स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ०४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३ स्कन्दपुराणम्
अध्यायः ४
वेदव्यासः
अध्यायः ५ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६

॥ नारद उवाच॥
ततस्त्वहं चिंतयामि कथं स्थानमिदं भवेत्॥
ममायत्तं यतो राज्ञां भूमिरेषा सदा वशे॥ ४.१ ॥

यत्त्वहं धर्मवर्णाणं गत्वा याचे ह मेदिनीम्॥
अर्पयत्येव स च मे याचितो न पुनः परः॥ ४.२ ॥

तथा हि मुनिभिः प्रोक्तं द्रव्यं त्रिविधमुत्तमम्॥
शुक्लं मध्यं च शबलमधमं गृष्णमुच्यते॥ ४.३ ॥

श्रुतेः संपादनाच्छिष्यात्प्राप्तं शुक्लं च क्न्ययया॥
तथा कुसीदवाणिज्यकृषियाचितमेव च॥ ४.४ ॥

शबलं प्रोच्यते सद्भिर्द्यूतचौर्येण साहसैः॥
व्याजेनोपार्जितं यच्च तत्कृष्णं समुदाहृतम्॥ ४.५ ॥

शुक्लवित्तेन यो धर्मं प्रकुर्याच्छ्रद्धयान्वितः॥
तीर्थं पात्रं समासाद्य देवत्वे तत्समश्नुते॥ ४.६ ॥

राजसेन च भावेन वित्तेन शबलेन च॥
प्रदद्याद्दानमर्थिभ्यो मानुष्यत्वे तदश्नुते॥ ४.७ ॥

तमोवृतस्तु यो दद्यात्कृष्णवित्तेन मानवः॥
तिर्यक्त्वे तत्फलं प्रेत्य समश्राति नराधमः॥ ४.८ ॥

तत्तु याचितद्रव्यं मे राजसं हि स्फुटं भवेत्॥
अथ ब्राह्मणभावेन नृपं याचे प्रतिग्रहम्॥ ४.९ ॥

तदप्यहो चातिकष्ट हेतुना तेन मे मतम्॥
अयं प्रतिग्रहो घोरो मध्वास्वादो विषोपमः॥ ४.१० ॥

प्रतीग्रहेण संयुक्तं ह्यमीवमाविशोद्द्विजम्॥
तस्मादहं निवृत्तश्च पापादस्मात्प्रतिग्रहात्॥ ४.११ ॥

ततः केनाप्युपायेन द्वयोरन्यतरेण तु॥
स्वायत्तं स्थानक कुर्म एतत्सञ्चिंतये मुहुः॥ ४.१२ ॥

यथा कुभार्यः पुरुषश्चिन्तांतं न प्रपद्यते॥
तथैव विमृशंश्चाहं चिंतांतं न लभाम्यणु॥ ४.१३ ॥

एतस्मिन्नन्तरे पार्थ स्नातुं तत्र समागताः॥
बहवो मुनयः पुण्ये महीसागरसंगमे॥ ४.१४ ॥

अहं तानब्रवं सर्वान्कुतो यूयं समागताः॥
ते मामूचुः प्रणम्याथ सौराष्ट्रविषये मुने॥ ४.१५ ॥

धर्मवर्मेति नृपतिर्योऽस्य देशस्य भूपतिः॥
स तु दानस्य तत्त्वार्थी तेपे वर्षगणान्बहून्॥ ४.१६ ॥

ततस्तं प्राह खे वाणी श्लोकमेकं नृप श्रृणु॥
द्विहेतु षडधिष्ठानं षडंगं च द्विपाकयुक्॥ ४.१७ ॥

चतुःप्रकारं त्रिविधं त्रिनाशं दानमुच्यते॥
इत्येकं श्लोकमाभाष्य खे वाणी विरराम ह॥ ४.१८ ॥

श्लोकस्यार्थं नावभाषे पृच्छमानापि नारद॥
ततो राजा धर्मवर्मा पटहेनान्वघोषयत्॥ ४.१९ ॥

यस्तु श्लोकस्य चैवास्य लब्धस्य तपसा मया॥
करोति सम्यगव्याख्यानं तस्य चैतद्ददाम्यहम्॥ ४.२० ॥

