स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ३१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३० स्कन्दपुराणम्
अध्यायः ३१
वेदव्यासः
अध्यायः ३२ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६

॥नारद उवाच॥
ते चैनं योज्य चाशीर्भिरयाचंत वरं गुहम्॥
एष एव वरोऽस्माकं यत्पापं तारकं जहि॥ ३१.१ ॥

एवमस्त्विति तानुक्त्वा योगोयोग इति ब्रुवन्॥
तारकारिमहातेजा मयूरं चाध्यरोहत॥ ३१.२ ॥

शक्तिहस्तो विनद्याथ गुहो देवांस्तदाब्रवीत्॥
यद्यद्य तारकं पापं नाहं हन्मि सुरोत्तमाः॥ ३१.३ ॥

गोब्राह्मणावमन्तॄणां ततो यामि गतिं स्फुटम्॥
एवं तेन प्रतिज्ञाते शब्दोऽतिसुमहानभूत्॥ ३१.४ ॥

योगोयोग इति प्राहुराज्ञया शरजन्मनः॥
अरजो वाससी रक्ते वसानः पार्वतीसुतः॥ ३१.५ ॥

अथाग्रे सर्वदेवानां स्थितो वीरो ययौ मुदा॥
तस्य केतुरलं भाति चरणायुधशोभितः॥ ३१.६ ॥

चरणाभ्यां चरणाभ्यां गिरीञ्छक्तो यो विदारयितुं रणे॥
या चेष्टा सर्वभूतानां प्रभा शांतिर्बलं यथा॥ ३१.७ ॥

तन्मया गुहशक्तिः सा भृशं हस्ते व्यरोचत॥
यद्दार्ढ्यं सर्वलोकेषु तन्मयं कवचं तथा॥ ३१.८ ॥

योत्स्यमानस्य वीरस्य देहेप्रादुरभूत्स्वयम्॥
धर्मः सत्यमसंमोहस्तेजः कांतत्वमक्षतिः॥ ३१.९ ॥

बलमोजः कृपा चव बद्धा करयुगं तथा॥
आदेशकारीण्यग्रेऽस्य स्वयं तस्थुर्महात्मनः॥ ३१.१० ॥

तमग्रे चापि गच्छंतं पृष्ठतोनुययौ हरः॥
रथेनादित्यवर्णेन पार्वत्या सहितः प्रभुः॥ ३१.११ ॥

निर्मितेन हरेणैव स्वयमीशेन लीलया॥
सहस्रं तस्य सिंहानां तस्मिन्युक्तं रथोत्तमे॥ ३१.१२ ॥

अभीषून्पुरुषव्याघ्र ब्रह्मा च जगृहे स्वयम्॥
ते पिबंत इवाकाशं त्रासयंतश्चराचरम्॥ ३१.१३ ॥

सिंहा रथस्य गच्छंतो नदंतश्चारुकेसराः॥
तस्मिन्रथे पशुपतिः स्थितो भात्युमया सह॥ ३१.१४ ॥

विद्युता मेडितः सूर्यः सेंद्रचापघनो यथा॥
अग्रतस्तस्य भगवान्धनेशो गुह्यकैः सह॥ ३१.१५ ॥

आस्थाय रुचिरं याति पुष्पकं नरवाहनः॥
ऐरावणं समास्ताय शक्रश्चापि सुरैः सह॥ ३१.१६ ॥

पृष्ठतोनुययौ यांतं वरदं वृषभध्वजम्॥
तस्य दक्षिणतो देवा मरुतश्चित्रयोधिनः॥ ३१.१७ ॥

गच्छंति वसुभिः सार्धं रुद्रैश्च सह संगताः॥
यमश्च मृत्युना सार्धं सर्वतः परिवारितः॥ ३१.१८ ॥

घोरैर्व्याधिशतैश्चापि सव्यतो याति कोपितः॥
यमस्य पृष्ठतश्चापि घोरस्त्रिशिखरः सितः॥ ३१.१९ ॥

विजयोनाम रुद्रस्य याति शूलः स्वयं कृतः॥
तमुग्रपाशो भगवन्वरुणः सलिलेश्वरः॥ ३१.२० ॥

परिवार्य शतैयाति यादोभिर्विविधैर्वृतः॥
पृष्ठतो विजयस्यापि याति रुद्रस्य पट्टिशः॥ ३१.२१ ॥

गदामुशलशक्त्याद्यैर्वरप्रहरणैर्वृतः॥
पट्टिशं चान्वगात्पार्थ अस्त्रं पाशुपतं महत्॥ ३१.२२ ॥

बहुशीर्षं महाघोरमेकपादं बहूदरम्॥
कमंडलुश्चास्य पश्चान्महर्षिगणसेवितः॥ ३१.२३ ॥

तस्य दक्षिणतो भाति दण्डो गच्छञ्छ्रिया वृतः॥
भृग्वंगिरोभिः सहितो देवैरप्य भिपूजितः॥ ३१.२४ ॥

राक्षसाश्चान्यदेवाश्च गन्धर्वा भुजगास्तथा॥
नद्यो नदाः समुद्राश्च मुनयोऽप्सरसां गणाः॥ ३१.२५ ॥

नक्षत्राणि ग्रहाश्चैव जंगमं स्थावरं तथा॥
मातरश्च महादेवमनुजग्मुः क्षुधान्विताः॥ ३१.२६ ॥

