद्दिव्यस्य कारणे॥
पिबेदेतदुदीर्या प्रसृतित्रयमेव च॥ ३४.७५ ॥

यदि धर्मस्तथा सत्यमीश्वरोऽत्र जगत्त्रये॥
कोशपानात्फलं सद्यो द्रक्ष्याम्यस्मि शुभा शुभम्॥ ३४.७६ ॥

यास्ये चेति कुलं हन्याद्गमने च कुटुम्बकम्॥
दर्शने च शुभं पाने हन्याद्देहं च मिथ्यया॥ ३४.७७ ॥

त्रिभिर्दिनैस्त्रिभिः पक्षैस्त्रिभिर्मासैस्त्रिभिः समैः॥
अत्युग्रपुण्यपापानां मानेन फलमश्नुते॥ ३४.७८ ॥

एते वरामया लिंगे दत्तात्रं स्थापिते त्वया॥
तव प्रीत्यभिवृद्ध्यर्थं ब्रूहि भूयोऽप्युमात्मज॥ ३४.७९ ॥

॥स्कन्द उवाच॥
कृतकृत्यो वरैर्दत्तैस्त्वया चैतैर्महेश्वर॥
नमोनमो नमस्तेस्तु नात्र त्याज्यं त्वया विभो॥ ३४.८० ॥

एवं प्रणम्य देवं स मातरं प्रणतोऽब्रवीत्॥
त्वयापि मातर्नैवात्र त्याज्यं मम प्रियेप्सया॥ ३४.८१ ॥

त्वामप्यत्र स्थापयिष्ये वरदा भव पर्वति॥ ३४.८२ ॥

॥श्रीदेव्युवाच॥
यत्र शर्वः स्वभावेन तत्र तिष्ठाम्यहं सुत॥ ३४.८३ ॥

तव भक्त्या विशेषेण स्थास्ये स्त्रीणां वरप्रदा॥
युद्धेषु तवकर्माणि रुद्रभक्तेषु ते कृपाम्॥ ३४.८४ ॥

पश्यंति पुत्रिणां मुख्या प्रीणिता च भृशं त्वया॥
गर्भक्लेशः स्त्रियो मन्ये साफल्यं भजते तदा॥ ३४.८५ ॥

सुतो यदा रुद्रभक्तः सानंदं सद्भिरीर्यते॥
भव तस्मात्प्रियार्थाय तिष्ठाम्यत्र षडानन॥ ३४.८६ ॥

स्त्रीभिराराधिता दास्ये सौभाग्यं सुपतिं सुतान्॥
चैत्रे चापि तृतीयायां स्नात्वा शीतेन वारिणा॥ ३४.८७ ॥

अर्चयिष्यंति मां याश्च पुष्पैर्धूपैर्विलेपनैः॥
दास्यामि चाष्टसौभाग्यं या नारी भक्तितत्परा॥ ३४.८८ ॥

पितरौ श्वशुरौ पुत्रान्पतिं सौभाग्यसंपदः॥
कुंकुमं पुष्पश्रीखंडं तांबूलांजनमिक्षवः॥ ३४.८९ ॥

सप्तमं लवणं प्रोक्तमष्टमं च सुजीरकम्॥
तोलयेत्तुलया वापि सांघ्रिश्च तुलिता भवेत्॥ ३४.९० ॥

सुवर्मेनाथ सौगन्ध्यद्रव्यैः शुभफलैरपि॥
भुंक्ते वा लवणं पश्चान्नासौ वै विधवा भवेत्॥ ३४.९१ ॥

माघे वा कार्तिके वापि चैत्रे स्नात्वार्चयेत् माम्॥
दौर्भाग्यदुःखदारिद्र्यैर्न सा संयोगमाप्नुयात्॥ ३४.९२ ॥

श्रुत्वेति गिरिजावाचं सानंदः पार्वतीसुतः॥
स्थापयित्वा गिरिसुतां कपर्दिनमथाब्रवीत्॥ ३४.९३ ॥

