स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ५५

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६

।। सूत उवाच ।। ।।
इति बाभ्रव्यवचनमाकर्ण्य कुरुनन्दनः ।।
प्राणमन्नारदं भक्त्या विस्मितः पुलकान्वितः ।। १ ।।
प्रशस्य च चिरं कालं पुनर्नारदमब्रवीत् ।। २ ।।
गुप्तक्षेत्रस्य माहात्म्यं शृण्वानस्त्वन्मुखान्मुने ।।
तृप्तिं नैवाधिगच्छामि भूयस्तद्वक्तुमर्हसि ।। ३ ।।
।। नारद उवाच ।। ।।
महालिंगस्य वक्ष्यामि महिमानं कुरूद्वह ।।
गौतमेश्वर लिंगस्य सावधानः शृणुष्व तत् ।। ४ ।।
अक्षपादो महायोगी गौतमाख्योऽभवन्मुनिः ।।
गोदावरीसमानेता अहल्यायाः पतिः प्रभुः ।। ५ ।।
गुप्त क्षेत्रस्य माहात्म्यं स च ज्ञात्वा महोत्तमम् ।।
योगसंसाधनं कुर्वन्नत्र तेपे तपो महत् ।। ६ ।।
योगसिद्धिं ततः प्राप्य गौतमेन महात्मना ।।
अत्र संस्थापितं लिंगं गौतमेश्वरसंज्ञया ।। ७ ।।
संस्नाप्यैतन्महालिंगं चन्दनेन विलिप्य च ।।
संपूज्य पुष्पैर्विविधैर्गुग्गुलं दाहयेत्पुरः ।।
सर्वपापविनिर्मुक्तो रुद्रलोके महीयते ।। ८ ।।
।। अर्जुन उवाच ।। ।।
योगस्वरूपमिच्छामि श्रोतुं नारद तत्त्वतः ।।
योगं सर्वे प्रशंसंति यतः सर्वोत्तमोत्तमम् ।। ।। ९ ।।
।। नारद उवाच ।। ।।
समासात्तव वक्ष्यामि योगतत्त्वं कुरूद्वह ।।
श्रवणादपि नैर्मल्यं यस्य स्यात्सेवनात्किमु ।। 1.2.55.१० ।।
चित्तवृत्तिनिरोधाख्यं योगतत्त्वं प्रकीर्त्यते।।
तदष्टांगप्रकारेण साधयंतीह योगिनः।।११।।
यमश्च नियमश्चैव प्राणायामस्तृतीयकः।।
प्रत्याहारो धारणा च ध्येयं ध्यानं च सप्तमम् ।। १२ ।।
समाधिरिति चाष्टांगो योगः संपरिकीर्तितः ।।
प्रत्येकं लक्षणं तेषामष्टानां शृणु पांडव ।। ।। १३ ।।
अनुक्रमान्नरो येषां साधनाद्योगमश्नुते ।।
अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ ।।१४।।
एते पंच यमाः प्रोक्ताः शृण्वेषामपि लक्षणम् ।।
आत्मवत्सर्वभूतेषु यो हिताय प्रवर्तते ।। १५ ।।
अहिंसैषा समाख्याता वेदसंविहिता च या ।।
दृष्टं श्रुतं चानुमितं स्वानुभूतं यथार्थतः ।। १६ ।।
कथनं सत्यमित्युक्तं परपीडाविवर्जितम् ।।
अनादानं परस्वानामापद्यपि कथंचन ।। १७ ।।
मनसा कर्मणा वाचा तदस्तेयं प्रकीर्तितम् ।।
अमैथुनं यतीनां च मनोवाक्कायकर्मभिः ।। १८ ।।
ऋतौ स्वदारगमनं गेहिनां ब्रह्मचर्यता ।।
यतीनां सर्वसंन्यासो मनोवाक्कायकर्मणा ।। १९ ।।
गृहस्थानां च मनसा स्मृत एषोऽपरिग्रहः ।।
एते यमास्तव प्रोक्ताः पंचैव नियमाञ्छृणु ।।1.2.55.२०।।
