स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ४२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४१ स्कन्दपुराणम्
अध्यायः ४२
वेदव्यासः
अध्यायः ४३ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६

॥नारद उवाच॥
ततो मया स्थापिते च स्थाने कालांतरेण ह॥
चिंतितं हृदये भूयो द्विजानुग्रहकाम्यया॥ ४२.१ ॥

वासुदेवविहीनं हि तीर्थमेतन्न रोचते॥
असूर्यं हि जगद्यद्वत्स हि भूषण भूषणम्॥ ४२.२ ॥

यत्र नैव हरिः स्वामी तीर्थे गेहेऽथ मानसे॥
शास्त्रे वा तदसत्सर्वं हांसं तीर्थं न वायसम्॥ ४२.३ ॥

तस्मात्प्रसाद्य वरदं तीर्थेऽस्मिन्पुरुषोत्तमम्॥
आनेष्ये कलया साक्षाद्विश्वनुग्रहकाम्यया॥ ४२.४ ॥

इति संचिंत्य कौरव्य ततोऽहं चात्र संस्थितः॥
ज्ञानयोगेन योगींद्रं शतं वर्षाण्यतोषयम्॥ ४२.५ ॥

अष्टाक्षरं जपन्मंत्रं संनिगृह्येंद्रियाणि च॥
वासुदेवमयो भूत्वा सर्वभूतकृपापरः॥ ४२.६ ॥

एवं मयाराध्यमानो गरुडं हरिरास्थितः॥
गणकोटिपरिवृतः प्रत्यक्षः समजायत॥ ४२.७ ॥

तमहं प्रांजलिर्भूत्वा दत्त्वार्घ्यं विधिवद्धरेः॥
प्रत्यवोचं प्रमम्याथ प्रबद्धकरसं पुटः॥ ४२.८ ॥

श्वेतद्वीपे पुरा दृष्टं मया रूपं तव प्रभो॥
अजं सनातनं विष्णो नरनारायणात्मकम्॥ ४२.९ ॥

तद्रूपस्य कलामेकां स्थापयात्र जनार्दन॥
यदि तुष्टोऽसि मे विष्णो तदिदं क्रियतां त्वया॥ ४२.१० ॥

एवं मया प्रार्थितोऽथ प्रोवाच गरुडध्वजः॥
एवमस्तु ब्रह्मपुत्र यत्त्वयाभीप्सितं हृदि ॥ ४२.११ ॥

तत्तथा भविता सर्वमप्यत्रस्थं सदैव हि॥
एवमुक्त्वा गते विष्णौ निवेश्य स्वकलां प्रभो॥ ४२.१२ ॥

मया संस्थापितो विष्णुर्लोकानुग्रहकाम्यया॥
यस्मात्स्वयं श्वेतद्वीपनिवास्यत्र हरिः स्थितः॥ ४२.१३ ॥

वृद्धो विश्वस्य विश्वाख्यो वासुदेवस्ततः स्मृतः॥
कार्तिके शुक्लपक्षे या भवत्ये कादशी शुभा॥ ४२.१४ ॥

स्नानं कृत्वा विधानेन तोयप्रस्रवणादिषु॥
योर्चयेदच्युतं भक्त्या पंचोपचारपूजया॥ ४२.१५ ॥

उपोष्य जागरं कुर्याद्गीतवाद्यं हरेः पुरः॥
कथां वा वैष्णवीं कुर्याद्दंभक्रोधविवर्जितः॥ ४२.१६ ॥

दानं दद्याद्यथाशक्त्या नियतो हृष्टमानसः॥
अनेकभवसंभूतात्कल्मषादखिलादपि॥ ४२.१७ ॥

मुच्यतेऽसौ न संदेहो यद्यपि ब्रह्मघातकः॥
गारुडेन विमानेन वैकुंठं पदमाप्नुयात्॥ ४२.१८ ॥

कुलानां तारयेत्पार्थ शतमेकोत्तरं नरः॥
श्रद्धायुक्तं मुदा युक्तं सोत्साहं सस्पृहं तथा॥ ४२.१९ ॥

अहंकारविहीनं च स्नानं धूपानुपनम्॥
पुष्पनैवेद्यसंयुक्तमर्घदानसमन्वितम्॥ ४२.२० ॥

यामेयामे महाभक्त्या कृतारार्तिकसंयुतम्॥
चामराह्लादसंयुक्तं भेरीनादपुरस्कृतम्॥ ४२.२१ ॥

पुराणश्रुतिसंपन्नं भक्तिनृत्यसमन्वितम्॥
विनिद्रंक्षृत्तृषास्वादस्पृहाहीनं च भारत॥ ४२.२२ ॥

तत्पादसौरभघ्राणसंयुतं विष्णुवल्लभम्॥
सगीतं सार्चनकरं तत्क्षेत्रगमनान्वितम्॥ ४२.२३ ॥

पायुरोधेन संयुक्तं ब्रह्मचर्यसमन्वितम्॥
स्तुतिपाठेन संयुक्तं पादोदकविभूषितम्॥ ४२.२४ ॥

सत्यान्वितं सत्ययोगसंयुतं पुण्यवार्तया॥
पंचविंशतिभिर्युक्तं गुणैर्यो जागरं नरः॥
एकादश्यां प्रकुर्वीत पुनर्न जायते भुवि॥ ४२.२५ ॥

अत्र तीर्थवरे पूर्वमैतरेय इति द्विजः॥
सिद्धिं प्राप्तो महाभागो वासुदेवप्रसादतः॥ ४२.२६ ॥

॥अर्जुन उवाच॥
ऐतरेयः कस्य पुत्रो निवासः क्वास्य वा मुने॥
कथं सिद्धिमागाद्धीमान्वासुदेवप्रसादतः॥ ४२.२७ ॥

॥नारद उवाच॥
अस्मिन्नेव मम स्थाने हारीतस्यान्वयेऽभवत्॥ ४२.२८ ॥

मांडूकिरिति विप्राग्र्यो वेदवेदांगपारगः॥ ४२.२९ ॥

तस्यासी दितरा नाम भार्या साध्वीगुणैर्युता॥
तस्यामुत्पद्यत सुतस्त्वैतरेय इति स्मृतः॥ ४२.३० ॥

स च बाल्यात्प्रभृत्येव प्राग्जन्मन्यनुशिक्षितम्॥
जजापमंत्रं त्वनिशं द्वादशाक्षरसंज्ञितम्॥ ४२.३१ ॥

न श्रृणोति न वक्त्येव मनसापि च किंचन॥
एवंप्रभावः सोऽभूच्च बाल्ये विप्रसुतस्तदा॥ ४२.३२ ॥

