स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ०६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५ स्कन्दपुराणम्
अध्यायः ६
वेदव्यासः
अध्यायः ७ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६

॥श्रीनारद उवाच॥
इति श्रुत्वा फाल्गुनाहं रोमांचपुलकीकृतः॥
स्वरूपं प्रकटीकृत्य ब्राह्मणानिदमब्रवम्॥ ६.१ ॥

अहो धन्यः पितास्माकं यस्य सृष्टस्य पालकाः॥
युष्मद्विधा ब्राह्मणेंद्राः सत्यमाह पुरा हरिः॥ ६.२ ॥

मत्तोऽप्यनंतात्परतः परस्मात्समस्तभूताधिपतेर्न किंचित्॥
तेषां किमुस्यादितरेण येषां द्विजेश्वराणां मम मार्गवादिनाम्॥ ६.३ ॥

तत्सर्वथाद्या धन्योऽस्मि संप्राप्तं जन्मनः फलम्॥
यद्भवन्तो मया दृष्टाः पापोपद्रववर्जिताः॥ ६.४ ॥

ततस्ते सहसोत्थाय शातातपपुरोगमाः॥
अर्घ्यपाद्यादिसत्कारैः पूजयामासुर्मां द्विजाः॥ ६.५ ॥

प्रोक्तवन्तश्च मां पार्थ वचः साधुजनो चितम्॥
धन्या वयं हि देवर्षे त्वमस्मान्यदिहागतः॥ ६.६ ॥

कुतो वाऽऽगमनं तुभ्यं गन्तव्यं वा क्व सांप्रतम्॥
अत्राप्यागमने कार्यमुच्यतां मुनिसत्तम॥ ६.७ ॥

श्रुत्वा प्रीतिकरं वाक्यं द्विजानामिति पांडव॥
प्रत्यवोचं मुनीन्द्रांस्ताञ्छ्रूयतां द्विजसत्तमाः॥ ६.८ ॥

अहं हि ब्रह्मणो वाक्याद्विप्राणां स्थानकं शुभम्॥
दातुकामो महातीर्थे महीसागरसंगमे॥ ६.९ ॥

परीक्षन्ब्राह्मणानत्र प्राप्तो यूयं परीक्षिताः॥
अहं वः स्थायिष्यामि चानुजानीत तद्द्विजाः॥ ६.१० ॥

एवमुक्तो विलोक्यैव द्विजाञ्छातातपोऽब्रवीत्॥
देवानामपि दुष्प्राप्यं सत्यं नारद भारतम्॥ ६.११ ॥

किं पुनश्चापि तत्रैव मही सागरसंगमः॥
यत्र स्नातो महातीर्थफलं सर्वमुपाश्नुते॥ ६.१२ ॥

पुनरेको महान्दोषो बिभीमो नितरां यतः॥
तत्र चौराः सुबहवो निर्घृणाः प्रियसाहसाः॥ ६.१३ ॥

स्वर्शेषु षोडशं चैकविंशंगृह्णंति नो धनम्॥
धनेन तेन हीनानां कीदृशं जन्म नो भवेत्॥ ६.१४ ॥

वरं बुभुक्षया वासो मा चौरकरगा वयम्॥
॥अर्जुन उवाच॥
अद्भुतं वर्ण्यते विप्र के हि चौराः प्रकीर्तिताः॥ ६.१५ ॥

किं धनं च हरंत्येते येभ्यो बिभ्यति ब्राह्मणाः॥
॥नारद उवाच॥
कामक्रोधादयश्चौरास्तप एव धनं तथा॥ ६.१६ ॥

तस्यापहाभीतास्ते मामूचुरिति ब्राह्मणाः॥
तानहं प्राब्रवं पश्चाद्वि जानीत द्विजोत्तमाः॥ ६.१७ ॥

जाग्रतां तु मनुष्याणां चौराः कुर्वंति किं खलाः॥
भयभीतश्चालसश्च तथा चाशुचिरेव यः॥ ६.१८ ॥

