स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ४७

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६

।। नारद उवाच ।। ।।
ततो मयास्य तीर्थस्य रक्षणाय पुनर्जय ।।
समाराध्य यथा देव्यः स्थापितास्तच्छृणुष्व भोः ।।१।।
यथात्मा सर्वभूतेषु व्यापकः परमेश्वरः ।।
तथैव प्रकृतिर्नित्या व्यापका परमेश्वरी ।। २ ।।
शक्ति प्रसादादाप्नोति वीर्यं सर्वाश्च संपदः ।।
ईश्वरी सर्वभूतेषु सा चैवं पार्थ संस्थिता ।। ३ ।।
बुद्धिह्रीपुष्टिलज्जेति तुष्टिः शांतिः क्षमा स्पृहा ।।
श्रद्धा च चेतना शक्तिर्मंत्रोत्साहप्रभूद्भवा ।। ४ ।।
इयमेव च बंधाय मोक्षायेयं च सर्वदा ।।
एनामाराध्य चैश्वर्यमिन्द्राद्याः समवाप्नुयुः ।। ५ ।।
ये च शक्तिं न मन्यंते तिरस्कुर्वंति चाधमाः ।।
योगीन्द्रा अपि ते व्यक्तं भ्रश्यंते काशिजा यथा ।। ६ ।।
वाराणस्यां किल पुरा सिद्धयोगीश्वराः पुनः ।।
अवमन्य च ते शक्तिं पुनर्भ्रंशमुपागताः ।। ७ ।।
तस्मात्सदा देहिनेयं शक्तिः पूज्यैव नित्यदा ।।
तुष्टा ददाति सा कामान्रुष्टा संहरते क्षणात् ।। ८ ।।
परमा प्रकृतिः सा च बहुभेदैर्व्यवस्थिता ।।
तासां मध्ये महादेव्यो ह्यत्र संस्थापिताः शृणु ।।९।।
चतस्रस्तु महाशक्त्यश्चतुर्दिक्षु व्यवस्थिताः ।।
सिद्धांबिका तु पूर्वस्यां स्थापिता सा गुहेन च ।।1.2.47.१ ०।।
जगदादौ मूलूप्रकृतेरुत्पन्ना सा प्रकीर्त्यते ।।
आराधिता यतः सिद्धैस्तस्मात्सिद्धांबिका च सा ।।११।।
दक्षिणस्यां तथा तारा संस्थिता स्थापिता मया ।।
तारणार्थाय देवानां यस्मात्कूर्मं समाश्रिता ।। १२ ।।
ययाविष्टः समुज्जह्रे वेदान्कूर्मो जगद्गुरुः ।।
अनयाविष्टदेहश्च बुधो बौद्धान्हनिष्यति ।।१३।।
कोटिशो वेदमार्गस्य ध्वंसकान्पापकर्मिणः।।
इयं मया समाराध्य समानीता गिरेः सुता ।। १४ ।।
कोटिसंख्याभिरत्युग्रदेवीभिः संवृता च सा ।।
दक्षिणां दिशमाश्रित्य संस्थिता मम गौरवात् ।।१५।।
पश्चिमायां तथा देवी संस्थिता भास्करा शुभा ।।
ययाविष्टानि भासंते भास्करप्रमुखानि च।।१६।।
बिंबानि सर्वताराणां गच्छन्त्यायांति च द्रुतम् ।।
सैषा महाबला शक्तिर्भास्वरा कुरुनन्दन ।।१७।।
मयाराध्य समानीता कटाहादत्र संस्थिता ।।
कोटिकोटिवृता नित्यं त्रायते पश्चिमां दिशम् ।। १८ ।।
उत्तरस्यां तथा देवी संस्थिता योगनंदिनी ।।
परमप्रकृतेर्देहात्पूर्वं निःसृतया यया ।। १९ ।।
दृष्ट्या दृष्टा निर्मलया योगमापुश्चतुःसनाः ।।
योगीश्वरी च सा देवी सनकाद्यैः सुतोषिता ।। 1.2.47.२० ।।