ततो मूकोऽयमित्येव नानोपायैः प्रबोधितः॥
पित्रा यदा न कुरुते व्यवहाराय मानसम्॥ ४२.३३ ॥

ततो निश्चित्य मनसा जडोयमिति भारत॥
अन्यां विवाहयामास दारान्पुत्रांस्तथादधे॥ ४२.३४ ॥

पिंगानाम च सा भार्या तस्याः पुत्राश्च जज्ञिरे॥
चत्वारः कर्मकुशला वेदवेदांगवादिनः॥ ४२.३५ ॥

यज्ञेषु शांतिहोमेषु द्विजैः सर्वत्र पूजिताः॥
ऐतरेयोपि नित्यं च त्रिकालं हरिकंदिरे॥ ४२.३६ ॥

जजाप परमं जाप्यं नान्यत्र कुरुते श्रमम्॥
ततो माता निरीक्ष्यैव सपत्नीतनयांस्तथा॥ ४२.३७ ॥

दार्यमाणेन मनसा तनयं वाक्यमब्रवीत्॥
क्लेशायैव च जातोऽसि धिग्मे जन्म च जीवितम्॥ ४२.३८ ॥

नार्यास्तस्या नृलोकेऽत्र वरैवाजननिः स्फुटम्॥
विमानिता या भर्त्रास्यान्न पुत्रः स्याद्गुणैर्युतः॥ ४२.३९ ॥

पिंगेयं कृतपुण्या वै यस्याः पुत्रा महागुणाः॥
वेदवेदांगतत्त्वज्ञाः सर्वत्राभ्यर्चिता गुणैः॥ ४२.४० ॥

तदहं पुत्र दुर्भाग्या महीसागरसंगमे॥
निमज्जीष्ये वरं मृत्युर्जीविते किं फलं मम॥
त्वमप्येवं महामौनी नन्द भक्तो हरेश्चिरम्॥ ४२.४१ ॥

॥नारद उवाच॥
इति मातुर्वचः श्रुत्वा प्रहसन्नैतरेयकः॥ ४२.४२ ॥

ध्यात्वा मुहुर्तं धर्मज्ञो मातरं प्रणतोऽब्रवीत्॥
मातर्मिथ्याभिभूतासि अज्ञाने ज्ञानवत्यसि॥ ४२.४३ ॥

अशोच्ये शोचसि शुभे शोच्ये नैवाऽपि शोचसि॥
देहस्यास्य कृते मिथ्यासंसारे किं विमुह्यसि॥ ४२.४४ ॥

मूर्खाचरितमेतद्धि मन्मातुरुचितं न हि॥
अन्यत्संसारसारं च सारमन्यच्च मोहिताः॥ ४२.४५ ॥

प्रपश्यंति यथा रात्रौ खद्योतं दीपवत्स्थितम्॥
यदिदं मन्यसे सारं श्रृणु तस्याप्यसारताम्॥ ४२.४६ ॥

एवंविधं हि मानुऽयमा गर्भादिति कष्टदम्
अस्थिपट्टतुलास्तम्भे स्नायुबन्धेन यंत्रिते॥ ४२.४७ ॥

रक्तमांसमदालिप्ते विण्मूत्रद्रव्यभाजने॥
केशरोमतृणच्छन्ने सुवर्णत्वक्सुधूतके॥ ४२.४८ ॥

वदनैकमहाद्वारे षड्गवाक्षवितभूषिते॥
ओष्ठद्वयकाटे च तथा दंतार्गलान्विते॥ ४२.४९ ॥

नाडीस्वेदप्रवाहे च कालवक्त्रानलस्थिते॥
एवंविधे गृहे गेही जीवो नामास्ति शोभने॥ ४२.५० ॥

गुणत्रयमयी भार्या प्रकृतिस्तस्य तत्र च॥
बोधाहंकारकामाश्च क्रोधलोभादयोऽपि च ॥ ४२.५१ ॥

अपत्यान्यस्य हा कष्टमेवं मूढः प्रवर्तते॥
तस्य योयो यथा मोहस्तथा तं श्रृणु तत्त्वतः॥ ४२.५२ ॥

स्रोतांसि यस्य सततं प्रस्रवंति गिरेरिव॥
कफमूत्रादिकान्यस्य कृते देहस्य मुह्यति॥ ४२.५३ ॥

सर्वाशुचिनिधानस्य शरीरस्य न विद्यते॥
शुचिरेकप्रदेशोऽपि विण्मूत्रस्य दृतेरिव॥ ४२.५४ ॥

स्पृष्ट्वा स्वदेहस्रोतांसि मृत्तोयैः शोध्यते करः॥
तथाप्यशुचिभांडस्य न विरज्यति किं नरः॥ ४२.५५ ॥

कायः सुगन्धतोयाद्यैर्यत्नेनापि सुसंस्कृतः॥
न जहाति स्वकं भावं श्वपुच्छमिव नामितम्॥ ४२.५६ ॥

स्वदेहाशुचिगंधेन न विरज्यति यो नरः॥
विरागे कारणं तस्य किमन्यदु पदिश्यते॥ ४२.५७ ॥

गन्धलेपापनोदार्थं शौचं देहस्य कीर्तितम्॥
द्वयस्यापगमात्पश्चाद्भावशुद्ध्या विशुध्यति॥ ४२.५८ ॥

गंगातोयेन सर्वेण मृद्भारैः पर्वतोपमैः॥
आ मृत्योराचरञ्छौचं भावदुष्टो न शुध्यति॥ ४२.५९ ॥

तीर्थस्नानैस्तपोभिर्वा दुष्टात्मा नैव शुध्यति॥
स्वेदितः क्षालितस्तीर्थे किं शुद्धिमधिगच्छति॥ ४२.६० ॥

अंतर्भावप्रदुष्टस्य विशतोऽपि हुताशनम्॥
न स्वर्गो नापपर्गश्च देहनिर्दहनं परम्॥ ४२.६१ ॥

भावशुद्धिः परं शौचं प्रमाणं सर्वकर्मसु॥
अन्यथालिंग्यते कांता भावेन दुहिताऽन्यथा॥ ४२.६२ ॥

अन्यथैव स्तनं पुत्रश्चिंतयत्यन्यथा पतिः॥
चित्तं विशोधयेत्तस्मात्किमन्यैर्बाह्यशोधनैः॥ ४२.६३ ॥

भावतः संविशुद्धात्मा स्वर्गं मोक्षं च विंदति॥
ज्ञानामलांभसा पुंसः सद्वैराग्यमृदा पुनः॥ ४२.६४ ॥

अविद्यारागविण्मूत्रलेपगंधविशोधनम्॥
एवमेतच्छरीरं हि निसर्गादशुचि विदुः॥ ४२.६५ ॥

त्वङ्मात्रसारनिःसारं कदलीसारसंनिभम्॥
ज्ञात्वैवं दोषवद्देहं यः प्राज्ञः शिथिलीभवेत्॥ ४२.६६ ॥

