स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ३२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३१ स्कन्दपुराणम्
अध्यायः ३२
वेदव्यासः
अध्यायः ३३ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६

॥नारद उवाच॥
श्रुत्वैतं संस्तवं दैत्यः संघुष्टं देवबंदिभिः॥
सस्मार ब्रह्मणो वाक्यं वधं बालादुपस्थितम्॥ ३२.१ ॥

श्रुत्वा स क्लिन्नसर्वांगो द्वाःस्थं राजा वचोऽब्रवीत्॥
अमात्यान्द्रष्टुमिच्छामि शीघ्रमानय मा चिरम्॥ ३२.२ ॥

ततस्ते राजवचनात्कालनेमि मुखागताः॥
प्राह तांस्तारको दैत्यः किमिदं वो विचेष्टितम्॥ ३२.३ ॥

यैः शत्रुसंभवा वार्ता कापि न श्रीवितस्त्वहम्॥
मदिराकाममत्तानां मंत्रित्वं वो न युज्यते॥
हितं मन्त्रयते राज्ञस्तेन मंत्री निगद्यते॥ ३२.४ ॥

॥अमात्या ऊचुः॥
को जानाति सुरान्दीनान्दैत्यानामिति नो मतिः॥ ३२.५ ॥

मा विषीद महाराज वयं जेष्यामहे सुरान्॥
बालादपि भयं किं वा लज्जायै चिंतितं त्विदम्॥ ३२.६ ॥

सर्वमेतत्सुसाध्यं च भेरी संताड्यतां दृढम्॥
ततो दैत्येन्द्रवचनात्संनाहजननी तदा॥ ३२.७ ॥

भृशं संताडिता भेरी कंपयामास सा जगत्॥
स्मरणाद्दैत्यराजस्य पर्वतेभ्यो महासुराः॥ ३२.८ ॥

निम्नगाभ्यः समुद्रेभ्यः पातालेभ्योंऽबरादपि॥
सहसा समनुप्राप्ता युगांतानलसप्रभाः॥ ३२.९ ॥

कोटिकोटिसहस्रैस्तु परार्धैर्दशभिः शतैः॥
सेनापतिः कालनेमिः शीघ्रं देवानुपाययौ॥ ३२.१० ॥

चतुर्योजनविस्तीर्णे नानाश्चर्यसमन्विते॥
रथे स्थितो मनाग्दीनस्तारकः समदृश्यत॥ ३२.११ ॥

एतस्मिन्नंतरे पार्थ क्रुद्धैः स्कन्दस्य पार्षदैः॥
प्राकारः पातितः सर्वो भग्नान्युपवनानि च॥ ३२.१२ ॥

ततश्चचाल वसुधा देवी सवनकानना॥
जज्वाल खं सनक्षत्रं प्रमूढं भुवनं भृशम्॥ ३२.१३ ॥

तमोभूतं जगच्चसीद्गृध्रैर्व्याप्तं नभोऽभवत्॥
ततो नानाप्रहरणं प्रलयांबुदसन्निभम्॥ ३२.१४ ॥

कालनेमिमुखं पार्थ अदृश्यत महद्बलम्॥
तद्धि घोरमसंख्येयं जगर्ज विविधा गिरः॥ ३२.१५ ॥

अभ्यद्रवद्रणे देवान्भगवंतं च शंकरम्॥
विनदद्भिस्ततो दैत्यैन्देवानीकं महायुधैः॥ ३२.१६ ॥

पर्वतैश्च शतघ्नीभिरायसैः परिधैरपि॥
क्षणेन द्रावितं सर्वं विमुखं चाप्यदृश्यत॥ ३२.१७ ॥

असुरैर्वध्यमाने तु पावकैरिव काननम्॥
अपतद्दावभूमिष्ठ महाद्रुमवनं यथा॥ ३२.१८ ॥

ते भिन्नास्थिशि रोदेहाः प्राद्रवंत दिवौकसः॥
न नाथमध्यगच्छंत वध्यमाना महासुरैः॥ ३२.१९ ॥

अथ तद्विद्रुतं सैन्यं दृष्ट्वाः पुरंदरः॥
आश्वासयन्नुवाचेदं बलवद्दानवार्दितम्॥ ३२.२० ॥

भयं त्यजत भद्रं वः शुराः शस्त्राणि गृह्णत॥
कुरुध्वं विक्रमे बुद्धि मा च काचिद्व्यथास्तु वः॥ ३२.३१ ॥

एष कालानलप्रख्यो मयूरं समुपस्थितः॥
रक्षिता वो महासेनः कथं भीतिस्तथापि वः॥ ३२.२२ ॥

शक्रस्य वचनं श्रुत्वा समाश्वस्ता दिवोकसः॥
दानवान्प्रत्ययुध्यंत शक्रं कृत्वा व्यपाश्रयम्॥ ३२.२३ ॥

