स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ६१

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६

।। सूत उवाच ।। ।।
ततो घटोत्कचो मुक्त्वा तत्र कामकटंकटाम्।।
पुत्रेणानुगतो धीमान्वियता द्वारकां ययौ ।। १ ।।
आगच्छन्तं च तंदृष्ट्वा राक्षसं राक्षसानुगम् ।।
द्वारकावासिनो योधाश्चक्रुरत्युल्बणं रवम् ।। २ ।।
ग्रामे ग्रामे सुसंनद्धा नवलक्षमिता रथाः ।।
राक्षसौ द्वौ समायातौ पात्येतां विशिखैरिति ।। ३ ।।
तान्गृहीतायुधान्दृष्ट्वा यदुवीरान्घटोत्कचः ।।
प्रगृह्य विपुलं बाहुं जगौ तारस्वरेण सः ।। ४ ।।
राक्षसं वित्त मां वीरा भीमपुत्रं घटोत्कचम् ।।
सुप्रियं वासुदेवस्य प्रणामार्थमुपागतम् ।। ५ ।।
निवेदयत मां प्राप्तं यादवेन्द्राय सात्मजम् ।।
इति तस्य वचः श्रुत्वा ते कृष्णाय न्यवेदयन् ।। ६ ।।
आह देवः सभास्थश्च शीघ्रमत्राव्रजत्वसौ ।।
ततः प्रवेशयामासुर्द्वारकां ते घटोत्कचम् ।। ७ ।।
सपुत्रः सोऽपि रम्याणि वनान्युपवनानि च ।।
क्रीडाशैलांश्च हर्म्याणि संपश्यन्नागतः सभाम् ।।८।।
स तत्र उग्रसेनं च वसुदेवं च सात्यकिम् ।।
अक्रूररामप्रमुखान्ववन्दे कृष्णमेव च ।। ९ ।।
तं पादयोर्निपतितं समालिंग्य सहात्मजम् ।।
साशिषं स्वसमीपस्थमुपवेश्येदमब्रवीत् ।। 1.2.61.१० ।।
पुत्र राक्षसशार्दूल कुरूणां कुलवर्धन ।।
कुशलं सर्वतः कच्चित्किमर्थस्ते समागमः ।। ।। ११ ।।
।। घटोत्कच उवाच ।। ।।
देव युष्मत्प्रसादेन सर्वतः कुशलं मम ।।
श्रूयतां कारणं स्वामिन्यदर्थमहमागतः ।। १२ ।।
देवोपदिष्ट भार्यायां जातोऽयं तनयो मम ।।
स च प्रश्नं वक्ष्यति त्वां श्रूयतामागतस्त्वतः ।। १३ ।।
।। श्रीकृष्ण उवाच ।। ।।
वत्स मौर्वेय ब्रूहि त्वं सर्वं पृच्छ यदिच्छसि ।।
यथा घटोत्कचो मह्यं सुप्रियश्च तथा भवान् ।। १४ ।।
।। बर्बरीक उवाच ।। ।।
प्रणम्य त्वामादिदेवं मनोबुद्धिसमाधिभिः ।।
प्रक्ष्यामि केन श्रेयः स्याज्जंतोर्जातस्य माधव ।। १५ ।।
केचिच्छ्रेयो धर्ममाहुरैश्वर्यं त्यागभोजनम् ।।
केचिद्दमं तपो द्रव्यं भोगान्मुक्तिं च केचन ।। १६ ।।
तदेवं शतसंख्येषु श्रेयस्सु पुरुषोत्तम ।।
मम चैवं कुलस्यास्य श्रेयो यद्ब्रूहि निश्चितम् ।। १७ ।।
।। श्रीकृष्ण उवाच ।। ।।
वत्स पृथक्पृथक्प्रोक्तं वर्णानां श्रेय उत्तमम् ।।
ब्राह्मणानां तपो मूलं दमोऽध्ययनमेव च ।। १८ ।।
धर्मप्रकटनं चापि श्रेय उक्तं मनीषिभिः ।।
बलं साध्यं पूर्व मेव क्षत्रियाणां प्रकीर्तितम् ।। १९ ।।
दुष्टानां शासनं चापि साधूनां परिपालनम् ।।
पाशुपाल्यं च वैश्यानां कृषिर्विज्ञानमेव च ।। 1.2.61.२० ।।
शूद्रस्य द्विजशुश्रूषा तया जीवन्वणिग्भवेत् ।।
शिल्पैर्वा विविधैर्जीवेद्द्विजातिहितमाचरन् ।। २१ ।।
भार्यारतिर्भृत्यपोष्टा शुचिः श्रद्धा परायणः ।।
