स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ०५

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← अध्यायः ४ स्कन्दपुराणम्
अध्यायः ५
वेदव्यासः
अध्यायः ६ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६

॥ नारद उवाच॥
ततोऽहं धर्मवर्माणं प्रोच्य तिष्ठेद्धनं त्वयि॥
कृत्यकाले ग्रहीष्यामीत्यागमं रैवतं गिरिम्॥ ५.१ ॥

आसं प्रमुदितश्चाहं पश्यंस्तं गिरिसत्तमम्॥
आह्वयानं नरान्साधून्भूमेर्भुजमिवोच्छ्रितम्॥ ५.२ ॥

यस्मिन्नानाविधा वृक्षाः प्रकाशंते समंततः॥
साधुं गृहपतिं प्राप्य पुत्रभार्यादयो यथा॥ ५.३ ॥

मुदिता यत्र संतृप्ता वाशंते कोकिलादयः॥
सद्गुरोर्ज्ञानसंपन्ना यथा शिष्यगणा भुवि॥ ५.४ ॥

यत्र तप्त्वा तपो मर्त्या यथेप्सितमवाप्नुयुः॥
श्रीमहादेवमासाद्य भक्तो यद्वन्मनोरथम्॥ ५.५ ॥

तस्याहं च गिरेः पार्थ समासाद्य महाशिलाम्॥
शीतसौरभ्यमंदेन प्रीणीतोऽचिंतयं हृदि॥ ५.६ ॥

तावन्मया स्थानमाप्तं यदतीव सुदुर्लभम्॥
इदानीं ब्राह्मणार्थेऽहं कुर्वे तावदुपक्रमम्॥ ५.७ ॥

ब्राह्मणाश्च विलोक्य मे ये हि पात्रतमा मताः॥
तथा हि चात्र श्रूयंते वचांसि श्रुतिवादिनाम्॥ ५.८ ॥

न जलोत्तरणे शक्ता यद्वन्नौः कर्णवर्जिता॥
तद्वच्छ्रेष्ठोऽप्यनाचारो विप्रो नोद्धरणक्षमः॥ ५.९ ॥

ब्राह्मणो ह्यनधीयानस्तृणाग्निरिव शाम्यति॥
तस्मै हव्यं न दातव्यं न हि भस्मनि हूयते॥ ५.१० ॥

दानपात्रमतिक्रम्य यदपात्रे प्रदीयते॥
तद्दत्तं गामतिक्रम्य गर्दभस्य गवाह्निकम्॥ ५.११ ॥

ऊषरे वापितं बीजं भिन्नभांडे च गोदुहम्॥
भस्मनीव हुतं हव्यं मूर्खे दानमशाश्वतम्॥ ५.१२ ॥

विधिहीने तथाऽपात्रे यो ददाति प्रतिग्रहम्॥
न केवलं हि तद्याति शेषं पुण्यं प्रणश्यति॥ ५.१३ ॥

भूराप्ता गौस्तथा भोगाः सुवर्णं देहमेव च॥
अश्वश्चक्षुस्तथा वासो घृतं तेजस्तिलाः प्रजाः॥ ५.१४ ॥

घ्नंति तस्मादविद्वांस्तु बिभियाच्च प्रतिग्रहात्॥
स्वल्पक केनाप्यविद्वांस्तु पंके गौरिव सीदति॥ ५.१५ ॥

तस्माद्ये गूढतपसो गूढस्वाध्यायसाधकाः॥
स्वदारनिरताः शांतास्तेषु दत्तं सदाऽक्षयम्॥ ५.१६ ॥

देशे काल उपायेन द्रव्यं श्रद्धासमन्वितम्॥
पात्रे प्रदीयते यत्तत्सकलं धर्मलक्षणम्॥ ५.१७ ॥

न विद्यया केवलया तपसा वापि पात्रता॥
यत्र वृत्तिमिमे चोभे तद्वि पात्रं प्रचक्षते॥ ५.१८ ॥

तेषां त्रयाणां मध्ये च विद्या मुख्यो महागुणः॥
विद्यां विनांधवद्विप्राश्चक्षुष्मंतो हि ते मताः॥ ५.१९ ॥