कालनेमिर्महेन्द्रेण संयुगे समयुज्यत॥
सहस्राक्षौहिणीयुक्तो जंभकः शंकरेण च॥ ३२.२४ ॥

कुजंभो विष्णुना चैव तावत्य क्षौहिणीवृतः॥
अन्ये च त्रिदशाः सव मरुतश्च महाबलाः॥ ३२.२५ ॥

प्रत्ययुध्यंतं दैत्येंद्रेः साध्याश्च वसुभिः सह॥
ततो बहुविधं युद्धं कालनेमिर्विधायच॥ ३२.२६ ॥

उत्सृज्य सहसा पार्थ ऐरावणशिरःस्थितः॥
स तु पादप्रहारेण मुष्टिना चैव तं गजम्॥ ३२.२७ ॥

शक्रं च चघ्ने विनदन्पेततुस्तावुभौ भुवि॥
ततः शक्रं समादाय कालनेमिर्विचेतसम्॥ ३२.२८ ॥

रथमाश्रित्य भूयोपि तारकाभिमुखो ययौ॥
अथ क्रुद्धं तदा देवैः सहसा चांतकादिभिः॥ ३२.२९ ॥

ह्रियते ह्रियते राजा त्राता कोऽपि न विद्यते॥
एतस्मिन्नंतरे शर्वं पिनाकधनुषश्च्युतैः॥ ३२.३० ॥

बाणैः ससैन्यं कृत्वा च जंभकं गृध्रमोदनम्॥
कालनेमिं समागम्य रथस्थो वाक्यमब्रवीत्॥ ३२.३१ ॥

किमेतेन महेन्द्रेण मया युध्यस्व दानव॥
वीरंमन्य सुदुर्बुद्धे ततो ज्ञास्यसि वीरताम्॥ ३२.३२ ॥

॥कानेमिरुवाच॥
नग्नेन सह को युध्येद्धतेनापि च येन वा॥
शंसत्सु दैत्यवीराणामुपहासः प्रजायते॥ ३२.३३ ॥

आत्मनस्तु समं किंचिद्विलोक्य सुदुर्मते॥
तदाकर्ण्य च सावज्ञं वचः शर्वो विसिष्मिये॥ ३२.३४ ॥

ततः कुमारः सहसा मयूरस्थोऽभ्यधावत॥
कुजंभं सानुगं हत्वा वासुदेवोप्यधावत॥ ३२.३५ ॥

ततो हरिः स्कंदमाह किमेतेन तव प्रभो॥
दैत्याधमेन पापेन मुहूर्तं पश्य मे बलम्॥ ३२.३६ ॥

एवमुक्त्वा निवार्यैनं केशवो गरुडस्थितः॥
शार्ङ्गकोदंडनिर्मुक्तैर्बाणैर्दैत्यमवाकिरत्॥ ३२.३७ ॥

स तैर्बाणैस्ताड्यमानो वज्रैरिव महासुरः॥
विमुच्य वासवं क्रुद्धो बाणांस्तान्व्यधमच्छरैः॥ ३२.३८ ॥

यान्यान्बाणान्हरिर्दिव्यानस्त्राणि च मुमोच ह॥
निवारयति दैत्यस्तान्प्रहसँल्लीलयैव च॥ ३२.३९ ॥

ततः कौमोदकीं गृह्य क्षिप्रकारी जनार्दनः॥
मुमोच सैन्यनाथाय सारथिं च व्यचूर्णयत्॥ ३२.४० ॥

ततो रथादवप्लुत्य विवृत्य वदनं महत्॥
गरुडं चंचुनादाय स विष्णुं क्षिप्तवान्मुखे॥ ३२.४१ ॥

ततोऽभूत्सर्वदेवानां विमोहो जगतामपि॥
चचाल वसुधा चेलुः पर्वताः सप्त चार्णवाः॥ ३२.४२ ॥

कालनेमिर्नश्चैव प्रानृत्यत महारणे॥
असंमूढस्ततो विष्णुस्त्वराकाल उपस्थिते॥ ३२.४३ ॥

कुक्षिं विदार्य चक्रेण भास्करोऽभादिवोदितः॥
बहिर्भूतो हरिश्चैनं महोयित्वा स्वनिन्दया॥ ३२.४४ ॥

पातालस्य तलं निन्ये तत्र शिश्ये स काष्ठवत्॥
ततश्चक्रेण दैत्यानां निहता दशकोट्यः॥ ३२.४५ ॥

प्रमोदितास्तथा देवा विमोहास्तत्क्षणाद्बभुः॥
ततःशर्वस्तमालिंग्य साधुसाधु जनार्दन॥ ३२.४६ ॥

त्वया यद्विहितं कर्म तत्कर्तान्यो न विद्यते॥
महिषाद्याः सुदुर्जेया देव्या ये विनिपतिताः॥ ३२.४७ ॥

