स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः १०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ९ स्कन्दपुराणम्
अध्यायः १०
वेदव्यासः
अध्यायः ११ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६

॥ नारद उवाच॥
गृध्रस्यैतद्वचः श्रुत्वा दुःखविस्मयसंयुतः॥
इन्द्रद्युम्नस्तमा पृच्छय मरणायोपचक्रमे॥ १०.१ ॥

ततस्तमालोक्य तथा मुमूर्षुं कौशिकादिभिः॥
स संहितं विचिंत्याह दीर्घायुषमथात्मनः॥ १०.२ ॥

मैवं कार्षीः श्रुणु गिरं भद्रक त्वं चिरंतनः॥
मत्तोऽप्यस्ति स्फुटं चैव ज्ञास्यति त्वदभीप्सितम्॥ १०.३ ॥

मानसे सरसि ख्यातः कूर्मोमंथरकाख्यया॥
तस्य नाविदितं किंचिदेहि तत्र व्रजामहे॥ १०.४ ॥

ततः प्रतीतास्ते भूपमुनिगृध्रबकास्तथा॥
उलूकसहिता जग्मुः सर्वे कूर्मदिदृक्षवः॥ १०.५ ॥

सरस्तीरे स्थितः कूर्मस्तान्निरीक्ष्य विदूरगान्॥
कांदिशीको विवेशासौ जलं शीघ्रतरं तदा॥ १०.६ ॥

कौशिकोऽथ तमाहेदं प्रहस्य वचनं स्वयम्॥
कस्मात्कूर्म प्रनष्टोद्य विमुखोऽभ्यागतेष्वपि॥ १०.७ ॥

अग्निर्द्विजानां विप्रश्च वर्णानां रमणः स्त्रियाम्॥
गुरुः पिता च पुत्राणां सर्वस्याभ्यागतो गुरुः॥ १०.८ ॥

विहाय तमिमं धर्ममातिथ्यविमुखः कथम्॥
गृह्णासि पापं सर्वेषां ब्रूहि कूर्माधुनोत्तरम्॥ १०.९ ॥

॥कूर्म उवाच॥
चिरंतनो हि जानामि कर्त्तुमातिथ्यसत्क्रियाम्॥
अभ्यागतेष्वपचितिं धर्मशास्त्रेषु निश्चितम्॥ १०.१० ॥

सुमहत्कारणं चात्र श्रूयतां तद्वदामि वः॥
नाहं पराङ्मुखो जात एतावंति दिनान्यपि॥ १०.११ ॥

अभ्यागतस्य कस्यापि सर्वसत्कारसद्व्रती॥
किं त्वेष पंचमो यो वो दृश्यते सरलाकृतिः॥ १०.१२ ॥

इंद्रद्युम्नो महीपालो बिभोम्यस्मादलंतराम्॥
अमुना यजमानेन रौचकाख्ये पुरा पुरे॥ १०.१३ ॥

यज्ञपावकदग्धा मे पृष्ठिर्नाद्यापि निर्व्रणा॥
तन्मे भयं पुनर्जातं किमयं पुनरेव माम्॥ १०.१४ ॥

आसुतीवलमाधाय भुवि धक्ष्यति संप्रति॥
इति वाक्यावसाने तु कूर्मस्य कुरुसत्तम॥ १०.१५ ॥

पपात पुष्पवृष्टिः खाद्विमुक्ताप्सरसां गणैः॥
सस्वनुर्देववाद्यानि कीर्त्युद्धारे महीपतेः॥ १०.१६ ॥

विस्मितास्ते च ददृशुर्विमानं पुरतः स्थितम्॥
इंद्रद्युम्नकृते देवदूतेनाधिष्ठितं तदा॥ १०.१७ ॥

अयातयामाः प्रददुराशिषोऽस्मै सुरद्विजाः॥
साधुवादो दिवि महानासीत्तस्य महीपतेः॥ १०.१८ ॥

ततो विमानमालंब्य देवदूतस्तमुच्चकैः॥
इंद्रद्युम्नमुवाचेदं श्रृण्वतां नाकवासिनाम्॥ १०.१९ ॥

॥देवदूत उवाच॥
नवीकृताधुना कीर्तिस्तव भूपाल निर्मला॥
त्रिलोक्यामपि तच्छीघ्रं विमानमिदमारुह॥ १०.२० ॥

