स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ३७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३६ स्कन्दपुराणम्
अध्यायः ३७
वेदव्यासः
अध्यायः ३८ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६

॥श्रीनारद उवाच॥
बर्बरीतीर्थमाहात्म्यमथो वक्ष्यामि तेऽर्जुन॥
यथा बर्बरिका जाता शतश्रृंगा नृपात्मजा॥ ३७.१ ॥

कुमारिकेति विख्याता तस्या नाम्ना प्रकथ्यते॥
इदं कौमारिकाखंडं चतुर्वर्गफलप्रदम्॥ ३७.२ ॥

यया कृता पृथिव्यां च नानाग्रामादिकल्पना॥
इदं भरतखंडं च यया सम्यक्प्रकल्पितम्॥ ३७.३ ॥

॥धनंजय उवाच॥
महदेतन्ममाश्चर्यं श्रोतव्यं परमं मुने॥
कुमारीचरितं सर्वं ब्रूहि मह्यं सविस्तरम्॥ ३७.४ ॥

कथं विश्वमिदं जातं कर्मजातिप्रकल्पितम्॥
कथं वा भारतं खंडं शुश्रूषेय सदा मम॥ ३७.५ ॥

॥नारद उवाच॥
अव्यक्तोऽस्मिन्निरालोके प्रधानपुरुषावुभौ॥
अजौ समागतावेकौ केवलं श्रृणुमो वयम्॥ ३७.६ ॥

ततः स्वभावकालाभ्यां स्वरूपाभ्यां समीरितम्॥
ईक्षणेनैव प्रकृतेर्महत्तत्त्वमजायत॥ ३७.७ ॥

महत्तत्त्वाद्विकुर्वाणादहंतत्त्वं व्यजायत॥
त्रिधा तन्मुनिभिः प्रोक्तं सत्त्वरासतामसम्॥ ३७.८ ॥

तामसात्पंच जातानि तन्मात्राणि वुदुर्बुधाः॥
तन्मात्रेभ्यश्च भूतानि वेशेषाः पंच तद्भवाः॥ ३७.९ ॥

सात्त्विकाच्चाप्यहंकाराद्विद्वि कर्मेद्रियाणि च॥
एकादशं मनश्चैव राजसं च द्वयोर्विदुः॥ ३७.१० ॥

चतुर्विशतितत्त्वानि जातानीति पुरा विदुः॥
सदाशिवेन वै पुंसा तानि दृष्टानि भारत॥ ३७.११ ॥

बुद्‌बुदाकारतां जग्मुरंडं जातं ततः शुभम्॥
शकतोटिप्रमाणं च ब्रह्मांडमिदमुच्यते॥ ३७.१२ ॥

आत्मास्य कथितो ब्रह्मा व्यभजत्स त्रिधा त्विदम्॥
ऊर्ध्वं तत्र स्थिता देवा मध्ये चैव च मानवाः॥ ३७.१३ ॥

नागा दैत्याश्च पाताले त्रिधैतत्परिकल्पितम्॥
ऐकैकं सप्तधाभूय ततस्तेन प्रकल्पितम्॥ ३७.१४ ॥

पातालानि च द्वीपानि स्वर्लोकाः सप्तसप्त च॥
सप्त द्वीपानि वक्ष्यामि श्रृणु तेषां प्रकल्पनाम्॥ ३७.१५ ॥

लक्षयोजनविस्तारं जंबूद्वीपं प्रकीर्त्यते॥
सूर्यबिंबसमाकारं तावत्क्षारार्णवावृतम्॥ ३७.१६ ॥

शाकद्वीपं द्विगुणतो जंबूद्वीपात्ततः परम्॥
तावता क्षीरतोयेन समुद्रेण परीवृतम्॥ ३७.१७ ॥

सुरातोयेन दैत्यानां मोहकार्यर्णवेन हि॥
पुष्करं तु ततो द्वीपं द्विगुणं तावता वृतम्॥ ३७.१८ ॥

कुशद्वीपं द्विगुणतस्ततस्तत्परतः स्मृतम्॥
दधितोयेन परितस्तावदर्णवसंवृतम्॥ ३७.१९ ॥

ततः परं क्रौञ्चसंज्ञं द्विगुणं हि घृताब्धिना॥
ततः शाल्मलिद्वीपं च द्विगुणं तावतैव च॥ ३७.२० ॥

इक्षुसारस्वरूपेण समुद्रेण परिवृतम्॥
गोमेदं तस्य परितो द्विगुणं तावता वृतम्॥ ३७.२१ ॥

स्वादुतोयेन रम्येण समुद्रेण समंततः॥
एवं कोटिद्वयं पार्थ लक्षपंचाशतत्रयम्॥ ३७.२२ ॥