तेषामतिबलो ह्येष त्वया विष्णो विनिर्जितः॥
तारकामयसंग्रामे वध्यस्तेसौ जनार्दन॥ ३२.४८ ॥

कंसरूपः पुनस्तेऽयं हंतव्योऽष्टमजन्मनि॥
एवं प्रशंसमानास्ते वासुदेवं जगद्गुरुम्॥ ३२.४९ ॥

शस्त्रजालैर्लब्धसंज्ञान्दैत्यसैन्याननाशयत्॥
तानि दैत्यशरीराणि जर्जराणि महायुधैः॥ ३२.५० ॥

अपतन्भूतले पार्थ च्छिन्नाभ्राणीव सर्वशः॥
ततस्तद्दानवं सैन्यं हतनाथमभूत्तदा॥ ३२.५१ ॥

देवैः स्कंदानुगैश्चैव कृतं शस्त्रैः पराङ्मुखम्॥
अथो क्रुष्टं तदा हृष्टैः सर्वैर्देवैर्मुदायुतैः॥ ३२.५२ ॥

संहतानि च सर्वाणि तदा तूर्याण्यवादयन्॥
अथ भग्नं बलं प्रेक्ष्य हतवीरं महारणे॥ ३२.५३ ॥

देवानां च महामोदं तारकः प्राह सारथिम्॥
सारथे पश्य सैन्यानि द्राव्यमाणानि मे सुरैः॥ ३२.५४ ॥

येस्माभिस्तृणवद्दृष्टाः पश्य कालस्य चित्रताम्॥
तन्मे वाहय शीघ्रं त्वं रथमेनं सुरान्प्रति॥ ३२.५५ ॥

पश्यंतु मे बलं बाह्वोर्द्रवंतु च सुराधमाः॥
ब्रुवन्नेवं सारथिं स विधुन्वन्सुमहद्धनुः॥ ३२.५६ ॥

क्रोध रक्तेक्षणो राजा देवसैन्यं समाविशत्॥
आगच्छमानं तं दृष्ट्वा हरिः स्कंदमथाब्रवीत्॥ ३२.५७ ॥

कुमार पश्य दैत्येंद्रं कालं यद्वद्युगात्यये॥
अयं स येन तपसा घोरेणाराधितः शिवः॥ ३२.५८ ॥

अयं स येन शक्राद्याः कृता मर्काः समार्बुदम्॥
अयं स सर्वशस्त्रैगैर्योऽस्माभिर्न जितो रणे॥ ३२.५९ ॥

नावज्ञया प्रद्रष्टव्यस्तारकोऽयं महासुरः॥
सप्तमं हि दिनं तेऽद्य मध्याह्नोऽयं च वर्तते॥ ३२.६० ॥

अर्वागस्तमनादेनं जहि वध्योऽन्यथा नहि॥
एवमुक्त्वा स शक्रादींस्त्वरितः केशवोऽब्रवीत्॥ ३२.६१ ॥

आयासयत दैत्येंद्रं सुखवध्यो यथा भवेत्॥
ततस्ते विष्णुवचनाद्विनदन्तो दिवौकसः॥ ३२.६२ ॥

तमासाद्य शरव्रातैर्मुदिताः समवाकिरन्॥
प्रहसन्निव देवांस्तान्द्रावयामास तारकः॥ ३२.६३ ॥

यथा नास्तिकदुर्वृत्तो नानाशास्त्रोपदेशकान्॥
सोढुं शक्ता न ते वीरं महति स्यंदने स्थितम्॥ ३२.६४ ॥

महापस्मारसंक्रांतं यथैवाप्रियवादिनम्॥
विधूय सकलान्देवान्क्षणमात्रेण तारकः॥ ३२.६५ ॥

आजगाम कुमाराय विधुवन्स महाधनुः॥
आगच्छमानं तं दृष्ट्वा स्कंदः प्रत्युद्ययौ ततः॥ ३२.६६ ॥

तस्यारक्षद्भवः पार्श्वं दक्षिणं चैव तं हरिः॥
पृष्ठे च पार्षदास्तस्य कोटिशोऽर्बदशस्तथा॥ ३२.६७ ॥

ततस्तौ सुमहायुद्धे संसक्तौ देवदैत्ययौः॥
धर्माधर्माविवोदग्रौ जगदाश्चर्यकारकौ॥ ३२.६८ ॥

ततः कुमारमासाद्य लीलया तारकोऽब्रवीत्॥
अहो बालातिबालस्त्वं यत्त्वं गीर्वाणवाक्यतः॥ ३२.६९ ॥

आसादयसि मां युद्धे पतंग इव पावकम्॥
वधेन तव को लाभो मम मुक्तोऽसि बालक॥ ३२.७० ॥

पिष क्षीरं गृहाणेमं कंदुकं क्रीड लीलया॥
एवमुक्तः प्रहस्याह तारकं योगिनां गुरुः॥ ३२.७१ ॥

