स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ४३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४२ स्कन्दपुराणम्
अध्यायः ४३
वेदव्यासः
अध्यायः ४४ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६

॥श्रीनारद उवाच॥
ततोऽहं पार्थ भूयोऽपि जनानुग्रहकाम्यया॥
प्रत्यक्षदेवं मार्तंडमत्रानेतुमियेष ह॥ ४३.१ ॥

सर्वेषां प्राणिनां यस्मादुडुपो भगवान्रविः॥
इहामुत्र च कौंतेय विश्वद्धारी रविर्मतः॥ ४३.२ ॥

ये स्मरंति रविं भक्त्या कीर्तयंति च ये नराः॥
पूजयंति च ये नित्यं कृतार्थास्ते न संशयः॥ ४३.३ ॥

सूर्यभक्तिपरा ये च नित्यं तद्गतमानसाः॥
ये स्मरंति सदा सूर्यं न ते दुःखस्य भाजिनः॥ ४३.४ ॥

भवनानि मनोज्ञानि विविधाभरणाः स्त्रियः॥
धनं चादृष्टपर्यंतं सूर्यपूजाविधेः फलम्॥ ४३.५ ॥

दुर्लभा भक्तिः सूर्ये वा दुर्लभं तस्य चार्चनम्॥
दानं च दुर्लभं तस्मै ततो होमश्च दुर्लभः॥ ४३.६ ॥

नमस्कारादिसंयुक्तं रविरित्यक्षरद्वयम्॥
जिह्वाग्रे वर्तते यस्य सफलं तस्य जीवितम्॥ ४३.७ ॥

इत्यहं हृदि संचिंत्य माहात्म्यं रविजं महत्॥
पूर्णं वर्षशतं पार्थ रविं भक्त्या ह्यतोषयम्॥ ४३.८ ॥

जपेन सुविशुद्धेन च्छन्दसां वायुभोजनः॥
ततः खाद्द्वितीयां मूर्तिं कृत्वा योगबलाद्विभुः॥ ४३.९ ॥

तेजसा दुर्दृशो भास्वान्प्रत्यक्षः समजायत॥ ४३.१० ॥

तमहं प्रांजलिर्भूत्वा नमस्कृत्य रविं प्रभुम्॥
सामभिर्विविधैर्देवं पर्यतोषयमीश्वरम्॥ ४३.११ ॥

तुष्टो मामाह वरदो देवर्षे सुचिरं त्वया॥
तपसाराधितोऽस्मीति वरं वृणु यथेप्सितम्॥ ४३.१२ ॥

इत्युक्तोऽहं लोकनाथं प्रांजलिः प्रास्तुवं वचः॥
यदि तुष्टो भवान्मह्यं यदि देयो वरो मम॥ ४३.१३ ॥

ततस्ते कामरूपे या कला नाथ प्रवर्तते॥
राजवर्धनराज्ञा याऽऽराधिता च जनैः पुरा॥ ४३.१४ ॥

तया च कलया भानो सदात्र स्थातुमर्हसि॥
ततस्तथेति देवेन प्रोक्ते तुष्टेन भारत॥ ४३.१५ ॥

अस्थापयमहं सूर्यं भट्टादित्याभिधानकम्॥
भट्टेनस्थापितं यस्मान्मया तस्माद्रविर्जगौ॥ ४३.१६ ॥

ततः संपूज्य तं पुष्पैः कृतावेशमहं रविम्॥
भक्त्युद्रेकाप्लुतांगोऽथ स्तुतिमेतामथाचरम्॥ ४३.१७ ॥

सर्ववेदरहस्यैश्च नामभिश्च शताष्टभिः॥
सप्तसप्तिरचिंत्यात्मा महाकारुणिकोत्तमः॥ ४३.१८ ॥

संजीवनो जयो जीवो जीवनाथो जगत्पतिः॥
कालाश्रयः कालकर्ता महायोगी महामतिः॥ ४३.१९ ॥

भूतांतकरणो देवः कमलानन्दनन्दनः॥
सहस्रपाच्च वरदो दिव्यकुण्डलमण्डितः॥ ४३.२० ॥

धर्मप्रियोचितात्मा च सविता वायुवाहनः॥
आदित्योऽक्रोधनः सूर्यो रश्मिमाली विभावसुः॥ ४३.२१ ॥

दिनकृद्दिनहृन्मौनी सुरथो रथिनांवरः॥
राज्ञीपतिः स्वर्णरेताः पूषा त्वष्टा दिवाकरः॥ ४३.२२ ॥

आकाशतिलको धाता संविभागी मनोहरः॥
प्रज्ञः प्रजापतिर्धन्यो विष्णुः श्रीशो भिषग्वरः॥ ४३.२३ ॥

