स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ५९

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६

।। शौनक उवाच ।। ।।
अत्यद्भुतमिदं सूत गुप्तक्षेत्रस्य पावनम् ।।
महन्माहात्म्यमतुलं कीर्तितं हर्षवर्धनम् ।। १ ।।
पुनर्यत्सिद्धलिंगस्य पूर्वं माहात्म्यकीर्तने ।।
इत्युक्तं यत्प्रसादेन सिद्धमातुस्तु सेत्स्यति ।। २ ।।
विजयोनाम पुण्यात्मा साहाय्याच्चंडिलस्य च ।।
को न्वसौ चंडिलोनाम विजयोनाम कस्तथा।। ।। ३ ।।
कथं च प्राप्तवान्सिद्धिं सिद्धमातुः प्रसादतः ।।
एतदाचक्ष्व तत्त्वेन श्रोतुं कौतूहलं हि नः ।।४।।
सतां चरित्रश्रवणे कौतुकं कस्य नो भवेत् ।। ।।
।। उग्रश्रवा उवाच ।। ।।
साधु पृष्टमिदं विप्रा दूरांतरितमप्युत ।। ५ ।।
श्रुता द्वैपायनमुखात्कथां वक्ष्यामि चात्र वः ।।
पुरा द्रुपदराजस्य पुत्रीमासाद्य पांडवाः ।। ६ ।।
धृतराष्ट्रमते पश्चादिंद्रप्रस्थं न्यवेशयन् ।।
रक्षिता वासुदेवेन कदाचित्तत्र पांडवाः ।।७।।
उपविष्टाः सभामध्ये कथाश्चक्रुः पृथग्विधाः ।।
देवर्षिपितृभूतानां राज्ञां चापि प्रकीर्तने ।। ८ ।।
क्रियमाणेऽथ तत्रागाद्भीमपुत्रो घटोत्कचः ।।
तं दृष्ट्वा भ्रातरः पंच वासुदेवश्च वीर्यवान् ।। ९ ।।
उत्थाय सहसा पीठादालिलिंगुर्मुदा युताः ।।
स च तान्प्रणतः प्रह्वो ववंदे भीमनंदनः ।। 1.2.59.१० ।।
साशिषं च ततो राज्ञा स्वोत्संग उपवेशितः ।।
आघ्राय स्नेहतो मूर्ध्नि प्रोक्तश्च जनसंसदि ।। ११ ।।
।। युधिष्ठिर उवाच ।। ।।
कुत आगम्यते पुत्र क्व चायं विहृतस्त्वया ।।
कालः क्वचित्सुखं राज्यं कुरुषे मातुलं तव ।। १२ ।।
कश्चिद्देवेषु विप्रेषु गोषु साधुषु सर्वदा ।।
हैडंबे नापकुरुषे प्रियमेतद्धरेश्च नः ।। १३ ।।
हेडंबस्य वनं सर्वं तस्य ये सैन्यराक्षसाः ।।
पाल्यमानास्त्वया साधो वर्धंते जनक्षेमकाः ।। १४ ।।
कच्चिन्नंदति ते माता भृशं नः प्रियकारिणी ।।
कन्यैव या पुरा भीमं त्यक्त्वा मानं पतिं श्रिता ।। १५ ।।
इति पृष्टो धर्मराज्ञा स्मयन्हैडंबिरब्रवीत् ।।
हते तस्मिन्दुराचारे मातुलेऽस्मि नियोजितः ।। १६ ।।
तद्राज्यं शासने स्थाप्य दुष्टान्निघ्नंश्चराम्यहम् ।।
माता कुशलिनी देवी तपो दिव्यमुपाश्रिता ।। १७ ।।
मामुवाच सदा पुत्र पितॄणां भक्तिकृद्भव ।।
सोऽहं मातुर्वचः श्रुत्वा मेरुपादात्समागतः ।। १८ ।।
प्रणामायैव भवतां भक्तिप्रह्वेण चेतसा ।।
आत्मानं च महत्यर्थे कस्मिंश्चित्तु नियोजितम् ।।
भवद्भिरहमिच्छामि फलं यस्मादिदं महत् ।। १९ ।।
यदाज्ञापालनं पुत्रः पितॄणां सर्वदा चरेत् ।।
अथोर्द्ध्वलोकान्स जयेदिह जायेत कीर्तिमान् ।। 1.2.59.२० ।।