शिशुत्वं मावमंस्था मे शिशुः कष्टो भुजंगमः॥
दुष्प्रेक्ष्यो भास्करो बालो दुःस्पर्शोऽल्पोऽपि पावकः॥ ३२.७२ ॥

अल्पाक्षरो न मंत्रः किं सस्फुरो दैत्य दृश्यते॥
एवमुक्त्वा दैत्यमुक्तं गृहीत्वा कंदुकं च तम्॥ ३२.७३ ॥

तस्मिञ्छक्त्यस्त्रमादाय दैत्याय प्रमुमोच ह॥
तस्य तेन प्रहारेम रथश्चूर्णिकृतोऽभवत्॥ ३२.७४ ॥

चतुर्योजनमात्रो यो नानाश्चर्यसमन्वितः॥
गरुडस्य सुता ये च शीर्यमाणे रथोत्तमे॥ ३२.७५ ॥

मुक्ताः कथंचिदुत्पत्य सागरांतरमाविशन्॥
ततः क्रुद्धस्तारकश्च मुद्गरं क्षिप्तवान्गुहे॥ ३२.७६ ॥

विंध्याद्रिमिव तं स्कंदो गृहीत्वा तं व्यताडयत्॥
स्थिरे तस्योरसि व्यूढे मुद्गरः शतधाऽगमत्॥ ३२.७७ ॥

मेने च दुर्जयं दैत्यस्तदा षड्वदनं रणे॥
चिंतयामास बुद्ध्या च प्राप्तं तद्ब्रह्मणो वचः॥ ३२.७८ ॥

तं भीतमिव चालक्ष्य दैत्यवीराश्च कोटिशः॥
नदंतोऽतिमहासेनं नानाशस्त्रैरवाकिरन्॥ ३२.७९ ॥

क्रुद्धस्तेषु ततः स्कंदः शक्तिं घोरामथाददे॥
अभ्यस्यमाने शक्त्यस्त्रे स्कंदनामिततेजसा॥ ३२.८० ॥

उल्काजालं महाघोरं पपात वसुधातले॥
चाल्यमाना तथा शक्तिः सुघोरा भवसूनुना॥ ३२.८१ ॥

ततः कोट्यो विनिष्पेतुः शक्तीनां भर्तर्षभ॥
स शक्त्यस्त्रेण बलवान्करस्थेनाहनत्प्रभुः॥ ३२.८२ ॥

अष्टौ पद्मानि दैत्वानां दशकोटिशतानि च॥
तथा नियुतसाहस्रं वाहनं कोटिरेव च॥ ३२.८३ ॥

ह्रंदोदरं च दैत्येंद्रं निखर्वैर्दशभिर्वृतम्॥
तत्राकुर्वन्सुतुमुलं नादं वध्येषु शत्रुषु॥ ३२.८४ ॥

कुमारानुचराः पार्थ पूरयंतो दिशो दश॥
शक्त्यस्त्रस्यार्चिः संभूतशक्तिभिः केऽपि सूदिताः॥ ३२.८५ ॥

पताकयावधूताश्च हताः केचित्सहस्रशः॥
केचिद्धंटारवत्रस्ताश्छिन्नभिन्नहृदोऽपतन्॥ ३२.८६ ॥

केचिन्मयूरपक्षाभ्यां चरणाभ्यां च सूदिताः॥
कोटिशस्ताम्रचूडेन विदार्यैव च भक्षिताः॥ ३२.८७ ॥

पार्षदैर्मातृभिः सार्धं पद्मशो निहताः परे॥
एवं निहन्यमानेषु दानवेषु गुहादिभिः॥ ३२.८८ ॥

अभाग्यैरिव लोकेषु तारकः स्कंदमाययौ॥
जग्राह च गदां दिव्यां लक्षघंटादुरासदाम्॥ ३२.८९ ॥

तया मयूरमाजघ्ने मयूरो विमुखोऽभवत्॥
दृष्ट्वा पराङ्मुखं लोकेषु वासुदेवोऽब्रवीत्त्वरन्॥ ३२.९० ॥

देवसेनापते शीघ्रं शक्तिं मुंच महासुरे॥
प्रतिज्ञामात्मनः पाहि लंबते रविमंडलम्॥ ३२.९१ ॥

॥स्कंद उवाच॥
त्वयैव रुद्रभक्तोऽयं जनार्दन ममेरितम्॥
वधार्थं रुद्रभक्तस्य बाहुः शक्तिं मुंचति॥ ३२.९२ ॥

नारुद्रः पूजयेद्रुद्रं भक्तरूपस्य यो हरः॥
रुद्ररूपममुं हत्वा कीदृशं जन्मनो भवेत्॥ ३२.९३ ॥

तिरस्कृता विप्रलब्धाः शप्ताः क्षिप्ताः प्रपीडिताः॥
रुद्रभक्ताः कुलं सर्वं निर्दहंति हताः किमु॥ ३२.९४ ॥

