स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ३६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ३५ स्कन्दपुराणम्
अध्यायः ३६
वेदव्यासः
अध्यायः ३७ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६

॥नारद उवाच॥
एवं दृष्ट्वा क्षितौ तानि लिंगानि हरसूनुना॥
हरिब्रह्मेंद्रप्रमुखा देवाः प्रोचुः परस्परम्॥ ३६.१ ॥
अहो धन्यः कुमारोऽयं महीसागरसंगमे॥
येन चत्वारी लिंगानि स्तापितानि सुदुर्लभे॥ ३६.२ ॥
वयमप्यत्र शुद्ध्यर्थं तोषार्थं स्कन्दरुद्रयोः॥
साध्वर्थे चात्मलाभाय कुर्मो लिंगपरंपराम्॥ ३६.३ ॥
अथवा कोटिशो देवा मुनयो नैव संख्यया॥
सर्वे चेत्स्थापयिष्यंति लिंगान्यत्र महीतटे॥ ३६.४ ॥
पूजा तेषां कतं भावि बहुत्वाच्चात्र पठ्यते॥
यस्य राष्ट्रे रुद्रलिंगं पूज्यते नैव शक्तितः॥ ३६.५ ॥
तस्य सीदति तद्राष्ट्रं दुर्भिक्षव्याधितस्करैः॥
संभूय स्थापयिष्यामो लिंगमेकं ततः शुभम्॥ ३६.६ ॥
इति कृत्वा मतिं सर्वे प्राप्यानुज्ञां महेश्वरात्॥
प्रहर्षिता सुहश्चैव हरिब्रह्ममुखाः सुराः॥ ३६.७ ॥
भूमिभागं शुभं वीक्ष्य विजने लिंगमुत्तमम्॥
स्थापयामासुरथ ते स्वयं ब्रह्मविनिर्मितम्॥ ३६.८ ॥
सिद्धार्थैः स्तापितं यस्मा द्देवैर्ब्रह्मादिभिः स्वयम्॥
सिद्धेश्वरमिति प्राह नाम लिंगस्य वै गुहः॥ ३६.९ ॥
सर्वैर्देवैस्तत्र लिंगे खानितं सर उत्तमम्॥
सर्वतीर्थोदकैः शुभ्रैः पूरितं च महात्मभिः॥ ३६.१० ॥
एतस्मिन्नंतरे पार्थ पातालाच्छेषनंदनः॥
कुमुदोनाम आगत्य प्राह शेषाहिपन्नगान्॥ ३६.११ ॥
अस्मिंस्तारकयुद्धे तु प्रलंबोनाम दानवः॥
पलायित्वा स्कंदभीत्या पापः पातालमाविशत्॥ ३६.१२ ॥
स वो वसूनि पुत्रांश्च भार्याः कन्या गृहाणि च॥
विध्वंसयति नागेंद्राः शीघ्रं धावतधावत॥ ३६.१३ ॥
शेषात्मजस्य तद्वाक्यं कुमदस्य निशम्यते॥
औत्सुक्यमापुर्नागेंद्रा यामयामेति वादिनः॥ ३६.१४ ॥
तान्निवार्य ततः स्कंदः क्रुद्धः शक्तिमथाददे॥
पातालाय मुमोचाथ प्रोच्य दैत्यो निहन्यताम्॥ ३६.१५ ॥
ततः स्कंदभुजोत्सृष्टा भुवं निर्भिद्य वेगतः॥
प्रविष्टा सहसा शक्तिर्यथा दैवं नरं प्रति॥ ३६.१६ ॥
सा तं हत्वा प्रलंबं च कोटिभिर्दशभिर्वृतम्॥
नंदयित्वा गता नागाञ्जलकल्लोपूर्विका॥ ३६.१७ ॥
यांत्या शक्त्या तया पार्थ यत्कृतं विवरं भुवि॥
पातालगंगातोयेन पूरितं पापहारिणा॥ ३६.१८ ॥
तस्य नाम ददौ स्कंदः सिद्धकूप इति स्मृतः॥
कृष्माष्टम्यां चतुर्दश्यामुपवासी नरः स्वयम्॥ ३६.१९ ॥
स्नात्वा कूपेऽर्चयेदीशं सिद्धेश्वरमनन्यधीः॥