तेन किं नाम संसाध्यं भूमिस्तं ग्रसते नरम्॥ ६.१९ ॥

॥शातातप उवाच॥
वयं चौरभयाद्भीतास्ते हरंति धनं महत्॥
कर्तुं तदा कथं शक्यमंगजागरणं तथा॥ ६.२० ॥

खलाश्चौरा गताः क्वापि ततो नत्वाऽऽगता वयम्॥
तस्मासर्वं संत्यजामो भयभीता वयं मुने॥ ६.२१ ॥

प्रतिग्रहश्च वै घोरः षष्ठांऽशफलदस्तथा॥
एवं ब्रुवति तस्मिंश्च हारीतोनाम चाब्रवीत्॥ ६.२२ ॥

मूढबुद्ध्या हि को नाम महीसागरसंगमम्॥
त्यजेच्च यत्र मोक्षश्च स्वर्गश्च करगोऽथ वा॥ ६.२३ ॥

कलापादिषु ग्रामेषु को वसेत विचक्षणः॥
यदि वासः स्तम्भतीर्थे क्षणार्धमपि लभ्यते॥ ६.२४ ॥

भयं च चौरजं सर्वं किं करिष्यति तत्र न॥
कुमारनाथं मनसि पालकं कुर्वतां दृढम्॥ ६.२५ ॥

साहसं च विना भूतिर्न कथंचन प्राप्यते॥
तस्मान्नारद तत्राहमा यास्ये तव वाक्यतः॥ ६.२६ ॥

षड्विंशतिसहस्राणि ब्राह्मणा मे परिग्रहे॥
षट्‌कर्मनिरताः शुद्धा लोभदम्भविवर्जिताः॥ ६.२७ ॥

तैः सार्धमागमिष्यामि ममेदं मतमुत्तमम्॥
इत्युक्ते वचने तांश्च कृत्वाहं दंडमूर्धनि॥ ६.२८ ॥

निवृत्तः सहसा पार्थ खेचरोऽतिमुदान्वितः॥
शतयोजनमात्रं तु हिममार्गमतीत्य च॥ ६.२९ ॥

केदारं समुपायातो युक्तस्तैर्द्विजसत्तमैः॥
आकाशेन सुशक्यश्च बिलेनाथ स देशकः॥ ६.३० ॥

अतिक्रांतुं नान्यथा च तथा स्कंदप्रसादतः॥ ६.३१ ॥

॥अर्जुन उवाच॥
क्व कलापं च द्ग्रामं कथं शक्यं बिलेन च॥
कथं स्कंदप्रसादः स्यादेतन्मे ब्रूहि नारद॥ ६.३२ ॥

॥नारद उवाच॥
केदाराद्धिमसंयुक्तं योजनानां शतं स्मृतम्॥
तदंते योजनशतं विस्तृतं तत्कलापकम्॥ ६.३३ ॥

तदंते योजनशतं वासुकार्णव मुच्यते॥
शतयोजनमात्रः स भूमिस्वर्गस्ततः स्मृतः॥ ६.३४ ॥

बिलेन च यथा शक्यं गंतुं तत्र श्रृणुष्व तत्॥
निरन्नं वै निरुदकं देवमाराधयेद्गुहम्॥ ६.३५ ॥

दक्षिणायां दिशि ततो निष्पापं मन्यते यदा॥
तदा गुहोऽस्य स्वप्ने गच्छेति भारत॥ ६.३६ ॥

ततो गुहात्पश्चिमतो बिलमस्ति बृहत्तरम्॥
तत्र प्रविश्य गंतव्यं क्रमाणां शतसप्तकम्॥ ६.३७ ॥

तत्र मारकतं लिंगमस्ति सूर्यसमप्रभम्॥
तदग्रे मृत्तिका चास्ति स्वर्णवर्णा सुनिर्मला॥ ६.३८ ॥

नमस्कृत्य च तल्लिंगं गृहीत्वा मृत्तिकां च ताम्॥
आगंतव्यं स्तंभतीर्थे समाराध्य कुमारकम्॥ ६.३९ ॥