एष चेद्धंति तद्भद्रं हन्यतामेष मां रणे॥
रुद्रभक्ते पुनर्विष्णो नाहं शस्त्रमुपाददे॥ ३२.९५ ॥

॥श्रीभगवानुवाच॥
नैतत्तवोचितं स्कंद रुद्रभक्तो यथा श्रृणु॥
द्वे तनू गिरिजाभर्तुर्वेदज्ञा मुनयो विदुः॥ ३२.९६ ॥

एका जीवात्मिका तत्र प्रत्यक्षा च तथापरा॥
द्रोग्धा भूतेषु भक्तश्च रुद्रभक्तो न स स्मृतः॥ ३२.९७ ॥

भक्तो रुद्रो कृपावांश्च जंतुष्वेव हरव्रतः॥
तदेनं भूतमर्त्येषु द्रोग्धारं त्वं पिनाकिनः॥ ३२.९८ ॥

जहि नैवात्र पश्यामि दोषं कंचन ते प्रभो॥
श्रुत्वेति वाचं गोविंदात्सत्यार्थामपि भारत॥ ३२.९९ ॥

हंतुं न कुरुते बुद्धिं रुद्रभक्त इति स्मरन्॥
तारकस्तु ततः क्रुद्धो ययौ वेगेन केशवम्॥ ३२.१०० ॥

प्राह चैवं सुदुर्बुद्धे हन्मि त्वां पश्य मे बलम्॥
देवानां चापि धर्माणां मूलं मतिमतां तथा॥
हत्वा त्वामद्य सर्वांस्तांश्छेत्स्ये पश्याद्य मे बलम्॥ ३२.१०१ ॥

॥विष्णुरुवाच॥
दैत्येंद्र तव चास्माभिः किमहो श्रृणु सत्यताम्॥ ३२.१०२ ॥

रथे य एष शर्वोऽयं हतेऽस्मिन्सकलं हतम्॥
श्रुत्वेति तारकः क्रुद्धस्तूर्णं रुद्ररथं ययौ॥ ३२.१०३ ॥

अभिसृत्य स जग्राह रुद्रस्य रथकूबरम्॥
यदा स कूबरं क्रुद्धस्तारकः सहसाऽग्रहीत्॥ ३२.१०४ ॥

रेसतू रोदसी तूर्णं मुमुहुश्च महर्षयः॥
व्यनदंश्च महाकाया दैत्या जलधरोपमाः॥ ३२.१०५ ॥

आसीच्च निश्चितं तेषां जितमस्माभिरित्युत॥
तार कस्याप्यभिप्रायं भगवान्वीक्ष्य शंकरः॥ ३२.१०६ ॥

उमया सह संत्यक्त्वा रथं वृषभमावहत्॥
ओमित्यथ जपन्ब्रह्मा आकाशं सहसाश्रितः॥ ३२.१०७ ॥

ततस्तं शतसिंहं च रथं रुद्रेण निर्मितम्॥
उत्क्षिप्य पृथ्व्यामास्फोट्य चूर्णयामास तारकः॥ ३२.१०८ ॥

शूलपाशुपतादीनि सहसोपस्थितानि च॥
वारयामास गिरिशो भवः साध्य इति ब्रुवन्॥ ३२.१०९ ॥

ततः स्ववंचितं ज्ञात्वा रुद्रेणात्मानमीर्ष्यया॥
विनदन्सहसाऽधावद्वृषभस्थं महेश्वरम्॥ ३२.११० ॥

ततो जनार्दनोऽधावच्चक्रमुद्यम्य वेगतः॥
वज्रमिंद्रस्तथोद्यम्य दंडं चापि यमो नदन्॥ ३२.१११ ॥

गदां धनेश्वरः क्रुद्धः पाशं च वरुणो नदन्
वायुर्महांकुशं घोरं शक्तिं वह्निर्महाप्रभाम्॥ ३२.११२ ॥

निर्ऋतिर्निशितं खड्गं रुद्राः शूलानि कोपिताः॥
धनूंषि साध्या देवाश्च परिघान्वसवस्तथा॥ ३२.११३ ॥

विश्वेदेवाश्च मुसलं चंद्रार्कौ स्वप्रभामपि॥
ओषधीश्चाश्विनौ देवौ नागाश्च ज्वलितं विषम्॥ ३२.११४ ॥

हिमाद्रि प्रमुखाश्चापि समुद्यम्य महीधरान्॥
भृशमुन्नदतो देवान्धावतो वीक्ष्य तारकः॥ ३२.११५ ॥

निवृत्तः सहसा पार्थ महागज इवोन्नदन्॥
स वज्रमुष्टि नाहत्य भुजे शक्रमपातयत्॥ ३२.११६ ॥

