स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः १८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १७ स्कन्दपुराणम्
अध्यायः १८
वेदव्यासः
अध्यायः १९ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६

॥नारद उवाच॥
धनाधिपस्य जंभेन सायकैर्मर्मभेदिभिः॥
दिशोपरुद्धाः क्रुद्धेन सैन्यं चाभ्यर्दितं भृशम्॥ १८.१ ॥

तद्दृष्ट्वा कर्म दैत्यस्य धनाध्यक्षः प्रतापवान्॥
आकर्णाकृष्टचापस्तु जंभमाजौ महाबलम्॥ १८.२ ॥

हृदि विव्याध बाणानां सहस्रेणाग्निवर्चसाम्॥
स प्रहस्य ततो वीरो बाणानामयुतत्रयम्॥ १८.३ ॥

नियुतं च तथा कोटिमर्बुदं चाक्षिपत्क्षणात्॥
तस्य तल्लाघ्रवं दृषट्वा क्रुद्धो गृह्य महागदाम्॥ १८.४ ॥

धनाध्यक्षः प्रचिक्षेप स्वर्गेप्सुः स्वधनं यथा॥
मुक्तायां वै नादोऽभूत्प्रलये यथा॥ १८.५ ॥

भूतानां बहुधा रावा जज्ञिरे खे महाभयाः॥
वायुश्च सुमहाञ्जज्ञे खमायान्मेघसंकुलम्॥ १८.६ ॥

सा हि वैश्रवणस्यास्ते त्रैलोक्याभ्यर्चिता गदा॥
आयांतीं तां समालोक्य तडित्संघातदुर्द्दशाम्॥ १८.७ ॥

दैत्यो गदाविघातार्थं शस्त्रवृष्टिं मुमोच ह॥
चक्राणि कुणपान्प्रासाञ्छतघ्नीः पट्टिशांस्तथा॥ १८.८ ॥

परिघान्मुशलान्वृक्षान्गिरींश्चातुलविक्रमः॥
कदर्थीकृत्य शस्त्राणि तानि सर्वाणि सा गदा॥ १८.९ ॥

कल्पांतभास्करो यद्वन्न्यपतद्दैत्यवक्षसि॥
स तया गाढभिन्नः सन्सफेनरुधिरं वमन्॥ १८.१० ॥

निःपपात रथाज्जंभो वसुधां गतचेतनः॥
जंभं निपतितं दृष्ट्वा कुजंभो घोरनिश्चयः॥ १८.११ ॥

धनाधिपस्य संक्रुद्धो नादेनापूरयन्दिशः॥
चक्रे बाणमयं जालं शकुंतस्येव पंजरम्॥ १८.१२ ॥

विच्छिद्य बाणजालं च मायाजालमिवोत्कटम्॥
मुमोच बाणानपरांस्तस्य यक्षाधिपो बली॥ १८.१३ ॥

चिच्छेद लीलया तांश्च दैत्यः क्रोधीव सद्वचः॥
निष्फलांस्तांस्ततो दृष्ट्वा बाणान्क्रुद्धो धनाधिपः॥ १८.१४ ॥

शक्तिं जग्राह दुर्धर्षां शतघंटामहास्वनाम्॥
प्रेषिता सा तदा शक्तिर्दारयामास तं हृति॥ १८.१५ ॥

यथाल्पबोधं पुरुषं दुःखं संसारसंभवम्॥
तथास्य हृदयं भित्त्वा जगाम धरणीतलम्॥ १८.१६ ॥

निमेषात्सोभिसंस्तम्भ्य दानवो दारुणाकृतिः॥
जग्राह पट्टिशं दैत्यो गिरीणामपि भेदनम्॥ १८.१७ ॥

स तेन पट्टिसेनाजौ धनदस्य स्तनांतरम्॥
वाक्येन तीक्ष्णरूपेण मर्माक्षरविसर्पिणा॥ १८.१८ ॥

निर्बिभेदाभिजातस्य हृदयं दुर्जनो यथा॥
तेन पट्टिश घातेन धनेशः। परिमूर्छितः॥ १८.१९ ॥

निषसाद रथोपस्थे दुर्वाचा सुजनो यथा॥
तथागतं तु तं दृष्ट्वा धनेशं वै मृतं यथा॥ १८.२० ॥

राक्षसो निर्ऋतिर्देवो निशाचरबलानुगः॥
अभिदुद्राव वेगेन कुजंभं भीमविक्रमम्॥ १८.२१ ॥

अथ दृष्ट्वातिदुर्धर्षं कुजंभो राक्षसेश्वरम्॥
नोदयामास दैत्यान्स राक्षसेशरथं प्रति॥ १८.२२ ॥

स दृष्ट्वा नोदितां सेनां प्रबलास्त्रां सुभीषणाम्॥
रथादाप्लुत्य वेगेन निर्ऋती राक्षसेश्वरम्॥ १८.२३ ॥