गम्यतां ब्रह्मणो लोकमाकल्पं तपसोर्जितम्॥
प्रेषितोऽहमनेनैव तवानयनकारणात्॥ १०.२१ ॥

यावत्कीर्तिर्मनुष्यस्य पृथिव्यां प्रथिता भवेत्॥
तावानेव भवेत्स्वर्गी सति पुण्ये ह्यनंतके॥ १०.२२ ॥

सुरालयसरोवापीकूपारामादिकल्पना॥
एतदर्थं हि पूर्ताख्या धर्मशास्त्रेषु निश्चिता॥ १०.२३ ॥

॥इंद्रद्युम्न उवाच॥
अमी ममैव सुहृदो मार्कंडबककौशिकाः॥
गृध्रकूर्मौ प्रभावोऽयममीषां मम वृद्धये॥ १०.२४ ॥

तच्चेदमी मया साकं ब्रह्मलोकं प्रयांत्युत॥
पुरःस्थितास्तदायास्ये ब्रह्मलोकं च नान्यथा॥ १०.२५ ॥

परेषामनपेक्ष्यैव कृतप्रतिकृतं हि यः॥
प्रवर्तते हितायैव स सुहृत्प्रोच्यते बुधैः॥ १०.२६ ॥

स्वार्थोद्युक्तधियो ये स्युरन्वर्थास्तेप्यसुंधराः॥
मरणं प्रकृतिश्चैव जीवितं विकृतिर्यदा॥ १०.२७ ॥

प्राणिनां परमो लाभः केवलं प्राणिसौहृदम्॥
दरिद्रा रागिणोऽसत्यप्रतिज्ञाता गुरुद्रुहः॥ १०.२८ ॥

मित्रावसानिनः पापाः प्रायो नरकमंडनाः॥
परार्थनष्टास्तदमी पंच संप्रति साधवः॥ १०.२९ ॥

मम कीर्तिसमुद्धारः स प्रभावो महात्मनाम्॥
अमीषां यदि ते स्वर्गं प्रयास्यन्ति मया सह॥
तदाहमपि यास्यामि देवदूतान्यथा न हि॥ १०.३० ॥

॥देवदूत उवाच॥
एते हरगणाः सर्वेशापभ्रष्टाः क्षितिं गताः॥ १०.३१ ॥

शापांते हरपार्श्वे तु यास्यंति पृथिवीपते॥
विहायेमानतो भूप त्वमागच्छ मया सह॥ १०.३२ ॥

न चैषां रोचते स्वर्गो हित्वा देवं महेश्वरम्॥
॥इंद्रद्युम्न उवाच॥
यद्येवं गच्छ तद्दूत नायास्येहं त्रिविष्टपम्॥ १०.३३ ॥

तथा तथा यति ष्यामि भविष्यामि यथा गणः॥
अविशुद्धिक्षयाधिक्यदूषणैरेष निंदितः॥ १०.३४ ॥

स्वर्गः सदानुश्रविकस्तस्मादेनं न कामये॥
तत्रस्थास्य पुनः पातो भयं न व्येति मानसात्॥ १०.३५ ॥

पुनः पातो यतः पुंसस्तस्मात्स्वर्गं न कामये॥
सति पुण्ये स्वयं तेन पातितो निजलोकतः॥ १०.३६ ॥

चतुर्मुखेन वैलक्ष्यं गतोऽस्मि कथमेमि तम्॥
इतीदमुक्त्वा दूतं तं श्रृण्वतोऽस्यैव विस्मयात्॥ १०.३७ ॥

अप्राक्षीद्भूपतिः कूर्मं तदायुःकारणं तदा॥
इदमायुः कथं जातं कूर्म दीर्घतमं तव॥ १०.३८ ॥

सुहृन्मित्रं गुरुस्त्वं मे येन कीर्तिर्ममोद्धृता॥ १०.३९ ॥

॥कूर्म उवाच॥
श्रृणु भूप कथां दिव्यां श्रवणात्पापनाशिनीम्॥
कथां सुमधुरामेतां शिवमाहात्म्यसंयुताम्॥ १०.४० ॥

श्रृण्वन्निमामपि कथां नृपते मनुष्यः सुश्रद्धया भवति पापविमुक्तदेहः॥
शंभोः प्रसादमभिगम्य यथायुरेवमासीत्प्रसादत इयं मम कूर्मता च॥ १०.४१ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्त्रायां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे महीप्रादुर्भावे दशमोऽध्यायः॥ १० ॥ छ ॥