दंडं यमादुपादाय मूर्ध्न्याहत्य न्यपातयत्॥
उरसाहत्य सगदं धनदं भुव्यपातयत्॥ ३२.११७ ॥

वरुणात्पाशमादाय तेन बद्धा न्यपातयत्॥
महांकुशेन वायुं च चिरं मूर्ध्नि जघान सः॥ ३२.११८ ॥

फूल्कारैरुद्धतं वह्निं शमयामास तारकः॥
निर्ऋतिंखड्गमादाय हत्वा तेन न्यपातयत्॥ ३२.११९ ॥

शूलैरेव तथा रुद्राः साध्याश्च धनुषार्दिताः॥
परिघैरेव वसवो मुशलैरेव विश्वकाः॥ ३२.१२० ॥

रेणुनाच्छाद्य चंद्रार्कौ वल्मीकस्थाविवेक्षितौ॥
महोग्राश्चौषधीस्तालैरश्विभ्यां सोऽभ्यवर्तयत्॥ ३२.१२१ ॥

सविषाश्च कृता नागा निर्विषाः पादकुट्टनैः॥
पर्वताः पर्वतैरेव निरुच्छ्वासा भृशं कृताः॥ ३२.१२२ ॥

एवं तद्देवसैन्यं च हाहाभूतमचेतनम्॥
कृत्वा मुहूर्तादाधावच्चक्रपाणिं तमुन्नदन्॥ ३२.१२३ ॥

ततश्चांतर्दधे सद्यः प्रहसन्निव केशवः॥
कुयोगिन इव स्वामी सदा बुद्धिमतां वरः॥ ३२.१२४ ॥

अपश्यंस्तारको विष्णुं पुनर्वृषभवा हनम्॥
आधावत्कुपितो दैत्यो मुष्टिमुद्यम्य वेगतः॥ ३२.१२५ ॥

अचिरांशुरिवालक्ष्यो लक्ष्योथ भगवान्हरिः॥
आबभाषे ततो देवान्बाहुमुद्यम्यचोच्चकैः॥ ३२.१२६ ॥

पलायध्वमहो देवाः शक्तिश्चेद्वः पलायितुम्॥
विमूढा हि वयं सर्वे ये बालवचसागताः॥ ३२.१२७ ॥

किं न श्रुतः पुरा गीतः श्लोकः स्वायंभुवेन यः॥
यथा बालेषु निक्षिप्ताः स्त्रीषु षंडितकेषु च॥
अपस्मारीषु चैवापि सर्वे ते संशयं गताः॥ ३२.१२८ ॥

प्रत्यक्षं तदिदं सर्वमाधुना चात्र दृस्यते॥ ३२.१२९ ॥

अज्ञासिष्म पुरैवैतद्रुद्रभक्तं न हंत्यसौ॥
यत्प्रतिज्ञां नाकरिष्यन्न स्यान्नः कदनं महत्॥ ३२.१३० ॥

अथैष यदि दैत्येंद्रं न निहंति कुबुद्धिमान्॥
मा भयं वो महाभागा निहनिष्यामि वो रिपून्॥ ३२.१३१ ॥

अद्य मे विपुलं बाह्वोर्बलं पश्यत दैत्याधमं नाशयामि मुष्टिनैकेन पश्यत ३२.१३२ ॥

मया हि दक्षिणो बाहुर्दत्तश्च भवतां सदा॥
रिपून्वा निहनिष्यामि सत्यं तत्परिपालये॥ ३२.१३३ ॥

येंऽबरे ये च पाताले भुवि ये च महासुराः॥
क्षणात्तान्नासयिष्यामि महावातो घनानिव॥ ३२.१३४ ॥

एवमुक्ता जगन्नाथो मुष्टिमुद्यम्य दक्षिणम्॥
निरायुधस्तार्क्ष्यपृष्ठादवप्लुत्याभ्यधावत॥ ३२.१३५ ॥

तस्मिन्धावति गोविंदे चचाल भुवनत्रयम्॥
विमूर्छितमभूद्विश्वं देवा भीतिं परां ययुः॥ ३२.१३६ ॥

धावतश्चापि कल्पांतं रुद्रकल्पस्य तस्य याः॥
मुखात्समुद्यजुर्ज्वालास्ताबिः खर्वशतं हतम्॥ ३२.१३७ ॥

ततोंऽतरिक्षे वाचश्च प्रोचुः सिद्धाः स्वयं तदा॥
जहि कोपं वासुदेव त्वयि क्रुद्धे क्व वै जगत्॥ ३२.१३८ ॥

अनादृत्येव तद्वाक्यं ब्रुवन्नान्यत्करोम्यहम्॥
आह्वयंश्च महादैत्यं क्रुद्धो हरिरधावत॥ ३२.१३९ ॥

उवाच वाचं साधूंश्च यत्नात्पालयतां फलम्॥
दुष्टान्विनिघ्नतां चैव तत्फलं मम जायताम्॥ ३२.१४० ॥