पंचाशच्च सहस्राणि सप्तद्वीपाः ससागराः॥
दशोत्तराणि पंचैव अंगुलानां शतानि च॥ ३७.२३ ॥

अपां वृद्धिक्षयो दृष्टः पक्षयोः शुक्लकृष्णयोः॥
ततो हेममयी भूमिर्दशकोट्यः कुरूद्वह॥ ३७.२४ ॥

देवानां क्रीडनस्थानं लोकालोकस्ततः परम्॥
पर्वतो वलयाकारो योजनायुतविस्तृतः॥ ३७.२५ ॥

अस्य बाह्ये तमो घोरं दुष्प्रेक्ष्यं जीववर्जितम्॥
पंचत्रिंशत्स्मृताः कोट्यो लक्षाण्येकोनविंशतिः॥ ३७.२६ ॥

चत्वारिंशत्सहस्राणि योजनानां च फाल्गुन॥
सप्तसागरमानस्तु गर्भोदस्तदनंतरम्॥ ३७.२७ ॥

कोटियोजनविस्तारः कटाहऋ संव्यवस्थितः॥
ब्रह्मणोंऽडं कटाहेन संयुक्तं मेरुमध्यतः॥ ३७.२८ ॥

पंचाशत्कोटयो ज्ञेया दशदिक्षु समंततः॥
जंबुद्वीपस्य मध्ये तु मेरुनामास्ति पर्वतः॥ ३७.२९ ॥

स लक्षयोजनो ज्ञेयो ह्यधश्चोर्ध्वं प्रमाणतः॥
षोडशैव सहस्राणि योजनानामधः स्थितः॥ ३७.३० ॥

उच्छ्रयश्चतुराशीतिर्द्वात्रिंशन्मूर्ध्नि विस्तृतः॥
त्रिभिः शृंगैः समायुक्तः शरावाकृतिमस्तकः॥ ३७.३१ ॥

मध्यशृंगे ब्रह्मवास ऐशान्यां त्र्यंबकस्य च॥
नैर्ऋत्ये वासुदेवस्य हेमशृंगं च ब्रह्मणः॥ ३७.३२ ॥

रत्नजं शंकरस्यापि राजतं केशवस्य च॥
मेरुदिक्षु चतसृषु विष्कंभा गिरयः स्मृताः॥ ३७.३३ ॥

पूर्वेण मंदरो नामदक्षिणे गंधमादनः॥
विपुलः पश्चिमो ज्ञेयः सुपार्श्वस्तु तथोत्तरे॥ ३७.३४ ॥

कदंबो मंदरे ज्ञेयोजंबुर्वै गंधमादने॥
अश्वत्थो विपुले चैव सुपार्श्वेच वटोमतः॥ ३७.३५ ॥

एकादशशतायामाश्चत्वारो गिरिकेतवः॥
एतेषां संति चत्वारि वनानि जयमूर्धसु॥ ३७.३६ ॥

पूर्वं चैत्ररथं नामदक्षिणे गंधमादनम्॥
वैभ्राजंपश्चिमे ज्ञेयमुदक्चित्ररथं वनम्॥ ३७.३७ ॥

सरांसि चापि चत्वारि चतुर्दिक्षु निबोध मे॥
प्राच्येऽरुणोदसंज्ञं तु मानसं दक्षिणे सरः॥ ३७.३८ ॥

प्रत्यक्छीतो दकंनाम उत्तरे च महाह्रदः॥
विष्कंभगिरयो ह्येत उच्छ्रिताः पंचविंशतिः॥ ३७.३९ ॥

योजनानां सहस्राणि सहस्रं पिंडतः स्मृतम्॥
अन्ये च संति बहुशस्तत्र वै केसराचलाः॥ ३७.४० ॥

मेरोर्दक्षिणतश्चैव त्रयो मर्यादपर्वताः॥
निषधो हेमकूटश्च हिमवानिति ते त्रयः॥ ३७.४१ ॥

लक्षयोजनदीर्घाश्च विस्तीर्णा द्विसहस्रकम्॥
त्रयश्चोत्तरतो मेरोर्नीलः श्वेतोऽथ श्रृंगवान्॥ ३७.४२ ॥

माल्यवान्पूर्वतो मेरोर्गंधाख्यः पश्चिमे तथा॥
इत्येते गिरयः प्रोक्ता जंबुद्वीपे समंततः॥ ३७.४३ ॥

गंधमादनसंस्थाया महागजप्रमाणतः॥
फलानि जंबवास्तन्नाम्ना जंबूद्वीपमिति स्मृतम्॥ ३७.४४ ॥