सैव चांडकटाहान्मे समाराध्यात्र प्रापिता ।।
योगिनीभिः परिवृता संस्थिता चोत्तरां दिशम् ।। २१ ।।
एवमेता महाशक्त्यश्चतस्रः संस्थिताः सदा ।।
पूजिताः कामदा नित्यं रुष्टाः संहरणक्षमाः ।। २२ ।।
ततश्च नव मे दुर्गाः समानीताः शृणुध्व ताः ।। २३ ।।
त्रिपुरानाम परमा देवी स्थाणुर्यया पुरा ।।
आविष्टस्त्रिपुरं निन्ये भस्मत्वं जगदीश्वरः ।। २४ ।।
त्रिपुरेति ततस्तां तु प्रोक्तवान्भगवान्हरः ।।
तुष्टाव च स्वयं तस्मात्पूज्या सा जगतामपि ।। २५ ।।
सा चाराध्य समानीता मयामरेश्वरपर्वतात् ।।
भक्तानां कामदा सास्ति भट्टादित्यसमीपतः ।। २६ ।।
अपरा चापि कोलंबा महाशक्तिः सनातनी ।।
कोलरूपी ययाविष्टः केशवश्चोज्जहार गाम् ।। २७ ।।
तस्मात्सा विष्णुना चोक्ता कोलंबेति स्तुतार्चिता ।।
सा च देवी मया पार्थ भक्तियोगेन तोषिता ।। २८ ।।
वाराहगिरिसंस्था मां समानीता च साब्रवीत् ।।
यत्राहं नारद सदा तिष्ठामि कृपयार्थिनाम् ।। ।। २९ ।।
तत्र कूपेन संस्थेयं रुद्राणीसंस्थितेन वै ।।
तं हि कूपं विना मह्यं न रतिर्जायते क्वचित् ।।1.2.47.३०।।
तस्माद्भवान्कूपवरं स्वयमत्र खन द्विज ।।
एवमुक्ते पार्थ देव्या दर्भमूलेन मे तदा ।। ३१ ।।
कूपोऽखनि यत्र साक्षाद्रुद्राणी कूप आबभौ ।।
ततो मया तत्र देवाः स्नात्वा जप्त्वा च तर्पिताः।।३२।।
पूजिता च ततो दैवी कोलंबा जगदीश्वरी ।।
परितुष्टा तदा देवी प्रणतं मा ततोऽब्रवीत् ।। ३३ ।।
सदात्र चाहं स्थास्यामि प्रसादं प्रापिता त्वया ।।
ये च कूपेत्र संस्नात्वा माघाष्टम्यां विशेषतः ।।३४।।
पूजयिष्यंति मां मर्त्यास्तेषां छेत्स्यामि दुष्कृतम् ।।
सर्वतीर्थमयी यश्च सर्वर्तुकवनेस्थितः ।। ३५ ।।
मेरोः समीपे रुद्राण्याः कूप एष स एव च ।।३६।।
प्रयागादपि गंगाया गयायाश्च विशेषतः ।।
कूपेस्मिन्नधिकं स्नानं मया नारद कीर्तितम् ।। ३७ ।।
तदहं तव वाक्येन संस्थितात्र तपोधन ।।
गुहेनाथ सरः पुण्यं पालयिष्याम्यतंद्रिता ।। ३८ ।।
कुमारेशं पूजयित्वा पूजयिष्यंति ये च माम् ।।
देवीभिः षष्टिकोटीभिर्युता तेषामभीष्टदा ।। ३९ ।।
।। नारद उवाच ।। ।।
इत्युक्तोऽहं पार्थ देव्या तदानीं प्रीयमाणया ।।
प्रत्यब्रवं प्रमुदितः कोलंबां विश्वमातरम् ।। 1.2.47.४० ।।
अत्रास्य माता त्वं देवि गुप्तक्षेत्रस्यकारणम् ।।
तीर्थयात्रा वृथा तेषां नार्च्चयंतीह त्वां च ये ।। ४१ ।।
इदं च यत्सरः पुण्यं त्वन्नाम्ना ख्यातिमेष्यति ।।
ईश्वरी सरसोऽस्य त्वं तीर्थस्यास्य तथेश्वरी ।। ४२ ।।