अथापश्यन्महासेनो रुद्रं यांतं च तारकम्॥
तारकं चान्वधावन्तं पुरामपुरुषं हरिम्॥ ३२.१४१ ॥

जगच्च क्षुब्धमत्यर्थं स्वां प्रतिज्ञां पुरा कृताम्॥
पश्चिमां प्रतिलंबंतं भास्करं चापि लोहितम्॥ ३२.१४२ ॥

आकाशवाणीं श्रृण्वंश्च किं स्कन्द त्वं विषीदसी॥
पश्चात्तापो यदि भवेत्कृत्वा ब्रह्मवधं त्वयि॥ ३२.१४३ ॥

स्थापयेर्लिगमीशस्य मोक्षो हत्याशतैरपि॥
आविवेश महाक्रोधं दिधक्षुरिव मेदिनीम्॥ ३२.१४४ ॥

अथोत्प्लुत्य मयूरात्स प्रहसन्निव केशवम्॥
बाहुभ्यामप्युपादाय प्रोवाच भवनंदनः॥ ३२.१४५ ॥

जानामि त्वामहं विष्णो महाबुद्धिपराक्रमम्॥
भूतभव्यविष्यांश्च दैत्यान्हंस्यपि हूंकृतैः॥ ३२.१४६ ॥

त्वमेव हंता दैत्यानां देवानां परिपालकः॥
धर्मसंस्थापकश्च त्वमेव ते रचितोंऽजलिः॥ ३२.१४७ ॥

क्षणार्धं पश्य मे वीर्यं भास्करो लोहितायते॥
एवं प्रणम्य स्कन्देन वासुदेवः प्रसादितः॥ ३२.१४८ ॥

विरोषोऽभूत्तमालिंग्य वचनं केशवोऽब्रवीत्॥
सनाथस्त्वद्य धर्मोऽयं सुराश्चैव त्वया गुह॥ ३२.१४९ ॥

स्मरात्मानं यदर्थं त्वमुत्पन्नोऽसि महेश्वरात्॥
साधूनां पालनार्थाय दुष्टसंहरणाय च॥
सुरविप्रकृते जन्म जीवितं च महात्मनाम्॥ ३२.१५० ॥

रुद्रस्य देव्या गंगायाः कृत्तिकानां च तेजसा॥
स्वाहावह्नेश्च जातस्त्वं तत्तेजः सफलीकुरु॥
साधूनां च कृते यस्य धनं वीर्यं च संपदः॥ ३२.१५१ ॥

सफलं तस्य तत्सर्वं नान्यथा रुद्रनंदन॥ ३२.१५२ ॥

अद्य धर्मश्च देवाश्च गावः साध्याश्च ब्राह्मणाः॥
नंदंतु तव वीर्येण प्रदर्शय निजं बलम्॥ ३२.१५३ ॥

॥स्कन्द उवाच॥
या गतिः शिवत्यागेन त्वत्त्यागेन च केशव॥
तां गतिं प्राप्नुयां क्षिप्रं हन्मि चेन्न हि तारकम्॥ ३२.१५४ ॥

या गतिः श्रुतित्यागेन साध्वी भार्यातिपीडनात्॥
साधूनां च परित्यागाद्वृथा जीवितसाधनात्॥
निष्ठुरस्य गतिर्या च तां गतिं यामि केशव॥ ३२.१५५ ॥

इत्युक्ते सुमहान्नादः संप्रजज्ञे दिवौकसाम्॥
प्रशशंसुर्गुहं केचित्केचिन्नारायणं प्रभुम्॥ ३२.१५६ ॥

ततस्तार्क्षअयं समारुद्य हरिस्तस्मिन्महारणे॥
ताम्रचूडं महासेन स्तारकं चाप्यधावताम्॥ ३२.१५७ ॥

लोहितांबरसंवीतो लोहितस्रग्विभूषणः॥
लोहिताक्षो महाबाहुर्हिरण्यकवचः प्रभुः॥ ३२.१५८ ॥

भुजेन तोलयञ्छक्तिं सर्वभूतानि कम्पयन्॥
प्राप्य तं तारकं प्राह महासेनो हसन्निव॥ ३२.१५९ ॥

तिष्ठतिष्ठ सुदुर्बुद्धे जीवितं ते मयि स्थितम्॥
सुहृष्टः क्रियतां लोको दुर्लभः सर्वसिद्धिदः॥ ३२.१६० ॥

यत्ते सुनिष्ठुरत्वं च धर्मे देवेषु गोषु च॥
तस्य ते प्रहराम्यद्य स्मर शस्त्रं सुशिक्षितम्॥ ३२.१६१ ॥

एवमुक्ते गुहेनाथ निवृत्तस्यास्य भारत॥
तारकस्य शिरोदेशात्कापि नारी विनिर्ययौ॥ ३२.१६२ ॥