खड्गेन तीक्ष्णधारेण चर्मपाणिरधावत॥
प्रविश्य दानवानीकं गजः पद्मसरो यथा॥ १८.२४ ॥

लोडयामास बहुधा विनिष्कृत्य सहस्रशः॥
चिच्छेद कांश्चिच्छतशो बिभेदान्यान्वरासिना॥ १८.२५ ॥

संदष्टौष्ठमुखैः पृथ्वीं दैत्यानां सोऽभ्यपूरयत्॥
ततो निःशेषितप्रायां विलोक्य स्वां चमूं तदा॥ १८.२६ ॥

मुक्त्वा धनपतिं दैत्यः कुजंभो निर्ऋतिं ययौ॥
लब्धसंज्ञस्तु जंभोऽपि धनाध्यक्षपदानुगान्॥ १८.२७ ॥

जीवग्राहं स जग्राह बद्धा पाशैः सहस्रधा॥
मूर्तिमंति च रत्ननि पद्मादींश्च निधींस्तथा॥ १८.२८ ॥

वाहनानि च दिव्यानि विमानानि च सर्वशः॥
धनेशो लब्धसंज्ञस्तु तामवस्थां विलोक्य सः॥ १८.२९ ॥

निःश्वसन्दीर्घमुष्णं च रोषात्ताम्रविलोचनः॥
ध्यात्वास्त्रं गारुडं दिव्यं बाणं संधाय कार्मुके॥ १८.३० ॥

मुमोच दानवानीके तं बाणं शत्रुदारणम्॥
प्रथमं कार्मुकं तस्य वह्निज्वालमदृश्यत॥ १८.३१ ॥

निश्चेरुर्विस्फुलिंगानां कोटयो धनुषस्तथा॥
ततो ज्वालाकुलं व्योम चक्रे चास्त्रं समंततः॥ १८.३२ ॥

तदस्त्रं सहसा दृष्ट्वा जंभो भीमपराक्रमः॥
संवर्तं मुमुचे तेन प्रशांतं गारुडं तदा॥ १८.३३ ॥

ततस्तं दानवो दृष्ट्वा कुबेरं रोषविह्वलः॥
अभिदुद्राव वेगेन पदातिर्धनदं नदन्॥ १८.३४ ॥

अथाभिमुखमायांतं दैत्यं दृष्ट्वा धनाधिपः॥
बभूव संभ्रमाविष्टः पलायनपरायणः॥ १८.३५ ॥

ततः पलायतस्तस्य मुकुटो रत्नमंडितः॥
पपात भूतले दीप्तो रविबिंबमिवांबरात्॥ १८.३६ ॥

यक्षणामभिजातानां भग्नं प्रववृते रणात्॥
मर्तुं संग्राम शिरसि युक्तं नो भूषणाय तत्॥ १८.३७ ॥

इति व्यवस्य दुर्धर्षा नानाशस्त्रास्त्रपाणयः॥
युयुत्सवस्तथा यक्षा मुकुटं परिवार्य ते॥ १८.३८ ॥

अभिमान धना वीरा धनस्य पदानुगाः॥
तानमर्षाच्च संप्रेक्ष्य दानवश्चंडपौरुषः॥ १८.३९ ॥

भुशुण्डीं भीषणाकारां गृहीत्वा शैलगौरवाम्॥
रक्षिणो मुकुटस्याथ निष्पिपेष निशाचरान्॥ १८.४० ॥

तान्प्रमथ्याथ नियुतं मुकुटं तं स्वके रथे॥
समारोप्यामररिपुर्जित्वा धनदमाहवे॥ १८.४१ ॥

धनानि च निधीन्गृह्य स्वसैन्येन समावृतः॥
नादेन महता देवान्द्रावयामास सर्वशः॥ १८.४२ ॥

धनदोऽपि धनं सर्वं गृहीतो मुक्तमूर्धजः॥
पदातिरेकः सन्त्रस्तः प्राप्यैवं दीनवत्स्थितः॥ १८.४३ ॥

कुजंभेनाथ संसक्तो रजनीचरनंदनः॥
मायाममोघामाश्रित्य तामसीं राक्षसेश्वरः॥ १८.४४ ॥

मोहयामास दैत्येन्द्रो जगत्कृत्वा तमोमयम्॥
ततो विफलनेत्राणि दानवानां बलानि च॥ १८.४५ ॥

न शेकुश्चलितुं तत्र पदादपि पदं तदा॥
ततो नानास्त्रवर्षेण दानवानां महाचमूः॥ १८.४६ ॥

जघान निर्ऋतिर्देवस्तमसा संवृता भृशम्॥
हन्यमानेषु दैत्येषु कुजंभे मूढचेतसि॥ १८.४७ ॥