एवं दीर्घं तपस्तत्वा स्थापिता मयका शुभा ।।
महादुर्गा नरैस्तस्मात्पूज्येयं सततं बुधैः ।। ४३ ।।
तृतीया च दिशि तस्यां स्थिता संस्थापिता मया ।।
गुहेन च कपालेश्याः प्रभावोस्याः पुरेरितः ।। ४४ ।।
धन्यास्ते ये प्रपश्यंति नित्यमेनां नरोत्तमाः ।।
कपालेश्वरमभ्यर्च्य विश्वशक्तिरियं यतः ।। ४५ ।।
एवमेतास्तिस्रो दुर्गाः पूर्वस्यां दिशि संस्थिताः ।।
पश्चिमायां प्रवक्ष्यामि तिस्रो दुर्गा महोत्तमा ।। ४६ ।।
सुवर्णाक्षी तु या देवी ब्रह्मांडपरिपालिनी ।।
सा मयात्र समाराध्य तीर्थे देवी निवेशिता ।। ।। ४७ ।।
ये चैनां प्रणमिष्यंति पूजयिष्यंति भक्तितः ।।
त्रयस्त्रिंशद्भिः कोटीभिर्देवीभिः पूजिता च तैः ।। ४८ ।।
अपरा च महादुर्गा चर्चिता चेति संस्थिता ।
रसातलतलात्तत्र मयानीता सुभक्तितः ।। ४९ ।।
इयमर्च्या च चिंत्या च वीरत्वं समभीप्सुभिः ।।
बहुभिर्देवदैतेयैर्ददौ तेभ्यश्च वीरताम् ।। 1.2.47.५० ।।
इयमेव महादुर्गा शूद्रकं वीरसत्तमम् ।
चौरैर्बद्धं कलौ चाग्रे मोक्षयिष्यति विक्रमात् ।। ५१ ।।
ततस्त्वेतां स चाराध्य वीरेंद्रत्वमवाप्स्यति ।।
निहनिष्यति चाक्रम्य कालसेनमुखान्रिपून् ।। ५२ ।
तस्मादियं समाराध्या वीर्यकामैर्नरैः सदा ।।
चर्चिता या महादुर्गा पश्चिमायां दिशि स्थिता ।। ५३ ।।
तथा त्रैलोक्यविजया तृतीयस्यां दिशि स्थिता ।
यामाराध्य जयं प्राप्तस्त्रिलोक्यां रोहिणीपतिः ।।
सोमलोकान्मयानीता पूजिता जयदा सदा ।। ५४ ।।
एवमेताः पश्चिमायामुत्तरस्यामतः शृणु ।।
तिस्रो देव्यश्चोत्तरस्यामेकवीरामुखाः स्थिताः ।। ५५ ।।
एकवीरेति या देवी साक्षात्सा शिवपूजिता ।।
ययाविष्टो जगत्सर्वं संहरत्येष भूतराट् ।। ५६ ।।
वीर्येणाद्येकवीरायाः कृत्वा लोकांश्च भस्मसात् ।।
युगैकादशपूर्णत्वे विलक्षोऽभूत्स भस्मनि ।। ५७ ।।
एवंविधा त्वेकवीरा शक्तिरेषा सनातनी ।।
पूजिताराधिता चैव सर्वाभीप्सितदा नृणाम् ।। ।। ५८ ।।
ब्रह्मलोकात्समानीता मयाराध्यात्र भारत ।।
नामकीर्तनमप्यस्या दुष्टानां घातनं विदुः ।। ५९ ।।
द्वितीया हरसिद्ध्याख्या देवी दुर्गा महाबला ।।
शीकोत्तरात्समाराध्य मयानीतात्र पांडव ।। 1.2.47.६० ।।
यदा शीकोत्तरस्थेन पार्वत्या प्रार्थितेन च ।।
रुद्रेण डाकिनीमंत्रः प्रोक्तो देव्याः कृपालुना । ६१ ।।
तदा मंत्रप्रभावेण मोहिता गिरिजा सती ।।
तमेवाक्रम्य मांसं च शोणितं च भवं पपौ ।। ६२ ।।
ततो रुद्रशरीरात्तु विनिष्क्रांतार्तिनाशिनी ।।