आसीत्स्वायंभुवोनाम मनुराद्यः प्रजापतिः॥
आसीत्स्त्री शतरूपा तामुदुवोढ प्रजापतिः॥
प्रियव्रतोत्तानपादौ तस्याऽऽस्तां तनयावुभौ॥ ३७.४५ ॥

ध्रुवश्चोत्तानपादस्य पुत्रः परमधार्मिकः॥
भक्त्या स विष्णुमाराध्य स्थानं चैवाक्षयं गतः॥ ३७.४६ ॥

प्रियव्रतस्य राजर्षेरुत्पन्ना दश सूनवः॥
त्रयः प्रव्रजितास्तत्र परंब्रह्म समाश्रिताः॥ ३७.४७ ॥

सप्त सप्तसु द्वीपेषु तेन पुत्राः प्रतिष्ठिताः॥
जंबूद्वीपाधिपो ज्येष्ठ आग्नीध्र इति विश्रुतः॥ ३७.४८ ॥

तस्यासन्नव सुताः पार्थ नववर्षेश्वराः स्मृताः॥
तेषां नाम्ना च ते वर्षास्तिष्ठंत्यद्यापि चांकिताः॥ ३७.४९ ॥

योजनानां सहस्राणि नव प्रत्येकशः स्मृताः॥
मेरोश्चतुर्दशं खंडं गंधमाल्यवतोर्द्वयोः॥ ३७.५० ॥

अंतरे हेमभूमिष्ठमिलावृतमिहोच्यते॥
माल्यवत्सागरांतस्य भद्राश्वमिति प्रोच्यते॥ ३७.५१ ॥

गंधवत्सागरांतस्य केतुमालमिति स्मृतम्॥ ३७.५२ ॥

श्रृंगवज्जलधेरंतः कुरुखंडमिति स्मृतम्॥
श्रृंगवच्छ्वेतमध्ये च खण्डं प्रोक्तं हिरण्मयम्॥ ३७.५३ ॥

सुनीलश्वेतयोर्मध्ये खंडमाहुश्च रम्यकम्॥
निषधो हेमकूटश्च हरिखंडं तदंतरा॥ ३७.५४ ॥

हिमवद्धिमकूटांतः खण्डं किंपुरुषं स्मृतम्॥
हिमाद्रिजलधेरन्तर्नाभि खण्डमिति स्मृतम्॥ ३७.५५ ॥

नाभिखण्डं च कुरवो द्वे वर्षे धनुपाकृती॥
हिमवांश्च गिरिश्रृंगी ज्यास्थाने परिकीर्तितौ॥ ३७.५६ ॥

नाभेः पुत्रश्च ऋषभ ऋषभाद्बरतोऽभवत्॥
तस्य नाम्ना त्विदं वर्षं भारतं चेति कीर्त्यते॥ ३७.५७ ॥

अत्र धर्मार्थकामानां मोक्षस्य च उपार्जनम्॥
अन्यत्र भोगभूमिश्च सर्वत्र कुरुनंदन॥ ३७.५८ ॥

शाकद्वीपे च शाकोऽस्ति योजनानां सहस्रकः॥
तस्य नाम्ना च तद्वर्षं शाकद्वीपमिति स्मृतम्॥ ३७.५९ ॥

तस्य च प्रियव्रत एवाधिपतिर्नाम्ना मेधातिथिरिति॥ ३७.६० ॥

तस्य पुरोजवमनोजववेपमानधूम्रानीकचित्ररेफबहुरूपविश्वचारसंज्ञानि पुत्रनामानि सप्त वर्षाणि॥ ३७.६१ ॥

शाकद्वीपे च वर्ष ऋतव्रतसत्यव्रतानुव्रतनामानो वाय्यवात्कमं भगवंतं जपंति॥ ३७.६२ ॥

अंतः प्रविश्य भूतानि यो विभज्यात्मकेतुभिः॥
अंतर्यामीश्वरः साक्षात्पातु नो यद्वशे जगत्॥ ३७.६३ ॥

॥इति जपः॥
कुशद्वीपे कुशस्तंबो योजनानां सहस्रकः॥
तच्चिह्नचिह्नितं तस्मात्कुशद्वीपं ततः स्मृतम्॥ ३७.६४ ॥

तद्द्वीपपतिश्च प्रैयव्रतो हिरण्यरोमा तत्पुत्रवसुवसुदानदृढकविनाभिगुप्तसत्यव्रतवामदेवनामांकितानि सप्त वर्षाणि॥
वर्णाश्च कुलिशकोविदाभियुक्तकुलकसंज्ञा जातवेदसं भगवंतं स्तुवंति॥ ३७.६५ ॥