।। सूत उवाच ।। ।।
इत्युक्तवंतं तं राजा परिरभ्य पुनःपुनः ।।
उवाच धर्मराट् पुत्रमानंदाश्रुः सगद्गदम् ।। २१ ।।
त्वमेव नो भक्तिकारी सहायश्चापि वर्तसे ।। २२ ।।
एतदर्थं च हैडंबे पुत्रानिच्छंति साधवः ।।
इहामुत्र तारयंते तादृशाश्चापि पुत्रकाः ।। २३ ।।
अवश्यं यादृशी माता तादृशस्तनयो भवेत् ।।
माता च ते भक्तिमती दृढं नस्त्वं च तादृशः ।। २४ ।।
अहो सुदुष्करं देवी कुरुते मे प्रिया वधूः ।।
या भर्तृश्रियमुल्लंघ्य तप एव समाश्रिता ।। २५ ।।
नूनं कामेन भोगैर्वा कृत्यं वध्वा न मे मनाक् ।।
या पुत्रसुखमन्वीक्ष्य परलोकार्थमाश्रिता ।। २६ ।।
दुष्कुलीनापि या भक्ता सूतेऽपत्यं च भक्तिमत् ।।
कुलीनमेव तन्मन्ये ममेदं मतमुत्तमम् ।।२७।।
एवं बहूनि वाक्यानि तानि तानि वदन्नृपः ।।
धर्मराजः समाभाष्य केशवं वाक्यमब्रवीत् ।। २८ ।।
पुंडरीकाक्ष जानासि यथा भीमादभूदयम् ।।
जातमात्रस्तु यश्चासीद्यौवनस्थो महाबलः ।। २९ ।।
अष्टानां देवयोनीनां यतो जन्म च यौवनम् ।।
सद्य एव भवेत्तस्मात्सद्योऽस्यासीच्च यौवनम् ।। ।। 1.2.59.३० ।।
तदस्योचितदारार्थे सदा चिंतास्ति कृष्ण मे ।।
उचितं बत हैडंबेः क्व कलत्रं करोम्यहम् ।। ३१ ।।
तद्भवान्कृष्णसर्वज्ञ त्रिलोकीमपि वेत्सि च ।।
हैडंबेरुचिता दारान्वक्तुमर्हसि यादव ।। ३२ ।।
।। सूत उवाच ।। ।।
एवमुक्तो धर्मराज्ञा क्षणं ध्यात्वा जनार्दनः ।।
धर्मराजमिदं वाक्यं पदांतरितमब्रवीत् ।। ३३ ।।
अस्ति राजन्प्रवक्ष्यामि दारानस्योचितां शुभाम् ।।
सांप्रतं संस्थिता रम्ये प्राग्ज्योतिषपुरे वरे ।। ३४ ।।
सा च पुत्री मुरोः पार्थ दैत्यस्याद्भुतकर्मणः ।।
योऽसौ नरकदैत्यस्य प्राणतुल्यः सखाऽभवत् ।। ३५ ।।
स च मे निहतो घोरः पाशदुर्गसमन्वितः ।।
नरकश्च दुराचारस्त्वमेतद्वेत्सि सर्वशः ।। ३६ ।।
ततो हते मुरौ दैत्ये मया तस्य सुताव्रजत् ।।
योद्धुं मामतिवीर्यत्वाद्घोरा कामकटंकटा ।। ३७ ।।
तां ततोऽहं महायुद्धे खड्गखेटकधारिणीम् ।।
अयोधयं महाबाणैः सुशार्ङ्गधनुषश्च्युतैः ।। ३८ ।।
खड्गेन चिच्छेद बाणान्मम सा च मुरोः सुता ।।
समागम्य च खड्गेन गरुडं मूर्ध्न्यताडयत् ।। ३९ ।।
स च मोहसमाविष्टो गरुडोऽभूदचेतनः ।।
ततस्तस्या वधार्थाय मया चक्रं समुद्यतम् ।। 1.2.59.४० ।।
चक्रं समुद्यतं दृष्ट्वा मया तस्मिन्रणाजिरे ।।
कामाख्या नाम मां देवी पुरः स्थित्वा वचोऽब्रवीत् ।। ४१ ।।
नैनां हंतुं भवानर्हो रक्षैतां पुरुषोत्तम ।।
अजेयत्वं मया ह्यस्या दत्तं खड्गं च खेटकम् ।। ४२ ।।
बुद्धिरप्रतिमा चापि शक्तिश्च परमा रणे ।।