प्रभूतभवसंभूतपापं तस्य विलीयते॥ ३६.२० ॥
सिद्धकुंडे च यः स्नात्वा श्राद्धं कुर्याद्विचक्षणः॥
सर्वकल्मषनिर्मुक्तो भक्तियोग्यो भवेभवे॥ ३६.२१ ॥
वृश्चाप्यक्षयस्तस्य तुष्टो रुद्रो वरं ददौ॥
प्रयाग वटतुल्योऽयमेतत्सत्यं न संशयः॥ ३६.२२ ॥
अत्रागत्य महाभागः क्षाद्धं कुर्यात्सुभक्तितः॥
पितॄणामक्षयं तच्च सर्वेषां पिंडपातनम्॥ ३६.२३ ॥
ततो ब्रह्मादयो देवाः स्कंदेन सहितास्तदा॥
सिद्धांबिकां महाशक्तिं प्रार्थयामासुरीश्वरीम्॥ ३६.२४ ॥
त्वयाविष्टो हि भगवान्मत्स्यरूपी जनार्दनः॥
जगदुद्धारणार्थाय चक्रे कर्माम्यनेकशः॥ ३६.२५ ॥
इति तां प्रार्थयामासुरत्र त्याज्यं न ते शुभे॥
अत्र स्थिताः सर्व इमे क्षेत्रपाला महाबलाः॥ ३६.२६ ॥
अष्टम्यां वा चतुर्दश्यां बलिपुष्पैश्च त्वां शुभे॥
ये पूजयंति ते पाल्याः सर्वापत्सु च या सदा॥ ३६.२७ ॥
एवमुक्ता सिद्धमाता तथेति प्रत्यपद्यत॥
स्थापयामासुरथ तां लिंगादुत्तरभागतः॥ ३६.२८ ॥
ततः क्षेत्रपतीन्देवाश्चतुःषष्टिं महेश्वरम्॥
सिद्धेयं नाम क्षेत्रस्य रक्षार्थं निदधुः स्वयम्॥ ३६.२९ ॥
त्वां च ये पूजयिष्यंति कार्यारभेषु सर्वदा॥
वर्षे वर्षे राजमाषबलिना च विशेषतः॥ ३६.३० ॥
तानसौ पालयेत्तुष्टः पिता लोकानिव स्वकान्॥
सिद्धिकृतो देवास्तत्र सिद्धिविनायकम्॥ ३६.३१ ॥
कपर्दितनयं प्रार्थ्य स्थापयाचक्रिरे मुदा॥
तं च ये पूजयंत्यत्र कार्यारंभेषु सर्वदा॥ ३६.३२ ॥
तेषां सिद्धिं ददात्येष प्रबलो विघ्नराड्भवः॥
यद्यत्र पूजयेद्यस्तु सततं सिद्धसप्तकम्॥ ३६.३३ ॥
पश्येद्वा स्मरते वापि सर्वदोषैर्विमुच्यते॥
सिद्धेश्वरः सिद्धवटश्च साक्षात्सिद्धांबिका सिद्धविनायकश्च॥
सिद्धेयक्षेत्राधिपतिश्च सिद्धसरस्तथा सिद्धकूपश्च सप्त॥ ३६.३४ ॥
अत्र तुष्टो ददौ रुद्रः सुराणां दुर्लभान्वरान्॥
वैशाखमासस्याष्टम्यां कृष्णायां सिद्धकूपके॥ ३६.३५ ॥
स्नात्वा पिंडान्वटे कृत्वा पूजयन्मां च सिद्धभाक्॥
सदा योऽभ्यर्चयेन्मां च ब्रह्मचारी जितेंद्रियः॥ ३६.३६ ॥
अष्टाविष्टकरा नित्यं भवेयुस्तस्य सिद्धयः॥
मंत्रजाप्यं बलिं होममत्र यः कुरुते नरः॥ ३६.३७ ॥
एकचित्तः शुचिर्भूत्वा सोऽभूष्टां सिद्धिमाप्नुयात्॥
समाहितमनाश्चाथ सिद्धेशं यस्तु पश्यति॥ ३६.३८ ॥
तस्य सिद्धिर्भवत्येव विघ्नैर्यदि न हन्यते॥
सिद्धांबिका महादेवी ह्यत्र संनिहितास्ति या॥ ३६.३९ ॥
सिद्धिदा साधकेंद्राणां महाविद्यां जपंति ये॥
धीरेभ्यो ब्रह्मचारिभ्यः सत्यचित्तेभ्य एव च॥ ३६.४० ॥
मंत्रजाप्याद्ददात्येषा सर्वसिद्धीर्यथोप्सिताः॥