स निष्क्रामति संसारे दृढग्राही स तिष्ठति॥
एवमेतन्महाकष्टं जन्म दुःखं प्रकीर्तितम्॥ ४२.६७ ॥

पुंसामज्ञातदोषेण नानाकर्मवशेन च॥
यथा गिरिवराक्रांतः कश्चिद्दुःखेन तिष्ठति॥ ४२.६८ ॥

यथा जरायुणा देही दुःखं तिष्ठति वेष्टितः॥
पतितः सागरे यद्वद्दृःखमास्ते समाकुलः॥ ४२.६९ ॥

गर्भोदकेन सिक्तांगस्तथाऽऽस्ते व्याकुलः पुमान्॥
लोहकुम्भे यथान्यस्त पच्यते कश्चिदग्निना॥ ४२.७० ॥

गर्भकुम्भे तथा क्षिप्तः पच्यते जठराग्निना॥
सूचीभिरग्निवर्णाभिर्विभिन्नस्य निरन्तरम्॥ ४२.७१ ॥

यद्दुःखं जायते तस्य तद्गर्भेऽष्टगुणं भवेत्॥
इत्येतद्गर्भदुःखं हि प्राणिनां परिकीर्तितम्॥ ४२.७२ ॥

चरस्थिराणां सर्वेषामात्मगर्भानुरूपतः॥
तत्रस्थस्य च सर्वेषां जन्मनां स्मरणं भवेत्॥ ४२.७३ ॥

मृतश्चाहं पुनर्जातो जातश्चाहं पुनर्मृतः॥
नानायोनिसहस्राणि मया दृष्टान्वनेकधा॥ ४२.७४ ॥

अधुना जातमात्रोऽहं प्राप्तसंस्कार एव च॥
ततः श्रेयः करिष्यामि येन गर्भो न संभवेत्॥ ४२.७५ ॥

अध्येष्यामि हरेर्ज्ञानं संसारविनिवर्तनम्॥
एवं संचिंतयन्नास्ते मोक्षोपायं विचिन्तयन्॥ ४२.७६ ॥

गभात्कोटिगुणं दुःखं जायमानस्य जायते॥
गर्भवासे स्मृतिर्यासीत्सा जातस्य प्रणश्यति॥ ४२.७७ ॥

स्पृष्टमात्रस्य बाह्येन वायुना मूढता भवेत्॥
संमूढस्य स्मृतिभ्रंशः शीघ्रं संजायते पुनः॥ ४२.७८ ॥

स्मृतिभ्रंशात्ततस्तस्य पूर्वकर्मवशेन च॥
रतिः संजायते तूर्णं जंतोस्तत्रैव जन्मनि॥ ४२.७९ ॥

रक्तो मूढश्च लोकोयमकार्ये संप्रवर्तते॥
तत्रात्मानं न जानाति न परं न च दैवतम्॥ ४२.८० ॥

न श्रृणोति परं श्रेयः सति चक्षुषि नेक्षते॥
समे पथि समैर्गच्छन्स्खलतीव पदेपदे॥ ४२.८१ ॥

सत्यां बुद्धौ न जानाति बोध्यमानो बुधैरपि॥
संसारे क्लिश्यते तेन रागमोहवशानुगः॥ ४२.८२ ॥

गर्भस्मृतेरभावेन शास्त्रमुक्तं महर्षिभिः॥
तद्दृःखकथनार्थाय स्वर्गमोक्षप्रसाधकम्॥ ४२.८३ ॥

ये शास्त्रज्ञाने सत्यस्मिन्सर्वकर्मार्थसाधके॥
न कुर्वंत्यात्मनः श्रेयस्तदत्र परमद्भुतम्॥ ४२.८४ ॥

अव्यक्तेन्द्रियवृत्तित्वाद्बाल्ये दुःखं महत्पुनः॥
इच्छन्नपि न शक्नोति वक्तुं कर्तुं च किञ्चन॥ ४२.८५ ॥

दंतोत्थाने महद्दुःखं मौलेन व्याधिना तथा॥
बालरोगैश्च विविधैः पीडा बालग्रहैरपि॥ ४२.८६ ॥

तृड्बुभुक्षापरीतांगः क्वचित्तिष्ठति रारटन्॥
विण्मूत्रभक्षणाद्यं च मोहाद्बालः समाचरेत्॥ ४२.८७ ॥

कौमारे कर्णवेधेन मातापित्रोर्विताडनैः॥
अक्षराध्ययनाद्यैश्च दुःखं स्याद्गुरुशासनात्॥ ४२.८८ ॥

प्रमत्तेंद्रियवृत्तैश्च कामरागप्रपीडनात्॥
रागोद्वृत्तस्य सततं कुतः सौख्यं हि यौवने॥ ४२.८९ ॥

ईर्ष्यया सुमहद्दुःखं मोहाद्रक्तस्य जायते॥
मत्तस्य कुपितस्यैव रागो दोषाय केवलम्॥ ४२.९० ॥

न रात्रौ विंदते निद्रा कामाग्निपरिखेदितः॥
दिवापि हि कुतः सौख्यमर्थोपार्जनचिंतया॥ ४२.९१ ॥

नारीषु त्वनुभूतासु सर्वदोषाश्रयासु च॥
विण्मुत्रोत्सर्गसदृशं सौख्यं मैथुनजं स्मृतम्॥ ४२.९२ ॥

सन्मानमपमानेन वियोगेनेष्टसंगमः॥
यौवनं जरया ग्रस्तं क्व सौख्यमनुपद्रवम्॥ ४२.९३ ॥

वलीपलितकायेन शिथिलीकृतविग्रहः॥
सर्वक्रियास्वशक्तश्च जरयाजर्ज्जरीकृतः॥ ४२.९४ ॥

स्त्रीपुंसोर्यौवनं रूपं यदन्योन्याश्रयं पुरा॥
तदेवं जरया ग्रस्तमुभयोरपि न प्रियम्॥ ४२.९५ ॥

जराभिभूतःपुरुषः पत्नीपुत्रादिबांधवैः॥
अशक्तत्वाद्दुराचारैर्भृत्यैश्च परिभूयते॥ ४२.९६ ॥

धर्ममर्थं च कामं च मोक्षं च नातुरो यतः॥
शक्तः साधयितुं तस्माद्युवा धर्मं समाचरेत्॥ ४२.९७ ॥

वातपित्तकफादीनां वैषम्यं व्याधिरुच्यते॥
वातादीनां समूहश्च देहोऽयं परिकीर्तितः॥ ४२.९८ ॥

