स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ११

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १० स्कन्दपुराणम्
अध्यायः ११
वेदव्यासः
अध्यायः १२ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६

॥कूर्म उवाच॥
शांडिल्य इति विख्यातः पुराहमभवं द्विजः॥
बालभावे मया भूप क्रीडमानेन निर्मितम्॥ ११.१ ॥

पुरा प्रावृषि पांशूत्थं शिवायतनमुच्छ्रितम्॥
जलार्द्रवालुकाप्रायं प्रांशुप्राकारशोभितम्॥ ११.२ ॥

पंचायतनविन्यासमनोहरतरं नृप॥
विनायकशिवासूर्यमधुसूदनमूर्तिमत्॥ ११.३ ॥

पीतमृत्स्वर्णकलशं ध्वजमालाविभूषितम्॥
काष्ठतोरणविन्यस्तं दोलकेन विभूषितम्॥ ११.४ ॥

दृढप्रांशुसमुद्भूतसोपानश्रेणिभासुरम्॥
सर्वाश्चर्यमयं दिव्यं वयस्यैः संवृतेन मे॥ ११.५ ॥

तत्र जागेश्वरं लिंगं गृत्वाथ विनिवेशितम्॥
बाल्यादुपलरूपं तद्वर्षावारिविशुद्विमत्॥ ११.६ ॥

बकपुष्पैस्तथान्यैश्च केदारोत्थैः समाहृतैः॥
कोमलैरपरैः पुष्पैर्वृतिवल्लीसमुद्भवैः॥ ११.७ ॥

कूष्मांडैश्चैव वर्णाद्यैरुन्मत्तकुसुमायुतैः॥
मंदारैर्बिल्वपत्रैश्च दूर्वाद्यैश्च नवांकुरैः॥ ११.८ ॥

पूजा विरचिता रम्या शंभोरिति मया नृप॥
ततस्तांडवमारब्धमनपेक्षितसत्क्रियम्॥ ११.९ ॥

शिवस्य पुरतो बाल्याद्गीतं च स्वस्वर्जितम्॥
अकार्षं सकृदेवाहं बाल्ये शिशुगणावृतः॥ ११.१० ॥

ततो मृतोऽहं जातश्च विप्रो जातिस्मरो नृप॥
वैदिशे नगरेऽकार्षं शिवपूजां विशेषतः॥ ११.११ ॥

शिवदीक्षामुपागम्यानुगृहीतः शिवागमैः॥
शिवप्रासाद आधाय लिंगं श्रद्धासमन्वितः॥ ११.१२ ॥

कल्पकोटिं वसेत्स्वर्गेयः करोति शिवालयम्॥
यावंति परमाणूनि शिवस्यायतने नृप॥ ११.१३ ॥

भवंति तावद्वर्षाणि करकः शिवसद्मनि॥
इति पौराणवाक्यानि स्मरञ्छैलं शिवालयम्॥ ११.१४ ॥

अकारिषमहं रम्यं विश्वकर्मविधानतः॥
मृन्मयं काष्ठनिष्पन्नं पाक्वेष्टं शैलमेव वा॥ ११.१५ ॥

कृतमायतनं दद्यात्क्रमाद्दशगुणं फलम्॥
भस्मशायी त्रिषवणो भिक्षान्नकृतभोजनः॥ ११.१६ ॥

जटाधरस्तपस्यंश्च शिवाराधनतत्परः॥
इत्थं मे कुर्वतो जातं पुनर्भूप प्रमापणम्॥ ११.१७ ॥

जातो जाति स्मरस्तत्र कारिता तृतीयेहं भवांतरे॥
सार्वभौमो महीपालः प्रतिष्ठाने पुरोत्तमे॥ ११.१८ ॥

जयदत्त इति ख्यातः सूर्यवंशसमुद्भवः॥
ततो मया बहुविधाः प्रासादाः कारिता नृप॥ ११.१९ ॥

तस्मिन्भवांतरे शंभोराराधनपरेण च॥
ततो निरूपिता जाता बकपुष्पपुरस्सराः॥ ११.२० ॥

सौवर्णै राजतै रत्ननिर्मितैः कुसुमैर्नृप॥
तथाविधेऽन्नदानादि करोमि नृपसत्तम॥ ११.२१ ॥

केवलं शिवलिंगानां पूजां पुष्पैः करोम्यहम्॥
ततो मे भगवाञ्छंभुः संतुष्टोऽथ वरं ददौ॥ ११.२२ ॥

अजरामरतां राजंस्तेनैव वपुषावृतः॥
ततस्तथाविधं प्राप्यानन्यसाधारणं वरम्॥ ११.२३ ॥

विचरामि महीमेतां मदांध इव वारणः॥
शिवभक्तिं विहायाथ नृपोऽहं मदनातुरः॥ ११.२४ ॥

प्रधर्षयितुमारब्धः स्त्रियः परपरिग्रहाः॥
आयुषस्तपसः कीर्तेस्तेजसो यशसः श्रियः॥ ११.२५ ॥

विनाशकारणं मुख्यं परदारप्रधर्षणम्॥
सकर्णः श्रुतिहीनोऽसौ पश्यन्नंधो वदञ्जडः॥ ११.२६ ॥

अचेतनश्चेतनावान्मूर्खो विद्वानपि स्फुटम्॥
तदा भवति भूपाल पुरुषः क्षणमात्रतः॥ ११.२७ ॥

यदैव हरिणाक्षीणां गोचरं याति चक्षुषाम्॥
मृतस्य निरये वासो जीवतश्चेश्वराद्भयम्॥ ११.२८ ॥