सर्वेषां पृष्ठतश्चासीत्तार्क्ष्यस्थो बुद्धिमान्हरिः॥
पालयन्पृतनां सर्वां स्वपरीवारसंवृतः॥ ३१.२७ ॥

एवं सैन्यसमोपेत उत्तरं तटमागतः॥
ताम्रप्राकारमाश्रित्य तस्थौ त्र्यंबकनंदनः॥ ३१.२८ ॥

स तारकपुरस्यापि पश्यनृद्धि मनुत्तमाम्॥
विसिष्मिये महासेनः प्रशशंस तपोऽस्य च॥ ३१.२९ ॥

स्थितः पश्यन्स शुशुभे मयूरस्थो गुहस्तदा॥
छत्रेण ध्रियमाणेन स्वयं सोमसमस्त्विषा॥ ३१.३० ॥

वीज्यमानश्चामराभ्यां वाय्वग्रिभ्यां महाद्युतिः॥
मातृभिश्च सुरैर्दत्तैः स्वैर्गणैरपि संवृतः॥ ३१.३१ ॥

ततः प्रणम्य तं शक्रो देव मध्ये वचोऽब्रवीत्॥
पश्यपश्य महासेन दैत्यानां बलशालिनाम्॥ ३१.३२ ॥

ये त्वां कालं न जानंति मर्त्या गृहरता इव॥
एतेषां च गृहे दूतो यस्त्वां शंसतु तारकम्॥ ३१.३३ ॥

वीराणामुचितं त्वेतत्कीर्तिदं च महाजने॥
अनुज्ञया ततः स्कन्दभक्तं शक्रो धनंजय॥ ३१.३४ ॥

मामादिश्यासुरेन्द्राय प्राहिणोद्दौत्ययोग्यकम्॥
अहं स्वयं गन्तुकामः शक्रेणापि च प्रेषितः॥ ३१.३५ ॥

प्रासादे स्त्रीसहस्राणां प्रावोचं मध्यतोऽप्यहम्॥
असुराधमदुर्बुद्धे शक्रस्त्वामाह तच्छृणु॥ ३१.३६ ॥

यज्जगद्दलनादाप्तं किल्बिषं दानव त्वया॥
तस्याहं नाशकस्तेऽद्य पुरुषश्चेद्भविष्यसि॥ ३१.३७ ॥

शीघ्रं निःसर पापिष्ठ निःसरिष्यसि चेन्न हि॥
क्षणात्तव पुरं क्षेप्स्ये पावित्र्यायैव सागरे॥ ३१.३८ ॥

इति श्रुत्वा रूक्षवाचं क्रुद्धः स्त्रीगणसंवृतः॥
मुष्टिमुद्यम्यमाऽधावद्भीतश्चाहं पलायितः॥ ३१.३९ ॥

व्याकुलस्तत्र वृत्तांतं कुमाराय न्यवेदयम्॥
मयि चाप्यागते दैत्यश्चिंतयामास चेतसि॥ ३१.४० ॥

नालब्ध संश्रयः शक्रो वक्तुमेतदिहार्हति॥
निमित्तानि च घोराणि संत्रासं जनयंति मे॥ ३१.४१ ॥

एवं विचिंत्य चोत्थाय गवाक्षं सोध्यरोहत॥
सहस्रभौमिकावासश्रृङ्गवातायनस्थितः॥ ३१.४२ ॥

अपश्यद्देवसैन्यं स दिवं भूमिं च संवृतम्॥
रतैर्गजैर्हयैश्चापि नादिताश्च दिशो दश॥ ३१.४३ ॥
विमानैश्चाद्भुताकारैः किंनरोद्गीतनादितैः॥
दुन्दुभिभिर्गोविषाणैस्तालैः शंखैश्च नादितैः॥ ३१.४४ ॥

अक्षोभ्यामिव तां सेनां दृष्ट्वा सोऽचिंतयत्तदा॥
एते मया जिताः पूर्वं कस्माद्भूयः समागताः॥ ३१.४५ ॥

इति चिंतापरो दैत्यः शुश्राव कटुकाक्षरम्॥
देवबंदिभिरुद्वुष्टं घोरं हृदयदारणम्॥ ३१.४६ ॥

जयातु लशक्तिदीधितिपिंजररुचारुणमंडलभुजोद्भासितदेवसैन्य पुरवनकुमुदकाननविकासनेंदो कुमारनाथ जय दितिकुलमहोदधिवडवानल मधुररवमयूररवासुरमुकुटकूटकुट्टितचरणनखांकुर महासेन तारकवंशशुष्कतृमदावानल योगीश्वरयॉ योगिजनहृदयगगनविततचिंतासंतानसंतमसनोदनखरकिरणकल्पनखनिकरविराजितचरणकमल स्कन्द जय बाल सप्तवासर भुवनावलिशोकसंदहन॥ ३१.४७ ॥

नमो नमस्तेस्तु मनोरमाय नमोस्तु ते साधुभयापहाय॥
नमोस्तु ते बालकृताचलाय नमोनमो नाशय देवशत्रून्॥ ३१.४८ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेश्वरमाहात्म्ये कुमारस्य तारकासुनरनगरं प्रति गमनवर्णनंनामैकत्रिंशोऽध्यायः॥ ३१ ॥ छ ॥