तस्माच्चक्षुष्मतो विद्वान्देशे देशे परीक्षयेत्॥
प्रश्रान्ये मम वक्ष्यंति तेभ्यो दास्याम्यहं ततः॥ ५.२० ॥

इति संचिंत्य मनसा तस्माद्देशात्समुत्थितः॥
आश्रमेषु महर्षीणां विचराम्यस्मि फाल्गुन॥ ५.२१ ॥

इमाञ्छ्लोकान्गायमानः प्रश्ररूपाञ्छृणुष्व तान्॥
मातृकां को विजानाति कतिधा कीदृशाक्षराम्॥ ५.२२ ॥

पंचपंचाद्भुतं गेहं को विजानाति वा द्विजः॥
बहुरूपां स्त्रियं कर्तुमेकरूपां च वत्ति कः॥ ५.२३ ॥

को वा चित्रकथाबंधं वेत्ति संसारगोचरः॥
को वार्णवमहाग्राहं वेत्ति विद्यापरायणः॥ ५.२४ ॥

को वाष्टविधं ब्राह्मण्यं वेत्ति ब्राह्मणसत्तमः॥
युगानां च चतुर्णां वा को मूलदिवसान्वदेत्॥ ५.२५ ॥

चतुर्दशमनूनां वा मूलवासरं वेत्ति कः॥
कस्मिंश्चैव दिने प्राप पूर्वं वा भास्करो रथम्॥ ५.२६ ॥

उद्वेजयति भूतानि कृष्णाहिरिववेत्ति कः॥
को वास्मिन्घोरसंसारे दक्षदक्षतमो भवेत्॥ ५.२७ ॥

पंथानावपि द्वौ कश्चिद्वेत्ति वक्ति च ब्राह्मणः॥
इति मे द्वादश प्रश्रान्ये विदुर्ब्राह्मणोत्तमाः॥ ५.२८ ॥

ते मे पूज्यतमास्तेषामहामाराधकश्चिरम्॥
इत्यहं गायमानो वै भ्रमितः सकलां महीम्॥ ५.२९ ॥

ते चाहुर्दुःखदाः ख्याताः प्रश्रास्ते कुर्महे नमः॥
इत्यहं सकलां पृथ्वीं विचिंत्यालब्धब्राह्मणः॥ ५.३० ॥

हिमाद्रिशिखरासीनो भूयश्चिंतामवाप्तवान्॥
सर्वे विलोकिता विप्राः किमतः कर्तुमुत्सहे॥ ५.३१ ॥

ततो मे चिंतयानस्य पुनर्जातामतिस्त्वियम्॥
अद्यापि न गतश्चाहं कलापग्राममुत्तमम्॥ ५.३२ ॥

यस्मिन्विप्राः संवसंति मूर्तानीव तपांसि च॥
चतुराशीतिसाहस्राः श्रुताध्ययनशालिनः॥ ५.३३ ॥

स्थाने तस्मिन्गमिष्यामीत्युक्त्वाहं चलितस्तदा॥
खेचरो हिममाक्रम्य परं पारं गतस्ततः॥ ५.३४ ॥

अद्राक्षं पुण्यभूमिस्थं ग्रामरत्नमहं महत्॥
शतयोजनविस्तीर्णं नानावृक्षसमाकुलम्॥ ५.३५ ॥

यत्र पुण्यवतां संति शतशः प्रवराश्रमाः॥
सर्वेषामपि जीवानां यत्रान्योन्यं न दुष्टता॥ ५.३६ ॥

यज्ञभाजां मुनीनां यदुपकारकरं सदा॥
सतां धर्मवतां यद्वदुपकारो न शाम्यति॥ ५.३७ ॥

मुनीनां यत्र परमं स्थानं चाप्यविनाशकृत्॥
स्वाहास्वधावषट्‌कारहन्तकारो न नश्यति॥ ५.३८ ॥

यत्र कृतयुगस्तार्थं बीजं पार्थावशिष्यते॥
सूर्यस्य सोमवंशस्य ब्राह्मणानां तथैव च॥ ५.३९ ॥

स्थानकं तत्समासाद्य प्रविष्टोऽहं द्विजाश्रमान्॥
तत्र ते विविधान्वादान्विवदंते द्विजोत्तमाः॥ ५.४० ॥