शौचं तुष्टिस्तपश्चैव जपो भक्तिर्गुरोस्तथा ।।
एतेषामपि पंचानां पृथक्संशृणु लक्षणम् ।। २१ ।।
बाह्यमाभ्यतरं चैव द्विविधं शौचमुच्यते ।।
बाह्यं तु मृज्जलैः प्रोक्तमांतरं शुद्धमानसम् ।। २२ ।।
न्यायेनागतया वृत्त्या भिक्षया वार्तयापि च ।।
संतोषो यस्य सततं सा तुष्टिरिति चोच्यते ।। २३ ।।
चांद्रायणादीनि पुनस्तपांसि विहितानि च ।।
आहारलाघवपरः कुर्यात्तत्तप उच्यते ।। २४ ।।
स्वाध्यायस्तु जपः प्रोक्तः प्रणवाभ्यसनादिकः ।।
शिवे ज्ञाने गुरौ भक्तिर्गुरुभक्तिरिति स्मृता ।। ।। २५ ।।
एवं संसाध्य नियमान्संयमांश्च विचक्षणः ।।
प्राणायामाय संदध्यान्नान्यथा योगसाधकः ।। २६ ।।
यतोऽशुचिशरीरस्य वायुकोपो महान्भवेत् ।।
वायुकोपात्कुष्ठता च जडत्वादीनुपाश्नुते ।। २७ ।।
तस्माद्विचक्षणः शुद्धं कृत्वा देहं यतेत्परम् ।।
प्राणायामस्य वक्ष्यामि लक्षणं शृणु पांडव ।। २८ ।।
प्राणापाननिरोधश्च प्राणायामः प्रकीर्तितः ।।
लघुमध्योत्तरीयाख्यः स च धीरैस्त्रिधोदितः ।। २९ ।।
लघुर्द्वादशमात्रस्तु मात्रा निमिष उन्मिषः ।।
द्विगुणो मध्यमश्चोक्तस्त्रिगुणश्चोत्तमः स्मृतः ।। 1.2.55.३० ।।
प्रथमेन जयेत्स्वेदं मध्यमेन तु वेपथुम् ।।
विषादं च तृतीयेन जयेद्दोषाननुक्रमात् ।। ३१ ।।
पद्माख्यमासनं कृत्वा रेचकं पूरकं तथा ।।
कुंभकं च सुखासीनः प्राणायामं त्रिधाऽभ्यसेत् ।। ३२ ।।
प्राणानामुपसंरोधात्प्राणायाम इति स्मृतः ।।
यथा पर्वतधातूनां ध्मातानां दह्यते मलः ।। ३३ ।।
तथेंद्रियवृतो दोषः प्राणायामेन दह्यते ।।
गोशतं कापिलं दत्त्वा यत्फलं तत्फलं भवेत् ।। ३४ ।।
प्राणायामेन योगज्ञस्तस्मात्प्राणं सदा यमेत् ।।
प्राणायामेन सिद्ध्यन्ति दिव्याः शान्त्यादयः क्रमात् ।। ।। ३५ ।।
शांतिः प्रशान्तिर्दीप्तिश्च प्रसादश्च यथाक्रमम् ।। स
हजागंतुकामानां पापानां च प्रवर्तताम् ।।३६।।
वासनाशांतिरित्याख्यः प्रथमो जायते गुणः ।।
लोभमोहात्मकान्दोषान्निराकृत्यैव कृत्स्नशः ।। ३७ ।।
तपसां च यदा प्राप्तिः सा शांतिरिति चोच्यते ।।
सर्वेन्द्रियप्रसादश्च बुद्धेर्वै मरुतामपि ।। ३८ ।।
प्रसाद इति स प्रोक्तः प्राप्यमेवं चतुष्टयम् ।।
एवंफलं सदा योगी प्राणायामं समभ्यसेत् ।। ३९ ।।
मृदुत्वं सेव्यमानास्तु सिंहशार्दूलकुंजराः ।।
यथा यान्ति तथा प्राणो वश्यो भवति साधितः ।। 1.2.55.४० ।।
प्राणायामस्त्वयं प्रोक्तः प्रत्याहारं ततः शृणु ।।
विषयेषु प्रवृत्तस्य चेतसो विनिवर्तनम् ।। ४१ ।।