कोलं वा कूपतो ग्राह्यं भूतायां निशि तज्जलम्॥
तेनोदकेन मृत्तिकया कृत्वा नेत्रद्वयाञ्जनम्॥ ६.४० ॥

उद्वर्तनं च देहस्य कदाचित्षष्टिमे पदे॥
नेत्रांजनप्रभावाच्च बिलं पश्यति शोभनम्॥ ६.४१ ॥

तन्मध्येन ततो याति गात्रोद्वर्त्तप्रभावतः॥
कारीषैर्नाम चात्युग्रैर्भक्ष्यते नैव कीटकैः॥ ६.४२ ॥

बिलमध्ये च संपश्यन्सिद्धान्भास्करसन्निभान्॥
यात्येवं यात्यसौ पार्थ कलापं ग्राममुत्तमम्॥ ६.४३ ॥

तत्र वर्षसहस्राणि चत्वार्यायुःप्रकीर्तितम्॥
फलानां भोजनं च स्यात्पुनः पुण्यं च नार्ज्जयेत्॥ ६.४४ ॥

इत्येतत्कथितं तुभ्यमतश्चाभूच्छृणुष्व तत्॥
तपः सामर्थ्यतः सूक्ष्मान्दण्डस्याग्रे निधाय तान्॥ ६.४५ ॥

द्विजानहं समायातो महीसागरसंगमम्॥ ६.४६ ॥

तदोत्तार्य मया मुक्तास्तीरे पुण्यजलाशये॥
ततो मया कृतं स्नानं सह तैर्द्विजसत्तमैः॥ ६.४७ ॥

निःशेषदोषदावाग्नौ महीसागरसंगमे॥
पितॄणां देवतानां च कृत्वा तर्पणसत्क्रियाः॥ ६.४८ ॥

जपमानाः परं जप्यं निविष्टाः संगमे वयम्॥
भास्करं समवेक्षंतश्चिंतयंतो हरिं हृदि।. ६.४९ ॥

तस्मिंश्चैवांतरे पार्थ देवाः शक्रपुरोगमाः॥
आदित्याद्या ग्रहाः सर्वे लोकपालाश्च संगताः॥ ६.५० ॥

देवानां योनयो ह्यष्टौ गंधर्वाप्सरसां गणाः॥
महोत्सवे ततस्तस्मिन्गीतवादित्र उत्तमे॥ ६.५१ ॥

पादप्रक्षालनं कर्तुं विप्राणामुद्यतस्त्वहम्॥
तस्मिन्काले चाश्रृणवमहमातिथ्यवाक्यताम्॥ ६.५२ ॥

सामध्वनिसमायुक्तां तृतीयस्वरनादिताम्॥
अतीव मनसो रम्यां शिव भक्तिमिवोत्तमाम्॥ ६.५३ ॥
विप्रैरुत्थाय संपृष्टः कस्त्वं विप्र क्व चागतः॥
किं वा प्रार्थयसे ब्रूहि यत्ते मनसि रोचते॥ ६.५४ ॥

॥विप्र उवाच॥
मुनिः कपिलनामाहं नारदाय निवेद्यताम्॥
आगतः प्रार्थनायैव तच्छ्रुत्वाहमथाब्रवम्॥ ६.५५ ॥

धन्योहं यदिहायातः कपिल त्वं महामुने॥
नास्त्यदेयं तवास्माभिः पात्रं नास्ति तवाधिकम्॥ ६.५६ ॥

॥कपिला उवाच॥
ब्रह्मपुत्र त्वया देयं यदि मे त्वं श्रृणुष्व तत्॥
अष्टौ विप्रसहस्रामि मम देहीति नारद॥ ६.५७ ॥

भूमिदानं करिष्यामि कलापग्रामवासिनाम्॥
ब्राह्मणानामहं चैषां तदिदं क्रियतां विभो॥ ६.५८ ॥

ततो मया प्रतिज्ञातमेव मस्तु महामुने॥
त्वयापि क्रियतां स्थानं कापिलं कपिलोत्तमम्॥ ६.५९ ॥