परस्परं चिंतयाना वेदा मूर्तिधरा यथा॥
तत्र मेधाविनः केचिदर्थमन्यैः प्रपूरितम्॥ ५.४१ ॥

विचिक्षिपुर्महात्मानो नभोगतमिवामिषम्॥
तत्रा हं करमुद्यम्य प्रावोचं पूर्यतां द्विजाः॥ ५.४२ ॥

काकारावैः किमतैर्वो यद्यस्ति ज्ञानशालिता॥
व्याकुरुध्वं ततः प्रश्रान्मम दुर्विषहान्बहून्॥ ५.४३ ॥

॥ब्राह्मणा ऊचुः॥
वद ब्राह्मण प्रश्रान्स्वाञ्छ्रुत्वाऽऽधास्यामहे वयम्॥
परमो ह्येष नो लाभः प्रक्षान्पृच्छति यद्भवान्॥ ५.४४ ॥

अहं पूर्विकया ते वै न्यषेधंत परस्परम्॥
अहं पूर्वमहं पूर्वमिति वीरा यथा रणे॥ ५.४५ ॥

ततस्तान्ब्रवं प्रश्रानहं द्वादश पूर्वकान्॥
श्रुत्वा ते मामवो चंत लीलायंतो मुनीश्वराः॥ ५.४६ ॥

किं ते द्विज बालप्रश्नैरमीभिः स्वल्पकैरपि॥
अस्माकं यन्निहीनं त्वं मन्यसे स ब्रवीत्वमून्॥ ५.४७ ॥

ततोति विस्मितश्चाहं मन्यमानः कृतार्थताम्॥
तेषां निहीनं संचिंत्य प्रावोचं प्रब्रवीत्वयम्॥ ५.४८ ॥

ततः सुतनुनामा स बालोऽबालोऽभ्युवाच माम्॥
मम मंदायते वाणी प्रश्नैः स्वल्पैस्तव द्विज॥
तथापि वच्मि मां यस्मान्निहीनं मन्यते भवान्॥ ५.४९ ॥

॥सुतनुरुवाच॥
अक्षरास्तु द्विपं चाशन्मातृकायाः प्रकीर्तिताः॥ ५.५० ॥

ॐकारः प्रथमस्तत्र चतुर्दश स्वरास्तथा॥
स्पर्शाश्चैव त्रयस्त्रिं शदनुस्वारस्तथैव च॥ ५.५१ ॥

विसर्ज्जनीयश्च परो जिह्वामूलीय एव च॥
उपध्मानीय एवापि द्विपंचाशदमी स्मृताः॥ ५.५२ ॥

इति ते कथिता संख्या अर्थं चैषां श्रृणु द्विज॥
अस्मिन्नर्थे चेति हासं तव वक्ष्यामि यः पुरा॥ ५.५३ ॥
मिथिलायां प्रवृत्तोऽभूद्ब्राह्मणस्य निवेशने॥
मिथिलायां पुरा पुर्यां ब्राह्मणः कौथुमाभिधः॥ ५.५४ ॥

येन विद्याः प्रपठिता वर्तंते भुवि या द्विज॥
एकत्रिंशत्सहस्राणि वर्षाणां स कृतादरः॥ ५.५५ ॥

क्षणमप्यनवच्छिन्नं पठित्वा गेहवानभूत्॥
ततः केनापि कालेन कौथुमस्याभवत्सुतः॥ ५.५६ ॥

जडवद्वर्त्तमानः स मातृकां प्रत्यपद्यत॥
पठित्वा मातृकामन्यन्नाध्येति स कथंचन॥ ५.५७ ॥

ततः पिता खिन्नरूपी जडं तं समभाषत॥
अधीष्व पुत्रकाधीष्व तव दास्यामि मोदकान्॥ ५.५८ ॥

अथान्यस्मै प्रदास्यामि कर्णावुत्पाटयामि ते॥ ५.५९ ॥

॥पुत्र उवाच॥
तात किं मोदकार्थाय पठ्यते लोभहेतवे॥
पठनंनाम यत्पुंसां परामार्थं हि तत्स्मृतम्॥ ५.६० ॥