परस्य ब्रह्णः साक्षाज्जातवेदासि हव्यवाट्॥
देवानां पुरुषांगानां यज्ञेन पुरुषं यजः॥ ३७.६६ ॥

॥इति स्तुतिः॥
क्रौंचद्वीपे क्रौंचनामा पर्वतो योजनायतः॥
योऽसौ गुहेन निर्भिन्नस्तच्चिह्नं क्रौंचद्वीपकम्॥ ३७.६७ ॥

तत्र च प्रैयव्रतो घृतपृष्टिनामा तत्पुत्राममधुरुहमेघपृष्ठस्वदामऋताश्वलोहितार्णववनस्पतिइतिसप्तपुत्रनामांकितानि सप्त वर्षाणि॥ ३७.६८ ॥

वर्णाश्च गुरुऋषभद्रविणदेवकसंज्ञाः॥ ३७.६९ ॥

आपोमयं भगवंतं स्तुवंति॥ ३७.७० ॥

आपः पुरुषवीर्याश्च पुनंतीर्भूर्भूवःस्वश्च॥
तैः पुनरमीवघ्नाःसंस्पृशेतात्मना भुवः॥ ३७.७१ ॥

॥इति जपः॥
शाल्मलेर्नाम वृक्षस्य तत्रवासः सहस्रं योजनानां तच्चिह्नं शाल्मलिद्विपमुच्यते॥ ३७.७२ ॥

तस्याधिपतिः प्रैयव्रतो यज्ञबाहुस्तत्पुत्रसुरोचनसौमनस्यरमणकदेवबर्हिपारिभद्राप्यायनाभिज्ञाननामानि सप्तवर्षाणि॥ ३७.७३ ॥

वर्णाश्च श्रुतधरवीर्यवसुंधरइषंधरसंज्ञा भगवंतं सोमं यजंति॥ ३७.७४ ॥

स्वयोनिः पितृदेवेभ्यो विभजञ्छुक्लकृष्णयोः॥
अधः प्रजानां सर्वासां राजा नः सोमोस्तु॥ ३७.७५ ॥

इति जपः गोमेदनामा प्लक्षोस्ति सुरम्यो यस्य च्छायया॥
मोदोवृद्धिं गतं लौल्याद्गोमेदं द्वीपमुच्यते॥ ३७.७६ ॥

तत्र प्रैयव्रत इध्मजिह्वः पतिस्तत्पुत्रसिवसुरम्यसुभद्र शांत्यशप्तमृताभयनामांकितानि सप्त वर्षाणि॥ ३७.७७ ॥

वर्णाश्च हंसपतंगोर्ध्वांचनसत्यांगसंज्ञाश्चत्वारो भगवंतं सूर्यं यजंते॥ ३७.७८ ॥

प्रश्रस्य विष्णुरूपंयत्तत्रोत्थस्य ब्रह्मणोऽमृतस्य च॥
मृत्योश्च सूर्यमात्मानं धीमहि॥ ३७.७९ ॥

॥इति जपः॥
स्वर्णपत्राणि नियुतं योजनानां सहस्रकम्॥
पुष्करं ज्वलदा भाति तच्चिह्नं द्वीपपुष्करम्॥ ३७.८० ॥

तस्याधिपतिः प्रैयव्रतो वीतहोत्रनामा तत्पुत्रौ रमणकघातकौ॥ ३७.८१ ॥

तन्नामचिह्नतं खंडद्वयम्॥ ३७.८२ ॥

तयोरंतरालेमानसाचलो नाम वलयाकारः पर्वतो यस्मिन्भ्रमति भगवान्भास्कर इति॥ ३७.८३ ॥

तत्र वर्णाश्च न संति केवलं समानास्ते ब्रह्म ध्यायंति॥ ३७.८४ ॥

यद्यत्कर्ममयं लिंगं ब्रह्मलिंगं जनोर्चयन्॥
भेदेनैकांतमद्वैतं तस्मै भगवते नमः॥ ३७.८५ ॥

॥इति जपः॥
नैषु क्रोधो न मात्सर्यं पुण्यपापार्जनेन च॥
अयुतं द्विगुणं चापि क्रमादायुः प्रकीर्तितम्॥ ३७.८६ ॥

जपंतः कामिनीयुक्ता विहरंत्यमरा इव॥
अथ ते संप्रवक्ष्यामि ऊर्ध्वलोकस्य संस्थितिम्॥ ३७.८७ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारिकाख्याने भूसंस्थितिवर्णनंनाम स्पतत्रिंशोऽध्यायः॥ ३७ ॥ छ ॥