गवां च सप्त नियुतं सुवर्णं तावदेव तु॥
सप्तग्रामान्प्रयच्छामि श्लोकव्याख्यां करोति यः॥ ४.२१ ॥

पटहेनेति नृपतेः श्रुत्वा राज्ञो वचो महत्॥
आजग्मुर्बहुदेशीया ब्राह्मणाः कोटिशो मुने॥ ४.२२ ॥

पुनर्दुर्बोधविन्यासः श्लोकस्तैर्विप्रपुंगवैः॥
आख्यातुं शक्यते नैव गुडो मूकैर्यथा मुने॥ ४.२३ ॥

वयं च तत्र याताः स्मो धनलोभेन नारद॥
दुर्बोधत्वान्नमस्कृत्य श्लोकं चात्र समागताः॥ ४.२४ ॥

दुर्व्याख्येयस्त्वयं श्लोको धनं लभ्यं न चैव नः॥
तीर्थयात्रां कथं यामीत्येवाचिंत्यात्र चागताः॥ ४.२५ ॥

एवं फाल्गुन तेषां तु वचः श्रुत्वा महात्मनाम्॥
अतीव संप्रहृष्टोऽहं तान्विसृज्येत्यचिंतयम्॥ ४.२६ ॥

अहो प्राप्त उपायो मे स्थानप्राप्तौ न संशयः॥
श्लोकं व्याख्याय नृपतेर्लप्स्ये स्थानं धनं तथा॥ ४.२७ ॥

विद्यामूल्येन नैवं च याचितः स्यात्प्रतिग्रहः॥
सत्यमाह पुराणार्षिर्वासुदेवो जगद्गुरुः॥ ४.२८ ॥

धर्मस्य यस्य श्रद्धा स्यान्न च सा नैव पूर्यते॥
पापस्य यस्य श्रद्धास्यान्न च सापि न पूर्यते॥ ४.२९ ॥

एवं विचिंत्य विद्वांसः प्रकुर्वंति यथारुचि॥
सत्यमेतद्विभोर्वाक्यं दुर्लभोऽपि यथा हि मे॥ ४.३० ॥

मनोरथोऽयं सफलः संभूतोंकुरितः स्फुटम्॥
एनं च दुर्विदं श्लोकमहं जानामि सुस्फुटम्॥ ४.३१ ॥

अमूर्तैः पितृभिः पूर्वमेव ख्यातो हि मे पुरा॥
एवं हर्षान्वितः पार्थ संचिंत्याऽहं ततो मुहुः॥ ४.३२ ॥

प्रणम्य तीर्थं चलितो महीसागरसंगमम्॥
वृद्धब्राह्मणरूपेण ततोहं यातवान्नृपम्॥ ४.३३ ॥

इदं भणितवानस्मि श्लोकव्याख्यां नृप श्रृणु॥
यत्ते पटहविख्यातं दानं च प्रगुणीकुरु॥ ४.३४ ॥

एवमुक्ते नृपः प्राह प्रोचुरेवं हि कोटिशः॥
द्विजोत्तमाः पुनर्नस्यं प्रोक्तुमर्थो हि शक्यते॥ ४.३५ ॥

के द्विहेतू षडाख्यातान्यधिष्ठानानि कानि च॥
कानि चैव षडंगानि कौ द्वौ पाकौ तथा स्मृतौ॥ ४.३६ ॥

के च प्रकाराश्चत्वारः किंस्वित्तत्त्रिविधं द्विज॥
पयो नाशाश्च के प्रोक्ता दानस्यैतत्स्फुटं वद॥ ४.३७ ॥

स्फुटान्प्रश्नानिमान्सप्त यदि वक्ष्यसि ब्राह्मण॥
ततो गवां सप्तनियुतं सुवर्णं तावदेव तु॥ ४.३८ ॥

सप्त ग्रामांश्च दास्यामि नो चेद्यास्यसि स्वं गृहम्॥
इत्युक्त्वा वचनं पार्थ सौराष्ट्रस्वामिनं नृपम्॥ ४.३९ ॥