॥कौथुम उवाच॥
एवं ते वदमानस्य आयुर्भवतु ब्रह्मणः॥
साध्वी बुद्धिरियं तेऽस्तु कुतो नाध्येष्यतः परम्॥ ५.६१ ॥

॥पुत्र उवाच॥
तात सर्वं परिज्ञेयं ज्ञानमत्रैव वै यतः॥
ततः परं कंठशोषः किमर्थं क्रियते वद॥ ५.६२ ॥

॥पितोवाच॥
विचित्रं भाषसे बाल ज्ञातोऽत्रार्थश्च कस्त्वया॥
ब्रूहि ब्रूहि पुनर्वत्स श्रोतुमिच्छामि ते गिरम्॥ ५.६३ ॥

॥पुत्र उवाच॥
एकत्रिंशत्सहस्राणि पठित्वापि त्वया पितः॥
नानातर्कान्भ्रांतिरेव संधिता मनसिस्वके॥ ५.६४ ॥

अयमयं चायमिति धर्मो यो दर्शनोदितः॥
तेषु वातायते चेतस्तव तन्नाशयामि ते॥ ५.६५ ॥

उपदेशं पठस्येव नैवार्थज्ञोऽसि तत्त्वतः॥
पाठमात्रा हि ये विप्रा द्विपदाः पशवो हि ते॥ ५.६६ ॥

तत्ते ब्रवीमि तद्वाक्यं मोहमार्तंडमद्भुतम्॥ ५.६७ ॥

अकारः कथितो ब्रह्मा उकारो विष्णुरुच्यते॥
मकारश्च स्मृतो रुद्रस्त्रयश्चैते गुणाः स्मृताः॥ ५.६८ ॥

अर्धमात्रा च या मूर्ध्नि परमः स सदाशिवः॥
एवमोंकारमाहात्म्यं श्रुतिरेषा सनातनी॥ ५.६९ ॥

ॐकारस्य च माहात्म्यं याथात्म्येन न शक्यते॥
वर्षाणामयुतेनापि ग्रंथकोटिभिरेव वा॥ ५.७० ॥

पुनर्यत्सारसर्वस्वं प्रोक्तं तच्छ्रूयतां परम्॥
अःकारांता अकाराद्या मनवस्ते चतुर्दश॥ ५.७१ ॥

स्वायंभुवश्च स्वारोचिरौत्तमो रैवतस्तथा॥
तामसश्चाक्षुषः षष्ठस्तथा वैवस्वतोऽधुना॥ ५.७२ ॥

सावर्णिर्ब्रह्मसावर्णी रुद्रसावर्णिरेव च॥
दक्षसावर्णिरेवापि धर्मसावर्णिरेव च॥ ५.७३ ॥

रौच्यो भौत्यस्तथा चापि मनवोऽमी चतुर्दश॥
श्वेतः पांडुस्तथा रक्तस्ताम्रः पीतश्च कापिलः॥ ५.७४ ॥

कृष्णः श्यामस्तथा धूम्रः सुपिशंगः पिशंगकः॥
त्रिवर्णः शबलो वर्णैः कर्कंधुर इति क्रमात्॥ ५.७५ ॥

वैवस्वतः क्षकारश्च तात कृष्णः प्रदृश्यते॥
ककाराद्य हकारांतास्त्रयस्त्रिंशच्च देवताः॥ ५.७६ ॥

ककाराद्याष्ठकारांता आदित्या द्वादश स्मृताः॥
धाता मित्रोऽर्यमा शक्रो वरुणाश्चांशुरेव च॥ ५.७७ ॥

भगो विवस्वान्पूषा च सविता दशमस्तथा॥
एकादशस्तथा त्वष्टा विष्णुर्द्वादश उच्यते॥ ५.७८ ॥

जघन्यजः स सर्वेषामादित्यानां गुणाधिकः॥
डकाराद्या बकारांता रुद्राश्चैकादशैव तु॥ ५.७९ ॥

कपाली पिंगलो भीमो विरुपाक्षो विलोहितः॥
अजकः शासनः शास्ता शंभुश्चण्डो भवस्तथा॥ ५.८० ॥

