स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ३३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३२ स्कन्दपुराणम्
अध्यायः ३३
वेदव्यासः
अध्यायः ३४ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६

॥नारद उवाच॥
ततस्तं गिरिवर्ष्माणं पतितं वसुधोपरि॥
आलिंगितमिव पृथ्व्या गुणिन्या गुणिनं यथा॥ ३३.१ ॥

दृष्ट्वा देवा विस्मितास्ते जयं जगुस्तथा मुहुः॥
केचित्समीपमागंतुं बिभ्यति त्रिदिवौकसः॥ ३३.२ ॥

उत्थाय तारको दैत्यः कदा चिन्नो निहंति चेत्॥
तं तथा पतितं दृष्ट्वा वसुधामण्डले गुहः॥ ३३.३ ॥

आसीद्दीनमनाः पार्थ शुशोच च महामतिः॥
स्तवनं चापि देवानां वारयित्वा वचोऽब्रवीत्॥ ३३.४ ॥

शोच्यं पातकिनं मां च संस्तुवध्वं कथं सुराः॥
पंचानामपि यो भर्ता प्राकृतोऽसौ न कीर्त्यते॥ ३३.५ ॥

स तु रुद्रांशजः प्रोक्तस्तस्य द्रुह्यन्न रुद्रँवत्॥
स्वायंभुवेन गीतश्च श्लोकः संश्रूयते तथा॥ ३३.६ ॥

वीरं हि पुरुषं हत्वा गोसहस्रेण मुच्यते॥
यथाकथंचित्पुरुषो न हंतव्यस्ततो बुधैः॥ ३३.७ ॥

पापशीलस्य हनने दोषो यद्यपि नास्ति च॥
तथापि रुद्रभक्तोऽयं संस्मरन्निति शोचिमि॥ ३३.८ ॥

तदहं श्रोतुमिच्छामि प्रायाश्चित्तं च किंचन॥
प्रायश्चित्तैरपैत्येनो यतोपि महदर्जितम्॥ ३३.९ ॥

इति संशोचतस्तस्य शिवपुत्रस्य धीमतः॥
वासुदेवो गुरुः पुंसां देवमध्ये वचोऽब्रवीत्॥ ३३.१० ॥

श्रुतिः स्मृतिश्चेतिहासाः पुराणं च शिवात्मज॥
प्रमाणं चेत्ततो दुष्टवधे दोषो न विद्यते॥ ३३.११ ॥

स्वप्राणान्यः परप्राणैः प्रपुष्णात्यघृणः पुमान्॥
तद्वधस्तस्य हि श्रेयो यद्दोषाद्यात्यधः पुमान्॥ ३३.१२ ॥

अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्या पचारिणी॥
गुरौ शिष्यश्च याज्यश्च स्तेनो राजनि किल्बिषम्॥ ३३.१३ ॥

पापिनं पुरुषं यो हि समर्थो न निहंति च॥
तस्य तावंति पापानि तदर्धं सोऽप्यवाश्रुते॥ ३३.१४ ॥

पापिनो यदि वध्यंते नैव पालनसंस्थितैः॥
ततोऽयमक्षमो लोकः कं याति शरणं गुह॥ ३३.१५ ॥

कथं यज्ञाश्च वेदाश्च वर्तते विश्वधारकाः॥
तस्मात्त्वया पुण्यमाप्तं न च पापं कथंचन॥ ३३.१६ ॥

अथ चेद्रुद्रभक्तेषु बहुमानस्तव प्रभो॥
तत्र ते कीर्तयिष्यामि प्रायश्चित्तं महोत्तमम्॥ ३३.१७ ॥

आजन्मसंभवैः पापैः पुमान्येन विमुच्यते॥
आकल्पांत च वा येन रुद्रलोके प्रमोदते॥ ३३.१८ ॥

कृते पापेऽनुतापो वै यस्य स्कन्द प्रजायते॥
रुद्राराधनतोऽन्यच्च प्रायश्तित्तं परं न हि॥ ३३.१९ ॥

न यस्यालमपि ब्रह्मामहिमानं विवर्णितुम्॥
श्रुतिश्च भीता यं वक्ति किं तस्मात्परमं भवेत्॥ ३३.२० ॥

अकांडे यच्च ब्रह्मांडक्षयोद्युक्तं हलाहलम्॥
कण्ठे दधार श्रीकण्ठः कस्तस्मात्परमो भवेत्॥ ३३.२१ ॥

दुःखतांडवदीनोऽभूदण्डसंकीर्णमानसः॥
मारमारश्च यो देवः कस्तस्मात्परमो भवेत्॥ ३३.२२ ॥