श्राद्धे वा प्राप्तकाले वा ह्यतिथिर्विमुखीभवेत्॥
यस्याश्रममुपायातस्यस्य सर्वं हि निष्फलम्॥ ६.६० ॥

स गच्छेद्रौरवाँल्लोकान्योऽतिथिं नाभिपूजयेत्॥
अतिथिः पूजितो येन स देवैरपि पूज्यते॥ ६.६१ ॥

दानैर्यज्ञैस्त तस्तस्मिन्भोजितः कपिलो मुनिः॥
ततो महामुनिः श्रीमान्हारीतो ह्वयितस्तदा॥ ६.६२ ॥

पादप्रक्षालनार्थाय सिद्धदेवसमागमे॥
हारीतश्च पुरस्कृत्य वामपादं तदा स्थितः॥ ६.६३ ॥

ततो हासो महाञ्जज्ञे सिद्धाप्सरः सुपर्वणाम्॥
विचिंत्य बहुधा पृथ्वीं साधु साधुकृता द्विजाः॥ ६.६४ ॥

ततो ममापि मनसि शोकवेगो महानभूत्॥
सत्यां चैव तथा मेने गाथां पूर्वबुधेरिताम्॥ ६.६५ ॥

सर्वेष्वपि च कार्येषु हेतिशब्दो विगर्हितः॥
कुर्वतामतिकार्याणि शिलापातो ध्रुवं भवेत्॥ ६.६६ ॥

ततोहमब्रंवं विप्रान्यूयं मूर्खा भविष्यथ॥
धनधान्याल्पसंयुक्ता दारिद्र्यकलिलावृताः॥ ६.६७ ॥

एवमुक्ते प्रहस्यैव हारीतः प्राब्रवीदिदम्॥
तवैवेयं मुने हानिर्यदस्माञ्छपते भवान्॥ ६.६८ ॥

कः शापो दीयते तुभ्यं शापोयमयमेव ते॥
ततो विमृश्य भूयोऽहब्रवं किमहंद्विज॥ ६.६९ ॥

तथाविधस्य भवतो वामपादप्रदानतः॥ ६.७० ॥

॥हारीत उवाच॥
श्रृणु तत्कारणं धीमञ्छून्यता मे यतो भवेत्॥ ६.७१ ॥

इति चिंतयतश्चित्ते हा दुःखोऽयं प्रतिग्रहः॥
प्रतिग्रहेण विप्राणां ब्राहयं तेजो हि शाम्यति॥ ६.७२ ॥

महादानं हि गृह्णानो ब्राह्मणः स्वं शुभं हि यत्॥
ददाति दातुर्दाता च अशुभं यच्छति स्वकम्॥ ६.७३ ॥

दाता प्रतिग्रहीता च वचनं हि परस्परम्॥
मन्यतेऽधःकरो यस्य सोऽल्पबुद्धिः प्रहीयते॥ ६.७४ ॥

इति चिंतयतो मह्यं शून्यताभूद्धि नारद॥
निद्रार्तश्च भयार्तश्च कामार्तः शोकपीडितः॥ ६.७५ ॥

हृतस्वश्चान्यचित्तश्च शून्याह्येते भवंति च॥
तदेषु मतिमान्कोपं न कुर्वीत यदि त्वया॥ ६.७६ ॥

कृतः कोपस्ततस्तुभ्यमेवं हानिरियं मुने॥
ततस्तापान्वितश्चाहं तान्वि प्रानब्रवं पुनः॥ ६.७७ ॥

धिङ्मामस्तु च दुर्बुद्धिमविमृश्यार्थकारिणम्॥
कुर्वतामविमृश्यैव तत्किमस्ति न यद्भवेत्॥ ६.७८ ॥

सहसा न क्रियां कुर्यात्पदमेतन्महापदाम्॥
विमृश्यकारिणं धीरं वृणते सर्वसंपदः॥ ६.७९ ॥

सत्यमाह महाबुद्धिश्चिरकारी पुरा हि सः॥
पुरा हि ब्राह्मणः कश्चित्प्रख्यातों गिरसां कुले॥ ६.८० ॥