महिषो दानवेन्द्रस्तु कल्पांतां भोदसन्निभः॥
अस्त्रं चकार सावित्रमुल्कासंघातमंडितम्॥ १८.४८ ॥

विजृंभत्यथ सावित्रे परमास्त्रे प्रातपिनि॥
प्रणासमगमत्तीव्रं तमो घोरमनंतरम्॥ १८.४९ ॥

ततोऽस्त्रविस्फुलिंगांकं तमः शुक्लं व्यजायत॥
प्रोत्फुल्लारुणपद्मौघं शरदीवामलं सरः॥ १८.५० ॥

ततस्तमसि संशांते दैत्येन्द्राः प्राप्तचक्षुषः॥
चक्रुः क्रुरेण तमसा देवानीकं महाद्भुतम्॥ १८.५१ ॥

अथादाय धनुर्घोरमिषुं चाशीविषोपमम्॥
कुजंभोऽधावत क्षिप्रं रक्षोदेवबलं प्रति॥ १८.५२ ॥

राक्षसेन्द्रस्तथायांतं दृषट्वा तं स पदानुगः॥
विव्याध निशितैर्बाणैः कालाशनिसमस्वनैः॥ १८.५३ ॥

नादानं न च सन्धानं न मोक्षो वास्य लक्ष्यते॥
चिच्छेदोग्रैः शरव्रातैस्ताञ्छरानतिलाघवात्॥ १८.५४ ॥
ध्वजं शरेण तीक्ष्णेन निचकर्तामरद्विषः॥
सारथिं चास्य भल्लेन रथनीडादपाहरत्॥ १८.५५ ॥

कालकल्पेन बाणेन तं च वक्षस्याताडयत्॥
स तु तेन प्रहारेण चकम्पे पीडितो भृशम्॥ १९.५६ ॥

दैत्येंद्रो राक्षसेन्द्रेण क्षितिकंपेनगो यथा॥
स सुहूर्तात्समाश्वास्य मत्वा तं दुर्जयं रणे॥ १८.५७ ॥

पदातिरासाद्य रथं रक्षो वामकरेण च॥
केशेषु निर्ऋतिं गृह्य जानुनाक्रम्य च स्थितः॥ १८.५८ ॥

ततः खड्गेन च शिरश्छेत्तुमैच्छदमर्षणः॥
ततः कलकलो जज्ञे देवानां सुमहांस्तदा॥
कुजंभस्य वशं प्राप्तं दृष्ट्वा निर्ऋतिमाहवे॥ १८.५९ ॥

एतस्मिन्नन्तरे देवो वरुणः पाशभृद्धृतः॥
पाशेन दानवेंद्रस्य बबन्धाशु भुजद्वयम्॥ १८.६० ॥

ततो बद्धभुजं दैत्यं विफलीकृतपौरुषम्॥
ताडयामास गदया दयामुत्सृज्य पाशभृत्॥ १८.६१ ॥

स तु तेन प्रहारेण स्रोतोभिः क्षतजं स्रवन्॥
दधार कालमेघस्य रूपं विद्युल्लताभृतम्॥ १८.६२ ॥

तदवस्थागतं दृष्ट्वा कुजंभं महिषासुरः॥
व्यावृत्तवदनारावो भोक्तुमैच्छत्सुरावुभौ॥ १८.६३ ॥

निर्ऋति वरुणं चैव तीक्ष्णदंष्ट्रोत्कटाननः॥
तावभिप्रायमा लोक्य तस्य दैत्यस्य दूषितम्॥ १८.६४ ॥

त्यक्त्वा रथावुभौ भीतौ पदाती प्रद्रुतौ द्रुतम्॥
जग्मतुर्महिषाद्भीतौ शरणं पाकशासनम्॥ १८.६५ ॥

क्रुद्धोऽथ महिषो दैत्यो वरुणं समुपाद्रवत्॥
तमंतकमुखासन्नमालोक्य हिमदीधितिः॥ १८.६६ ॥

चक्रे शस्त्रं विसृष्टं हि हिमसंघातमुल्बणम्॥
वायव्यं चास्त्र मतुलं चंद्रश्चक्रे द्वितीयकम्॥ १८.६७ ॥

वायुना तेन चंडंन संशुष्केण हिमेन च॥
महाहिमनिपातेन शस्त्रैश्चंद्रप्रणोदितैः॥ १८.६८ ॥

गात्राण्यसुरसैन्यानामदह्यंत समंततः॥
व्यथिता दानवाः सर्वे सीतच्छादितपौरुषाः॥ १८.६९ ॥

न शेकुश्चलिंतुं तत्र नास्त्राण्यादातुमेव च॥
महिषो निष्प्रयत्नश्च शीतेनाकंपिताननः॥ १८.७० ॥