प्रत्याहारं विनिर्दिष्टतस्य संयमनं हि यत् ।।
प्रत्याहारस्त्वयं प्रोक्तो धारणालक्षणं शृणु ।। ४२ ।।
यथा तोयार्थिनस्तोयं पत्रनालादिभिः शनैः ।।
आपिबेयुस्तथा वायुं योगी नयति साधितम् ।। ४३ ।।
प्राग्नाभ्यां हृदये वायुरथ तालौ भ्रुवोंऽतरे ।।
चतुर्दले षड्दशे च द्वादशे षोडशद्विके ।। ४४ ।।
आकुंचनेनैव मूर्द्धमुन्नीय पवनं शनैः ।।
मूर्धनि ब्रह्मरंध्रे तं प्राणं संधारयेत्कृती ।। ४५ ।।
प्राणायामा दश द्वौ च धारणैषा प्रकीर्त्यते ।।
दशैता धारणाः स्थाप्य प्राप्नोत्यक्षरसाम्यताम् ।। ४६ ।।
धारणास्थस्य यद्ध्येयं तस्य त्वं शृणु लक्षणम् ।।
ध्येयं बहुविधं पार्थ यस्यांतो नोपलभ्यते ।। ४७ ।।
केचिच्छिवं हरिं केचित्केचित्सूर्यं विधिं परे ।।
केचिद्देवीं महद्भूतामुत ध्यायन्ति केचन ।। ४८ ।।
तत्र यो यच्च ध्यायेत स च तत्र प्रलीयते ।।
तस्मात्सदा शिवं देवं पंचवक्त्रं हरं स्मरेत् ।। ४९ ।।
पद्मासनस्थं तं गौरं बीजपूरकरं स्थितम् ।।
दशहस्तं सुप्रसन्नवदनं ध्यानमास्थितम् ।। 1.2.55.५० ।।
ध्येयमेतत्तव प्रोक्तं तस्माद्ध्यानं समाचरेत् ।।
ध्यानस्य लक्षणं चैतन्निमेषार्धमपि स्फुटम् ।। ५१ ।।
न पृथग्जायते ध्येयाद्धारणां यः समास्थितः ।।
एवमेतां दुरारोहां भूमिमास्थाय योगवित् ।। ५२ ।।
न किंचिच्चिंतयेत्पश्चात्समाधिरिति कीर्त्यते ।।
समाधेर्लक्षणं सम्यग्ब्रुवतो मे निशामय ।। ५३ ।।
शब्दस्पर्शरसैर्हीनं गंधरूपविवर्जितम् ।।
परं पुरुषं संप्राप्तः समाधिस्थः प्रकीर्तितः ।। ५४ ।।
तां तु प्राप्य नरो विघ्नैर्नाभिभूयेत कर्हिचित् ।।
समाधिस्थश्च दुःखेन गुरुणापि न चाल्यते ।।५५।।
शंखाद्याः शतशस्तस्य वाद्यन्ते यदि कर्णयोः ।।
भेर्यश्च यदि हन्यंते शब्दं बाह्यं न विंदति ।। ५६ ।।
कशाप्रहाराभिहतो वह्निदग्धतनुस्तथा ।।
शीताढ्येव स्थितो घोरे स्पर्शं बाह्यं न विन्दति ।। ।। ५७ ।।
रूपे गंधे रसे बाह्ये तादृशस्य तु का कथा ।।
दृष्ट्वा य आत्मनात्मानं समाधिं लभते पुनः ।। ५८ ।।
तृष्णा वाथ बुभुक्षा वा बाधेते तं न कर्हिचित् ।। ५९ ।।
न स्वर्गे न च पाताले मानुष्ये क्व च तत्सुखम् ।।
समाधिं निश्चलं प्राप्य यत्सुखं विंदते नरः ।। 1.2.55.६० ।।
एवमारूढयोगस्य तस्यापि कुरुनदन ।।
पंचोपसर्गाः कटुकाः प्रवर्तंते यथा शृणु ।। ६१ ।।
प्रातिभः श्रावणो दैवो भ्रमावर्तोऽथ भीषणः ।।
प्रतिभा सर्वशास्त्राणां प्रातिभोऽयं च सात्त्विकः ।। ६२ ।।
तेन यो मदमादद्याद्योगी शीघ्रं च चेतसः ।।
योजनानां सहस्रेभ्यः श्रवणं श्रावणस्तु सः ।। ६३ ।।