तस्माद्व्याधिमयं ज्ञेयं शरीरमिदमात्मनः॥
रोगैर्नानाविधैर्यांति देहे दुःखान्यनेकशः॥ ४२.९९ ॥

तानि न स्वात्मवेद्यानि किमन्यत्कथयाम्यहम्॥
एकोत्तरं मृत्युशतमस्मिन्देहे प्रतिष्ठितम्॥ ४२.१०० ॥

तत्रैकः कालसंयुक्तः शेषास्त्वागंतवः स्मृताः॥
ये त्विहागंतवः प्रोक्तास्ते प्रशाम्यन्ति भेषजैः॥ ४२.१०१ ॥

जपहोमप्रदानैश्च कालमृत्युर्न शाम्यति॥
विविधा व्याधयः शस्ताः सर्पाद्याः प्राणिनस्तथा॥ ४२.१०२ ॥

विषाणि चाभिचाराश्च मृत्योर्द्वाराणि देहिनाम्॥
पीडितं सर्परोगाद्यैरपि धन्वंतरिः स्वयम्॥ ४२.१०३ ॥

स्वस्थीकर्तुं न शक्नोति कालप्राप्तं हि देहिनम्॥
नैषधं न तपो मंत्रा न मित्राणि न बांधवाः॥ ४२.१०४ ॥

शक्नुवंति परित्रातुं नरं कालेन पीडितम्॥
रसायनतपोजप्यैर्योगसिद्धैर्महात्मभिः॥ ४२.१०५ ॥

कालमृत्युरपि प्राज्ञैर्नीयते नापि संयुतैः॥
नास्ति मृत्युसमं दुःखं नास्ति मृत्युसमं भयम्॥ ४२.१०६ ॥

नास्ति मृत्युसमस्रासः सर्वेषामपि देहिनाम्॥
सद्भार्यापुत्रमित्राणि राज्यैश्वर्यसुखानि च॥ ४२.१०७ ॥

आबद्धानि स्नेहपाशैर्मृत्युः सर्वाणि कृंतति॥
किं न पश्यसि मातस्त्वं सहस्रस्यापि मध्यतः॥ ४२.१०८ ॥

जनाः शतायुषः पंचभवंति न भवन्ति वा॥
अशीतिका विपद्यन्ते केचित्सप्ततिका नराः॥ ४२.१०९ ॥

परमायुः स्थिता षष्टिस्तदप्यस्ति न निष्ठितम्॥
तस्य यावद्भवेदायुर्देहिनः पूर्वकर्म भिः॥ ४२.११० ॥

तस्यार्धमायुषो रात्रिर्हरते मृत्युरूपिणी॥
बालभावेन मोहेन वार्धके जरया तथा॥ ४२.१११ ॥

वर्षाणां विंशतिर्याति धर्मकामार्थवर्जितः॥
आगन्तुकैर्भवैः पुंसां व्याधिशोकैरनेकधा॥ ४२.११२ ॥

ह्रियतेर्द्धं हि तत्रापि यच्छेषं तद्धि जीवितम्॥
जीवितांतेच मरणं महाघोरमवाप्नुयात्॥ ४२.११३ ॥

जायते योनिकोटीषु मृतः कर्मवशात्पुनः॥
देहभेदेन यः पुंसां वियोगः कर्मसंख्यया॥ ४२.११४ ॥

मरणं तद्विनिर्द्दिष्टं न नाशः परमार्थतः॥
महातमःप्रविष्टस्य च्छिद्यमानेषु मर्मसु॥ ४२.११५ ॥

यद्दुःखं मरणं जंतोर्न तस्येहोपमा क्वचित्॥
हा तात मातर्हा कांते क्रंदत्येवं सुदुःखितः॥ ४२.११६ ॥

मण्डूक इव सर्पेण गीर्यते मृत्युना जनः॥
बांधवैः संपरित्यक्तः प्रियैश्च परिवारितः॥ ४२.११७ ॥

निःश्वसन्दीर्घमुष्णं च मुकेन परिशुष्यता॥
चतुरंतेषु खट्वायाः परिवर्तन्मुहुर्मुहुः॥ ४२.११८ ॥

संमूढः क्षिपतेत्यर्थं हस्तपादावितस्ततः॥
खट्वातो वांछते भूमिं भूमेः खट्वां पुनर्महीम्॥ ४२.११९ ॥

विवस्त्रो मुक्तलज्जश्च विष्ठानुलेपितः॥
याचमानश्च सलिलं शुष्ककण्ठोष्ठतालुकः॥ ४२.१२० ॥

चिंतयानः स्ववित्तानि कस्यैतानि मृते मयि॥
पंचावटान्खनमानः कालपाशेन कर्षितः॥ ४२.१२१ ॥

म्रियते पश्यतामेव गले घुर्घुररावकृत्॥
जीवस्तृणजलूकेव देहाद्देहं विशेत्क्रमात्॥ ४२.१२२ ॥

संप्राप्योत्तरमंशेन देहं त्यजति पूर्वकम्॥
मरणात्प्रार्थना दुःखमधिकं हि विवेकिनः॥ ४२.१२३ ॥

क्षणिकं मरणे दुःखमनंतं प्रार्थनाकृतम्॥
ज्ञातं मयैतदधुना मृतो भवति यद्गुरुः॥ ४२.१२४ ॥

न परः प्रार्थयेद्भूयस्तृष्णा लाघवकारणम्॥
आदौ दुःखं तथा मध्ये ह्यन्त्ये दुःखं च दारुणम्॥ ४२.१२५ ॥

निसर्गात्सर्वभूतानामिति दुःखपरंपरा॥
क्षुधा च सर्वरोगाणां व्याधिः श्रेष्ठतमः स्मृतः॥ ४२.१२६ ॥

स चान्नौषधिलेपेन क्षणमात्रं प्रशाम्यति॥
क्षुद्ध्याधेर्वेदना तीव्रा निःशेषबलकृन्तनी॥ ४२.१२७ ॥

तयाभिभूतो म्रियते यथान्यैर्व्याधिभिर्न्नरः॥
राज्ञोऽभिमानमात्रं हि ममैव विद्यते गृहे॥ ४२.१२८ ॥

सर्वमाभरणं भारं सर्वमालेपनं मम॥
सर्वं प्रलापितं गीतं नित्यमुन्मत्तचेष्टितम्॥ ४२.१२९ ॥

इत्येवं राज्यसंभोगैः कुतः सौख्यं विचारतः॥
नृपाणां व्यग्रचित्तानामन्योन्यविजिगीषया॥ ४२.१३० ॥

प्रायेण श्रीमदालेपान्नहुषाद्या महानृपाः॥
स्वर्गं प्राप्यापि पतिताः कः श्रियो विंदते सुखम्॥ ४२.१३१ ॥