आलोककृल्लोकनाथो लोकपालनमस्कृतः॥
विदिताशयश्च सुनयो महात्मा भक्तवत्सलः॥ ४३.२४ ॥

कीर्तिकीर्तिकरो नित्यो रोचिष्णुः कल्मषापहः॥
जितानन्दो महावीर्यो हंसः संहारकारकः॥ ४३.२५ ॥

कृतकृत्यः सुसंगश्च बहुज्ञो वचसां पतिः॥
विश्वपूज्यो मृत्युहारि घृणी धर्मस्य कारणम्॥ ४३.२६ ॥

प्रणतार्तिहरोऽरोग आयुष्यमान्सुखदः सुखी॥
मङ्गलं पुण्डरीकाक्षो व्रती व्रतफलप्रदः॥ ४३.२७ ॥

शुचिः पूर्णो मोक्षमार्गदाता भोक्ता महेश्वरः॥
धन्वंतरिः प्रियाभाषी धनुर्वेदविदेकराट॥ ४३.२८ ॥

जगत्पिता धूमकेतुर्विधूतो ध्वांतहा गुरुः॥
गोपतिश्च कृतातिथ्यः शुभाचारः शुचिप्रियः॥ ४३.२९ ॥

सामप्रियो लोकबन्धुर्नैकरूपो युगादिकृत्॥
धर्मसेतुर्लोकसाक्षी खेटतऋ सर्वदः प्रभुः॥ ४३.३० ॥

मयैवं संस्तुतो भानुर्नाम्नामष्टशतेन च॥
तुष्यतां सर्वलोकानां सर्वलोकप्रियो विभुः॥ ४३.३१ ॥

इत्येवं संस्तवात्प्रीतो भास्करो मामवोचत॥
सदात्र कलया स्थास्ये देवर्षे त्वत्प्रियेप्सया॥ ४३.३२ ॥

यो मामत्र महाभक्त्या भट्टादित्यं प्रपूजयेत्॥
सहस्रशः का मरूपे संपूज्याप्नोति तत्फलम्॥ ४३.३३ ॥

मामुद्दिश्य च यो विप्रः स्वल्पं वा यदि वा बहु॥
दास्यतेऽत्राक्षयं तच्च ग्रहीष्ये करजं यथा॥ ४३.३४ ॥

रक्तोत्पलैश्च कह्लारैः केसरैः करवीरकैः॥
शतत्रयैर्महाप्दमै रविवारेण मानवः॥ ४३.३५ ॥

सप्तम्यामथ षष्ठ्यां वा येऽर्चयिष्यंति मामिह॥
यान्यान्प्रार्थयते कामांस्तांतान्प्राप्स्यति निश्चितम्॥ ४३.३६ ॥

दर्शनान्मम भक्त्या च नाशो व्याधिदरिद्रयोः॥
प्रणामात्स्वर्गमाप्नोति श्रुत्वा मोक्षं च नित्यशः॥ ४३.३७ ॥

अभक्तिं यश्च कर्ता मे स गच्छेन्निश्चिंतं क्षयम्॥
अष्टोत्तरशतं नाम ममाग्रे यत्त्वयेरितम्॥ ४३.३८ ॥

त्रिकालमेककालं वा पठतः श्रृणुयत्फलम्॥
कीर्तिमान्सुभगो विद्वान्सुसुखी प्रियदर्शनः॥ ४३.३९ ॥

भवेद्वर्षशतायुश्च सर्वरोगविवर्जितः॥
यस्त्विदं श्रृणुयान्नित्यं पठेद्वा प्रयतः शुचिः॥ ४३.४० ॥

अक्षयं स्वल्पमप्यन्नं भवेत्तस्योपसाधितम्॥
विजयी च भवेन्नित्यं तथा जातिस्मरो भवेत्॥ ४३.४१ ॥

तस्मादेतत्त्वया जाप्यं परं स्वस्त्ययनं महत्॥
तथा ममाग्रे कुंडं च कुरु स्नानार्थमुत्तमम्॥ ४३.४२ ॥

कामरूपकला यत्र तत्र कुंडं वने भवेत्॥
एवं दत्त्वा वरान्भानुस्तत्रैवां तरधीयत॥ ४३.४३ ॥

ततो भास्करवाक्येन सिद्धेशस्य च सव्यतः॥
वनमध्ये मया कुंडं कृतं दर्भशलाकया॥ ४३.४४ ॥

कामरूपभवं कुंडं वृक्षास्ते चापि भारत॥
संलीनास्तन्महाश्चर्यं ममाजायत चेतसि॥ ४३.४५ ॥

माघमासस्य शुक्लायां सप्तम्यां स्त्री नरोऽपि वा॥
स्नानं कुंडे शुभं कृत्वा भट्टादित्यं प्रपश्यति॥ ४३.४६ ॥