एवं लोकद्वयं हंत्री परदारप्रधर्षणा॥
जरामरणहीनोहमिति निश्चयमास्थितः॥ ११.२९ ॥

ऐहिकामुष्मिकभयं विहायांह ततः परम्॥
प्रधर्षयितुमारब्धस्तदा भूप परस्त्रियः॥ ११.३० ॥

अथ मां संपरिज्ञाय मर्यादारहितं यमः॥
वरप्रदानादीशस्य तदंतिकसुपाययौ॥
व्यजिज्ञपन्मदीयं च शंभोर्धर्मव्यतिक्रमम्॥ ११.३१ ॥

॥यम उवाच॥
नाहं तवानुभावेन गुप्तस्यास्य विनिग्रहम्॥ ११.३२ ॥

शक्रोमि पापिनो देव मन्नियोगेऽन्यमादिश॥
जगदाधारूपा हि त्वयेशोक्ताः पतिव्रताः॥ ११.३३ ॥

गावो विप्राः सनिगमा अलुब्धा दानशीलिनः॥
सत्यनिष्ठा इति स्वामिंस्तेषां मुख्यतमा सती॥ ११.३४ ॥

तास्तेन धर्षिता लुप्तं मदीयं धर्मशासनम्॥
वरदानप्रमत्तेन तवैव परिभूय माम्॥ ११.३५ ॥

जयदत्तेन देवेश प्रतिष्ठानाधिवासिना॥
इमां धर्मस्य भगवान्गिरमाकर्ण्य कोपितः॥
शशाप मां समानीय वेपमानं कृतांजलिम्॥ ११.३६ ॥

॥ईश्वर उवाच॥
यस्माद्दुष्टसमाचार धर्षितास्ते पतिव्रताः॥ ११.३७ ॥

कामार्तेन मया शप्तस्तस्मात्कूर्मः क्षणाद्भव॥
ततः प्रणम्य विज्ञप्तः शापतापहरो मया॥ ११.३८ ॥

प्राह षष्टितमे कल्पे विशापो भविता गणः॥
मदीय इति संप्रोच्य जगामादर्शनं शिवः॥ ११.३९ ॥

अहं कूर्मस्तदा जातो दशयोजनविस्तृतः॥
समुद्रसलिले नीतस्त्वयाहं यज्ञसाधने॥ ११.४० ॥

पुरस्ताद्यायजूकेन स्मरंस्तच्च बिभेमि ते॥
दग्धस्त्वयाहं पृष्ठेत्र व्रणान्येतानि पश्य मे॥ ११.४१ ॥

चयनानि बहून्यत्र कल्पसूत्रविधानतः॥
पृष्ठोपरि कृतान्यासन्निंद्रद्युम्न तदा त्वया॥ ११.४२ ॥

भूयः संतापिता यज्ञैः पृथिवी पृथिवीपते॥
सुस्राव सर्वतीर्थानां सारं साऽभून्महीनदी॥ ११.४३ ॥

तस्यां च स्नानमात्रेण सर्वपापैः प्रमुच्यते॥
ततो नैमित्तिके कस्मिन्नपि प्रलय आगतः॥ ११.४४ ॥

प्लवमानमिदं राजन्मानसं शतयोजनम्॥
षट्‌पंचाशत्प्रमाणेन कल्पा मम पुरा नृप॥ ११.४५ ॥

व्यतीता इह चत्वारः शेषे मोक्षस्ततः परम्॥
एवमायुरिदं दीर्घमेवं शापाच्च कूर्मता॥ ११.४६ ॥

ममाभूदीश्वरस्यैव सतीधर्मद्रुहो नृप॥
ब्रूहि किं क्रियतां शत्रोरपि ते गृहगामिनः॥ ११.४७ ॥

मम पृष्ठिश्चिरं भूप त्वया दग्धाग्निनाऽपुरा॥
अहं ज्वलंतीमिव तां पश्याम्यद्यापि सत्रिणा॥ ११.४८ ॥

इदं विमानमायातं त्वया कस्मान्निराकृतम्॥
देवदूतसमायुक्तं भुंक्ष्व भोगान्निजार्जितान्॥ ११.४९ ॥

॥इंद्रद्युम्न उवाच॥
चतुर्मुखेन तेनाहं स्वर्गान्निर्वासितः स्वयम्॥
विलक्ष्योन प्रयास्यामि पाताधिक्यादिदूषिते॥ ११.५० ॥

तस्माद्विवेकवैराग्यमविद्यापापनाशनम्॥
आलिंग्याहं यतिष्यामि प्राप्य बोधं विमुक्तये॥ ११.५१ ॥

तन्मे गृहगतस्याद्य यथातिथ्यकरो भवान्॥
तदादिश यथाऽपारपारदः कोपि मे गुरुः॥ ११.५२ ॥

॥कूर्म उवाच॥
लोमशोनाम दीर्घायुर्मत्तोऽप्यस्ति महामुनिः॥
मया कलापग्रामे स पूर्वं दृष्टः क्वचिन्नृप॥ ११.५३ ॥

॥इंद्रद्युम्न उवाच॥
तस्मादागच्छ गच्छामस्तमेव सहितावयम्॥
प्राहुः पूततमां तीर्थादपि सत्संगतिं बुधाः॥ ११.५४ ॥

इत्थं निशम्य नृपतेर्वचनं तदानीं सर्वेऽपि ते षडथ तं मुनिमुख्यमाशु॥
चित्ते विधाय मुदिताः प्रययुर्द्विजेंद्रं जिज्ञासवः सुचिरजीवितहेतुमस्य॥ ११.५५ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे महीप्रादुर्भावे कूर्माख्यानंनामैकादशोऽध्यायः॥ ११ ॥ छ ॥