अंसमालिंग्य पाणिभ्यामुपविष्टो ह्यधोमुखः॥
सर्वे ते निष्प्रतीकारा दैत्याश्चंद्रमसा जिताः॥ १८.७१ ॥

रणेच्छां दूरतस्त्यक्त्वा तस्थुस्ते जीवितार्थिनः॥
तत्राब्रवीत्कालनेमिर्दैत्यान्क्रोधविदीपितः॥ १८.७२ ॥

भोभोः श्रृंगारिणः क्रूराः सर्वशस्त्रास्त्रपारगाः॥
एकैकोऽपि जगत्कृस्नं शक्तस्तुलयितुं भुजैः॥ १८.७३ ॥

एकैकोऽपि क्षमो ग्रस्तुं जगत्सर्वं चराचरम्॥
एकैकस्यापि पर्याप्ता न सर्वेऽपि दिवौकसः॥ १८.७४ ॥

किं त्रस्तनयनाश्चैव समरे परिनिर्जिताः॥
न युक्तमेतच्छूराणां विशेषाद्दैत्यजन्मनाम्॥ १८.७५ ॥

राज्ञश्च तारकस्यापि दर्शयिष्यथ किं मुखम्॥
विरतानां रणाच्चासौ क्रुद्धः प्राणान्हरिष्यति॥ १८.७६ ॥

इति ते प्रोच्यमानापि नोचुः किंचिन्महासुराः॥
शीतेन नष्टश्रुतयो भ्रष्टवाक्याश्च ते तथा॥ १८.७७ ॥

मूकास्तथाभवन्दैत्या मृतकल्पा महारणे॥
तान्दृष्ट्वा नष्टचेतस्कान्दैत्याञ्छीतेन पीडितान्॥ १८.७८ ॥

मत्वा कालक्षमं कार्यं कालनेमिर्महासुरः॥
आश्रित्य मानवीं मायां वितत्य च महावपुः॥ १८.७९ ॥

पूरयामास गगनं विदिश एव च॥
निर्ममे दानवेन्द्रोऽसौ शरीरेभास्करायुतम्॥ १८.८० ॥

दिशश्च विदिशश्चैव पूरयामास पावकैः॥
ततो ज्वालाकुलं सर्वं त्रैलोक्यमभवत्क्षणात्॥ १८.८१ ॥

तेन ज्वालासमूहेन हिमां शुरगमद्द्रुतम्॥
ततः क्रमेण विभ्रष्टं शीतदुर्दिनमाबभौ॥ १८.८२ ॥

तद्बलं दानवेंद्राणां मायया कालनेमिनः॥
तद्दृष्ट्वा दानवानीकं लब्धसंज्ञं दिवाकरः॥
उवाचारुणमत्यर्थं कोपरक्तांतलोचनः॥ १८.८३ ॥

॥दिवाकर उवाच॥
नयारुण रथं शीघ्रं कालनेमिरथो यतः॥ १८.८४ ॥

विमर्दे तत्र विषमे भविता भूतसंक्षयः॥
जित एषशशांकोऽथ वयं यद्बलमाश्रिताः॥ १८.८५ ॥

इत्युक्तश्चोदयामास रथं गरुडपूर्वजः॥
रथे स्थितोऽपि तैरश्वैः सितचामरधारिभिः॥ १८.८६ ॥

जगद्दीपोऽथ भगवाञ्जग्राह विततं धनुः॥
शरौघो वै पांडुपुत्र क्षिप्रमासीद्विषद्युतिः॥ १८.८७ ॥

शंबरास्त्रेण संधाय बाणमेकं ससर्ज ह॥
द्वितीयं चेन्द्रजालेनायोजितं प्रमुमोच ह॥ १८.८८ ॥

शंबरास्त्रं क्षणाच्चक्रे तेषांरूपविपर्ययम्॥
देवानां दानवं रूपं दानवानां च दैविकम्॥ १८.८९ ॥

मत्वा सुरान्स्वकानेव जघ्ने घोरास्त्रलाघवात्॥
कालनेमी रुषाविष्टः कृतांत इव संक्षये॥ १८.९० ॥

कांश्चित्खड्गेन तीक्ष्णेन कांश्चिन्नाराचवृष्टिभिः॥
कांश्चिद्गदाभिर्घोराभिः कांश्चिद्धोरैः परश्वधैः॥ १८.९१ ॥

शिरांसि केषाचिदपातयद्रथाद्भुजांस्तथा सारथींस्चोग्रवेगान्॥
कांश्चित्पिपेषाथरथस्य वेगात्कांश्चित्तथात्यद्भुतमुष्टिपातैः॥ १८.९२ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिका खण्डे तारकसैन्यदेवसैन्ययोर्युद्धवर्णनंनामाष्टादशोऽध्यायः॥ १८ ॥ छ ॥