ततस्त्वया त्रिरात्रेऽपि न जितासीन्मुरोः सुता ।। ४३ ।।
एवमुक्ते तदा देवीं वचनं चाहमब्रवम् ।।
अयमेष निवृत्तोऽस्मि वारयैनां च त्वं शुभे ।। ४४ ।।
ततश्चालिंग्य तां भक्तां कामाख्या वाक्यमब्रवीत् ।।
भद्रे रणान्निवर्तस्व नायं हंतुं कथंचन ।।४५।।
शक्यः केनापि समरे माधवो रणदुर्जयः ।।
नाभूदस्ति भविष्यो वा य एनं संयुगे जयेत् ।।४६।।
अपि वा त्र्यंबकः पुत्रि नैनं शक्तः कुतोऽन्यकः ।।
तस्मादेनं नमस्कृत्य भाविनं श्वशुरं शुभे ।। ४७ ।।
रणादस्मान्निवर्तस्व तवोचितमिदं स्फुटम् ।।
अस्य भ्रातुर्हि भीमस्य स्नुषा त्वं च भविष्यसि ।। ४८ ।।
तस्मात्त्वं श्वशुरं भद्रे सम्मानय जनार्दनम् ।।
न च शोकस्त्वया कार्यः पितरं प्रति पंडिते ।। ४९ ।।
जातस्य हि ध्रुवो मृत्युर्ध्रुव जन्म मृतस्य च ।।
बहवश्चाऽस्य वेत्तारो वद केनापि वार्यते ।। 1.2.59.५० ।।
ऋषींश्च देवांश्च महासुरांश्च त्रैविद्यविद्यान्पुरुषान्नृपांश्च ।।
कान्मृत्युरेको न पतेत काले परावरज्ञोऽत्र न मुह्यते क्वचित् ।। ५१ ।।
श्लाघ्य एव हि ते मृत्युः पितुरस्माज्जनार्दृनात् ।।
सर्वपातकनिर्मुक्तो गतोऽसौ धाम वैष्णवम् ।। ५२ ।।
एवं कामाख्यया प्रोक्ता सा च कामकटंकटा ।।
त्यक्त्वा क्रोधं च संवृत्य गात्राणि प्रणता च माम् ।। ५३ ।।
तामहं साशिषं चापि प्रावोचं भरतर्षभ ।।
अस्मिन्नेव पुरे तिष्ठ भगदत्तप्रपूजिता ।। ५४ ।।
मया देव्या पृथिव्या च भगदत्तः कृतो नृपः ।।
स ते पूजां बहुविधां करिष्यति स्वसुर्यथा ।। ५५ ।।
वसंती चात्र तं वीरं हैडिंबं पतिमाप्स्यसि ।।
एवमाश्वास्य तां देवीं मौर्वीं चाहं व्यसर्जयम् ।। ५६ ।।
सा स्थिता च पुरे तत्र गतोऽहं शक्रसद्म च ।।
ततो द्वारवतीं प्राप्य त्वया सह समागतः ।। ५७ ।।
एवमेषोचिता दारा हैडंबेर्विद्यते शुभा ।।
कामाख्ये च रणे घोरा या विद्युदिव भासते ।। ५८ ।।
न च रूपं वर्णितं मे श्वशुरस्योचितं यतः ।।
साधोर्हि नैतदुचितं सर्वस्त्रीणां प्रवर्णनम् ।। ५९ ।।
पुनरेकश्च समयः कृतस्तं शृणु यस्तया ।।
यो मां निरुत्तरां प्रश्ने कृत्वैव विजयेत्पुमान् ।। 1.2.59.६० ।।
यो मे प्रतिबलश्चापि स मे भर्ता भविष्यति ।।
एवं च समयं श्रुत्वा बहवो दैत्यराक्षसाः ।। ६१ ।।
तस्या जयार्थमगमंस्तेऽपि जित्वा हतास्तया ।।
यो य एनां गतः पूर्वं न स भूयो न्यवर्तत ।। ६२ ।।
वह्नेरिव प्रभां दीप्तां पतंगानां समुच्चयः ।।
एवमेतादृशीं मौर्वीं जेतुमुत्सहते यदि ।। ६३ ।।
घटोत्कचो महावीर्यो भार्यास्य नियतं भवेत् ।। ६४ ।।
।। युधिष्ठिर उवाच ।। ।।
अलं सर्वगुणैस्तस्या यस्यास्त्वेको गुणो महान् ।।