तस्यानंतं भवेत्पुण्यं रथं यश्च प्रपूजयेत्॥
रथयात्रां च कुरुते यस्मिन्यस्मिन्नसौ पथि॥ ४३.४७ ॥

ये च पश्यंति लोकास्ते धन्याः सर्वे न संशयः॥
पुत्रधान्यधनैर्युक्ता नीरुजस्तेजसाऽन्विताः॥ ४३.४८ ॥

भविष्यंति नरास्ते ये कारयंति रथोत्सवम्॥
गंगादिसर्वतीर्थेषु यत्फलं कीर्तितं बुधैः॥ ४३.४९ ॥

भट्टादित्यस्य कुंडे च तत्फलं सप्तमीदिने॥
तत्र कुंडे च यः स्नात्वा सूर्यार्घ्यं प्रयच्छति॥
कपिला गोशतस्यासौ दत्तस्य फलमश्नुते॥ ४३.५० ॥

॥अर्जुर उवाच॥
वासुदेवादयः सर्वे वदंत्येवं महामुने॥ ४३.५१ ॥

भास्करार्घं विना पातः कृतं सर्वं च निष्फलम्॥
तस्याहं श्रोतुमिच्छामि विधिं विधिविदां वर॥ ४३.५२ ॥

॥नारद उवाच॥
यथा ब्रह्मादयो देवा यच्छंत्यर्घं महात्मने॥
भास्कराय श्रृणु त्वं तं विधिं सर्वाघनाशनम्॥ ४३.५३ ॥

प्रथमं तावत्प्रत्युषे उदिते सूर्ये शुचिर्भूत्वा गोमयकृतमंडलस्योपरि रक्तचंदनेन मंडलकं कृत्वा ततस्ताम्रपात्रे रक्तचंदनोदकश्वेतचंदनादिद्रव्यैः प्रपूरणं कृत्वा तन्मध्ये हेमाक्षतदूर्वादधिसर्पीषि परिक्षिप्य स्थापयेत्॥ ४३.५४ ॥

स्वशरीरमालभेत् अनेन मंत्रेण॥
ॐखखोल्काय नमः॥
सप्तवारानुच्चार्य स्थातव्यम्॥
तेन शुद्धिरुपसंजायते देहस्यार्चार्हता भवति॥
पश्चादासनस्थं देवं सवितारं मंडलमध्ये द्वादशात्मकं सुरादिभिः संपूज्यमानं ध्यात्वा पूर्वोक्तमर्घपात्रं शिरसि कृत्वा भूमौ जानुनी निपात्य सूर्याभिमुखस्तद्गतमनाभूत्वार्घमंत्रमुदाहरेत्॥
तदुच्यते सूर्यवक्त्राद्विनिर्गतमिति॥ ४३.५५ ॥

यस्योच्चारणशब्देन रथं संस्थाप्य भास्करः॥
प्रतिगृह्णाति चैवार्घ्यं वरमिष्टं च यच्छति॥ ४३.५६ ॥

ॐयस्याहुः सप्त च्छंदांसि रथे तिष्ठंति वाजिनः॥
अरुणः सारथिर्यस्य रथवाहोऽग्रतः स्थितः॥ ४३.५७ ॥

जया च विजया चैव जयंती पापनाशनी॥
इडा च पिंगला चैव वहंतोऽश्वमुखास्तथा॥ ४३.५८ ॥

डिंडिश्च शेषनागश्च गणाध्यक्षस्तथैव च॥
स्कंदरेवंततार्क्ष्याश्च तथा कल्माषपक्षिणौ॥ ४३.५९ ॥

राज्ञी च निक्षुभा देवी ललिता चैव संज्ञिका॥
तथा यज्ञभुजो देवा ये चान्ये परिकीर्तिताः॥ ४३.६० ॥

एभिः परिवृतो योऽसावधरोत्तरवासिभिः॥
तमहं लोककर्तारमाह्वयामि तमोपहम्॥ ४३.६१ ॥

अम्मयो भगवान्भानुरमुं यज्ञं प्रवर्तयन्॥
इदमर्घ्यं च पाद्यं च प्रगृहाण नमोनमः॥ ४३.६२ ॥

॥आवाहनम्॥
सहस्रकिरण वरद जीवनरूप ते नमः॥
इति सांनिध्यकरणम्॥

ॐवषट् इत्युच्चार्य सूर्यस्य चरणयुगलं पश्यन् भुवि पद्म्यां पात्रीं निर्वापयेत् पाद्यं तदुच्यते॥
एवं पाद्यं दत्त्वा बद्धांजलिः सुस्वागतमिति कुर्यात्॥
स्वागतं भगवन्नेहि मम प्रसादं विधाय आस्यताम्॥
इह गृहाण पूजां च प्रसादं च धिया कुरु॥
तिष्ठ त्वं तावदत्रैव यावत्पूजां करोम्यहम्॥ ४३.६३ ॥

