सामग्री पर जाएँ

स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ०९

विकिस्रोतः तः
← अध्यायः ८ स्कन्दपुराणम्
अध्यायः ९
वेदव्यासः
अध्यायः १० →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६

॥ उलूक उवाच॥
इतीदमुक्तमखिलं पूर्वजन्मसमुद्भवम्॥
स्वरूपमायुषो हेतुः कौशिकत्वस्य चेति मे॥ ९.१ ॥
इत्युक्त्वा विरते तस्मिन्पुरूहूतसनामनि॥
नाडीजंघो बको मित्रमाह तं दुःखितो वचः॥ ९.२ ॥
॥नाडीजंघ उवाच॥
यदर्थं वयमायातास्तन्न सिद्धं महामते॥
कार्यं तन्मरणं नूनं त्रयाणामप्युपागतम्॥ ९.३ ॥
इंद्रद्युम्नापरिज्ञाने भद्रकोऽयं मुमूर्षति॥
तस्यानु मित्रं मार्कंडस्तं चान्वहमपि स्फुटम्॥ ९.४ ॥
मित्रकार्ये विनिर्वृत्ते म्रियमाणं निरीक्षते॥
यो मित्रं जीवितं तस्य धिगस्निग्धं दुरात्मनः॥ ९.५ ॥
तदेतावनुयास्यामि म्रियमाणावहं द्विज॥
आपृच्छे त्वां नमस्कार आश्लेषश्चाथपश्चिमः॥ ९.६ ॥
प्रतिज्ञातमनिष्पाद्य मित्रस्याभ्यागतस्य च॥
कथंकारं न लज्जंते हताशा जीवितेप्सवः॥ ९.७ ॥
तस्माद्वह्निं प्रवेक्ष्यामि सार्धमाभ्यामसंशयम्॥
आपृष्टोऽस्यधुना स्नेहान्मम देहि जलांजलिम्॥ ९.८ ॥
इत्युक्तवत्युलूकोऽसौ नाडीजंघे सगद्गदम्॥
साश्रुनेत्रं स्थिरीभूय प्राह वाचं सुधासमुचम्॥ ९.९ ॥
॥उलूक उवाच॥
मयि जीवति मित्रे मे भवान्मरणमेति च॥
अद्यप्रभृति कस्तर्हि हृदा मम लभिष्यति॥ ९.१० ॥
अस्त्युपायो महानत्र गन्धमादनपर्वते॥
मत्तश्चिरायुर्मित्रोस्ति गृध्रः प्राणसमः सुहृत्॥ ९.११ ॥
स विज्ञास्यति वोऽभीष्टमिंद्रद्युम्नं महीपतिम्॥
इत्युक्त्वा पुरतस्तस्थावुलूकः स च भूपतिः॥ ९.१२ ॥
मार्कंडेयो बकश्चैव प्रययुर्गंधमादनम्॥
तमायांतमथालोक्य वयस्यं पुरतः स्थितम्॥ ९.१३ ॥
स्वकुलायात्प्रहृष्टोऽसौ गृध्रः संमुखमाययौ॥
कृतसंविदसौ पूर्वं स्वागतासनभोजनैः॥ ९.१४ ॥
उलूकं गृध्रराजश्च कार्यं पप्रच्छ तं तथा॥
म चाचख्यावयं मित्रं बको मेऽस्य मुनिः किल॥ ९.१५ ॥
मुनेरपि तृतीयोऽयं मित्रं चार्थोयमुद्यतः॥
इंद्रद्युम्नपरिज्ञाने स्वयं जीवति नान्यथा॥ ९.१६ ॥
वह्निं प्रवेक्ष्यते व्यक्तमयं तदनु वै वयम्॥
मया निषिद्धोऽयं ज्ञात्वा त्वां चिरंतनमात्मना॥ ९.१७ ॥
तच्चेज्जानासि तं ब्रूहि चतुर्णां देहि जीवितम्॥
संरक्ष्याप्नुहि सत्कीर्तिं क्षयं चाखिलपाप्मनः॥ ९.१८ ॥