चिरकारि महाप्राज्ञो गौतमस्याभवत्सुतः॥
चिरेण सर्वकार्याणि यो विमृश्य प्रपद्यते॥ ६.८१ ॥

चिरकार्याभिसंपतेश्चिरकारी तथोच्यते॥
अलसग्रहणं प्राप्तो दुर्मेधावी तथोच्यते॥ ६.८२ ॥

बुद्धिलाघवयुक्तेन जनेनादीर्घदर्शिना॥
व्यभिचारेण कस्मिन्स व्यतिकम्या परान्सुतान्॥ ६.८३ ॥

पित्रोक्तः कुपितेनाथ जहीमां जननीमिति॥
स तथेति चिरेणोक्तः स्वभावाच्चिरकारकः॥ ६.८४ ॥

विमृश्य चिरकारित्वाच्चिं तयामास वै चिरम्॥
पितुराज्ञां कथं कुर्यां न हन्यां मातरं कथम्॥ ६.८५ ॥

कथं धर्मच्छलेनास्मिन्निमज्जेयमसाधुवत्॥
पितुराज्ञा परो धर्मो ह्यधर्मो मातृरक्षणम्॥ ६.८६ ॥

अस्वतंत्रं च पुत्रत्वं किं तु मां नात्र पीडयेत्॥
स्त्रियं हत्वा मातरं च को हि जातु सुखी भवेत्॥ ६.८७ ॥

पितरं चाप्यवज्ञाय कः प्रतिष्ठामवाप्नुयात्॥
अनवज्ञा पितुर्युक्ता युक्तं मातुश्च रक्षणम्॥ ६.८८ ॥

क्षमायोग्यावुभावेतौ नातिवर्तेत वै कथम्॥
पिता ह्यात्मानमाधत्ते जायायां जज्ञिवानिति॥ ६.८९ ॥

शीलचारित्रगोत्रस्य धारणार्थं कुलस्य च॥
सोऽहमात्मा स्वयं पित्रा पुत्रत्वे परिकल्पितः॥ ६.९० ॥

जातकर्मणि यत्प्राह पिता यच्चोपकर्मणि॥
पर्याप्तः स दृढीकारः पितुर्गौरवलिप्सया॥ ६.९१ ॥

शरीरादीनि देयानि पिता त्वेकः प्रयच्चति॥
तस्मात्पितुर्वचः कार्यं न विचार्यं कथंचन॥ ६.९२ ॥

पातकान्यपि चूर्यंते पितुर्वचनकारिणः॥
पिता स्वर्गः पिता धर्मः पिता परमकं तपः॥ ६.९३ ॥

पितरि प्रीतिमापन्ने सर्वाः प्रीणंति देवताः॥
आशिषस्ता भजंत्येनं पुरुषं प्राह याः पिता॥ ६.९४ ॥

निष्कृतिः सर्वपापानां पिता यदभिनंदति॥
मुच्यते बंधनात्पुष्पं फलं वृंतात्प्रमुच्यते॥ ६.९५ ॥

क्लिश्यन्नपि सुतः स्नेहं पिता स्नेहं न मुंचति॥
एतद्विचिंत्यतं तावत्पुत्रस्य पितृगौरवम्॥ ६.९६ ॥

पिता नाल्पतरं स्थानं चिंतयिष्यामि मातरम्॥
यो ह्ययं मयि संघातो मर्त्यत्वे पांचभौतिकः॥ ६.९७ ॥

अस्य मे जननी हेतुः पावकस्य यथारणिः॥
माता देहारणिः पुंसः सर्वस्यार्थस्य निर्वृतिः॥ ६.९८ ॥

मातृलाभे सनाथत्वमनाथत्वं विपर्यये॥
न स शोचति नाप्येनं स्थावर्यमपि कर्षति॥ ६.९९ ॥

श्रिया हीनोऽपि यो गेहे अंबेति प्रतिपद्यते॥
पुत्रपौत्रसमापन्नो जननीं यः समाश्रितः॥ ६.१०० ॥