उपर्युपरि देवानामन्योन्यातिशये स्थितम्॥
नरैः पुण्यफलं स्वर्गे मूलच्छेदेन भुज्यते॥ ४२.१३२ ॥

न चान्यत्क्रियते कर्म सोऽत्र दोषः सुदारुणः॥
छिन्नमूलतरुर्यद्वदवशः पतते क्षितौ॥ ४२.१३३ ॥

पुण्यमूलक्षये तद्वत्पातयंति दिवौकसः॥
इति स्वर्गेपि देवानां नास्ति सौख्यं विचारतः॥ ४२.१३४ ॥

तथा नारकिणां दुःखं प्रसिद्धं किं च वर्ण्यते॥
स्थावरेष्वपिदुःखानि दावाग्निहिमशोषणम्॥ ४२.१३५ ॥

कुठारैश्ठेदनं तीव्रं वल्कलानां च तक्षणम्॥
पर्णशखाफलानां च पातनं चंडवायुना॥ ४२.१३६ ॥

अपमर्दश्च सततं गजैर्वन्यैश्च देहिभिः॥
तृड्‌बुभुक्षा च सर्पाणां क्रोधो दुःखं च दारुणम्॥ ४२.१३७ ॥

दुष्टानां घातनं लोके पाशेन च निबन्धनम्॥
एवं सरीसृपाणां च दुःखं मातर्मुहुर्मुहुः॥ ४२.१३८ ॥

अकस्माज्जन्ममरणं कीटादीनां तथाविधम्॥
वर्षाशीतातपैर्दुःखं सुकष्टं मृगपक्षिणाम्॥ ४२.१३९ ॥

क्षुत्तृट्‌क्लेशेन महता संत्रस्ताश्च सदा मृगाः॥
पशुनागनिकायानां श्रृणु दुःखानि यानि च॥ ४२.१४० ॥

क्षुत्तृट्‌छीतादिदमनं वधबन्धनताडनम्॥
नासाप्रवेधनं त्रासः प्रतोदांकुशताडनम्॥ ४२.१४१ ॥

वेणुकुन्तादिनिगडमुद्गरांऽकुशताडनम्॥
भारोद्वहनसंक्लेशं शिक्षायुद्धादिपीडनम्॥ ४२.१४२ ॥

आत्मयूथवियोगश्च वने च नयनादिकम्॥
दुर्भिक्षं दुर्भगत्वं च मूर्खत्वं च दरिद्रता॥ ४२.१४३ ॥

अधरोत्तरभावश्च मरणं राष्ट्रविभ्रमः॥
अन्योन्याभिभवाद्दुःखमन्योन्यातिशयात्पुनः॥ ४२.१४४ ॥

अनित्यता प्रभावाणामुच्छ्रयाणां च पातनम्॥
इत्येवमादिभिर्दुःखैर्यस्माद्व्याप्तं चराचरम्॥ ४२.१४५ ॥

निरयादिमनुष्यांतं तस्मात्सर्वं त्यजेद्बुधः॥
स्कन्धात्सकन्धं नयेद्भारं विश्रामं मन्यतेन्यथा॥ ४२.१४६ ॥

तद्वत्सर्वमिदं लोके दुःखं दुःखेन शाम्यति॥
एवमेतज्जगत्सर्वमन्योन्यातिशयोच्छ्रितम्॥ ४२.१४७ ॥

दुःखैराकुलितं ज्ञात्वा निर्वेदं परमाप्नुयात्॥
निर्वेदाच्च विरागः स्याद्विरागाज्ज्ञानसंभवः॥ ४२.१४८ ॥

ज्ञानेन तं परं ज्ञात्वा विष्णुं मुक्तिमवाप्नुयात्॥
नाहमेतादृशे लोके रमेयं जननि क्वचित्॥ ४२.१४९ ॥

राजहंसो यथा शुद्धः काकामेध्यप्रदर्शकः॥
श्रृणु मातर्यत्र संस्थो रमेयं निरुपद्रवः॥ ४२.१५० ॥

अविद्यायनमत्युग्रं नानाकर्मातिशाखिनम्॥
संकल्पदंशमकरं शोकहर्षहिमातपम्॥ ४२.१५१ ॥

मोहांधकारतिमिरं लोभव्यालसरीसृपम्॥
विषयानन्यथाध्वानं कामक्रोधविमोक्षकम्॥ ४२.१५२ ॥

तदतीत्य महादुर्गं प्रविष्टोऽस्मि महद्वनम्॥
न तत्प्रविश्य शोचंति न प्रदुष्यंति तद्विदः॥ ४२.१५३ ॥

न च बिभ्यति केषांचिन्नास्य बिभ्यति केचन॥ ४२.१५४ ॥

तस्मिन्वने सप्तमहाद्रुमास्तु सप्तैव नद्यश्च फलानि सप्त॥
सप्ताश्रमाः सप्त समाधयश्च दीक्षाश्च सप्तैतदरण्यरूपम्॥ ४२.१५५ ॥

पंचवर्णानि दिव्यानि चतुर्वर्णानि कानिचित्॥
त्रिद्विवर्णैकवर्णानि पुष्पाणि च फलानि च॥ ४२.१५६ ॥

सृजंतः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम्॥ ४२.१५७ ॥

सप्त स्त्रियस्तत्र वसंति सत्यस्त्ववाङ्मुख्यो भानुमतो भवंति॥
ऊर्ध्वं रसानाददते प्रजाभ्यः सर्वाश्च तास्तत्त्वतः कोपि वदे॥ ४२.१५८ ॥

सप्तैव गिरयश्चात्र धृतं यैर्भुवनत्रयम्॥
नद्यश्च सरितः सप्त ब्रह्मवारिवहाः सदा॥ ४२.१५९ ॥

तेजश्चाभयदानत्वमद्रोहः कौशलं तथा॥
अचापल्यम थाक्रोधः प्रियवादश्च सप्तमः॥ ४२.१६० ॥

इत्येते गिरयो ज्ञेयास्तस्मिन्विद्यावने स्थिताः॥
दृढनिश्चयस्तथा भासा समता निग्रहो गुमः॥ ४२.१६१ ॥

निर्ममत्वं तपश्चात्र सन्तोषः सप्तमो ह्रदः॥
भगवद्गुणविज्ञानाद्भक्तिः स्यात्प्रथमा नदी॥ ४२.१६२ ॥

पुष्पादिपूजा द्वितीया तृतीया च प्रदक्षिणा॥
चतुर्थी स्तुतिवाग्रूपा पञ्चमी ईश्वरार्पणा॥ ४२.१६३ ॥