भकाराद्याः षकारांता अष्टौ हि वसवो मताः॥
ध्रुवो घोरश्च सोमश्च आपश्चैव नलोऽनिलः॥ ५.८१ ॥

प्रत्यूषश्च प्रभासश्च अष्टौ ते वसवः स्मृताः॥
सौ हश्चेत्यश्विनौ ख्यातौ त्रयस्त्रिंशदिमे स्मृताः॥ ५.८२ ॥

अनुस्वारो विसर्गश्च जिह्वामूलीय एव च॥
उपध्मानीय इत्येते जरायुजास्तथांडजाः॥ ५.८३ ॥

स्वेदजाश्चोद्भिजाश्चेति तत जीवाः प्रकीर्तिताः॥
भावार्थः कथितश्चायं तत्त्वार्थं श्रृणु सांप्रतम्॥ ५.८४ ॥

ये पुमांसस्त्वमून्देवान्समाश्रित्य क्रियापराः॥
अर्धमात्रात्मके नित्ये पदे लीनास्त एव हि॥ ५.८५ ॥

चतुर्णां जीवयोनीनां तदैव परिमुच्यते॥
यदाभून्मनसा वाचा कर्मणा च यजेत्सुरान्॥ ५.८६ ॥

यस्मिञ्छास्त्रे त्वमी देवा मानिता नैव पापिभिः॥
तच्छास्त्रं हि न मंतव्यं यदि ब्रह्मा स्वयं वदेत्॥ ५.८७ ॥

अमी च देवाः सर्वत्र श्रौते मार्गे प्रतिष्ठिताः॥
पाषण्डशास्त्रे सर्वत्र निषिद्धाः पापकर्मभिः॥ ५.८८ ॥

तदमून्ये व्यतिक्रम्य तपो दानमथो जपम्॥
प्रकुर्वंति दुरात्मानो वेपते मरुतः पथि॥ ५.८९ ॥

अहो मोहस्य माहात्म्यं पश्यताविजितात्मनाम्॥
पठंति मातृकां पापा मन्यंते न सुरानिह॥ ५.९० ॥

॥सुतनुरुवाच॥
इति तस्य वचः श्रुत्वा पिताभूदतिविस्मितः॥
पप्रच्छ च बहून्प्रश्रान्सोप्य वादीत्तथातथा॥ ५.९१ ॥

मयापि तव प्रोक्तोऽयं मातृकाप्रश्र उत्तमः॥
द्वितीयं श्रृणु तं प्रश्नं पंचपंचाद्बुतं गृहम्॥ ५.९२ ॥

पंचभूतानि पञ्चैव कर्मज्ञानेंद्रियाणि च॥
पंच पंचापि विषया मनोबुद्ध्यहमेव च॥ ५.९३ ॥

प्रकृतिः पुरुषश्चैव पञ्चविंशः सदाशिवः॥
पञ्चपञ्चभिरेततैस्तु निष्पन्नं गृहमुच्यते॥ ५.९४ ॥

देहमेतदिदं वेद तत्त्वतो यात्यसौ शिवम्॥
बहुरूपां स्त्रियं प्राहुर्बुद्धिं वेदांतवादिनः॥ ५.९५ ॥

सा हि नानार्थभजनान्नानारूपं प्रपद्यते॥
धर्मस्यैकस्य संयोगाद्बहुधाप्येकिकैव सा॥ ५.९६ ॥

इति यो वेदे तत्त्वार्थं नासौ नरकमाप्नुयात्॥
मुनिभिर्यश्च न प्रोक्तं यन्न मन्येत दैवतान्॥ ५.९७ ॥

वचनं तद्बुधाः प्रहुर्बंधं चित्रकथं त्विति॥
यच्च कामान्वितं वाक्यं पंचमं वाप्यतः श्रुणु॥ ५.९८ ॥

एको लोभो महान्ग्राहो लोभात्पापं प्रवर्तते॥
लोभात्क्रोधः प्रभवति लोभात्कामः प्रवर्तते॥ ५.९९ ॥

लोभान्मोहश्च माया च मानः स्तम्भः परेष्सुता॥
अविद्याऽप्रज्ञता चैव सर्वं लोभात्प्रवर्तते॥ ५.१०० ॥