वियद्व्यापी सुरसरित्प्रवाहो विप्रुषाकृतिः॥
बभूव यस्य शिरसि कस्तस्मात्परमो भवेत्॥ ३३.२३ ॥

यज्ञादिकाश्च ये धर्मा विना यस्यार्चनं वृथा॥
दक्षोऽत्र सत्यदृष्टांतः कस्तस्मात्परमो भवेत्॥ ३३.२४ ॥

क्षोणी रथो विधिर्यंता शरोऽहं मन्दरो धनुः॥
रथांगे चापि चंद्रार्कौ युद्धे यस्य च त्रैपुरे॥ ३३.२५ ॥

आराधनं तस्य केचिद्योगमार्गेण कुर्वते॥
दुःखसाध्यं हि तत्तेषां नित्यं शून्यमुपासताम्॥ ३३.२६ ॥

तस्मात्तस्यार्चयेल्लिंगं भुक्तिमुक्ती य इच्छति॥
सृष्ट्यादौ लिंगरूपी स विवादो मम ब्रह्मणः॥ ३३.२७ ॥

अभूद्यस्य परिच्छेदे नालमावां बभूविव॥
चराचरं जगत्सर्वं यतो लीनं सदात्र च॥ ३३.२८ ॥

तस्माल्लिंगमिति प्रोक्तं देवै रुद्रस्य धीमतः॥
तोयेन स्नापयेल्लिंगं श्रद्धया शुचिना च यः॥ ३३.२९ ॥

ब्रह्मादितृणपर्यंतं तेनेदं तर्पितं जगत्॥
पंचामृतेन तल्लिंगं स्नापयेद्यश्च बुद्धिमान्॥ ३३.३० ॥

तर्पितं तेन विश्वं स्यात्सुधया पितृभिः समम्॥
पुष्पैरभ्यर्चयेल्लिंगं यथाकालोद्भवैश्चयः॥ ३३.३१ ॥

तेन संपूजितं विश्वं सकलं नात्र संशयः॥
नैवेद्यं तत्र यो दद्याल्लिंगस्याग्रे विचक्षणः॥ ३३.३२ ॥

भोजितं तेन विश्वं स्याल्लिंगस्यैवं फलं महत्॥
किमत्र बहुनोक्तेन स्वल्पं वा यदि व बहु॥ ३३.३३ ॥

लिंगस्य क्रियते यच्च तत्सर्वं विश्वप्रीतिदम्॥
तच्च लिगं स्थापयेद्यः शुचौ देशे सुभक्तितः॥ ३३.३४ ॥

स सर्वपापनिर्मुक्तो रुद्रलोके प्रमोदते॥
यन्नित्यं यजतो यज्ञैः फलमाहुर्मनीषिणः॥ ३३.३५ ॥

तच्च स्थापयतो लिंगं शिवस्य शुभलक्षणम्॥
यथाग्निः सर्वदेवानां मुखं स्कन्द प्रकीर्त्यते॥ ३३.३६ ॥

तथैव सर्वजगतां मुखं लिंगं न संशयः॥
प्रारंभान्मुच्यते पापैः सर्वजन्मकृतैरपि॥ ३३.३७ ॥

अतीतं च तथागामि कुलानां तारयेच्छतम्॥
मृन्मयं काष्ठनिष्पन्नं पक्वेष्टं शैलमेव च॥ ३३.३८ ॥

कृतमायतनं दद्यात्क्रमाच्छतगुणं फलम्॥
कलशं तत्र चारोप्य एकविंशत्कुलैर्युतः॥ ३३.३९ ॥

आकल्पांतं रुद्रलोके मोदते रुद्रवत्सुखी॥
एवंविधफलं लिंगमतो भूयोऽप्यधो न हि॥ ३३.४० ॥

तस्मादत्र महासेन लिंगं स्थापितुमर्हसि॥
यदुक्तमेतदश्लीलं यदि किंचन चात्र चेत्॥ ३३.४१ ॥

तद्ब्रवीतु महा सेन स्वयं साक्षी महेश्वरः॥
एवं वदति गोविंदे साधुवादो महानभूत्॥ ३३.४२ ॥

महादेवो ह्यथालिंग्य स्कन्दं वचनब्रवीत्॥
यद्भवान्मम भक्तेषु प्रकरोति कृपां पराम्॥ ३३.४३ ॥

तेनापि परमा प्रीतिर्मम जाता तवोपरि॥
किं तु यद्भगवानाह वासुदेवो जगद्गुरुः॥ ३३.४४ ॥

तत्त्था नान्यथा किंचिदत्र प्रोक्तं हि विष्णुना॥
यो ह्यहं स हरिर्ज्ञेयो यो हरिः सोऽहमित्युता॥ ३३.४५ ॥