पातालस्य बिलं चैतद्गुहशक्त्या कृतं महत्॥ ३६.४१ ॥
सिद्धां बिकाप्रसादेन विघ्नक्षेत्रपयोर्मम॥
प्रत्यक्षं भविता यत्र नानाश्चर्याणि भूरिशः॥ ३६.४२ ॥
अत्र सिद्धिं प्रयास्यंति कोटिशः पुरुषाः सुराः॥
विद्याधरत्वं देवत्वं गंधर्वत्वं च नागता॥ ३६.४३ ॥
यक्षत्वं चामरत्वं च प्राप्स्यंत्यत्र च साधकाः॥
अत्र वै विजयोनाम स्थंडिलस्य प्रभावतः॥ ३६.४४ ॥
सिद्धांबिकां समाराध्य सिद्धिमाप्स्यति दुर्लभाम्॥
यो मां द्रक्ष्यति चात्रस्थं यश्च मां पूजयिष्यति॥
वादप्रचारतो वापि पुण्यावाप्तिर्भविष्यति॥ ३६.४५ ॥
॥नारद उवाच॥
त्र्यंबकेण वरेष्वेवं दत्तेष्वपि सुरोत्तमाः॥ ३६.४६ ॥
प्रहृष्टाः समपद्यंत गाथां चेमां जगुस्तदा॥
तेन यज्ञैर्जपैःस्तोत्रैस्तपो भिस्तोषिता वयम्॥ ३६.४७ ॥
सर्वे देवाः सिद्धिलिंगं यो नरः पूजयिष्यति॥
सर्वकामफलावाप्तिरित्येवं शंकरोऽब्रवीत्॥ ३६.४८ ॥
इत्युक्त्वा ते जयं प्राप्ताः स्कंदेन सहिताः सुराः॥
काराय्यं रम्यप्रासादान्रम्यैस्तारकसंभवैः॥ ३६.४९ ॥
चतुर्वर्गफलावाप्तिं दत्त्वा क्षेत्रस्य संययुः॥
केचित्स्कंदं प्रशंसंतस्तीर्थमन्ये हरिं परे॥ ३६.५० ॥
केचिल्लिंगानि पंचापि युद्धं केचिद्दिवं ययुः॥
ततोंऽतरिक्षे चालिंग्य महासेनं हरोऽब्रवीत्॥ ३६.५१ ॥
सप्तमे मारुतस्कंधे व स नित्यं प्रियात्मज॥
कार्येष्वहं त्वया पुत्र संप्रष्टव्यः सदैव हि॥ ३६.५२ ॥
दर्शनान्मम भक्त्या च श्रेयः परमवाप्स्यसि॥
स्तंभतीर्थे च वत्स्येऽहं न विमोक्ष्यामि कर्हिचित्॥ ३६.५३ ॥
इत्युक्त्वा विससर्जैनं परिष्वज्य महेश्वरः॥
ब्रह्मविष्णुमुखांश्चैव भक्त्या तैरभिनंदितः॥ ३६.५४ ॥
विसर्जिताः सुराजग्मुः स्वानिस्वान्यालयानि च॥
शर्वो जगाम कैलासं स्कंधं वै सप्तमं गुहः॥ ३६.५५ ॥
इत्येतत्कथितं पार्थ लिंगपंचकसंभवम्॥
यः पठेत्स्कंदसंबद्धां कथां मर्त्यो महामतिः॥ ३६.५६ ॥
श्रृणुयाच्छ्रावयेद्वापि स भवेत्कीर्तिमान्नरः॥
बह्वायुः सुभगः श्रीमान्कांतिमाञ्छुभदर्शनः॥ ३६.५७ ॥
भूतेभ्यो निर्भयश्चापि सर्वदुःखविवर्जितः॥
शुचिर्भूत्वा पुमान्यश्च कुमारेश्वरसन्निधौ॥ ३६.५८ ॥
श्रृणुयात्स्कंदचरितं महाधनपतिर्भवेत्॥
बालानां व्याधिदुष्टानां राजद्वारोपसेविनाम्॥ ३६.५९ ॥
इदं तत्परमं धन्यं सर्वदोषहरं सदा॥
तनुक्षये च सायुज्यं षण्मुखस्य व्रजेन्नरः॥ ३६.६० ॥
वरमेनं ददुर्देवाः स्कंदस्याथ गता दिवम्॥ ३६.६१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे पंचलिंगोपाख्यानसमाप्तिवर्णनंनाम षट्‌त्रिंशोऽध्यायः॥ ३६ ॥ छ ॥