हरणं परवित्तानां परदाराभिमर्शनम्॥
साहसानां च सर्वेषामकार्याणआं क्रियास्तथा॥ ५.१०१ ॥

स लोभः सह मोहेन विजेतव्यो जितात्मना॥
दम्भो द्रोहश्च निंदा च पैशुन्यं मत्सरस्तथा॥ ५.१०२ ॥

भवन्त्येतानि सर्वाणि लुब्धानामकृतात्मनाम्॥
सुमहां त्यपि सास्त्राणि धारयंति बहुश्रुताः॥ ५.१०३ ॥

छेत्तारः संशयानां च लोभग्रस्ता व्रजंत्यधः॥
लोभक्रोधप्रसक्ताश्च शिष्टाचारबहिष्कृताः॥ ५.१०४ ॥

अन्तःक्षुरा वाङ्मधुराः कूपाश्धन्नास्तृणौरिव॥
कुर्वते ये बहून्मार्गांस्तांस्तान्हेतुबलन्विताः॥ ५.१०५ ॥

सर्वमार्गं विलुंमपंति लोभाज्जातिषु निष्ठुराः॥
धर्मावतंसकाः क्षुद्रा मुष्णंति ध्वजिनो जगत्॥ ५.१०६ ॥

एतेऽतिपापिनो ज्ञेया नित्यं लोभसमन्विताः॥
जनको युवनाश्वश्च वृषादर्भिः प्रसेनजित्॥ ५.१०७ ॥

लोभक्षयाद्दिवं प्राप्तास्तथैवान्ये जनाधिपाः॥
तस्मात्त्यजंति ये लोभं तेऽतिक्रामंति सागरम्॥ ५.१०८ ॥

संसाराख्यमतोऽनये ये ग्राहग्रस्ता न संशयः॥
अथ ब्राह्मणभेदांस्त्वमष्टो विप्रावधारय॥ ५.१०९ ॥

मात्रश्च ब्राह्मणश्चैव श्रोत्रियश्च ततः परम्॥
अनूचानस्तथा भ्रूण ऋषिकल्प ऋषिर्मुनिः॥ ५.११० ॥

एते ह्यष्टौ समुद्दिष्टा ब्राह्मणाः प्रथमं श्रुतौ॥
तेषां परः परः श्रेष्ठो विद्यावृत्तविशेषतः॥ ५.१११ ॥

ब्राह्मणानां कुले जातो जातिमात्रो यदा भवेत्॥
अनुपेतः क्रियाहीनो मात्र इत्यभिधीयते॥ ५.११२ ॥

एकोद्देश्यमतिक्रम्य वेदस्याचारवानृजुः॥
स ब्राह्मण इति प्रोक्तो निभृतः सत्यवाग्घृणी॥ ५.११३ ॥

एकां शाखां सकल्पां च षड्भिरंगैरधीत्य च॥
षट्कर्मनिरतो विप्रः श्रोत्रियोनाम धर्मवित्॥ ५.११४ ॥

वेदवेदांगतत्त्वज्ञः शुद्धात्मा पापवर्जितः॥
श्रेष्ठः श्रोत्रियवान्प्राज्ञः सोऽनूचान इति स्मृतः॥ ५.११५ ॥

अनूचानगुणोपेतो यज्ञस्वाध्याययंत्रितः॥
भ्रूण इत्युच्यते शिष्टैः शेषभोजी जितेंद्रियः॥ ५.११६ ॥

वैदिकं लौकिकं चैव सर्वज्ञानमवाप्य यः॥
आश्रमस्थो वशी नित्यमृषिकल्प इति स्मृतः॥ ५.११७ ॥

ऊर्ध्वरेता भवत्यग्र्यो नियताशी नसंश यी॥
शापानुग्रहयोः शक्तः सत्यसंधो भवेदृषिः॥ ५.११८ ॥

निवृत्तः सर्वतत्त्वज्ञः कामक्रोधविवर्जितः॥
ध्यानस्थानिष्क्रियो दांतस्तुल्यमृत्कांचनो मुनिः॥ ५.११९ ॥