पुष्पैर्धूपैर्मोदकैश्च पूर्वमभ्यर्च्य त्वां प्रभो॥
पुजयंति कुमारेशं तेषां विघ्नहरो भव॥ ३४.९४ ॥

॥कपर्द्युवाच॥
भ्रातस्त्वया स्थापितेऽस्मिँल्लिंगे भक्ताश्च ये नराः॥
न तेषां मम विघ्नानि मम वागनुगामिनी॥ ३४.९५ ॥

एवमुक्ते विघ्नराज्ञा प्रतीतेऽस्थापयच्च तम्॥
तस्मादसौ सदाभ्यर्च्यश्चतुर्थ्यां च विशेषतः॥ ३४.९६ ॥

एवं स्थाप्य कुमारेशं लब्ध्वा चैतान्वराञ्छिवात्॥
मनसा कृतकृत्यं चात्मानं मेने षडाननः॥ ३४.९७ ॥

तस्थावंशेन तत्रैव कुमारेश्वरसंनिधौ॥
अत्र स्थितं कुमारं ये पश्यन्ति स्वामियात्रिमः॥ ३४.९८ ॥

सफला स्वामियात्रा च तेषां भवति भारत॥
कार्तिक्यां च विशेषेण कार्तिकेयं समर्चयेत्॥ ३४.९९ ॥

यत्फलं स्वामियात्रायां तत्फलं समावाप्नुयात्॥
एवंविधमिदं पार्थ महीसागरसंगमम्॥ ३४.१०० ॥

निमित्तीकृत्य चात्मानं साध्वर्थे लिंगमर्चितम्॥
रोगाभिभूतो रोगैर्वा नाम्नामष्टोत्तरं शतम्॥ ३४.१०१ ॥

जप्त्वा शुचिर्ब्रह्मचारी मासं मुच्येत पातकात्॥
एतदाराध्य संजाता रजिरामादयः पुरा॥ ३४.१०२ ॥

शतसंख्याबलं राज्यं रुद्रलोक च भेजिरे॥
जामदग्न्यस्त्विदं लिंगमाराध्य च समायुतम्॥ ३४.१०३ ॥

लेभे कुठारमुज्जह्ने येनार्जुनभुजान्युधि॥
अग्रतो देवदेवस्य ज्ञात्वा तीर्थे महागुणान्॥ ३४.१०४ ॥

रामेश्वरमिति ख्यातं स्थापितं लिंगमुत्तमम्॥
तच्च योऽभ्यर्चयेद्भक्त्या रुद्रलोकं स गच्छति॥ ३४.१०५ ॥

प्रीतः स्यात्तस्य रामश्च कुमारेशश्च फाल्गुन॥
इति संक्षेपतः प्रोक्तं कुमारेशस्य वर्णनम्॥ ३४.१०६ ॥

कुमारेशस्य माहात्म्यं कीर्तयेद्यस्तदग्रतः॥
ये च श्रृण्वंत्यनुदिनं रुद्रलोके वसंति ते॥ ३४.१०७ ॥

अस्य लिंगस्य माहात्म्यं श्राद्धकाले तु यः पठेत्॥
पितॄणामक्षयं जायते नात्र संशयः॥ ३४.१०८ ॥

अस्य लिंगस्य माहात्म्यं गुर्विणीं श्रावयेद्यदि॥
गुणवाञ्जायते पुत्रः कन्या चापि पतिव्रता॥ ३४.१०९ ॥

एतत्पुण्यं पापहरं धर्म्यं चाह्लादकारकम्॥
पठतां चापि सर्वाभीष्टफल प्रदम्॥ ३४.११० ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेशस्थापनपूर्वकमाहात्म्यवर्णनं नाम चतुस्त्रिंशोऽध्यायः॥ ३४ ॥ छ ॥