नावयोरंतरं किंचिद्दीपयोरिव सुव्रत॥
एनं द्वेष्टि स मां द्वेष्टियोन्वेत्येनं स माऽनुगः॥ ३३.४६ ॥

इति स्कन्द विजानाति स मद्भक्तोन्यथा न हि॥ ३३.४७ ॥

॥स्कन्द उवाच॥
एवमेवास्मि जानामि त्वां च विष्णुं च शंकर॥ ३३.४८ ॥

यच्च लिंगकृते प्राह हरिर्मां धर्मवत्सलः॥
खे वाणी तारकवधे एवमेव पुराह माम्॥ ३३.४९ ॥

लिंगं संस्थापयिष्यामि सर्वपापा पहं ततः॥
एकं यत्र प्रतिज्ञा मे गृहीतास्य वधाय च॥ ३३.५० ॥

द्वितीयं यत्र निःसत्त्वसत्यक्तः शक्त्याऽसुरोऽभवत्॥
तृतीयं यत्र निहतो हत्या पापोपशांतिदम्॥ ३३.५१ ॥

इत्युक्त्वा विश्वकर्माणमाहूय प्राह पावकिः॥
त्रीणि लिंगानि शुद्धानि शीघ्रं त्वं कर्तुमर्हसि॥ ३३.५२ ॥

वचनाद्बाहुलेयस्य निर्ममे देववर्द्धकिः॥
त्रीणि लिंगानि शुद्धानि न्यवेदयत तानि च॥ ३३.५३ ॥

ततो ब्रह्मादिभिः सार्धं विष्णुना शंकरेण च॥
पूर्वं संस्थापयामास पश्चिमायामदूरतः॥ ३३.५४ ॥

प्रतिज्ञेश्वरमित्येव लिंगं परमशोभनम्॥
अष्टम्यां बहुले चात्र चैत्रे स्नात्वा उपोष्य च॥ ३३.५५ ॥

पूजां च जागरं कृत्वा मुच्येत्पारुष्यपापतः॥
इत्याह स्कंदप्रीत्यर्थं स्वयं तत्र महेश्वरः॥ ३३.५६ ॥

ततो द्वितीयं लिंगं तु वह्निकोणाश्रितं तथा॥
स्थापयामास सरसो यत्र शक्तिर्विनिर्ययौ॥ ३३.५७ ॥

कपालेश्वरमित्येव लिंगं पापापहं शुभम्॥
शक्तिं च तामभिष्टूय स्थापयामास तत्र च॥ ३३.५८ ॥

कपालेश्वरसांनिध्यं देवीं कापालिकेश्वरीम्॥
तत्र चोत्तरदिग्भागे शक्तिच्छिद्रं प्रचक्षते॥ ३३.५९ ॥

पातालगंगा यत्रास्तिं सर्वपापहरा शिवा॥
तत्र स्नात्वा ददौ स्कंदः कृपयाभिपरिप्लुतः॥ ३३.६० ॥

तदा तोयं तारकाय सहितः सर्वदैवतैः॥ ३३.६१ ॥

काश्यपेयाय वज्रांगतनयाय महात्मने॥
रुद्रभक्ताय सतिलमक्षय्योदकमस्त्विति॥ ३३.६२ ॥

ततो महेश्वरः प्रीतः प्राह स्कंदस्य श्रृण्वतः॥
चतुर्दश्यां कृष्णपक्षे मधौ चैवात्र यो नरः॥
स्नात्वोपोष्य समभ्यर्च्य कपालेश्वरमीश्वरीम्॥ ३३.६३ ॥

तेजोवधसमुद्भूतपातकेन स मुच्यते॥ ३३.६४ ॥

अस्यामेव तिथौ सोमः शिवयोगश्च तैतिलम्॥
षड्योगः शक्तिच्छिद्रेयो दिनं रुद्रं जपन्निशि॥
स्नात्वात्र सशरीरो वै रुद्रलोकं व्रजीष्यति॥ ३३.६५ ॥

कपालेशस्य सांनिध्ये शक्तिच्छिद्रं हि कीर्त्यते॥
तस्य तुल्यं परं तीर्थं पृथिव्यां नैव विद्यते॥ ३३.६६ ॥

इति श्रुत्वा रुद्रवाक्यं स्कंदः प्रीतोऽभवद्भृशम्॥
देवाश्च मुदिताः सर्वे साधुसाध्विति ते जगुः॥ ३३.६७ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारस्थापितज्ञेश्वरशक्तिच्चिद्रेश्वर माहात्म्यवर्णनं नाम त्रयस्त्रिंशो.़ध्यायः॥ ३३ ॥ छ ॥