क्रियते किं हि क्षीरेण यदि तद्विषमिश्रितम् ।। ६५ ।।
प्राणाधिकं भैमसेनिं कथं केवलसाहसात् ।।
क्षिपेयं तव वाक्यानां शुद्धानां चाथ कोविदम् ।। ६६ ।।
अन्या अपि स्त्रियः संति देशे देशे जनार्दन ।।
बह्व्यस्तासां वरां कांचिद्योषितं वक्तुमर्हसि ।।६७।।
।। भीम उवाच ।। ।।
सम्यगुक्तं केशवेन वाक्यं बह्वर्थमुत्तमम् ।।
राज्ञा पुनः स्नेहवशाद्यदुक्तं तन्न भाति मे ।। ६८ ।।
कार्ये दुःसाध्य एव स्यात्क्षत्रियस्य पराक्रमः ।।
करींद्रस्येव यूथेषु गजानां न मृगेषु च ।। ६९ ।।
आत्मा प्रख्यातिमानेयः सर्वथा वीरपुंगवैः ।।
सा च ख्यातिः कथं जायेद्दुःसाध्यकरणादृते ।। 1.2.59.७० ।।
न ह्यात्मवशगं पार्थ हैडंबेरस्य रक्षणम् ।।
येन दत्तस्त्वयं धात्रा स एनं पालयिष्यति ।। ७१ ।।
सर्वथोच्चपदारोहे यत्नः कार्यो विजानता ।।
तन्न सिध्यति चेद्दैवान्नासौ दोषो विजानतः ।। ७२ ।।
यथा देवव्रतस्त्वेको जह्रे काशिसुताः पुरा ।।
तथैक एव हैडंबिर्मौर्वीं प्राप्नोतु मा चिरम् ।। ७३ ।। ।।
।। अर्जुन उवाच ।। ।।
केवलं पौरुषपरं भीमेनोक्तमिदं वचः ।।
अबलं दैवहेतुत्वात्प्रबलं प्रतिभाति मे ।। ७४ ।।
न मृषा हि वचो ब्रूते कामाख्या या पुराऽब्रवीत् ।।
भीमसेनसुतः पाणिं तव भद्रे ग्रहीष्यति ।। ७५ ।।
अनेन हेतुना यातु शीघ्रं तत्र घटोत्कचः ।।
इति मे रोचते कृष्ण तव किं ब्रूहि रोचते ।। ७६ ।।
।। कृष्ण उवाच ।। ।।
रोचते मे वचस्तुभ्यं भीमस्य च महात्मनः ।।
न हि तुल्यो भैमसेनेर्बुद्धौ वीर्ये च कश्चन ।। ७७ ।।
अंतरात्मा च मे वेत्ति प्राप्तामेव मुरोः सुताम् ।।
तच्छीघ्रं यातु हैडंबिस्त्वं च किं पुत्र मन्यसे ।। ७८ ।।
।। घटोत्कच उवाच ।। ।।
न हि न्याय्याः स्वका वक्तुं पूज्यानामग्रतो गुणाः ।।
प्रवृत्ता एव भासंते सद्गुणाश्च रवेः कराः ।। ७९ ।।
सर्वथा तत्करिष्यामि पितरो येन मेऽमलाः ।।
लज्जिष्यंति न संसत्सु मया पुत्रेण पांडवाः।।1.2.59.८०।।
एवमुक्त्वा महाबाहुरुत्थाय प्रणनाम तान् ।।
जयाशीर्भिश्च पितृभिर्वर्द्धितो गंतुमैच्छत ।।८१।।
तं गतुकाममाहेदमभिनंद्य जनार्दनः ।।
कथाकथनकाले मां स्मरेथास्त्वं जयावहम् ।।८२।।
यथा बुद्धिं सुदुर्भेद्यां वर्धयामि बलं च ते ।।
इत्युक्त्वालिंग्य तं कृष्णो व्यससर्जत साशिषम् ।। ८३ ।।
ततो हिडंबातनयो महौजाः सूर्याक्षकालाक्षमहोदरानुगः ।।
वियत्पथं प्राप्य जगाम तत्पुरं प्राग्ज्योतिषं नाम दिनव्यपाये ।। ८४ ।। ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे बर्बरिकोपा ख्याने घटोत्कचस्य प्राग्ज्योतिषपुरं प्रति गमनवर्णनंनामैकोनषष्टितमोऽध्यायः ।। ५९ ।।