धर्मवर्माणमस्त्वेवं प्रावोचमवधारय॥
श्लोकव्याख्यां स्फुटां वक्ष्ये दानहेतू च तौ श्रृणु॥ ४.४० ॥

अल्पत्वं वा बहुत्वं वा दानस्याभ्युदयावहम्॥
श्रद्धा शक्तिश्च दानानां वृद्ध्यक्षयकरेहि ते॥ ४.४१ ॥

तत्र श्रद्धाविषये श्लोका भवन्ति॥
कायक्लेशैश्च बहुभिर्न चैवारथस्य राशिभिः॥ ४.४२ ॥

धर्मः संप्राप्यते सूक्ष्मः श्रद्धा धर्मोऽद्भुतं तपः॥
श्रद्धा स्वर्गश्च मोक्षश्च श्रद्धा सर्वमिदं जगत्॥ ४.४३ ॥

सर्वस्वं जीवितं चापि दद्यादश्रद्धया यदि॥
नाप्नुयात्स फलं किंचिच्छ्रद्दधानस्ततो भवेत्॥ ४.४४ ॥

श्रद्धया साध्यते धर्मो महद्भिर्नार्थराशिभिः॥
अकिंचना हि मुनयः श्रद्धावंतो दिवं गताः॥ ४.४५ ॥

त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा॥
सात्त्विकी राजसी चैव तामसी चेति तां श्रृणु॥ ४.४६ ॥

यजंते सात्त्विका देवान्यक्षरक्षांसि राजसाः॥
प्रेतान्भूतपिशाचांश्च यजंते तामसा जनाः॥ ४.४७ ॥

तस्माच्छ्रद्धावता पात्रे दत्तं न्यायार्जितं हि यत्॥
तेनैव भगवान्रुद्रः स्वल्पकेनापि तुष्यति॥ ४.४८ ॥

शक्तिविषये च श्लोका भवंति॥
कुटुंबभुक्तवसनाद्देयं यदतिरिच्यते॥
मध्वास्वादो विषं पश्चाद्दातुर्धर्मोऽन्यथा भवेत्॥ ४.४९ ॥

शक्ते परजने दाता स्वजने दुःखजीविनि॥
मध्वापानविषादः स धर्माणां प्रतिरूपकः॥ ४.५० ॥

भृत्यानामुपरोधेन यत्करोत्यौर्ध्वदैहिकम्॥
तद्भवत्यसुखोदकं जीवतोऽस्य मृतस्य च॥ ४.५१ ॥

सामान्यं याचितं न्यासमाधिर्दाराश्च दर्शनम्॥
अन्वाहितं च निक्षेपः सर्वस्वं चान्वये सति॥ ४.५२ ॥

आपत्स्वपि न देयानि नववस्तूनि पंडितैः॥
यो ददाति स मूढात्मा प्रायाश्चित्तीयते नरः॥ ४.५३ ॥

इति ते गदितौ राजन्द्वौ हेतू श्रूयतामतः॥
अधिष्ठानानि वक्ष्यामि षडेव श्रृणु तान्यपि॥ ४.५४ ॥

धर्ममर्थं च कामं च व्रीडाहर्षभयानि च॥
अधिष्ठानानि दानानां षडेतानि प्रचक्षते॥ ४.५५ ॥

पात्रेभ्यो दीयते नित्यमनपेक्ष्य प्रयोजनम्॥
केवलं धर्मबुद्ध्या यद्धर्मदानं तदुच्यते॥ ४.५६ ॥

धनिनं धनलोभेन लोभयित्वार्थमाहरेत्॥
तदर्थदानमित्याहुः कामदानमतः श्रृणु॥ ४.५७ ॥

प्रयोजनमपेक्ष्यैव प्रसंगाद्यत्प्रदीयते॥
अनर्हेषु सरागेण कामदानं तदुच्यते॥ ४.५८ ॥

संसदि व्रीडयाऽऽश्रुत्य आर्थिभ्यः प्रददाति च॥
प्रतिदीयते च यद्दानं व्रीडादानमिति श्रुतम्॥ ४.५९ ॥

दृष्ट्वा प्रियाणि श्रुत्वा वा हर्षवद्यत्प्रदीयते॥
हर्षदानमिति प्रोक्तं दानं तद्धर्मचिंतकैः॥ ४.६० ॥