षष्ठी ब्रह्मैकता प्रोक्ता सप्तमी सिद्धिरेव च॥
सप्त नद्योऽत्र कथिता ब्रह्मणा परमेष्ठिना॥ ४२.१६४ ॥

ब्रह्मा धर्मो यमश्चाग्निरिंद्रो वरुण एव च॥ ४२.१६५ ॥

धनदश्च ध्रुवादीनां सप्तकानर्चयंत्यमी॥
नदीनां संगमस्तत्र वैकुंठसमुपह्वरे॥ ४२.१६६ ॥

आत्मतृप्ता यतो यांति शांता दांताः परात्परम्॥
केचिद्द्रुमाः स्त्रियः केचित्केचित्तत्त्वविदोऽपरे॥ ४२.१६७ ॥

सरितः केचिदाहुः स्म सप्तैव ज्ञानवित्तमाः॥
अनपेतव्रतकामोऽत्र ब्रह्मचर्यं चरामि च॥ ४२.१६८ ॥

ब्रह्मैव समिधस्तत्र ब्रह्माग्निर्ब्रह्म संस्तरः॥
आपो ब्रह्म गुरुब्रह्म ब्रह्मचर्यमिदं मम॥ ४२.१६९ ॥

एतदेवेदृशं सूक्ष्मं ब्रह्मचर्यं विदुर्बुधाः॥
गुरुं च श्रृणु मे मातर्यो मे विद्याप्रदोऽभवत्॥ ४२.१७० ॥

एकः शास्ता न द्वितीयोऽस्ति शास्ता हृद्येव तिष्ठन्पुरुषं प्रशास्ति॥
तेनाभियुक्तः प्रणवादिवोदकं यता नियुक्तोस्मि तथाचरामि॥ ४२.१७१ ॥

एको गुरुर्नास्ति तथा द्वितीयो हृदि स्थितस्तमहं नृ ब्रवीमि॥
यं चावमान्यैव गुरुं मुकुन्दं पराभूता दानवाः सर्व एव॥ ४२.१७२ ॥

एको बंधुर्नास्ति ततो द्वितीयो हृदी स्थितं तमहमनुब्रवीमि॥
तेनानुशिष्टा बांधवा बंधुमंतः सप्तर्षयः सप्त दिवि प्रभांति॥ ४२.१७३ ॥

ब्रह्मचर्यं च संसेव्यं गार्हस्थ्य श्रृणु यादृशम्॥
पत्नी प्रकृतिरूपा मे तच्चित्तो नास्मि कर्हिचित्॥ ४२.१७४ ॥

मच्चित्ता सा सदा मातर्मम सर्वार्थसाधनी॥
घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पंचमम्॥ ४२.१७५ ॥

मनो बुद्धिश्च सप्तैते दीप्यंते पावका मम॥
गंधो रसश्च रूपं च शब्दः स्पर्शश्च पंचमम्॥ ४२.१७६ ॥

मंतव्यमथ बोद्धव्यं सप्तैताः समिधो मम॥
हुतं नारायणध्यानाद्भुंक्ते नारायणः स्वयम्॥ ४२.१७७ ॥

एवंविधेन यज्ञेन यजाम्यस्मि तमीश्वरम्॥
अकामयानस्य च सर्वकामो भवेदद्विषाणस्य च सर्वदोषः॥ ४२.१७८ ॥

न मे स्वभावेषु भवंति लेपास्तोयस्य बिंदोरिव पुष्करेषु॥
नित्यस्य मे नैव भवंत्यनित्या निरीक्षमाणस्य बहुस्यभावात्॥ ४२.१७९ ॥

न सज्जते कर्मसु भोगजालं दिवीव सूर्यस्य मयूखजालम्॥ ४२.१८० ॥

एवंविधेन पुत्रेण मा मातर्दुःखिनी भव॥
तत्पदं त्वा च नेष्यामि न यत्क्रतुशतैरपि॥ ४२.१८१ ॥

इति पुत्रवचः श्रुत्वा विस्मिता इतराभवत्॥
चिंतयामास यद्येवं विद्वान्मम सुतो दृढम्॥ ४२.१८२ ॥

लोकेषु ख्यातिमायाति ततो मे स्याद्यशः परम्॥
इत्यादि चिंतयंत्यां च रजन्यां भगवान्हरिः॥ ४२.१८३ ॥

प्रहृष्टस्तस्य तैर्वाक्यैर्विस्मितः प्रादुरास च॥
मूर्तेः स्वयं विनिष्क्रम्य शंखचक्रगदाधराः॥ ४२.१८४ ॥

जगदुद्भासयन्भासा सूर्यकोटिसमप्रभः॥
ततो निष्पत्य धरणीं हृष्टरोमाश्रुद्गदः॥ ४२.१८५ ॥

मूर्ध्नि बद्धांजलिं धीमानैतरेयोऽथ तुष्टुवे॥ ४२.१८६ ॥

नमस्तुभ्यं भगवते वासुदेवाय धीमहि॥
प्रद्युम्नायानिरुद्धाय नमः संकर्षणाय च॥ ४२.१८७ ॥

नमो विज्ञानमात्राय परमानंदमूर्तये॥
आत्मारामाय शांताय निवृत्तद्वैतदृष्टये॥ ४२.१८८ ॥

आत्मानंदानुरुद्धाय सम्यक्तयक्तोर्मये नमः॥
हृषीकेशाय महते नमस्तेऽनंतशक्तये॥ ४२.१८९ ॥

वचस्युपरते प्राप्यो य एको मनसा सह॥
अनामरूपचिन्मात्रः सोऽव्यान्नः सदसत्परः॥ ४२.१९० ॥

यस्मिन्निदं यतश्चेदं तिष्ठत्यपैति जायते॥
मृन्मयेष्विव मृज्जातिस्तस्मै ते ब्रह्मणे नमः॥ ४२.१९१ ॥

यं न स्पृशंति न विदुर्मनोबुद्धींद्रियासवः॥
अंतर्बहिश्च विततं व्योमवत्प्रणतोऽस्म्यहम्॥ ४२.१९२ ॥

देहेंद्रियप्राणमनोधियोऽमी यदंशब्द्धाः प्रचरंति कर्मसु॥
नैवान्यदालोहमिव प्रतप्तं स्थानेषु तद्दृष्टपदेन एते॥ ४२.१९३ ॥

चतुर्भिश्च त्रिभिर्द्वाभ्यामेकधा प्रणमामि तम्॥
पूर्वापरापरयुगे शास्तारं परमीश्वरम्॥ ४२.१९४ ॥

हित्वा गतीर्मोक्षकामा यं भजंति दशात्मकम्॥
तं परं सत्यममलं त्वां वयं पर्युपास्महे॥ ४२.१९५ ॥