॥गृध्र उवाच॥
षट्‌पंचाशद्व्यतीता मे कल्पा जातस्य कौशिक॥
न दृष्टो न श्रुतोऽस्माभिरिंद्रद्युम्नो महीपतिः॥ ९.१९ ॥
तच्छ्रुत्वा विस्मयाविष्ट इंद्रद्युम्नोऽपि दुःखितः॥
पप्रचछ जीविते हेतुमतिमात्रे विहंगमम्॥ ९.२० ॥
॥गृध्र उवाच॥
श्रृणु भद्रै पुरा जातो मर्कटोऽहं च चापलः॥
आसं कदाचिदभवद्वसंतोऽथ ऋतुः क्रमात्॥ ९.२१ ॥
तत्राग्रे देवदेवस्य वनमध्ये शिवालये॥
भवोद्भवस्य पुरतो जगद्योगेश्वराभिधे॥ ९.२२ ॥
चतुर्दशीदिने हस्तनक्षत्रे हर्षणाभिधे॥
योगे चैत्रे सिते पक्ष आसीद्दमनकोत्सवः॥ ९.२३ ॥
अत्र सौवर्ण्यदोलायां लिंग आरोपिते जनैः॥
निशायामधिरूह्याऽहं दोलां तां च व्यचालयम्॥ ९.२४ ॥
निसर्गाज्जतिचापल्याच्चिरकालं पुनःपुनः॥
अथ प्रभात आयाता जनाः पूजाकृते कपिम्॥ ९.२५ ॥
दोलाधिरूढमालोक्य लकुटैर्मां व्यताडयन्॥
दोलासंस्थित एवाहं प्रमीतः शिवमंदिरे॥ ९.२६ ॥
तेषां प्रहारैः सुदृढैर्बहुभिर्वज्रदुःसहैः॥
शिवांदोलनमाहात्म्याज्जातोऽहं नृपमंदिरे॥ ९.२७ ॥
काशीश्वरस्य तनयः प्रतीतोऽस्मि कुशध्वजः॥
जाति स्मरस्ततो राज्ये क्रमात्प्राप्याहमैश्वरम्॥ ९.२८ ॥
कारयामि धरापृष्ठे चैत्रे दमनकोत्सवम्॥
यथा यथा दोलयति शिवं दोलास्थितं नरः॥ ९.२९ ॥
तथा तथाऽशुभं याति पुण्यमायाति भद्रक॥
शिवदीक्षामुपागम्याखिलसंस्कारसंस्कृतः॥ ९.३० ॥
शिवाचार्यैर्विमुक्तोऽहं पशुपाशैस्तदागमात्॥
निर्वाहदीक्षापर्यंतान्संस्कारान्प्राप्य सर्वतः॥ ९.३१ ॥
आराधयामि देवेशं प्रत्यक्चित्तमुमापतिम्॥
समस्तक्लेशविच्छेदकारणं जगतां गुरुम्॥ ९.३२ ॥
चित्तवृत्तिनिरोधेन वैराग्याभ्यासयोगतः॥
जपन्नुद्गीतमस्यार्थं भावयन्नष्टमं रसम्॥ ९.३३ ॥
ततो मां प्रणिधानेनाभ्यासेन दृढभूमिना॥
अन्तरायानुपहतं ज्ञात्वा तुष्टोऽब्रवीद्धरः॥ ९.३४ ॥
॥ईश्वर उवाच॥
कुशध्वजाहं तुष्टोद्य वरं वरय वांछितम्॥
न हीदृशमनुष्ठानं कस्याप्यस्ति महीतले॥ ९.३५ ॥
श्रुत्वेत्युक्तो मया शम्भुर्भूयासं ते गंणो ह्यहम्॥
अनेनैव शरीरेण तथेत्येवाह गां प्रभुः॥ ९.३६ ॥
ततः कैलासमानीय विमानं मम चादिशत्॥
सर्वरत्नमयं दिव्यं दिव्याश्चर्यसमावृतम्॥ ९.३७ ॥
विचरामि प्रतीतोऽहं तदारूढो यदृच्छया॥
अथ काले कियन्मात्रे व्यतीतेऽत्रैवं पर्वते॥ ९.३८ ॥
गवाक्षाधिष्ठितोऽपश्यं वसंते मुनिकन्यकाम्॥