एवं विज्ञापनं दद्यादनेन मंत्रेण कमलासनम्॥
तत्कमलासनं कमलनंदन उपाविशति॥
आसन उपविष्टस्य शेषां पूजां नियोजयेत् अनेन विधानेन॥
ॐसोममूर्तिक्षीरोदपतये नमः॥
इति क्षीरादिस्नपनम्॥
ॐभास्कराय नीरव सिने नमः॥
॥इति जलस्नानम्॥

ततो वासोयुगं शुभ्रं दद्यात् अनेन मंत्रेण॥
इदं वासोयुगं सूर्य गृहाण कृपया मम॥
कटिभूषणमेकं ते द्वितीयं चांगप्रावरणम्॥ ४३.६४ ॥

ततो यज्ञोपवीतं दद्यात् अनेन मंत्रेण॥
सूत्रतंतुमयं शुद्धं पवित्रमिदमुत्तमम्॥
यज्ञोपवीतं देवेश प्रगृहाण नमोऽस्तु ते॥ ४३.६५ ॥

ततो यथाशक्ति श्वेतमुकुटमुद्रिकादिभूषणानि दद्यात् अनेन मंत्रेण॥
मुकुटो रत्ननद्धोऽयं मुद्रिकां भूषणानि च॥
अलंकारं गृहणेमं मया भक्त्या समर्पितम्॥ ४३.६६ ॥

एवमलंकारं निवेद्य पश्चात्केशरकुंकुमकर्पूररक्तचंदनमिश्रमनुलेपनं दद्यात्॥ ४३.६७ ॥

ॐतवातिप्रिय वृक्षाणां रसोऽयं तिग्मदीधिते॥
स तवैवोचितः स्वामिन्गृहाण कृपया मम॥ ४३.६८ ॥

ततश्चंपकजपाकरवीरकर्णककेसरकोकनदादिभिः पूजां कुर्यात्॥ ४३.६९ ॥

ॐवनस्पतिरसो दिव्यो गंधाढ्यो गंध उत्तमः॥
आहारः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम्॥ ४३.७० ॥

॥शल्लकीधूपमंत्रः॥
ततः पायसादिनिष्पन्नं नैवेद्यं निवेदयेदनेन मंत्रेण॥
नैवेद्यममृतं सर्वभूतानां प्राणवर्धनम्॥
पूर्णपात्रे मया दत्तं प्रतिगृह्ण प्रसीद मे॥ ४३.७१ ॥

ततः शौचोदकतांबूलदीपारार्तिकशीतलिकापुनः पूजादि निवेद्य यथाशक्त्या स्तुत्वा सुकृतं दुष्कृतं वा क्षमस्वेति प्रोच्य विसर्जयेत्॥
ततो भूयो नमस्य हेमवस्त्रोपवीतालंकारान् ब्राह्मणाय निवेद्य निर्माल्यं संहृत्यांभसि निक्षिपेत्॥ ४३.७२ ॥

॥इत्यर्घ्यदानविधिः॥

य एवं भास्करायार्घ्यं मूर्तौ मंडलकेऽपि वा॥
नित्यं निवेदयेत्प्रातः स्याद्रवेरात्मवत्प्रियः॥ ४३.७३ ॥

अनेन विधिना कर्णो भास्करार्घ्यं प्रयच्छति॥
ततः सूर्यस्य पार्थासावात्मवद्वल्लभो मतः॥ ४३.७४ ॥

अशक्तश्चेन्नित्यमेकमर्घ्यं दद्याद्दिवाकृते॥
ततोऽत्र रथसप्तम्यां कुंडे देयः प्रयत्नतः॥ ४३.७५ ॥

अश्वमेधफलं प्राप्य सूर्यलोक मवाप्नुयात्॥
तस्मात्सर्वप्रयत्नेन दातव्योऽर्घोऽत्र भारत॥ ४३.७६ ॥

एवंविधस्त्वसौ देवो भट्टादित्योऽत्र तिष्ठति॥
भूयानतोऽपि बहुशः पापहा धर्मवर्धनः॥ ४३.७७ ॥

दिव्यमष्टविधं चात्र सद्यः प्रत्ययकारकम्॥
पापानां चोपभुक्तं हि यथा पार्थ हलाहलम्॥ ४३.७८ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे सागरसंगमे भट्टादित्यमाहात्म्यवर्णनंनाम त्रिचत्वारिंशोऽध्यायः॥ ४३ ॥ छ ॥