द्वितीयः सात्विकश्चायमस्मान्मत्तो विनश्यति ।
अष्टौ पश्यति योनीश्च देवानां दैव इत्यसौ ।। ६४ ।।
अयं च सात्त्विको दोषो मदादस्माद्विनश्यति ।।
आवर्त इव तोयस्य जनावर्ते यदाकुलः ।। ६५ ।।
आवर्ताख्यस्त्वयं दोषो राजसः स महाभयः ।।
भ्राम्यते यन्निरालम्बं मनो दोषैश्च योगिनः ।। ६६ ।।
समस्ताधारविभ्रंशाद्भ्रमाख्यस्तामसो गुणः ।।
एतैर्नाशितयोगाश्च सकला देवयोनयः ।। ६७ ।।
उपसर्गैर्महाघोरैरावर्त्यंते पुनः पुनः ।।
प्रावृत्य कंबलं शुक्लं योगी तस्मान्मनोमयम् ।। ६८ ।।
चिंतयेत्परमं ब्रह्म कृत्वा तत्प्रवणं मनः ।।
आहाराः सात्त्विकाश्चैव संसेव्याः सिद्धिमिच्छता ।। ६९ ।।
राजसैस्तामसैश्चैव योगी सिद्धयेन्न कर्हिचित् ।।
श्रद्दधानेषु दांतेषु श्रोत्रियेषु महात्मसु ।। 1.2.55.७० ।।
स्वधर्मादनपेतेषु भिक्षा याच्या च योगिना ।।
भैक्षं यवान्नं तक्रं वा पयो यावकमेव वा ।। ७१ ।।
फलमूलं विपक्वं वा कणपिण्याकसक्तवः ।।
श्रुता इत्येत आहारा योगिनां सिद्धिकारकाः ।। ७२ ।।
मृत्युकालं विदित्वा च निमित्तैर्योगसाधकः ।।
योगं युञ्जीत कालस्य वंचनार्थं समाहितः ।। ७३ ।।
निमित्तानि च वक्ष्यामि मृत्युं यो वेत्ति योगवित् ।।
रक्तकृष्णांबरधरा गायंतीह सती च यम् ।। ७४ ।।
दक्षिणाशां नयेन्नारी स्वप्ने सोऽपि न जीवति ।।
नग्नं क्षपणकं स्वप्ने हसमानं प्रदृश्य च ।। ७५ ।।
एनं च वीक्ष्य वल्गन्तं तं विद्यान्मृत्युमागतम् ।।
ऋक्षवानरयुग्यस्थो गायन्यो दक्षिणां दिशम् ।। ।। ७६ ।।
याति मज्जेदधौ पंके गोमये वा न जीवति ।।
केशांगारैस्तथा भस्मभुजंगैर्निजलां नदीम् ।। ७७ ।।
एषामन्यतमैः पूर्णां दृष्ट्वा स्वप्ने न जीवति ।।
करालैर्विकटै रूक्षैः पुरुषैरुद्यतायुधैः ।। ७८ ।।
पाषाणैस्ताडितः स्वप्ने सद्यो मृत्युं भजेन्नरः ।।
सूर्योदये यस्य शिवा क्रोशंती याति सम्मुखम् ।। ७९, ।।
विपरीतं परीतं वा स सद्यो मृत्युमृच्छति ।।
दीपाधिगंधं नो वेत्ति वमत्यग्निं तथा निशि ।। 1.2.55.८० ।।
नात्मानं परनेत्रस्थं वीक्षते न स जीवति ।।
शक्रायुधं चार्धरात्रे दिवा वा ग्रहणं तथा ।। ८१ ।।
दृष्ट्वा मन्येत स क्षीणमात्मजीवितमाप्तवान् ।।
नासिका वक्रतामेति कर्णयोर्न्नमनोन्नती ।। ८२ ।।
नेत्रं च वामं स्रवति यस्य तस्यायुरुद्गतम् ।।
आरक्ततामेति मुखं जिह्वा चाप्यसिता यदा ।। ८३ ।।
तदा प्राज्ञो विजानीयादासन्नं मृत्युमात्मनः ।।
उष्ट्ररासभयानेन स्वप्ने यो याति दक्षिणाम् ।। ८४ ।।
दिशं कर्णौ पिधायापि निर्घोषं शृणुयान्न च ।।