प्रवाति दक्षिणे वायौ मदनाग्निप्रदीपितः॥ ९.३९ ॥
अग्निवेश्यसुतां भद्र विवस्त्रां जलमध्यगाम्॥
उद्भिन्नयौवनां श्यामां मध्यक्षामां मृगेक्षणाम्॥ ९.४० ॥
विस्तीर्णजघनाभोगां रंभोरुं संहतस्तनीम्॥
तामंकुरितलावण्यां जलसेका दिवाग्रतः॥ ९.४१ ॥
प्रोन्निद्रपंकजमुखीं वर्णनीयतमाकृतिम्॥
यथाप्रज्ञानयाथात्म्याद्विद्विद्भिरपि वर्णिनीम्॥ ९.४२ ॥
प्रोद्यत्कटाक्षविक्षेपैः शरव्रातैरिव स्मरः॥
स्वयं तदंगमास्थाय ताडयामास मां दृढम्॥ ९.४३ ॥
वयस्यासंवृचामेवं खेलमानां यदृच्छया॥
अवतीर्याहमहरं विमानान्मदनातुरः॥ ९.४४ ॥
सा गृहीता मया दीर्घं प्रकुर्वाणा महास्वनम्॥
तातेति च विमानस्था रुरोदातीव भद्रक॥ ९.४५ ॥
ततो वयस्यास्ता दीना मुनिमाहुः प्रधाविताः॥
वैमानिकेन केनापि ह्रियते तव पुत्रिका॥ ९.४६ ॥
रुदन्तीं भगवन्नेतां त्राह्युत्तिष्ठेति सर्वतः॥
तासां तदाकर्ण्य वचो मुनिर्भद्रतपोनिधिः॥ ९.४७ ॥
अग्निवेश्योऽभ्यगात्तस्या व्योमन्युपपदं त्वरन्॥
तिष्ठतिष्ठेति मामुक्त्वा संस्तभ्य तपसा गतिम्॥ ९.४८ ॥
ततः प्रकुपितः प्राह मुनिमामति दुःसहम्॥
॥अग्निवेश्य उवाच॥
यस्मान्मदीया तनया मांसपेशीव ते हृता॥ ९.४९ ॥
गृध्रेणेवाऽधुना व्योम्नि तस्माद्गध्रो भव द्रुतम्॥
अनिच्छंती मदीयेयं सुता बाला तपस्विनी॥ ९.५० ॥
त्वया हृताधुनास्यैतत्फलमाप्नुहि दुर्मते॥
इत्याकर्ण्य भयाविष्टो लज्जयाधोमुखो मुनेः॥ ९.५१ ॥
पादौ प्रगृह्य न्यपतं रुदन्नतितरां तदा॥
न मयेयं परिज्ञाय हृता नाद्यापि धर्षिता॥ ९.५२ ॥
प्रसादं कुरु ते शापं व्यावर्तय तपोनिधे॥
प्रणतेषु क्षमावन्तो निसर्गेण तपोधनाः॥ ९.५३ ॥
भवंति संतस्तद्गृध्रो मा भवेयं प्रसीद मे॥
इति प्रपन्नेन मया प्रणतोऽसौ महामुनिः॥ ९.५४ ॥
प्रसन्नः प्राह नो मिथ्या मम वाक्यं भवेत्क्वचित्॥
किं त्विंद्रद्युम्नभूपालपरिज्ञाने सहायताम्॥ ९.५५ ॥
यदा यास्यसि शापस्य तदा मुक्तिमवाप्स्यसि॥ ९.५६ ॥
इत्युक्त्वा स मुनिः प्रायाद्गृहीत्वा निजकन्यकाम्॥
अखण्डशीलां स्वावासमहं गृध्रोऽभवं तदा॥ ९.५७ ॥
एवं तदा दमनकोत्सव ईश्वरस्य आंदोलनेन नृपवेश्मनि मेऽवतारः॥
शम्भोर्गणत्वमभवच्च तथाग्निवेश्यशापेन गृध्र इह भद्र तवेदमुक्तम्॥ ९.५८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे महीप्रादुर्भावे दमनकमाहात्म्यंनाम नवमोऽध्यायः॥ ९ ॥ छ ॥