ॐनमो भगवते महापुरुषाय महानुभावाय विभूतिपतये सकलसात्वतपरिवृढनिकरकरकमलोत्पलकुड्मलोपलालितचरणारविंदयुगल परमपरमेष्ठिन्नमस्ते॥ ४२.१९६ ॥

तवाग्निरास्यं वसुधांघ्रियुग्मं नभः शिरश्चंद्ररवी च नेत्रे॥
समस्तलोका जठरं भुजाश्च दिशश्चतस्रो भगवन्नमस्ते॥ ४२.१९७ ॥

जन्मानि तावंति न संति देव निष्पीड्य सर्वाणि च सर्वकालम्॥
भूतानि यावंति मयात्र भीमे पीतानि संसारमहासमुद्रे॥ ४२.१९८ ॥

संपच्छिलानां हिमवन्महेंद्रकैलासमेर्वादिषु नैव तादृक्॥
देहाननेकाननुगृह्णतो मे प्राप्तास्ति संपन्महती तथेश॥ ४२.१९९ ॥

न संतिते देव भुवि प्रदेशा न येषु जातोऽस्मि तथा विनष्टः॥
भूत्वा मया येषु न जंतवश्च संभक्षितो वा न च भूतसंघैः॥ ४२.२०० ॥

शोकाभिभूतस्य ममाश्रु देव यावत्प्रमाणं पतितं भवेषु॥
तावत्प्रमाणं न जलं पयोदा मुंचंति दिव्यैरपि वर्षलक्षैः॥ ४२.२०१ ॥

मन्ये धरित्रीपरमाणुसंख्यामुपैति पित्रोर्गणना न मह्यम्॥
मित्राव्यमित्राण्यनुजीव्यबंधून्संख्यातुमीशोऽस्मिन देवदेव॥ ४२.२०२ ॥

त्वय्यर्पितं नाथ पुनः पुनर्मे मनः समाक्षिप्य सुदुर्द्धरारि॥
कामो वशं क्रधमुखैः सहायैः करोति किं तद्भगवन्करोमि॥ ४२.२०३ ॥

सोऽहं भृशार्तः करुणाकरस्त्वं संसारगर्ते पतितस्य विष्णो॥
महात्मनां संश्रयमभ्युपेतो नैवावसीदत्यपि दुर्गतोऽपि॥ ४२.२०४ ॥

परायणं रोगवतो हि वैद्यो महाब्धिमग्नस्य च नौर्नरस्य॥
बालस्य मातापितरौ सुघोरसंसारखिन्नस्य हरे त्वमेव॥ ४२.२०५ ॥

प्रसीद सर्वेश्वर सर्वभूत सर्वस्य हेतो परमार्थसार॥
मामुद्धरास्मादुरुदुःखसंघात्संसारगर्तात्स्वपरिग्रहेण॥ ४२.२०६ ॥

क्षृत्तृट्‌त्रिधातुभिरिमं मुहुरर्द्यमानं शीतोष्ण वातसलिलैरितरेतराच्च॥
कामाग्निनाच्युत रुषा च सुदुर्भरेण संपश्यतो मम उरुक्रम सीदतो हि॥ ४२.२०७ ॥

भवंतु भद्राणि समस्तदोषाः प्रयांतु नाशं जगतोऽखिलस्य॥
मयाद्य भक्त्या परमेश्वरे प्रभौ स्तुते जगद्धातरि वासुदेवे॥ ४२.२०८ ॥

ये भूतले ये दिवि चांतरिक्षे रसातले प्राणिगणाश्च केचित्॥
भवंतु ते सिद्धियुजो मयाद्य स्तुते जगद्धातरि वासुदेवे॥ ४२.२०९ ॥

अज्ञानिनो ज्ञानविदो भवंतु प्रशान्तिभाजः सततोग्रचित्ताः॥
मया च विश्वंभरणे ह्यनंते स्तुते जगद्धातरि वासुदेवे॥ ४२.२१० ॥

श्रृण्वंति ये मे स्तुवतस्तथान्ये पश्यंति ये मामिदमीरयंतम्॥
देवासुराद्या मनुजास्तिरश्चो भवंतु तेऽप्यच्युतयोगभाजः॥ ४२.२११ ॥

ये चापि मूका विकलेंद्रियत्वात्पठंति नो नैव विलोकयंति॥
पश्वादयः कीटपिपीलिकाद्या भवंतु तेऽप्यच्युतयोगभाजः॥ ४२.२१२ ॥

नश्यंतु दुःखानि जगत्यपेतु लोभादिको दोषगणः प्रजाभ्यः॥
यथात्मनि भ्रातरि चात्मजे वा तथा नरस्यास्तु जनेपि भावः॥ ४२.२१३ ॥

संसारवैद्यैऽखिलदोषहानिविचक्षणे निर्वृतिहेतुभूते॥
संसारबंधाः शिथिलीभवंतु हृदि स्थिते सर्वजनस्य विष्णौ॥ ४२.२१४ ॥

पापं प्रणाशं मम च प्रयातु यन्मानसं यच्च करोमि वाचा॥
शरीरमप्याचरितं च यन्मे स्मृते जगद्धातरि वासुदेवे॥ ४२.२१५ ॥

यथा हि वा वासुदेवेति प्रोक्ते संकीर्त्तने विष्णुभक्तस्य वापि॥
स्मृते हरौ वापि प्रयाति पापं सत्येन मे नश्यतां तेन पापम्॥ ४२.२१६ ॥

मूढोऽयमल्पमतिरल्पविचेष्टितोऽयं क्लिष्टं मनोऽपि विषयैर्मयि न प्रसंगि॥
इत्थं कृपां कुरु मयि प्रणतेऽखिलेश त्वां स्तोतुमंबुजभवोऽपि हि देव नेशः॥ ४२.२१७॥

स त्वं प्रसीद भगवन्कुरु मय्यनाथे विष्णो कृपां परमकारुणिकः किल त्वम्॥
संसारसागरनिमग्नमनंत दीनमुद्धर्तुमर्हसि हरे पुरुषोत्तमोसि॥ ४२.२१८ ॥

इत्थं स्तुतः स भगवानैतरेयेण भारत॥
वासुदेवो विशालात्मा सानंदमिदमाह तम्॥ ४२.२१९ ॥

वत्सैतरेय तुष्टोस्मि भक्त्यानेन स्तवेन ते॥
वरं वृणुष्व मत्तस्त्वं दुर्लभं यदभीप्सितम्॥ ४२.२२० ॥

॥ऐतरेय उवाच॥
एष एव वरो नाथमम नित्यमभीप्सितः॥
मज्जतो घोरसंसारे कर्णधारो हरे भव॥ ४२.२२१ ॥