अपि वर्षशतस्यांते स द्विहायनवच्चरेत्॥
समर्थं वाऽसमर्थं वा कृशं वाप्यकृशं तथा॥ ६.१०१ ॥

रक्षयेच्च सुतं माता नान्यः पोष्यविधानतः॥
तदा स वृद्धो भवति तदा भवति दुःखितः॥ ६.१०२ ॥

तदा शुन्यं जगत्तस्य यदा मात्रा वियुज्यते॥
नास्ति मातृसमा च्छाया नास्ति मातृसमा गतिः॥ ६.१०३ ॥

नास्ति मातृसमं त्राणं नास्ति मातृसमा प्रपा॥
कुक्षिसंधारणाद्धात्री जननाज्जननी तथा॥ ६.१०४ ॥

अंगानां वर्धनादंबा वीरसूत्वे च वीरसूः॥
शिशोः शुश्रूषणाच्छ्वश्रूर्माता स्यान्माननात्तथा॥ ६.१०५ ॥

देवतानां समावापमेकत्वं पितरं विदुः
मर्त्यानां देवतानां च पूगो नात्येति मातरम्॥ ६.१०६ ॥

पतिता गुरवस्त्याज्या माता च न कथंचन॥
गर्भधारणपोषाभ्यां तेन माता गरीयसी॥ ६.१०७ ॥

एवं स कौशिकीतीरे बलिं राजानमीक्षतीम्॥
स्त्रीवृत्तिं चिरकालत्वाद्धन्तुं दिष्टः स्वमातरम्॥ ६.१०८ ॥

विमृश्य चिरकालं हि चिंतांतं नाभ्यपद्यत॥
एतस्मिन्नंतरे शक्रो रूपमास्थितः॥ ६.१०९ ॥

गायन्गाखामुपायातः पितुस्तस्याश्रमांतिके॥
अनृना हि स्त्रियः सर्वाः सूत्रकारो यदब्रवीत्॥ ६.११० ॥

अतस्ताभ्यः फलं ग्राह्यं न स्याद्दोषेक्षणः सुधीः॥
इति श्रुत्वा तमानर्च मेधातिथिरुदारधीः॥ ६.१११ ॥

दुःखितश्चिंतयन्प्राप्तो भृशमश्रूणि वर्तयन्॥
अहोऽहमीर्ष्ययाक्षिप्तो मग्नोऽहं दुःखसागरे॥ ६.११२ ॥

हत्वा नारीं च साध्वीं च को नु मां तारयिष्यति॥
सत्वरेण मयाज्ञप्तश्चिरकारी ह्युदारधीः॥ ६.११३ ॥

यद्ययं चिरकारी स्यात्स मां त्रायेत पातकात्॥
चिरकारिक भद्रं ते भद्रं ते चिरकारिक॥ ६.११४ ॥

यदद्य चिरकारी त्वं ततोऽसि चिरकारिकः॥
त्राहि मां मातरं चैव तपो यच्चार्जितं मया॥ ६.११५ ॥

आत्मानं पातके विष्टं शुभाह्व चिरकारिक॥
एवं स दुःखितः प्राप्तो गौतमोऽचिंतयत्तदा॥ ६.११६ ॥

चिरकारिकं ददर्शाथ पुत्रं मातुरुपांतिके॥
चिरकारी तु पितरं दृष्ट्वा परमदुःखितः॥ ६.११७ ॥

शस्त्रं त्यक्त्वा स्थितो मूर्ध्ना प्रसादायोपचक्रमे॥
मेधातिथिः सुतं दृष्ट्वा शिरसा पतितं भुवि॥ ६.११८ ॥

पत्नीं चैव तु जीवंतीं परामभ्यगमन्मुदम्॥
हन्यादिति न सा वेद शस्त्रपाणौ स्थिते सुते॥ ६.११९ ॥

बुद्धिरासीत्सुतं दृष्ट्वा पितुश्चरणयोर्नतम्॥
शस्त्रग्रहणचापल्यं संवृणोति भयादिति॥ ६.१२० ॥