न स जीवेत्तथा स्वप्ने पति तस्य पिधीयते ।। ८५ ।।
द्वारं न चोत्तिष्ठति च शुभ्रा दृष्टिश्च लोहिता ।।
स्वप्नेऽग्निं प्रविशेद्यश्च न च निष्क्रमते पुनः ।। ८६ ।।
जलप्रवेशादपि वा तदंतं तस्य जीवितम् ।।
यश्चाभिहन्यते दुष्टैर्भूतै रात्रावथो दिवा ।। ८७।।
प्रकृतैर्विकृतैर्वापि तस्यासन्नौ यमांतकौ ।।
देवतानां गुरूणां च पित्रोर्ज्ञानविदां तथा ।। ८८ ।।
निन्दामवज्ञां कुरुते भक्तो भूत्वा न जीवति ।।
एवं दृष्ट्वा निमित्तानि विपरीतानि योगवित् ।। ८९ ।।
धारणां सम्यगास्थाय समाधावचलो भवेत् ।।
यदि नेच्छति ते मृत्युं ततो नासौ प्रपद्यते ।। 1.2.55.९० ।।
विमुक्तिमथवा वांछेद्विसृजेद्ब्रह्ममूर्धनि ।।
संति देहे विमुक्ते च उपसर्गाश्च ये पुनः ।। ९१ ।।
योगिनं समुपायांति शृणु तानपि पांडव ।।
ऐशान्ये राक्षसपुरे यक्षो गन्धर्व एव च ।। ९२ ।।
ऐन्द्रे सौम्ये प्रजापत्ये ब्राह्मे चाष्टसु सिद्धयः ।।
भवंति चाष्टौ शृणु ताः पार्थिवी या च तैजसी ।। ९३ ।।
वायवी व्योमात्मिका चैव मानसाहम्भवा मतिः ।।
प्रत्येकमष्टधा भिन्ना द्विगुणा द्विगुणा क्रमात।९४।।
पूर्वे चाष्टौ चतुःषष्टिरन्ते शृणुष्व तद्यथा ।।
स्थूलता ह्रस्वता बाल्यं वार्धक्यं योवनं तथा ।।९५।।
नानाजाति स्वरूपं च चतुर्भिर्देहधारणम् ।।
पार्थिवांशं विना नित्यमष्टौ पार्थिवसिद्धयः ।। ९६ ।।
विजिते पृथिवीतत्त्वे यदैशान्ये भवन्ति च ।।
भूमाविव जले वासो नातुरोऽर्णवमापिबेत् ।। ९७ ।।
सर्वत्र जलप्राप्तिश्च अपि शुष्कं द्रवं फलम् ।।
त्रिभिर्देहस्य धरणं नदीर्वा स्थापयेत्करे ।। ९८ ।।
अव्रणत्वं शरीरस्य कांतिश्चाथाष्टकं स्मृतम् ।।
अष्टौ पूर्वा इमाश्चाष्टौ राक्षसानां पुरे स्मृताः ।। ९९ ।।
देहादग्निविनिर्माणं तत्तापभयवर्जनम् ।।
शक्तिदत्वं च लोकानां जलमध्येग्निज्वालनम् ।। 1.2.55.१०० ।।
अग्निग्रहश्च हस्तेन स्मृतिमात्रेण पावनम् ।।
भस्मीभूतस्य निर्माणं द्वाभ्यां देहस्य धारणम् ।।१०१।।
पूर्वाः षोडश चाप्यष्टौ तेजसो यक्षसद्मनि ।।
मनोगतित्वं भूतानामन्तर्निवेशनं तथा।।१०२।।
पर्वतादिमहाभारवहनं लीलयैव च ।।
लघुत्वं गौरवत्वं च पाणिभ्यां वायुवारणम्।।१०३।।
अंगुल्यग्रनिपातेन भूमेः सर्वत्र कम्पनम् ।।
एकेन देहनिष्पत्तिर्गांधर्वे वांति सिद्धयः ।।१०४।।
चतुर्विंशतिः पूर्वाश्चाप्यष्टावेताश्च सिद्धयः ।।
गन्धर्वलोके द्वात्रिंशदत ऊर्ध्वं निशामय ।। १०५ ।।
छायाविहीननिष्पत्तिरिंद्रियाणामदर्शनम् ।।
आकाशगमनं नित्यमिंद्रियादिशमः स्वयम् ।। १०६ ।।