॥श्रीभगवानुवाच॥
मुक्त एवासि संसाराद्यस्य ते भक्तिरीदृशी॥
ग्रहैर्महाग्रहैर्बद्धो नैव ते द्वित्रयोदशी॥ ४२.२२२ ॥

यश्च स्तोत्रेण सततं गुप्तक्षेत्रसमीहितम्॥
स्तोष्यते वासुदेवं मां स पापक्षयमाप्स्यति॥ ४२.२२३ ॥

यस्मादेतेन स्तोत्रेण पापं नाशमवाप्स्यति॥
अघनाशनमित्येव तस्मात्ख्यातिमवाप्स्यति॥ ४२.२२४ ॥

एकादश्यामुपोष्यैव ममाग्रे यः पठिष्यति॥
स्तवमेनं स पूतात्मा मम लोकमवाप्स्यति॥ ४२.२२५ ॥

सर्वेषामेव क्षेत्राणां गुप्तक्षेत्रं प्रियं यथा॥
तथा सर्वस्तवानां च स्तवोयं सुप्रियोमम॥ ४२.२२६ ॥

यानि चोद्दिश्य भूतानि जप्यतेऽसौ महात्मभिः॥
तानि शांतिं भगं प्रज्ञां प्राप्स्यंति कृपया मम॥ ४२.२२७ ॥

त्वं च वत्स श्रौतधर्मान्सम्यगाचर श्रद्धया॥
न तैर्बंधं मयि न्यस्तैराप्स्यस्यनभिसंधितैः॥ ४२.२२८ ॥

यज यज्ञैरवाप्यैव दारान्नन्दय मातरम्॥
मयि ध्यानेन तीव्रेण मामवाप्स्यस्यसंशयम्॥ ४२.२२९ ॥

बुद्धिर्मनोथ भूतानि बुद्धिकर्मेन्द्रियाणि च॥
त्रयोदशग्रहैर्ये स्युस्त्रयोदश महाग्रहाः॥ ४२.२३० ॥

बोद्धव्यमथ मंतव्यमहंता शब्द एव च॥
स्पर्शो रसो रूपगन्धौ वचनादानमेव च॥ ४२.२३१ ॥

विहृत्युत्सर्ग आनंदस्त्रयोदश महाग्रहाः॥
एतान्महाग्रहन्पुत्र शुद्धाञ्छुद्धैः स्वकैर्ग्रहैः॥ ४२.२३२ ॥

गृहाण ध्यानयोगेन ममैवं मोक्षमाप्स्यसि॥
एवं त्वं कर्मभिर्वीर नैष्कर्म्यं समवाप्स्यसि॥ ४२.२३३ ॥

शुल्बंरसेन संविद्धं दक्षो हेम यथाश्नुते॥
वर्णाश्रमाचारवता मयि संन्यस्तकर्मणा॥ ४२.२३४ ॥

मदनुध्यानयुक्तेन मोक्षो नास्तीह दुर्लभः॥
तस्मादेवं वर्तमानो नन्द व्रतपरायणः॥ ४२.२३५ ॥

उद्धृत्य सप्तपुरुषाल्लँयं मयि गमिष्यसि॥
सांप्रतं प्रतिभास्यंति वेदश्चापठिता अपि॥ ४२.२३६ ॥

ततस्त्वं कोटितीर्थे च यज्ञे वै हरिमेधसः॥
याहि तत्र भविष्यं ते सर्वं मातुरभीप्सितम्॥ ४२.२३७ ॥

इत्युक्त्वा भगवान्विष्णुर्मूर्तिमध्ये विवेश ह॥
विलोक्य मानो निमिषं मात्रा चैव सुतेन च॥ ४२.२३८ ॥

ततो मूर्ति नमस्कृत्य वासुदेवस्य विस्मितः॥
ऐतरेयः स्वजननीं मुदितो वाक्यमब्रवीत्॥ ४२.२३९ ॥

पुराहमभवं शूद्रो भीतः संसारदोषतः॥
परिनिष्ठागतं धर्मं ब्राह्मणं शरणं गतः॥ ४२.२४० ॥

स कृपालुर्मम प्राह मन्त्रं वै द्वादशाक्षरम्॥
सदेमं जपचेत्युक्त्वा तमहं जप्तवान्सदा॥ ४२.२४१ ॥

तेन जाप्यप्रभावेन ममोत्पत्तिस्तवोदरात्॥
जातस्मृतिर्विष्णुभक्तिः स्थितिरत्र च सर्वदा॥ ४२.२४२ ॥

इदानीं च प्रयाम्येष यज्ञं तं हरिमेधसः॥
त्वद्रूपं विष्णुप्रीत्यर्थं प्रणम्य त्वां प्रसादये॥ ४२.२४३ ॥

ततो महीनगरकाख्ये कोटितीर्थतलस्थितम्॥
यजन्तं संवृतं विप्रैः कोटिशस्तमुपागमत्॥ ४२.२४४ ॥

गेहाय मातरं प्रोच्य स यज्ञे प्रोक्तवान्द्विजः॥
नमस्तस्मै भगवते विष्णवेऽकुण्ठमेधसे॥ ४२.२४५ ॥

यन्मायामोहितधियो भ्रमामः कर्मसागरे॥
इति श्लोकं महार्थं ते हरिमेधमुखा द्विजाः॥ ४२.२४६ ॥

आकर्ण्यासनपूजाद्यैः पूजयामासुरंग तम्॥
ततो वेदार्थनैपुण्यैस्तेन ते तोषिता द्विजाः॥ ४२.२४७ ॥

प्रददुर्दक्षिणां सर्वां हरिमेधाः सुतामपि॥
द्रव्यं कन्यां च संगृह्य स्वगृहं समुपागमत्॥ ४२.२४८ ॥

वन्दयित्वा स्वजननीं पुत्रानुत्पाद्य चामलान्॥
इष्ट्वा यज्ञैरैतरेयो द्वादशीव्रततत्परः॥ ४२.२४९ ॥

वासुदेवानुध्यानेन मोक्षं पश्चादुपागतः॥
एवंविधो वासुदेवः स्वयमत्रास्ति भारत॥ ४२.२५० ॥

योर्ययेत्पूजयेत्स्तौति सर्वं तस्याक्षयं विदुः॥
शिवधर्मेषु यत्प्रोक्तं फलं पूर्वं मया तव॥ ४२.२५१ ॥

तादृशं लभते मर्त्यो वासुदेवप्रसादतः॥ ४२.२५२ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे श्रीवृद्धवासुदेवमाहात्म्यवर्णन ऐतरेयब्राह्मणचरित्रवर्णनंनाम द्विचत्वारिंशोऽध्यायः॥ ४२ ॥ छ ॥