आक्रोशानर्थहिंसानां प्रतीकाराय यद्भवेत्॥
दीयतेऽनुपकर्तृभ्यो भयदानं तदुच्यते॥ ४.६१ ॥

प्रोक्तानि षडधिष्ठानान्यंगान्यपि च षट्च्छ्रुणु॥
दाता प्रतिग्रहीता च शुद्धिर्देयं च धर्मयुक्॥ ४.६२ ॥

देशकालौ च दानानामंगान्येतानि षड्विदुः॥
अपरोगी च धर्मात्मा दित्सुरव्यसनः शुचिः॥ ४.६३ ॥

अनिंद्याजीवकर्मा च षड्भिर्दाता प्रशस्यते॥
अनृजुश्चाश्रद्दधानोऽशांतात्मा धृष्टभीरुकः॥ ४.६४ ॥

असत्यसंधो निद्रालुर्दातायं तामसोऽधमः॥
त्रिशुक्लः कृशवृत्तिश्च घृणालुः सकलेंद्रियः॥ ४.६५ ॥

विमुक्तो योनिदोषेभ्यो ब्राह्मः पात्रमुच्यते॥
सौमुख्यादभिसंप्रीतिरर्थिनां दर्शने सदा॥
सत्कृतिश्चानसूया च तदा शुद्धिरिति स्मृता॥ ४.६६ ॥

अपराबाधमक्लेशं स्वयत्नेनार्जितं धनम्॥
स्वल्पं वा विपुलं वापि देयमित्यभिधीयते॥ ४.६७ ॥

तेनापि किल धर्मेण उद्दिश्य किल किंचन॥
देयं तद्धर्मयुगिति शून्ये शून्यं फलं मतम्॥ ४.६८ ॥

न्यायेन दुर्लभं द्रव्यं देशे कालेपि वा पुनः॥
दानार्हौ देशकालौ तौ स्यातां श्रेष्ठौ न चान्यथा॥ ४.६९ ॥

षंडगानीति चोक्तानि द्वौ च पाकावतः श्रृणु॥
द्वौ पाकौ दानजौ प्राहुः परत्राथ त्विहोच्यते॥ ४.७० ॥

सद्भ्यो यद्दीयते किंचित्तत्परत्रोपतिष्ठति॥
असत्सु दीयते किंचित्तद्दानमिह भुज्यते॥ ४.७१ ॥

द्वौ पाकाविति निर्दिष्टौ प्रकारांश्चतुरः श्रृणु॥
ध्रुवमाहुस्त्रिकं काम्यं नैमित्तिकमिति क्रमात्॥ ४.७२ ॥

वैदिको दानमार्गोऽयं चतुर्धा वर्ण्यते द्विजैः॥
प्रपारामतडागादिसर्वकामफलं ध्रुवम्॥ ४.७३ ॥

तदाहुस्त्रिकामित्याहुर्दीयते यद्दिनेदिने॥
अपत्यविजयैश्वर्यस्त्रीबालार्थं प्रदीयते॥ ४.७४ ॥

इच्छासंस्थं च यद्दानं काम्यमित्यभिधीयते॥
कालापेक्षं क्रियापेक्षं गुणापेक्षमिति स्मृतौ॥ ४.७५ ॥

त्रिधा नौमित्तिकं प्रोक्तं सदा होमविवर्जितम्॥
इति प्रोक्ताः प्रकारास्ते त्रैविध्यमभिधीयते॥ ४.७६ ॥

अष्टोत्तमानि चत्वारि मध्यमानि विधानतः॥
कानीयसानि शेषाणि त्रिविधत्वमिदं विदुः॥ ४.७७ ॥

गृहप्रासादविद्याभूगोकूपप्राणहाटकम्॥
एतान्युत्तमदानानि उत्तमद्रव्यदानतः॥ ४.७८ ॥

अन्नारामं च वासांसि हयप्रभृतिवाहनम्॥
दानानि मध्यमानीति मध्यमद्रव्यदानतः॥ ४.७९ ॥

उपानच्छत्रपात्रादिदधिमध्वासनानि च॥ ४.८० ॥

दीपकाष्ठोपलादीनि चरमं बहुवार्षिकम्॥
इति कानीयसान्याहुर्दाननाशत्रयं श्रृणु॥ ४.८१ ॥