दूरे च शब्दग्रहणं सर्वशब्दावगाहनम् ।।
तन्मात्रलिंगग्रहणं सर्वप्राणिनिदर्शनम् ।। १०७ ।।
अष्टौ वातात्मिकाश्चैन्द्रे द्वात्रिंशदपि पूर्वकाः ।।
यथाकामोपलब्धिश्च यथाकामविनिर्गमः ।।१०८।।
सर्वत्राभिभवश्चैव सर्वगुह्यनिदर्शनम् ।।
संसारदर्शनं चापि मानस्योऽष्टौ च सिद्धयः ।। १०९ ।।
चत्वारिंशच्च पूर्वाश्च सोमलोके स्मृतास्त्विमाः ।।
छेदनं तापनं बन्धः संसारपरिवर्तनम् ।। 1.2.55.११० ।।
सर्वभूत प्रसादत्वं मृत्युकालजयस्तथा ।।
अहंकारोद्भवश्चाष्टौ प्राजापत्ये च पूर्विकाः ।। १११ ।।
आकारेण जगत्सष्टिस्तथानुग्रह एव च ।।
प्रलयस्याधिकारं च लोकचित्रप्रवर्तनम् ।। ११२ ।।
असादृश्यमिदं व्यक्तं निर्वाणं च पृथक्पृथक् ।।
शुभेतरस्य कर्तृत्वमष्टौ बुद्धिभवास्त्वमी ।। ११३ ।।
षट्पंचाशत्तथा पूर्वाश्चतुःषष्टिरिमे गुणाः ।।
ब्राह्मये पदे प्रवर्तंते गुह्यमेतत्तवेरितम् ।। ११४ ।।
जीवतो देहभेदे वा सिद्ध्यश्चैतास्तु योगिनाम् ।।
संगो नैव विधातव्यो भयात्पतनसंभवात् ।। ११५ ।।
एतान्गुणान्निराकृत्य युञ्जतो योगिनस्तदा ।।
सिद्धयोऽष्टौ प्रवर्तंते योगसंसिद्धिकारकाः ।। ११६ ।।
अणिमा लघिमा चैव महिमा प्राप्तिरेव च ।।
प्राकाम्यं च तथेशित्वं वशित्वं च तथापरे ।। ११७ ।।
यत्र कामावसायित्वं माहेश्वरपदस्थिताः ।।
सूक्ष्मात्सूक्ष्मत्वमणिमा शीघ्रत्वाल्लघिमा स्मृता ।। ११८ ।।
महिमा शेषपूज्यत्वात्प्राप्तिर्नाप्राप्यमस्य यत्।।
प्राकाम्यमस्य व्यापित्वादीशित्वं चेश्वरो यतः।।११९।।
वशित्वाद्वशिता नाम सप्तमी सिद्धिरुत्तमा ।।
यत्रेच्छा तत्र च स्थानं तत्र कामावसायिता ।। 1.2.55.१२० ।।
ऐश्वरं पदमाप्तस्य भवंत्येताश्च सिद्धयः ।।
ततो न जायते नैव वर्धते न विनश्यति ।।१२१।।
एष मुक्त इति प्रोक्तो य एवं मुक्तिमाप्नुयात् ।।
यथा जलं जलेनैक्यं निक्षिप्तमुपगच्छति।।१२२।।
तथैवं सात्म्यमभ्येति योगिनामात्मा परात्मना ।।
एवं ज्ञात्वा फलं योगी सदा योगं समभ्यसेत् ।। १२३ ।।
अत्रोपमां व्याहरंति योगार्थं योगिनोऽ मलाः ।।
शशांकरश्मिसंयोगादर्ककांतो हुताशनम् ।। १२४ ।।
समुत्सृजति नैकः सन्नुपमा सास्ति योगिनः ।।
कपिंजलाखुनकुला वसंति स्वामिव द्गृहे ।। १२५ ।।
ध्वस्ते यांत्यन्यतो दुःखं न तेषां सोपमा यतेः ।।
मृद्देहकल्पदेहोऽपि मुखाग्रेण कनीयसा ।। १२६ ।।
करोति मृद्भागचयमुपदेशः स योगिनः ।।
पशुपक्षिमनुष्याद्यैः पत्रपुष्पफलान्वितम् ।। १२७ ।।
वृक्षं विलुप्यमानं च लब्ध्वा सिध्यंति योगिनः ।।