हरसिद्धिर्महादुर्गा महामंत्रविशारदा ।। ६३ ।।
सा सहस्रभुजा देवी समाक्रम्याभिपीड्य च ।।
मोक्षयामास गिरिशमशापयत तां तथा ।। ६४ ।।
ततः प्रभृति सा लोके हरसिद्धिः प्रकीर्त्यते ।।
देवीनां षष्टिकोटीभिरावृता पूज्यते सुरैः ।। ६५ ।।
एतामाराध्य सुग्रीवप्रमुखा दोषनाशिनीम्।।।
अभूवन्त्सुमहावीर्या डाकिनीसंघनाशनाः ।। ६६ ।।
तस्मादेतां पूजयेत्तु मनोवाक्कायकर्मभिः ।।
डाकिन्याद्या न सर्पंति हरसिद्धेरनंतरम् ।। ६७ ।।
तृतीयेशानकोणस्था चंडिका नवमी स्थिता ।।
वागीशोऽपि लभेत्पारं नैव यस्याः प्रवर्णने । ६८ ।।
या पुरा पार्वतीदेहाद्विनिःसृत्य महासुरौ ।।
चंडमुंडौ निहत्यैव भक्षयामास क्रोधतः ।। ६९ ।।
अक्षौहिणीशतं त्वेकं चंडमुंडौ च तावुभौ ।।
नापूर्यतैकग्रासोऽस्याः किंलक्ष्या यात्वियं हि सा ।। 1.2.47.७० ।।
इयमेवांधकानां च तृषिता शोणितं पुनः ।।
पपौ ततो निजग्राह चांधकं भगवान्भवः ।। ७१ ।।
इयं च रक्तबीजानां कृत्वा पानं च रक्तजम् ।।
अर्पयामास तं देव्याश्चामुण्डापीतशोणितम् ।। ७२ ।।
एषा तृप्यति भक्तानां प्रणामेनापि भारत ।।
अर्बुदानां च कोटीभिर्दैत्यानां पापकर्मिणाम् ।। ७३ ।।
कुण्डं चास्या मया देव्याः पुण्यं निष्पादितं शुभम् ।।
यत्र वै स्पर्शमात्रेण सर्वतीर्थफलं लभेत् ।। ७४ ।।
हरसिद्धिर्देवसिद्धिर्धर्मसिद्धिश्च भारत ।।
विविधा प्राप्यते सिद्धिस्तीर्थेऽस्मिंश्चंडिकारतैः ।। ७५ ।।
यश्च पूजयते देवीं स्वल्पेन बहुनापि वा ।।
कात्यायनी कोटिशतैर्वृता तस्य विभूतिदा ।। ७६ ।।
एवमेता महादुर्गा नवतीर्थेऽत्र संस्थिताः ।।
चतस्रश्चापि दिग्देव्यो नित्यमर्च्याः शुभेप्सुभिः ।।७७।।
आश्विनस्य च मासस्य नवरात्रे विशेषतः ।।
उपोष्य चैकभक्तैर्वा देवीस्त्वेताः प्रपूजयेत् ।। ७८ ।।
बलिपूपकनैवेद्यैस्तर्पणैर्धूपगंधिभिः ।।
तस्य रक्षां चरंत्येता रथ्यासु त्रिकचत्वरे ।। ७९ ।।
भूतप्रेतपिशाचाद्या नोपकुर्युः प्रपीडनम् ।।
आपदो विद्रवंत्याशु योगिन्यो नंदयंति तम् ।। 1.2.47.८० ।।
पुत्रार्थी लभते पुत्रान्धनार्थी धनमाप्नुयात् ।।
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ।। ८१ ।।
आसां यः कुरुते भक्तिं नरो नारी च श्रद्धया ।।
सर्वान्कामानवाप्नोति यांश्चिंतयति चेतसि ।। ८२ ।।
कामगव्य इमा देव्यश्चिन्तामणिनिभास्तथा ।।
कल्पवल्ल्योऽऽथ भक्तानां प्रतिच्छन्दोऽत्र नव हि ।। ८३ ।।
तथात्र भूतमातास्ति हरसिद्धेस्तु दक्षिणे ।।
तस्या माहात्म्यमतुलं संक्षेपात्प्रब्रवीमि ते ।। ८४ ।।