नमस्कारेण मन्त्रेण पंचयज्ञान्न हापयेत् ।। २२ ।।
तद्भवान्क्षत्रियकुले जातोऽसि कुरु तच्छृणु ।।
बलं साधय पूर्वं त्वमतुलं तेन शिक्षय ।। २३ ।।
दुष्टान्पालय साधूंश्च स्वर्गमेवमवाप्स्यसि ।।
बलं च लभ्यते पुत्र देवीनां सुप्रसादतः ।। २४ ।।
तद्भवान्बलप्राप्त्यर्थं देव्याराधनमाचर ।। २५ ।।
।। बर्बरीक उवाच ।। ।।
कस्मिन्क्षेत्रे च कां देवीं कथमाराधयाम्यहम् ।।
एतत्प्रसादप्रवणं मनः कृत्वा निवेदय ।। २६ ।।
।। सूत उवाच ।। ।।
इति पृष्टः क्षणं ध्यात्वा प्राह दामोदरो विभुः ।।
वत्स क्षेत्रं प्रवक्ष्यामि यत्र तप्स्यसि तत्तपः ।।
गुप्तक्षेत्रमिति ख्यातं महीसागरसंगमे ।। २७ ।।
तत्र त्रिभुवने याश्च संति देव्यः पृथग्विधाः ।।
नारदेन समानीतास्ताश्चैक्यं सुमहात्मना ।। २८ ।।
चतस्रस्तस्य दिग्देव्यो नव दुर्गाश्च संति याः ।।
समाराधय ता गत्वा तासामैक्यं हि दुर्लभम् ।। २९ ।।
नित्यं पूजय ताः पुत्र पुष्पधूपविलेपनैः ।।
स्तुतिभिश्चोपहारैश्च यथा तुष्यति तास्तव ।। 1.2.61.३० ।।
तुष्टासु देवीषु बलं धनं च कीर्तिश्च पुत्राः सुभगाश्च दाराः ।।
स्वर्गस्तथा मुक्तिपदं च सत्सुखं न दुर्लभं सत्यमेतत्तवोक्तम् ।। ३१ ।।
।। सूत उवाच ।। ।।
एवमुक्त्वा बर्बरीकं कृष्णः प्राह घटोत्कचम् ।।
घटोत्कचार्य पुत्रस्ते दृढं सुहृदयो ह्यसौ ।। ३२ ।।
तस्मात्सुहृदयेत्येवं दत्तं नाम मया द्विकम् ।।
एवमुक्त्वा समालिंग्य संतर्ज्य विविधैर्धनैः ।। ३३ ।।
गुप्तक्षेत्राय भगवान्बर्बरीकं समादिशत् ।।
सोऽथ कृष्णं नमस्कृत्य पितरं यादवांश्च तान् ।। ३४ ।।
अनुज्ञाप्य च तान्सर्वान्गुप्तक्षेत्रं समाव्रजत् ।।
घटोत्कचोऽपि कृष्णेन विसृष्टः स्ववनं ययौ ।। ३५ ।।
स्मरन्पुत्रगुणान्पत्न्या स्वराज्यं समपालयत् ।।
ततः सुहृदयो धीमान्दग्धस्थल्यां कृताश्रमः ।। ३६ ।।
त्रिकालं पूजयामास देवीः कर्मसमाधिभिः ।।
नित्यं पुष्पैश्च धूपैश्च उपहारैः पृथग्विधैः ।। ३७ ।।
तस्याराधयतो देव्यस्तुतुषुर्हायनैस्त्रिभिः ।।
ततः प्रत्यक्षतो भूत्वा बलात्तस्य महात्मनः ।। ३८ ।।
बलं यत्त्रिषु लोकेषु कस्यचिन्नास्ति दुर्लभम् ।।
ऊचुश्च कंचित्कालं त्वं वसात्रैव महाद्युते ।। ३९ ।।
संगत्या विजयस्य त्वं भूयः श्रेयो ह्यवाप्स्यसि ।।
इत्युक्तः सर्वदेवीभिः स तत्रैव व्यवस्थितः ।।1.2.61.४० ।।
आजगामाथ विजयो नाम्ना मागधब्राह्मणः ।।
स सर्वां पृथिवीं कृत्वा पादाक्रांतां द्विजोत्तमः ।। ४१ ।।
काश्यां विद्याबलं प्राप्य साधनार्थमुपाययौ ।।
गुहेश्वरमुखान्येष सप्तलिंगान्यपूजयत् ।। ।।४२।।
आराधयामास चिरं देवीर्विद्याफलाप्तये।।
ततस्तुष्टास्तस्य देव्यः स्वप्ने प्रोचुरिदं वचः।।४३।।
विद्यां साधय त्वं साधो सिद्धमातुः पुरोंऽगणे ।।
अयं भक्तः सुहृदयः साहाय्यं ते करिष्यति ।। ४४ ।।
ततस्तद्वचनं श्रुत्वा विजयः स्वप्नमध्यतः ।।