एवमन्वयविद्याभ्यां वृत्तेन च समुच्छ्रिताः॥
त्रिशुक्लानाम विप्रेंद्राः पूज्यन्ते सवनादिषु॥ ५.१२० ॥

इत्येवंविधविप्रत्वमुक्तं श्रृणु युगादयः॥
नवमी कार्तिके शुक्ला कृतादिः परिकीर्तिता॥ ५.१२१ ॥
वैशाखस्य तृतीया या शुक्ला त्रेतादिरुच्यते॥
माघे पञ्चदशीनाम द्वापरादिः स्मृता बुधैः॥ ५.१२२ ॥

त्रयोदशी नभस्ये च कृष्णा सा हि कलेः स्मृता॥
युगादयः स्मृता ह्येता दत्तस्याक्षयकारकाः॥ ५.१२३ ॥

एताश्चतस्रस्तिथयो युगाद्या दत्तं हुतं चाक्षयमाशु विद्यात्॥
युगेयुगे वर्षशतेन दानं युगादिकाले दिवसेन तत्फलम्॥ ५.१२४ ॥

युगाद्याः कथिता ह्येता मन्वाद्याः श्रृणु सांप्रतम्॥
अश्वयुक्छुक्लनवमी द्वादशी कार्तिके तथा॥ ५.१२५ ॥

तृतीया चैत्रमासस्य तथा भाद्रपदस्य च॥
फाल्गुनस्य त्वमावास्या पौषस्यैकादशी तथा॥ ५.१२६ ॥

आषाढस्यापि दशमी माघमासस्य सप्तमी॥
श्रावणस्याष्टमी कृष्णा तथाषाढी च पूर्णिमा॥ ५.१२७ ॥

कार्तिकी फाल्गुनी चैत्री ज्येष्ठे पञ्चदशी सिता॥
मन्वंतरादयश्चैता दत्तस्याक्षयकारकाः॥ ५.१२८ ॥

यस्यां तिथौ रथं पूर्वं प्राप देवो दिवाकरः॥
सा तिथिः कथिता विप्रैर्माघे या रथसप्तमी॥ ५.१२९ ॥ द्र. ऋ. ८.८०.४

तस्यां दत्तं हुतं चेष्टं सर्वमेवाक्षयं मतम्॥
सर्वदारिद्र्यशमनं भास्करप्रीतये मतम्॥ ५.१३० ॥

नित्योद्वेजकमाहुर्यं बुधास्तं श्रृणु तत्त्वतः॥
यश्च याचनिको नित्यं न स स्वर्गस्य भाजनम्॥ ५.१३१ ॥

उद्वेजयति भूतानि यथा चौरास्तथैव सः॥
नरकं याति पापात्मा नित्योद्वेगकरस्त्वसौ॥ ५.१३२ ॥

इहोपपत्तिर्मम केन कर्मणा क्व च प्रयातव्यमितो मयेति॥
विचार्य चैवं प्रतिकारकारी बुधैः स चोक्तो द्विज दक्षदक्षः॥ ५.१३३ ॥

मासैरष्टभिरह्ना च पूर्वेण वयसायुषा॥
तत्कर्म पुरुषः कुर्याद्येनांते सुखमेधते॥ ५.१३४ ॥

अर्चिर्धूमश्च मार्गौ द्वावाहुर्वेदांतवादिनः॥
अर्चिषा याति मोक्षं च धूमेनावर्तते पुनः॥ ५.१३५ ॥

यज्ञैरासाद्यते धूमो नैष्कर्म्येणार्चिराप्यते॥
एतयोरपरो मार्गः पाखंड इति कीर्त्यते॥ ५.१३६ ॥

यो देवान्मन्यते नैव धर्मांश्च मनुसूचितान्॥
नैतौ स याति पंथानौ तत्त्वार्थोऽयं निरूपितः॥ ५.१३७ ॥

इते ते कीर्तिताः प्रश्राः शक्त्या ब्राह्मणसत्तम॥
साधु वाऽसाधु वा ब्रूही ख्यापयात्मानमेव च॥ ५.१३८ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कलापग्रामवासिसुतनुब्राह्मणेन नारदप्रश्नोत्तरकथनंनाम पंचमोऽध्यायः॥ ५ ॥ छ ॥