ततः पित्रा चिरं स्मृत्वा चिरं चाघ्राय मूर्धनि॥
चिरं दोर्भ्यां परिष्वज्य चिरंजीवेत्यु दाहृतः॥ ६.१२१ ॥

चिरं मुदान्वितः पुत्रं मेधातिथिरथाब्रवीत्॥
चिरकारिक भद्रं ते चिरकारी भवेच्चिरम्॥ ६.१२२ ॥

चिराय यत्कृतं सौम्य चिरमस्मिन् दुःखितः॥
गाथाश्चाप्यब्रवीद्विद्वान्गौतमो मुनिसत्तमः॥ ६.१२३ ॥

चिरेण मंत्रं संधीयाच्चिरेम च कृतं त्यजेत्॥
चिरेण विहतं मित्रं चिरं धारणमर्हति॥ ६.१२४ ॥

रोगे दर्पे च माने च द्रोहे पापे च कर्मणि॥
अप्रिये चैव कर्तव्ये चिरकारी प्रशस्यते॥ ६.१२५ ॥

बंधूनां सुहृदां चैव भृत्यानां स्त्रीजनस्य च॥
अव्यक्तेष्वपराधेषु चिरकारी प्रशस्यते॥ ६.१२६ ॥

चिरं धर्मान्निषेवेत कुर्याच्चान्वेषणं चिरम्॥
चिरमन्वास्य विदुषश्चिरमिष्टानुपास्य च॥ ६.१२७ ॥

चिरं विनीय चात्मानं चिरं यात्यनवज्ञताम्॥
ब्रुवतश्च परस्यापि वाक्यं धर्मोपसंहितम्॥ ६.१२८ ॥

चिरं पृच्छेच्च श्रृणुयाच्चिरं न परिभूयते॥
धर्मे शत्रौ शस्त्रहस्ते पात्रे च निकटस्थिते॥ ६.१२९ ॥

भये च साधुपूजायां चिरकारी न शस्यते॥
एवमुक्त्वा पुत्रभार्यासहितः प्राप्य चाश्रमम्॥ ६.१३० ॥

ततश्चिरमुपास्याथ दिवं यातिश्चिरं मुनिः॥
वयं त्वेवं ब्रुवन्तोऽपि मोहेनैवं प्रतारिताः॥ ६.१३१ ॥

कलौ च भवतां विप्रा मच्छापो निपतिष्यति॥
केचित्सदा भविष्यंति विप्राः सर्वगुणैर्युताः॥ ६.१३२ ॥

पादप्रक्षालनं कृत्वा ततोऽहं धर्मवर्मणः॥
समीपे साक्षिणो देवान्कृत्वा संकल्पमाचरम्॥ ६.१३३ ॥

कांचनैरर्नोप्रदानैश्च गृहदानैर्धनादिभिः॥
भार्याभूषणवस्त्रैश्च कृतार्था ब्राह्मणाः कृताः॥ ६.१३४ ॥

ततः करं समुद्यम्य प्राहेन्द्रो देवसंगमे॥
हरांगरुद्धवामार्द्ध यावद्देवी गिरेः सुता॥ ६.१३५ ॥

गणाधीशो वयं यावद्यावत्त्रिभुवनं त्विदम्॥
तावन्नन्द्यादिदे स्थानं नारदस्थापितं सुराः॥ ६.१३६ ॥

ब्रह्मशापो रुद्रशापो विष्णुशापस्तथैव च॥
द्विजशापस्तथा भूयादिदं स्थानं विलुंपतः॥ ६.१३७ ॥

ततस्तथेति तैः सर्वैर्हृष्टैस्तत्र तथोदितम्॥
एवं मया स्थापिते स्थानकेऽस्मिन्संस्थापयामास च कापिलं मुनिः॥
स्थाने उभे देवकृते प्रसन्नास्ततो ययुर्देवता देवसद्म॥ ६.१३८ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे नारीयस्थानप्रतिष्ठावर्णनंनाम षष्ठोऽध्यायः ६ ॥ छ ॥