उत्थाय गत्वा देव्यास्तं वव्रे भीमात्म जात्मजम् ।। ४५ ।।
सोऽपि देवीवचः श्रुत्वा मेने साहाय्यकारणम् ।।
ततः कृष्णचतुर्दश्यामुपोष्य विजयः शुचिः ।। ४६ ।।
स्नात्वाभ्यर्च्यैव लिंगानि देवीश्चैवार्चयत्पृथक् ।।
कृत्वा स्नानमुपोष्यैव बर्बरीकोंऽतिकेऽभवत् ।। ४७ ।।
प्रथमायां ततो रात्रौ ययौ सिद्धांबिकापुरः ।।
मंडलं तत्र कृत्वा च भगाकारं करान्नव ।। ४८ ।।
अष्टदिक्ष्वष्टकीलांश्च निखन्यैव ससूत्रकान् ।।
कृष्णाजिनधरो भूत्वा बर्बरीकसमन्वितः ।। ४९ ।।
शिखामाबद्ध्य दिग्बंधं कृत्वा रेभे ततो विधिम् ।।
मध्ये वै मंडलस्यापि कुंडे शुभ्रे त्रिमेखलं ।। 1.2.61.५० ।।
समर्प्य च ततः खड्गं खादिरं मंत्रतेजितम् ।।
संस्थाप्य कीलानभितो बर्बरीकमथाब्रवीत् ।। ५१ ।।
शुचिर्विनिद्रः संतिष्ठ स्तवं देव्याः समुद्गिरन् ।।
यावत्कर्म करोम्येष यथा विघ्नं न जायते ।। ५२ ।।
इत्युक्ते संस्थिते तत्र बर्बरीके महाबले ।।
विजयः शोषणं दाहं प्लावनं कृतवान्यमी ।। ५३ ।।
ततः सुखासनो भूत्वा गुंगुरुभ्यो नमः इति ।।
मंत्रमष्टोत्तरशतं जप्त्वा गुरुभ्यः प्रणम्य च ।।
ततो गणेश्वरविधानमारब्धवान् ।। ५४ ।।
अथातः संप्रवक्ष्यामि मंत्रं गणपतेः परम् ।। ५५ ।।
सर्वकार्यकरं स्वल्पं महार्थं सर्वसिद्धिदम् ।। ५६ ।।
ॐगांगींगूंगैंगौंगः सप्ताक्षरोऽयं महामंत्रः ।।
ॐगणपतिमंत्रस्य गणको नाम ऋषिः विघ्नेश्वरो देवता गं बीजम् ॐशक्तिः पूजार्थे जपार्थे वा तिलकार्थे वा मनस ईप्सितार्थे होमार्थे वा विनियोग इति ।।
साध कस्य पूर्वं तिलककरणम् ।।
ॐगांगणपतये नमः ।।
इति तिलकस्योपरि अक्षतान्दद्यात् अनेन मन्त्रेण ।।
ॐ गांगणपतये नमः ।।
इति तिलकमंत्रः ।।
ॐगां गणपतये नमः ।।
अनेन मंत्रेण गणेशाय पुष्पांजलित्रयं दद्यात् ।।
मूलमंत्रेणात्र चंदनगंधपुष्पधूपदीपनैवेद्यपूगीफल तांबूलादिकं दद्यात् ।।
अत ऊर्ध्वं मूलमन्त्रेण जपं कुर्यात् ।।
अष्टोत्तरशतं सहस्रं लक्षं कोटिं चेति यथाशक्ति जप्त्वा दशांशहोमार्थे गणेशाग्नये आवाहयामीति अग्निमावाह्य ।।
ॐ गां गणपतये स्वाहेति मन्त्रेण गुग्गुलगुटिकाभिर्होमं विदध्याद्विनियोगं चेति गाणेश्वरो ता?कल्पः ।।
य एवं सर्व विघ्नेषु साधयेन्मन्त्रमुत्तमम् ।।
सर्वविघ्नानि नश्यंति मनोभीष्टं च सिध्यति ।। ५७ ।।
डाकिन्यो यातुधानाश्च प्रेताद्याश्च भयंकराः ।।
शत्रूणां जायते नाशो वशीकरणमेव च ।। ५८ ।।
इमं गाणेश्वरं कल्पं विजानन्विजयोऽपि च ।।
तिलकं विधिना कृत्वा जप्त्वा चाष्टोत्तरं शतम् ।। ५९ ।।
दशांशं गुटिका हुत्वा पूज्य सिद्धिविनायकम् ।।
सिद्धेयक्षेत्रपालस्य चक्रे पूजां ततो निशि ।। 1.2.61.६० ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे महाविद्यासाधने गाणेश्वरकल्पवर्णनंनामैकषष्टितमोऽध्यायः ।। ६१ ।।