तेजसा भासयंती तमध ऊर्ध्वं दिशो दश॥
दृष्ट्वा नारीं गुहः प्राह कासि कस्माच्च निर्गता॥ ३२.१६३ ॥

॥नार्युवाच॥
अहं शक्तिर्गुहाख्याता भूतलेषु सदा स्थिता॥
अनेन दैत्यराजेन महता तपसार्ज्जिता॥ ३२.१६४ ॥

सुरेषु सर्वेषु वसामि चाहं विप्रेषु शास्त्रार्थरतेषु चाहम्॥
साध्वीषु नारीषु तथा वसामि विना गुणान्नास्मि वसामि कुत्रचित्॥ ३२.१६५ ॥

तदस्य पुण्यसंघस्य संप्राप्तोद्यावधिर्गुह॥
तदेनं त्यज्य यास्यामि जह्येनं विश्वहेतवे॥ ३२.१६६ ॥

तस्यां ततो निर्गतायां दैत्यशीर्षं व्यकम्पयत्॥
कंपितं चास्य तद्देहं गतवीर्योऽभवत्क्षणात्॥ ३२.१६७ ॥

एतस्मिन्नंतरे शक्तिं सोऽक्षिपद्गिरिजात्मजः॥
उल्काज्वाला विमुञ्चंतीमतिसूर्याग्निसप्रभाम्॥ ३२.१६८ ॥

कल्पांभोधिसमुन्नादां दिधक्षंतीं जगद्यथा॥
तारकस्यांतकालाय अभाग्यस्य दशामिव॥ ३२.१६९ ॥

दारणीं पर्वतानां च सर्वसत्त्वबलाधिकाम्॥
उत्क्षिप्य तां विनद्योच्चैरमुञ्चत्कुपितो गुहः॥ ३२.१७० ॥

धर्मश्चेद्बलवाँल्लोके धर्मो जयति चेत्सदा॥
तेन सत्येन दैत्योयं प्रलयं यात्वितीरयन्॥ ३२.१७१ ॥

सा कुमारभुजोत्सृष्टा दुर्निवार्या दुरासदा॥
विभेद हृदयं चास्य भित्त्वा च धरणिं गता॥ ३२.१७२ ॥

निःसृत्य जलकल्लोलपूर्विका स्कंदमाययौ॥
स च संताडितः शक्त्या विभिन्नहृदयोसुरः॥
नादयन्वसुधां सर्वां पपातायोमुखो मृतः॥ ३२.१७३ ॥

एवं प्रताप्य त्रैलोक्यं निर्जित्य बहुशः सुरान्॥
महारणे कुमारेण निहतः पार्थ तारकः॥ ३२.१७४ ॥

एतस्मिन्निहते दैत्ये प्रहर्षं विश्वमाययौ॥ ३२.१७५ ॥

ववुर्वातास्तथा पुण्याः सुप्रभोभूद्दिवाकरः॥
जज्वलुश्चाग्नयः शांताः शांता दिग्जनितस्वनाः॥ ३२.१७६ ॥

ततः पुनः स्कंदमाह प्रहृष्टः केशवोऽरिहा॥
स्कंदस्कंद महाबाहो बाणोनाम बलात्मजः॥ ३२.१७७ ॥

क्रौंचपर्वतमादाय देवसंघान्प्रबाधते॥
सोऽधुना ते भयाद्वीर पलायित्वा नगं गतः॥
जहि तं पापसंकल्पं क्रौंचस्थं शक्तिवेगतः॥ ३२.१७८ ॥

ततः क्रौंचं महातेजा नानाव्यालविनादितम्॥
शक्त्या बिभेद बहुभिर्वृक्षैर्जीवैश्च संकुलम्॥ ३२.१७९ ॥

तत्र व्यालसहस्राणि दैत्यकोट्ययुतं तथा॥
ददाह बाणां च गिरं भित्त्वा शक्तिर्महारवा॥ ३२.१८० ॥

अद्यापि छिद्रं तत्पार्थ क्रौंचस्य परिवर्तते॥ ३२.१८१ ॥

येन हंसाश्च क्रौंचाश्च मानसाय प्रयांति च॥
हत्वा बाणं महाशक्तिः पुनः स्कंदं समागता॥
प्रत्यायाति मनः साधोराहृतं प्रहितं तथा॥ ३२.१८२ ॥

ततो हरींद्रप्रमुखाः प्रतुष्टुवुर्ननृतुश्च रंभाप्रमुखा वरांगनाः॥
वाद्यानि सर्वाणि च वादयंतस्तं साधुसाध्वित्यमरा जगुर्भुशम्॥ ३२.१८३ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेस्वरखण्डे कौमारिकाखण्डे कुमारेश्वरमाहात्म्ये कुमारकृततारकवधवर्णनंनाम द्वात्रिंशोऽध्यायः॥ ३२ ॥ छ ॥