पूर्वं किल गुहो विद्वान्पुण्ये सारस्वते तटे।।
भूतप्रेतपिशाचानामाधिराज्येऽभ्यषिच्यत ।। ८५ ।।
स च सर्वाणि भूतानि मर्यादायामधारयत् ।।
एतदन्नं प्रदायैव कृपया भगवान्गुहः ।। ८६ ।।
यदमंत्रहुतं किंचिद्वेदबाह्यं च यत्कृतम् ।।
अश्रद्धया च क्रोधेन तद्वस्तृप्त्यै भविष्यति ।। ८० ।।
ततस्त्वनेन भोगेन तानि नंदंति कृत्स्नशः ।।
ततः केनापि कालेन श्रद्धयाऽश्रद्धया कृतम् ।। ८८ ।।
पुण्यं तान्येव भूतानि ग्रसंत्याक्रम्य देवताः ।।
ततो देवाः क्षुधार्त्तास्ते गुहायैतन्न्यवेदयन् ।। ८९ ।।
स वै तदाकर्ण्य क्रुद्धो गुहः काल इवाभवत् ।।
तस्य क्रुद्धस्य भ्रूपद्ममध्यात्काचिद्विनिर्गता ।। 1.2.47.९० ।।
ज्वालामाला सुदुर्दर्शा नारी द्वादशलोचना ।।
सा च प्रणम्य तं प्राह तव शक्तिरहं प्रभो ।।
शीघ्रमादिश मां कृत्ये किं करोमि तवेप्सितम्।। ९१ ।। ।।
।। स्कन्द उवाच ।। ।।
एतैर्भूतगणैः पापैरुल्लंघ्य मम शासनम् ।। ९२ ।।
मनुष्यदत्तं सकलं भुज्यते स्वेच्छयाधमैः ।।
शीघ्रमेतानि त्वं तस्मान्मर्यादायामुपानय ।। ९३ ।।
एतास्त्वानुव्रजिष्यंति देव्यः कोटिशतं शुभे ।।
ततस्तथेति सा चोक्ता देवीभिः संवृता तदा ।। ९४ ।।
मयूरं समुपास्थाय गुहशक्तिः समागता ।।
सरोजवनमासाद्य भूतसंघानपश्यत ।। ९५ ।।
जघान च समासाद्य देवी नानाविधायुधैः ।।
ततः प्रेतपिशाचाद्या हन्यमाना महारणे ।। ९६ ।।
प्रसादयंति तां देवीं नानावेषैः सुदीनवत् ।।
केचिद्ब्राह्मणवेषैश्च तापसानां तथो क्तिभिः ।। ९७ ।।
नृत्यंति देवि पद्माक्षि प्रसीदेति पुनःपुनः ।।
ततः प्रसन्ना सा देवी व्रियतां स्वेच्छयाऽऽह तान् ।। ९८ ।।
तां ते प्रोचुस्त्राहि नस्त्वं भूतमाता भवेश्वरि ।।
मर्यादां नैव त्यक्ष्यामो वयं स्कन्दविनिर्मिताम् ।। ९९ ।।
ये चैवं त्वां तोषयन्ति तेषां देहि वरान्सदा ।।1.2.47.१००।। ।।
।। श्रीदेव्युवाच ।। ।।
वैशाखे दर्शदिवसे ये चैवं तोषयंति माम् ।।
अरिष्टाभरणैः पुष्पैर्दधिभक्तैश्च पूजनैः ।।
तेषां सर्वोपसर्गा वै यास्यंति विलयं स्फुटम् ।। १०१ ।।
एवं दत्त्वा वरं देवी मुमुदे भूतसंवृता ।।
एवंप्रभावा सा देवी मयानीतात्र भारत ।। १०२ ।।
य एनां प्रणमेन्मर्त्यः सर्वारिष्टैर्विमुच्यते ।। १०३ ।।
एवं प्रभावाः परिकीर्तिता मया समासतस्तीर्थवरेऽत्र देव्यः ।।
चतुर्दशैवार्जुन पूजिता याश्चतुर्दशस्थानवरैर्नृमुख्यैः ।। ।। १०४ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे श्रीदेव्याख्यानवर्णनंनाम सप्तचत्वारिंशत्तमोऽध्यायः ।। ४७ ।।