रुरुगात्रविषाणाग्रमालक्ष्य तिलकाकृतिम् ।। १२८ ।।
सह तेन विवर्धेत योगी सिद्धिमुपाश्नुते ।।
द्रव्यं पूर्णमुपादाय पात्रमारोहते भुवः ।। १२९ ।।
तुंगमार्गं विलोक्यैवं विज्ञातं कि न योगिनाम् ।।
तद्गेहं यत्र वसति तद्भोज्यं येन जीवति ।। 1.2.55.१३० ।।
येन निष्पाद्यते चार्थः स्वयं स्याद्योगसिद्धये ।।
तथा ज्ञानमुपासीत योगी यत्कार्यसाधकम् ।। १३१ ।।
ज्ञानानां बहुता येयं योगविघ्नकरी हि सा ।।
इदं ज्ञेयमिदं ज्ञेयमिति यस्तृषितश्चरेत् ।। १३२ ।।
अपि कल्पसहस्रायुर्नैव ज्ञेयमवाप्नुयात्।।
त्यक्तसंगो जितक्रोधो लब्धाहारो जितेंद्रियः ।।१३३।।
पिधाय बुद्ध्या द्वाराणि मनो ध्याने निवेशयेत् ।।
आहारं सात्त्विकं सेवेन्न तं येन विचेतनः ।।१३४।।
स्यादयं तं च भुंजानो रौरवस्य प्रियातिथिः ।।
वाग्दण्डः कर्मदण्डश्च मनोदंडश्च ते त्रयः।।१३५।।
यस्यैते नियता दंडाः स त्रिदंडी यतिः स्मृतः।।
अनुरागं जनो याति परोक्षे गुणकीर्तनम् ।।१३६ ।।
न बिभ्यति च सत्त्वानि सिद्धेर्लक्षणमुच्यते ।। १३७ ।।
अलौल्यमारोग्यमनिष्ठुरत्वं गंधः शुभो मूत्रपुरीषयोश्च ।।
कांतिः प्रसादः स्वरसौम्यता च योगप्रवृत्तेः प्रथमं हि चिह्नम् ।। १३८ ।।
समाहितो ब्रह्मपरोऽप्रमादी शुचिस्तथैकांतरतिर्जितेन्द्रियः ।।
समाप्नुयाद्योगमिमं महामना विमुक्तिमाप्नोति ततश्च योगतः ।। १३९ ।।
कुलं पवित्रं जननी कृतार्था वसुन्धरा भाग्यवती च तेन ।।
अवाह्यमार्गे सुखसिन्धुमग्नं लग्नं परे ब्रह्मणि यस्य चेतः ।। 1.2.55.१४० ।।
विशुद्धबुद्धिः समलोष्टकांचनः समस्तभूतेषु वसन्समो हि यः ।।
स्थानं परं शाश्वतमव्ययं च यतिर्हि गत्वा न पुनः प्रजायते ।। १४१ ।।
इदं मया योगरहस्यमुक्तमेवंविधं गौतमः प्राप योगम् ।।
तेनैतच्च स्थापितं पार्थ लिंगं संदर्शनादर्चनात्कल्मषघ्नम् ।। १४२ ।।
यश्चाश्विने कृष्णचतुर्दशीदिने रात्रौ समभ्यर्चति लिंगमेतन् ।।
स्नात्वा अहल्यासरसि प्रधाने श्रद्धाय सर्वं प्रविधाय भक्तितः ।। १४३ ।।
महोपकारेण विमुक्तपापः स याति यत्रास्ति स गौतमो मुनिः ।। १४४ ।।
इदं मया पार्थ तव प्रणीतं गुप्तस्य क्षेत्रस्य समासयोगात् ।।
माहात्म्यमेतत्सकलं शृणोति यः स स्याद्विशुद्धः किमु वच्मि भूयः ।। १४५ ।।
य इदं शृणुयाद्भक्त्या गौतमाख्यानमुत्तमम् ।।
पुत्रपौत्रप्रियं प्राप्य स याति पदमव्ययम् ।। १४६ ।। ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे गौतमेश्वरमाहात्म्यसविस्तरयोगलक्षणवर्णनंनाम पञ्चपंचाशत्तमोऽध्यायः ।। ५५ ।।