यद्दत्त्वा तप्यते पश्चादासुरं तद्धृथा मतम्॥
अश्रद्धया यद्ददाति राक्षसं स्याद्वृथैव तत्॥ ४.८२ ॥

यच्चाक्रुश्य ददात्यंग दत्त्वा वाक्रोशति द्विजम्॥
पैशाचं तद्वृथा दानंदाननाशास्त्रयस्त्वमी॥ ४.८३ ॥

इति सप्तपदैर्बद्धं दानमाहात्म्य मुत्तमम्॥
शक्त्या ते कीर्तितं राजन्साधु वाऽसाधु वा वद॥ ४.८४ ॥

॥धर्मवर्मोवाच॥
अद्य मे सफलं जन्म अद्य मे सफलं तपः॥
अद्य ते कृतकृत्योऽस्मि कृतः कृतिमतां वर॥ ४.८५ ॥

पठित्वा सकलं जन्म ब्रह्मचारि यथा वृथा॥
बहुक्लेशात्प्राप्तभार्यः सावृथाऽप्रियवादिनी॥ ४.८६ ॥

क्लेशेन कृत्वा कूपं वा स च क्षारोदको वृथा॥
बहुक्लेशैर्जन्म नीतं विना धर्मं तथा वृथा॥ ४.८७ ॥

एवं मे यद्वृथा नाम जातं तत्सफलं त्वया॥
कृतं तस्मान्नमस्तुभ्यं द्विजेभ्यश्च नमोनमः॥ ४.८८ ॥

सत्यमाह पुरा विष्णुः कुमारान्विष्णुसद्भनि॥ ४.८९ ॥

नाहं तथाद्भि यजमानहविर्वितानश्चयोतद्‌घृतप्लुतमदन्हुतभुङ्मुखेन॥
यद्ब्राह्मणस्य मुखतश्चरतोनुघासं तुष्टस्य मय्यवहितैर्निजकर्मपाकैः॥ ४.९० ॥

तन्मयाऽशर्मणा वापि यद्विप्रेष्वप्रियं कृतम्॥
सर्वस्य प्रभवो विप्रास्तत्क्षमतां प्रसादये॥ ४.९१ ॥

त्वं च कोसि न सामान्यः प्रणम्याहं प्रसादये॥
आत्मानं ख्यापय मुने प्रोक्तश्चेत्यब्रवं तदा॥ ४.९२ ॥

॥नारद उवाच॥
नारदोऽस्मि नृपश्रेष्ठ स्थानकार्थी समागतः॥
प्रोक्तं च देहि मे द्रव्यं भूमिं च स्थानहेतवे॥ ४.९३ ॥

यद्यपीयं देवतानां भूमिर्द्रव्यं च पार्थिव॥
तथापि यस्मिन्यः काले राजा प्रार्थ्यः स निश्चितम्॥ ४.९४ ॥

सहीश्वरस्यावतारो भर्त्ता दाताऽभयस्य सः॥
तथैव त्वामहं याचे द्रव्यशुद्धिप्सया॥
पूर्व ममालयं देहि देयार्थे प्रार्थनापरः॥ ४.९५ ॥

॥राजोवाच॥
यदि त्वं नारदो विप्र राज्यमस्त्वखिलं तव॥
अहं हि ब्राह्मणानां ते दास्यं कर्ता न संशयः॥ ४.९६ ॥

॥नारद उवाच॥
यद्यस्माकं भवान्भक्तस्तत्ते कार्यं च नो वचः॥ ४.९७ ॥

सर्वं यत्तद्देहि मे द्रव्यमुक्तं भुवं च मे सप्तगव्यूतिमात्राम्॥
भूयात्त्वत्तोप्यस्य रक्षेति सोऽपि मेने त्वहं चिंतये चार्थशेषम्॥ ४.९८ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारि काखण्डे नारदार्जुनसंवादे दानभेदप्रशंसावर्णनंनाम चतुर्थोऽध्यायः॥ ४ ॥ छ ॥